संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं रथकारस्य शोभनम् ।वृत्तान्तं मम भक्त्याढ्यं सुतारग्रामवासिनः ॥१॥रङ्गमयीसरित्तीरे रथकारोऽतिपावनः ।सुतारपुर्यामभवन्मम भक्तः कुटुम्बवान् ॥२॥काष्ठयानानि सर्वाणि गन्त्रीश्च शकटानि च ।अनश्चक्राणि सर्वाणि काष्ठासनानि मंचकान् ॥३॥बृसीः खद्वाश्च पर्यंकान् कपटान् प्रकरोति सः ।काष्ठपात्राणि रम्याणि काष्ठपुत्तलपुत्तलीः ॥४॥कारुवर्यः करोत्येव नौका गजाश्वगोवृषान् ।विविधान्युपकरणान्यपि स्वकलया तथा ॥५॥करोति पेटिकाश्चापि पेटकान् सुचतुष्किकाः ।तत्र सर्वत्र कार्येषु हरेर्नाम लिखत्यपि ॥६॥स्वनाम हरिदासेति लिखित्वा च ततः परम् ।हरिश्चेति हि सर्वेषु वस्तुष्वयं लिखत्यपि ॥७॥गृहे च काष्ठशालायां लिलेख श्रीहरे प्रभो ।गृहजालान्तरे काष्ठप्रतिमां परमात्मनः ॥८॥अनादिश्रीकृष्णनारायणस्याऽस्थापयद्धि सः ।प्रातः समूजयत्येनां प्रतिमां मम शोभनाम् ॥९॥श्रिया साकं पुष्पपत्रचन्दनाऽक्षतकुंकुमैः ।भूषावस्त्रद्रवधूपदीपनैवेद्यवारिभिः ॥१०॥एवं सम्पूज्य नित्यं वै प्रसादं ग्रसते ततः ।अन्येभ्यः सम्प्रदायाऽपि ततः कार्ये प्रवर्तते ॥११॥उद्यमे स्मरति मां लक्ष्मीनारायणं प्रभुम् ।हरिकृष्णं बालकृष्णं हरिदासः सुभक्तराट् ॥१२॥अथैकदा विचारोऽस्याऽभवद् देवादिगोचरः ।अन्योद्योगं विहायैव प्रतिमोद्योगमावहे ॥१३॥यासां निर्माणकार्ये वै ध्यानं देवात्मकं भवेत् ।स्मरणं चापि देवानां रूपरङ्गादिकर्मसु ॥१४॥सततं स्यात् कीर्तनं चार्पणं मूर्तिमयं भवेत् ।एवं विचार्य च हरिदासो हर्यर्थमुत्सुकः ॥१५॥हरिमूर्तिमयोद्योगं समारभत भावतः ।पुरुषोत्तममूर्तिं स व्यरचयत् सुशोभनाम् ॥१६॥अनादिश्रीकृष्णनारायणमूर्तिं समाणिकीम् ।राधाकृष्णयुगलं च लक्ष्मीनारायणोभयम् ॥१७॥वासुदेवं श्रिया साकं विष्णुं च कमलायुतम् ।नरं नारायणं चापि शेषशायिनरायणम् ॥१८॥श्रीपतिं श्रीगरुडस्थं गजस्थं माणिकीस्थितम् ।विमानस्थं रथस्थं चाऽरचयद् दिव्यशोभनम् ॥१९॥दुःखहाश्रीसहितं च गोभिश्च सहितं प्रभुम् ।मत्स्यं कूर्मं च वाराहं कपिलं च हरिं तथा ॥२०॥वासुदेवं राजराजं पृथुं दत्तं नृसिंहकम् ।हंसमृषभं परशुधरं यज्ञं च वामनम् ॥२१॥रामं कुमारं व्यासं च हयग्रीवं च नारदम् ।बालकृष्णं च बुद्धं च कल्किं नारायणीपतिम् ॥२॥हरं सतीं च ब्रह्माणं सावित्रीं च सरस्वतीम् ।प्रज्ञां पारावतीं दुर्गां गंगां च कालिकां तथा ॥२३॥सूर्यं वह्निं चन्द्रमसं गणेशं कालभैरवम् ।नन्दं सुनन्दं लिङ्गं चाऽरचयत् प्रतिमाः शुभाः ॥२४॥काष्ठानां सवनानां वै ससर्जानां सागशाखिनाम् ।वटानां शिंशपानां च करोति प्रतिमाः शुभाः ॥२५॥स्वल्पा मध्याश्चोत्तमाश्च विविधाः स करोति वै ।रंगशृंगारयुक्ताश्च संस्कृताश्चिह्नितत्वचः ॥२६॥भजन् रटन् हरिं नाम निर्माति प्रतिमाः सदा ।यासां रूपाणि हृदये भासन्ते न तदा तु सः ॥२७॥रहो निषद्य मां स्मृत्वा रूपं धारयते मम ।हृदये स्वे चैकतानो मन्मूर्तौ स प्रजायते ॥२८॥समस्तेन्द्रियवृत्तीनां लयो भवति वै मयि ।यथा तथा स यतते योगिवद् ध्यायति स्थिरः ॥२९॥दिनार्धं वा दिनं याति समाधाविव तस्य वै ।तथापि प्रेममग्नोऽसौ न निर्याति समाधितः ॥३०॥मूर्तिश्चिन्तामणिकल्पा वर्तते माधवस्य यत् ।तस्याः सकाशात् संकल्पाः पूर्णा भवन्ति धारिताः ॥३१॥इतिनिश्चययुक्तस्य हरिदासस्य सर्वथा ।यावन्नोदेति रूपं वै कर्तव्यप्रतिमात्मकम् ॥३२॥तावत् समाधौ मन्मूर्तौ स्थिरस्तिष्ठति तन्मयः ।इच्छन् द्रष्टुं नूत्नरूपं रचनार्हं सुशोभनम् ॥३३॥अथ मे कृपया मूर्तेः रूपं यदाऽभिजायते ।कर्तव्यप्रतिमारूपं दृष्ट्वा धृत्वा पुनः पुनः ॥३४॥अभ्यस्य च ततो भक्तो बहिर्याति न चान्यथा ।यादृग् दृष्टं स्वरूपं वै साध्यमूर्तेस्तथाविधम् ॥३५॥काष्ठाच्छिल्पकलाभिश्च निष्कासयति शोभनम् ।सौम्यं सुहास्यवदनं सर्वयोग्यसुशस्त्रकम् ॥३६॥योग्यशृंगारभूषाढ्यं तथोत्करोति काष्ठजम् ।दारवं सुन्दरं रूपं यादृशं हृदि वीक्षितम् ॥३७॥तादृशं संविधायैव विक्रीणाति सुरंगितम् ।एवं समस्तदेवानां हनुमद्यतियोगिनाम् ॥३८॥साध्वीनां देवतानां च कृत्वा करोति विक्रयम् ।ध्यायति देवताः सर्वा विशेषतस्तु वल्लभम् ॥३९॥लक्ष्मीं नारायणं श्रीशं ध्यायति पुरुषोत्तमम् ।ततोऽहं मत्प्रतिमातस्तदिष्टं पूरयाम्यपि ॥४०॥ख्यातिस्तस्याऽभवल्लोके हरिदासो हरेस्तनुः ।राजानश्चापि तस्माद्वै कारयन्तीष्टदेवताः ॥४१॥हरिदासोऽपि कृत्वैव ददात्येव शुभोत्तमाः ।हरिदासेन नियमः कृतो नारायणं विना ॥४२॥नारायणांशं च विना मानवी प्रतिमा मया ।न वै कार्या क्वचिद् भक्तिविरोधिनी तु मायिकी ॥४३॥निम्नचिन्तनदा नैव कार्या मानुषपुत्तली ।अभक्तानां नैव कार्या तथा मानुषपुत्तली ॥४४॥भक्तानां तु शुभा कार्या तदिष्टदेवतायुता ।एवमात्मनिवेदित्वं ररक्ष नित्यदा हि सः ॥४५॥प्रसन्नोऽहं ततो लक्ष्मि परीक्षार्थमुपाययौ ।चक्रवतीश्वरो भूत्वा तीर्थव्याजेन मार्गगः ॥४६॥हस्त्यश्वरथवान् पारेसहस्रसैनिकान्वितः ।राज्ञीदासीदासवर्गसहस्रपरिसेवितः ॥४७॥रत्नहीरकहाराद्यैर्भूषितश्छत्रशोभितः ।महाश्वेतगजपृष्ठे स्वर्णाम्बालिकयाऽन्विते ॥४८॥निषण्णश्चामरैर्युऽक्तो जयशब्दाभिपूजितः ।अस्त्रशस्त्रधरैश्चापि भटैः सम्परिवारितः ॥४९॥गुर्वमात्यप्रधानाद्यैर्वन्दितः सेवितस्तथा ।लक्ष्मि त्वं च मम पत्नी साम्राज्ञी शोभनोत्तमा ॥५०॥सहस्रशोभनादासीयुवतीगणमण्डिता ।मया प्रेरितभृत्याभिरक्षिता भृत्यपूजिता ॥५१॥महासौवर्णरत्नाढ्यनरयानस्थिता तथा ।उपाययिथ साकं वै मया पूर्वप्रप्रेषिता ॥५२॥एवंविधोऽहं सम्राट् वै रङ्गमयीनदीतटे ।तीर्थयात्रामिषेणाऽग्रे वृक्षषण्डे विनिर्ययौ ॥५३॥तीर्थतटं महाशालग्रामतीर्थाऽभिधं वरम् ।समाश्रित्य स्थिरतार्थमवातरं गजान्मम ॥५४॥ससैन्योऽहं न्यवसंश्च स्नानपूजादिमानसः ।अथाऽऽययुः सुताराख्यनगरस्थाः प्रजाजनाः ॥५५॥गुरवश्चापि विप्राश्च भिक्षुकाः सकुतूहलाः ।लिप्सया दक्षिणादेश्च विक्षणेच्छान्विता अपि ॥५६॥आययौ नगरं सर्वे द्रष्टुं राजानमित्यपि ।तथापि भक्तराजोऽसौ नाऽऽयाति मायिकं विदन् ॥५७॥अथाऽहं तीर्थविधिना कृत्वा तीर्थं ततः परम् ।दत्वा दानान्यनेकानि शुश्राव प्रतिमाः शुभाः ॥५८॥ददर्श प्रतिमाश्चापि तीर्थतटे स्थिरीकृताः ।पप्रच्छ मानवाँस्तत्रागतान् शिल्पिवरं प्रति ॥५९॥ते प्राहुरत्र नगरे वर्तते शिल्पिराण्ननु ।आकारितो मया दूतैर्हरिदासोऽपि नाययौ ॥६०॥विना भागवतं सन्तं विना नारायणं हरिम् ।विना भक्तं हरेरन्यस्याऽन्तिकं नैमि सोऽवदत् ॥६१॥ततोऽहमुक्तवान्नाम मदीयं कृष्णदासवत् ।श्रीकृष्णदासवर्याऽहं कृष्णभक्तो भवामि ह ॥६२॥आयाहि शिल्पिवर्य त्वं प्रतिमार्थं मदिच्छया ।दूतैर्गत्वा तथैवोक्तः सोऽपि श्रुत्वा ह्युपाययौ ॥६३॥पुष्पहारान् गृहीत्वैव न्यधारयन्नृपोरसि ।राजानं कृष्णभक्तं वै ज्ञात्वा नेमेऽतिभावतः ॥६४॥राजाऽपि तस्य सम्मानं प्रचकार सुविज्ञवत् ।शिल्पी लक्ष्मि मया राज्ञा पृष्टो मूर्तिविधापने ॥६५॥क्रीणनार्थं च मूर्तीनां मूल्येऽपि पृष्ट एव सः ।सोऽपि कृष्णस्य मूर्तिं वै ददौ मे राधया युताम् ॥६६॥सहस्ररूप्यमुद्राभिस्तथा लक्ष्मीं नरायणम् ।लब्ध्वाऽहं मुद्रिका दत्वा स्वर्णशतं तथोत्तरम् ॥६७॥पारितोषिकमेवापि दत्वाऽकथयं मत्कृते ।ममैकां मम राज्ञ्याश्च मूर्तिमेकां विधापय ॥६८॥दास्ये यथेष्टं कनकं रत्नानि हीरकाँस्तथा ।स प्राह राजन् भक्तोऽस्मि नारायणपरायणः ॥६९॥नारायणविभूतीनां नारायणस्य वै तथा ।देवानां देवतानां च करोमि प्रतिमाः सदा ॥७०॥मानवीं न करोम्येव मायिकीं न करोमि च ।यस्याः संक्लृप्तने वृत्तिर्नारायणं न चिन्तयेत् ॥७१॥मायां च मायिकीं चापि पुत्तलीं न स्मरे क्वचित् ।तव राजन्महिष्याश्च पुत्तल्याः करणे तु मे ॥७२॥स्मरणं मानवं स्याद्वै भक्तौ क्षतिर्भवेन्मम ।ततोऽहं न करिष्ये वै पुत्तलीं ते क्षमस्व माम् ॥७३॥यद्यपि त्वं प्रभक्तोऽसि तथापि राजसोऽसि वै ।राज्ञो चेयं महामाया मोहिनी वर्तते तव ॥७४॥तत्स्मृतिं न करिष्येऽहं विना लक्ष्मीं नरायणम् ।यदि लक्ष्म्या समं राज्ञी त्वं साकं माधवेन तु ॥७५॥भक्ताविवोभौ तिष्ठन्तौ सेवायां स्तश्च रोचते ।ते यदि तर्हि कुर्वेऽहं मूर्तिं श्रीपतिना सह ॥७६॥केवलां नैव कुर्वेऽहं नेच्छामि पारितोषिकम् ।नमस्ते च क्षमस्वाऽपि राजा मान्यः प्रजाजनैः ॥७७॥इत्युक्त्वा भक्तराट् लक्ष्मि हरिदासो गृहं ययौ ।राजाऽहं मम भक्तं सम्परीक्ष्यैवं तु पृष्ठगः ॥७८॥पद्भ्यां तस्य गृहं प्राप्तो लोकाश्चाश्चर्यमाप्नुवन् ।ददौ स भक्तराण्मह्यं काष्ठासनं विवेकतः ॥७९॥अन्नं जलं श्रीहरयेऽर्पितं ददावदर्शयत् ।प्रतिमा मे 'समस्ताश्च ध्यानार्थं स उपाविशत् ॥८०॥अविगणय्य मे भीतिं धैर्यं धृत्वा हरेः शुभम् ।समाधौ हृदये मग्नस्तदाऽहं हृदयेऽभवम् ॥८१॥राजरूपस्तथा लक्ष्मी राज्ञीरूपा यथायथम् ।लक्ष्मीं नारायणं मां च ज्ञात्वा शीघ्रं समुत्थितः ॥८२॥स्वागतं दण्डवच्चापि चक्रे प्रदक्षिणं तु माम् ।कीर्तनं सहसा चक्रे ननर्त मोदविह्वलः ॥८३॥अथाऽन्ये तु जनास्तत्र दर्शका येऽभवँस्तदा ।सर्वे दृष्ट्वा महाश्चर्यं श्रुत्वा भक्तोदितं तथा ॥८४॥नारायणो हि सम्राण्मे भूत्वा गृहमुपागतः ।लक्ष्मीर्भूत्वा महाराज्ञी चाययौ भाग्यवानहम् ॥८५॥अहो भाग्यमहो भाग्यं सुतारग्रामवासिनाम् ।अहो भाग्यं मम पत्न्याः श्रीमानव्याः शुभोत्तमम् ॥८६॥कुटुम्बस्य च मे भाग्यं भृत्यानां भृत्ययोषिताम् ।भाग्यं श्रेष्ठतमं त्वद्य यद्गृहे वल्लभोहरिः ॥८७॥यद्गृहे श्रीः समायाता राज्ञीरूपा हरेः प्रिया ।श्रीमानव्याः श्रेयसे च हरिदासस्य मुक्तये ॥८८॥अहो प्रतिमानिर्मातुः फलं साक्षाद्धरिर्गृहे ।आत्मनिवेदितालाभश्चाहो साक्षात्प्रभुर्गृहे ॥८९॥कला मे सुकला जाता जीवनं मे सुजीवनम् ।प्राप्तः साक्षान्मया कृष्णनारायणः श्रिया युतः ॥९०॥श्रुत्वैवं जनताश्चापि पुपूजुः श्रीपतिं नृपम् ।दण्डवत् ताः प्रचक्रुश्च भक्तः पपात पादयोः ॥९१॥तावल्लक्ष्मि मया नैजं रूपं चतुर्भुजं परम् ।प्रकाशितं त्वया लक्ष्म्या साकं दिव्यमनोहरम् ॥९२॥नदीतटे तु यत् सैन्यं सर्वं तत्र क्षणान्तरे ।तत्तिरोभावितं तत्र महाश्चर्यं ततोऽभवत् ॥९३॥गृहेऽहं भगवान् साक्षाद् दत्वा मे दर्शनं ततः ।लब्ध्वा पूजां वरदानं मोक्षार्थं सम्प्रदाय च ॥९४॥प्रसन्नतां समर्प्यैव ततस्तूर्णं त्वया सह ।क्षणं स्थित्वा जगादाऽहं भक्ताय चात्मवेदिने ॥९५॥यो मामेवं हि भजते तत्कृते सर्वथा त्वहम् ।कल्पलतासमश्चाऽस्मि पूरयामि मनोरथान् ॥९६॥शिल्पिनो ये मम मूर्तिं मम ध्यानपरायणाः ।लोभस्वार्थविहीनाश्च करिष्यन्ति शुभाशयाः ॥९७॥तेषां मोक्षं करिष्यामि यथा ते भक्तराडिह ।इत्युक्त्वा स्वस्वरूपं च कृष्णे लक्ष्म्यां गृहान्तरे ॥९८॥पूजनार्थं स्थापिते च स्थापितायां तिरोभवम् ।अथ भक्तोऽपि नित्यं मां ध्यायति स्मरते तथा ॥९९॥काले 'प्राप्ते विमानेन तद्गृहं समुपस्थितः ।श्रीमानवीं स्त्रियं तस्य हरिदासं च तं तथा ॥१००॥आरोहयित्वा दिव्यौ तौ कृत्वाऽनयं ममाऽक्षरम् ।अन्यान् कालेन तद्वच्चाऽनयं धामाऽक्षरं मम ॥१०१॥एवं लक्ष्मि मया भक्तो रथकारो हि तारिताः ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद् ध्रुवा ॥१०२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हरिदासाख्यस्य रथकारस्य भक्त्या सकुटुम्बस्य भगवता मोक्षः कृत इत्यादिनिरूपणनामा चतुर्दशाधिकद्विशततमोऽध्यायः ॥२१४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP