संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ११२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ११२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रिं! त्वं गौर्देया विधिना सदा ।गौर्बोध्या त्रिविधा श्रेष्ठा पृथ्वी धेनुः सरस्वती ॥१॥शिष्याय देया विद्यागौर्ब्राह्मीविद्या मुमुक्षवे ।कलाज्ञानं शिल्पिने च, भौतिकं रसवेदिने ॥२॥खज्ञानं गणकायाऽपि नार्यै पाककलामपि ।शास्त्रज्ञानं च विदुषे देयं गोभूसमं हि तत् ॥३॥धेनुदानं प्रदातव्यं मातरो धेनवः सदा ।वृद्धिमाकांक्षता नित्यं गावः कार्याः प्रदक्षिणाः ॥४॥सन्ताड्या नहि पादेन देव्यः पूज्याः सुमङ्गलाः ।गोवाहका गवादाश्च राक्षसा निरयंगमाः ॥५॥तृषिताः क्षुधिता गावो जनं हन्युः सबान्धवम् ।पितृसद्मानि सौधाश्च देवतायतनानि च ॥६॥पूयन्ते शकृता यासां पूतं किमधिकं ततः ।घासमुष्टिं चान्नमुष्टिं वर्षं दद्याद् गवे तु यः ॥७॥अकृत्वा स्वयमाहारं व्रतं तत् सार्वकामिकम् ।फलं पुत्रान् यशोऽर्थाश्च श्रियं चाप्यधिगच्छति ॥८॥विनश्यत्यशुभं तस्य दुःस्वप्नं नैव जायते ।दुष्टाय गौर्न दातव्या लुब्धाय नास्तिकाय न ॥९॥वत्से दयारहिताय क्रूराय घातिनेऽपि च ।घाससेवारहिताय न दातव्या कदाचन ॥१०॥गृहस्थानरहिताय तृणादिरहिताय च ।भक्तिधर्मविहीनाय न दातव्या कदाचन ॥११॥साधवे बहुपुत्राय भिक्षवे देवतार्थिने ।क्षेत्रवते प्रदातव्या तृणसेवाकृते च गौः ॥१२॥गोसेवा गुरुसेवा च पितृसेवा सदा रमे! ।घ्नन्ति पापप्रपुञ्जानि तारयन्ति समर्पकान् ॥१३॥सतां समागमो लक्ष्मि तथा तारयति ध्रुवः ।अलाभे तु गवां दद्याद् घृतधेनुं शुभावहाम् ॥१४॥तस्यैता घृतवाहिन्यः क्षरन्ति वत्सला इव ।घृतालाभे क्षीरधेनुं दद्यादुत्साहश्रद्धया ॥१५॥स कष्टात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ।क्षीरालाभे तिलधेनुं दद्यात्तिलैः प्रमोदते ॥१६॥तिलालाभे फलधेनुं दद्यात् फलैः प्रमोदते ।फलालाभे कणधेनुं दद्यादन्नैः प्रमोदते ॥१७॥अन्नालाभे गूडधेनुं दद्यान्मिष्टैः प्रमोदते ।गूडाऽभावेऽम्बरधेनुं दद्याद् वस्त्रैः प्रमोदते ॥१८॥सर्वाभावे जलधेनुं दद्यान्नदीषु मोदते ।एकापि कपिला दत्ताऽमृताऽऽपगाऽस्य जायते ॥१९॥अप्येका साधवे दत्ता देवतार्चनयोगिनी ।प्रापयत्येवाऽक्षरं मे दातारं धाम शाश्वतम् ॥२०॥गोप्रदाता यत्र याति लोकास्ते नित्यमोदिनः ।न तत्र क्रमते कालो न जरा न च पावकः ॥२१॥अशुभं तत्र नाऽऽस्ते च न व्याधिर्न च वै क्लमः ।यदिच्छन्त्युपतिष्ठन्ति गवां पुण्यबलेन वै ॥२२॥कामगाः कामचारिण्यो गावस्तत्रोपयन्ति च ।वाप्यः सरांसि सरितो घृतदुग्धमयास्तथा ॥२३॥गृहाणि पर्वताश्चारण्यानि वनानि यन्ति च ।मनोज्ञमिष्टं मिष्टं च रसोपेतं प्रपद्यते ॥२४॥तत्र सर्वसहाः क्षान्ता गोदातारः प्रयान्ति ह ।गुरुशुश्रूषका यान्ति दानिनोऽतिथिपूजकाः ॥२५॥न पापा गोप्रहर्तारः पुण्यलोकं प्रयन्ति वै ।दायद्रव्येण गां क्रीत्वा प्रयच्छेच्छ्रेयसां कृते ॥२६॥श्रमाप्तनाणकैः क्रीत्वाऽर्पयेन्मोक्षार्थमेव तु ।द्यूते जित्वा धनं तेन क्रीत्वा दद्यात् स्वराप्तये ॥२७॥दायभागां च गां दद्याद् दद्याद् दानाऽऽगतां च वा ।सत्यव्रतस्य गोदातुः सहस्रगोसमं फलम् ॥२८॥नित्यं प्रातर्नमेद् गां च तृणग्रासाँस्तथाऽर्पयेत् ।जलं प्रपाययेद् यश्च राजसूयफलं लभेत् ॥२९॥अनाहारोऽग्रभक्तं यो गवे दद्याद्धि गोव्रती ।वर्षेण गोसहस्रस्य फलं लभते सेवया ॥३०॥एकभक्तो हि गां क्रीत्वा दद्याद्वै गुरवे स तु ।तस्या यावन्ति रोमाणि तावद्गोफलमाप्नुयात् ॥३१॥यस्त्वात्मविक्रयं कृत्वा धेनुं क्रीत्वा प्रयच्छति ।रोम्णि रोम्णि धेनुदातुर्लोका भवन्ति चाक्षयाः ॥३२॥अरण्ये गां भूसुरं च साधुं यस्त्रायतीति सः ।अश्वमेधक्रतोस्तुल्यं फलं लभते मोदते ॥३३॥मृत्युकाले यथेच्छाऽस्य भवेद् दिव्यविभूतिगा ।तत्सर्वं समवाप्नोति परित्राणेन रक्षकः ॥३४॥सुवर्णं परमं दानं दक्षिणा च गवा सह ।दातव्या वै यथाशक्ति स्मृद्धिदा पावनी सदा ॥३५॥दरिद्रो निर्धनश्चैवाऽपरिग्रहस्तु यो भवेत् ।कुर्याद् व्रतं व्रतान्येव लभेत स परं पदम् ॥३६॥इन्द्रियाणां नियमो वै व्रतं श्रेष्ठतमं रमे! ।जितेन्द्रियो ब्रह्मभक्तो ब्रह्मलोके प्रमोदते ॥३७॥दमः सुखप्रदो दान्ता निर्वृत्ता विषयव्रजात् ।प्रत्याहृत्य मनोवेगं ब्रह्मणि यान्ति पाविताः ॥३८॥विक्रमेण च तपसा यज्ञैर्दानैः प्रसेवया ।भक्त्या शान्त्या विद्यया च सन्ति लोकाः सनातनाः ॥३९॥ऋषिलोकान् देवलोकान् सिद्धलोकान् गवां गृहान् ।मुक्तलोकानीशलोकान् शीलव्रताः प्रयान्ति हि ॥४०॥अध्यापको होमकर्ता गुरुसेवापरस्तथा ।सतीसाध्वीपूजकश्च याति धामाऽक्षरं मम ॥४१॥भक्तौ धर्मे व्रते शूरा दानेऽध्ययनकर्मणि ।यजने संगरे शुश्रूषायां चोपार्जनेऽपि च ॥४२॥दमे शूराः ऋते ज्ञानेऽरण्ये त्यागे गृहेऽपि च ।शमे च नियमे शान्तावार्जवे शूरकर्मिणः ॥४३॥गुरोर्मातुः पितुः पत्युः शुश्रूषायां तथाऽपरे ।भैक्ष्येऽतिथौ तपस्येव शूराः सन्ति च केचन ॥४४॥सर्वे यान्त्यैश्वरान् लोकान् यथाकर्मफलभृतान् ।सत्यव्रतिनो भक्ताश्च यान्ति वैकुण्ठमुत्तमम् ॥४५॥आजन्ममरणाद् यस्तु ब्रह्मचारी भवेदिह ।न तस्य किञ्चिदप्राप्यं नारायणस्य वै यथा ॥४६॥ब्रह्मचर्यं दहेद् दोषान् सर्वपापान्युपासितम् ।ब्रह्मधामगतः स्याद्वै ब्रह्मचारी बलैधितः ॥४७॥मातरं पितरं वाऽपि गुरुमाचार्यमच्युतम् ।सेवते यस्तस्य धामाऽक्षरं मे शाश्वतं पदम् ॥४८॥नाऽबीजं जायते किञ्चिन्न बीजेन विना फलम् ।यादृशं वपते बीजं लभते तादृशं फलम् ॥४९॥बीजं पुरुषाकरो वै सेवात्मको वृषात्मकः ।क्षेत्रं सद्गुरवो माता पिता गौदैवतेश्वरः ॥५०॥भक्तश्च कर्षुको यादृग् वपते चैति तादृशम् ।शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ॥५१॥कृतं लभते सर्वत्र स्वर्गं स्वर्गसुखानि च ।रूपं भाग्यं प्रसौभाग्यं रत्नानि विविधानि च ॥५२॥तारकास्त्रिदशाः सिद्धा यक्षाश्चन्द्रार्कमारुताः ।सर्वे कृतेन धर्मेण मानुष्याद् देवतां गताः ॥५३॥नाऽदातारं भजन्त्यर्था निष्क्रियं न भजन्त्यपि ।अपुण्यं न भजन्त्यर्था भजन्ति त्वर्थकारिणम् ॥५४॥अकृत्वा मानुषं यत्नं दैवमात्रं प्रतीक्षते ।न तस्य सिद्धिः कमले! क्लीबपत्न्या इवोभये ॥५५॥सेवायां शूरता यस्य बलं शीलमयं तथा ।यत्नो दैवं यस्य चास्ते सिद्धिस्तस्याऽञ्जलिस्थिता ॥५६॥न केवलं रमे! दैवं पुष्णात्यवति रक्षति ।निजयत्नसमायुक्तं दैवं साधु विवर्धते ॥५७॥निःस्नेहः खलु वै दीपः स्वयमेव प्रशाम्यति ।विना पुण्यं विना यत्नं भाग्यं स्वयं प्रशाम्यति ॥५८॥तस्माल्लक्ष्मि! सदा यत्नः कर्तव्यस्तपसि व्रते ।पुण्ये दानेऽर्जने भक्तौ सेवायां भूतिमिच्छता ॥५९॥धनं विपुलं भोगांश्च योषितो भोजनानि च ।पुण्यहीनो न वै भोक्तुं समर्थो जायते क्वचित् ॥६०॥व्ययशीलं दानशीलं चोपैति विपुलं धनम् ।पूर्वदत्तेन चायाति विना यत्नं क्वचित् प्रिये ॥६१॥दातव्यं सर्वथा सर्वं यद् यदिष्टतमं भवेत् ।दानस्यैव फलं भुंक्ते लोकोऽयं कर्मबन्धनः ॥६२॥नाऽदत्ता प्राप्यते लक्ष्मीर्नाऽदत्ता प्राप्यते प्रिया ।नाऽदत्ता प्राप्यते धेनुर्नाऽदत्ता प्राप्यते मही ॥६३॥नाऽदत्ता प्राप्यते बुद्धिर्नाऽदत्ता स्मृद्धिराप्यते ।नाऽकृता प्राप्यते सेवा नाऽदत्तं प्राप्यते सुखम् ॥६४॥नाऽकृतं प्राप्यते चाऽऽयुर्नाऽदत्तं राज्यमाप्यते ।नाऽदत्तं चाप्यते लक्ष्मि सुखमैन्द्रियिकं बहु ॥६५॥तस्माद् दानानि देयानि भूषाम्बरगृहाणि च ।भोज्यप्रेयप्रभोग्यानि यानि स्वेष्टतमानि वै ॥६६॥मया सृष्टीः समुत्पाद्याऽवतारेश्वरदेवताः ।कन्यादानैस्तोषिता वै तत्फलं स्त्र्यर्बुदाब्जकम् ॥६७॥यद्यप्यहं समर्थोऽस्मि नित्यपुण्याश्रयो हरिः ।ममांऽगात् प्रमद्य वामाज्जायन्तेऽर्बुदकोटयः ॥६८॥न मे दानफलापेक्षा समर्थस्य परात्मनः ।तथापि लोकरक्षार्थं निदर्शनं प्रदर्शितम् ॥६९॥सर्वं जगच्छरीरं मे नरा नार्योऽर्धमूर्तयः ।नरा नारायणार्धा मे नार्यो मेऽर्धांगनास्तथा ॥७०॥एवं संसारनिर्वाहो दानेनाऽऽसाद्यते फलम् ।तपोनियमसंयुक्ताः साधवः संशितव्रताः ॥७१॥फलं प्राप्य भवन्त्येव नारायणसमेश्वराः ।येन लोकास्त्रयः सृष्टा मया श्रीपतिना पुरा ॥७२॥सोऽहं तपामि क्षीरोदे बदर्यां च चिरं रमे ।सोऽहं कृत्वा दर्शयामि कुर्वन्तु तप उत्तमम् ॥७३॥वामनोऽहं क्षितिं प्राप्य पर्शुरामस्तथा पृथुः ।दानं पृथ्व्याश्चकारैव रामादित्योऽपि वै पुरा ॥७४॥शिक्षयामास भगवान् भूत्वाऽपि दानमुत्तमम् ।प्रजाभ्यो यज्ञकार्यैश्च यज्ञनारायणोऽप्यहम् ॥७५॥मया राधा प्रदत्ता वै श्रीकृष्णाय मदात्मने ।नारायणी तथा दत्ता नारायणात्मने तु मे ॥७६॥भूर्दत्ता च वराहाय श्रीर्दत्ता विष्णवे पुरा ।लक्ष्मीर्महाविष्णवे च सावित्री ब्रह्मणेऽर्पिता ॥७७॥प्रकृतिर्या मूलरूपा पुरुषाय पुरार्पिता ।एवं कृत्वा संकलनं दानरीतिः प्रवर्तिता ॥७८॥तस्माल्लक्ष्मि दानफलं प्रमोदाः सर्व एव ह ।येन येन शरीरेण यद्यद् दानं करोति यः ॥७९॥तेन तेन शरीरेण तत्तत् फलमुपाश्नुते ।यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ॥८०॥तस्यां तस्यामवस्थायां भुंक्ते कर्ता तु तत्फलम् ।चक्षुर्दद्यान्मनोदद्याद् वाचं दद्यादृतंभराम् ॥८१॥आत्मानं सम्प्रदद्याद्वै सेवेत सततं गुरुम् ।एवं दानं परं प्रोक्तं देहं दद्याद् यथोचितम् ॥८२॥एवमपि प्रदानेन तरत्यब्धिं हि कर्मणाम् ।शृण्वत्र कथयाम्येव ज्ञानेन दानमुत्तमम् ॥८३॥यत्फलं ब्रह्मलोकाख्यं प्राप्ता ब्रह्मसती पुरा ।योगिन्यासीद् ब्रह्मसती ब्राह्मणी सा कुमारिका ॥८४॥सोमनाथे शुभे तीर्थे भजमाना तु शंकरम् ।युवती च सुरूपा च शीलयुक्ता तपोधना ॥८५॥सरस्वत्यां करोत्येषा त्रिषवणं जपादिकम् ।तैर्थिकाः सूर्यतुल्यां तां पश्यन्ति यन्ति मुग्धताम् ॥८६॥सा न दृष्टिं ददात्येव क्वापि कुत्रापि सर्वथा ।एकदा तां तु संवीक्ष्य दैत्यः स्थण्डिलघोषकः ॥८७॥उज्जहार बलेनैव व्योम्नाऽब्धौ निजमन्दिरम् ।तस्या भोगं प्रसह्यापि चक्रे वै ब्रह्मयोषितः ॥८८॥साऽप्यनाथा च निर्विण्णा ज्ञात्री देहविरागिणी ।शोकं तथाऽप्यशोकं च मेने चात्मप्रतिष्ठता ॥८९॥शीलं व्रतं सदा रक्ष्यं तद्भंगः शोक एव सः ।आपत्काले न चेद् रक्षा देहोऽहं नेत्यशोचनम् ॥९०॥विवेकेन शरीराद्वै भिन्नात्मानममन्यत ।देहं भिन्नं तथा मत्वा शोकं जहौ पराश्रया ॥९१॥एवं विधां तु तां वीक्ष्य दैत्यः पप्रच्छ तां मुहुः ।कथं न कुरुषे शोकं प्रधर्षिताऽपि भामिनि! ॥९२॥सा तु प्राह मलिनोऽयं देहो वै धर्षितस्त्वया ।नाऽहं प्रधर्षिता दैत्य! शुद्धाऽहं चेतनात्मिका ॥९३॥त्वयि नारायणश्चास्ते ब्रह्म यत्परमः प्रभुः ।तदधिष्ठितदेहेन भुक्तो देहो न चेतनः ॥९४॥त्वमज्ञो वर्तसे दैत्य! नाऽहमज्ञाऽऽपदि स्थिता ।शोचनीयः सदा देहस्तं शोचाम्यवशा कथम् ॥९५॥आत्मा न स्त्री पुमान्नैव पृथ्वीपाषाणरूपिणौ ।देहौ तथाऽभिधानो वै तत्र का परिदेवना ॥९६॥श्रुत्वैवं स्थण्डिलघोषस्त्वाश्चर्यं परमं ययौ ।ज्ञानमासाद्य च ततो ययाचे कर्मणः क्षमाम् ॥९७॥तां स्कन्धे स्वे निधायैव सोमनाथं समानयत् ।ज्ञानयोगेन दैत्योऽपि तपोभक्तिं चकार ह ॥९८॥तस्या योगेन तपसा शुद्धो भूत्वा हरस्य सः ।कालेन गणतां प्राप्तो ययौ कैलासमुत्तम् ॥९९॥ब्रह्मसती शुशोचापि यत्र मे परवश्यता ।तत्राऽधीनाऽभवं चाऽब्धौ दैत्यहस्तगता तदा ॥१००॥ज्ञानाग्निना मया पापं ज्वालितं किन्तु लौकिकम् ।प्रायश्चित्तं विधातव्यं न लुप्येत वृषो यथा ॥१०१॥सा ययौ योगिनं शान्तं किरीटिनं हराश्रितम् ।पप्रच्छ शौचं शीलस्य किरीट्युवाच तां तदा ॥१०२॥रूपं ते विद्यते साध्वि! शंकरस्यापि मोहकम् ।तस्मात् पुनः पुनर्विघ्नं ते भविष्यति यौवने ॥१०३॥तस्मादाश्रय कान्तं त्वं स्वेष्टं ब्रह्मविदं जनम् ।येन विघ्नविलोपः स्यात् पापं शान्तं भवेत्ततः ॥१०४॥देहशुद्ध्या तथा चैवोद्वाहेन विधिनाऽपि च ।प्रायश्चित्तं तवैव स्याद् राजस्वल्यं च शोधकम् ॥१०५॥इत्युक्ता सा ज्ञानकोशा भक्ता तमेव योगिनम् ।किरीट्याख्यं पतिं वव्रे गुरुं पतिं चकार सा ॥१०६॥दीक्षां जग्राह गार्हस्थ्यशोभनां शंकरान्तिके ।पार्वत्या कृततिलका दत्तसौभाग्यचन्द्रिका ॥१०७॥समर्था योगिनी जाता दिव्या शंभोः शुभाशिषा ।एवं देहेनाऽर्पिता सा गणपत्नी सुयोगिनी ॥१०८॥दिव्या सामर्थ्यसम्पन्ना व्यवर्तत हि शाश्वती ।एकदा शंभुना साकं विष्णुलोकं गता सती ॥१०९॥तया दासीस्वरूपा सा नीता ब्रह्मसती सह ।नारायणं तु मां दृष्ट्वा मुमोह स च भामिनी ॥११०॥सत्या निवेदिता मह्यं सा मुक्ता संबभूव ह ।दिव्यरूपेण वै नित्या रमया सह राजते ॥१११॥ब्राह्मीसतीतिनाम्नैव पत्नी मे साऽभवत्ततः ।अपरेणाऽपि रूपेण किरीटस्यापि भामिनी ॥११२॥वर्तते नित्यकैलासे मोदते शंभुसेविका ।इत्येतत् कथितं लक्ष्मि रहस्यं तेऽर्पणे विधौ ॥११३॥देहदानं प्रकर्तव्यं लभ्यते चेन्नरायणः ।नारायणप्रदाता च लभ्यते मोक्षदः प्रभुः ॥११४॥देहदानं विधातव्यं मोक्षार्थं सार्वकालिकम् ।अन्यैर्यो भुज्यते देहो भुज्यतां परमात्मना ॥११५॥तदर्पणेन वै लक्ष्मि लक्ष्मीतां लभते सती ।पठनाच्छ्रवणाच्चाऽस्य भुक्तिर्मुक्तिर्गतिर्भवेत् ॥११६॥रहस्यं परमं त्वेतत् कथितं ते पुराऽभवत् ।ततश्चान्या रूपवत्यश्चार्पणं चक्रुरात्मनाम् ॥११७॥नारायणेऽभवन् साध्व्यः कोटिशो वै शुभांगनाः ।मम योगेन संसारं तीर्त्वा ब्रह्मपदं ययुः ॥११८॥ब्रह्मप्रियाश्च ताः सर्वा वर्तन्तेऽत्र तवाऽग्रतः ।ब्रह्मप्रियासु योगिन्यो मुक्तान्यो दिव्यविग्रहाः ॥११९॥अपात्राभ्यो न दातव्यं ज्ञानमेतन्नरायणि ।श्रुत्वा च निन्दिकाभ्यश्च न दातव्यं कदाचन ॥१२०॥मोक्षार्थकृतसर्वस्वाभ्यो दातव्यं शुभं त्विदम् ।यत्प्राप्य मत्पदं दिव्यं लभन्ते मामनुश्रिताः ॥१२१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गोदानगोकल्पदानविविधव्रताचारार्पणफलनिरूपणे ब्रह्मसत्या योगिन्या देहदाननिदर्शनं मोक्षणं चेत्यादिनिरूपणनामा द्वादशाधिकशततमोऽध्यायः ॥११२॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP