संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १४७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १४७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-अतिवृष्टिरनावृष्टिर्दुर्भिक्षादिभयं मतम् ।अनृतौ तु दिवाऽनन्ता वृष्टिर्बोध्या भयप्रदा ॥१॥अनभ्रे वैकृताश्चापि विज्ञेया राजमृत्यवे ।शीतोष्णानां विपर्यासे नृपाणां रिपुजं भयम् ॥२॥शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् ।अंगारपांसुवर्षायां नगरस्य विनाशनम् ॥३॥मज्जाऽस्थिस्नेहमांसानां जनमारभयं महत् ।धान्यपुष्पफलान्नेषु तथा शत्रुभयं महत् ॥४॥पांसुवर्षा फलानां तु रोगभीतिकरी मता ।अकाले चाऽन्नवर्षायां सस्यानां भयमापतेत् ॥५॥विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते ।दृश्यते चेत् प्रतीपा वै तदा देशभयं भवेत् ॥६॥अकाले करकावृष्टौ दुष्कालस्य भयं भवेत् ।निरभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ॥७॥इन्द्रधनुस्तथा चोल्कापातो गन्धर्वपत्तनम् ।दिग्दाहः परिवेषश्च दिशां मलिनताऽपि चेत् ।परचक्रभयं स्याद्वै स्वदेशोपद्रवोऽपि च ॥८॥तच्छान्त्यर्थं सूर्ययज्ञं चन्द्रयज्ञं प्रकारयेत् ।पर्जन्ययज्ञं च तथा मरुद्यज्ञं प्रकारयेत् ॥९॥धनं द्रव्यं कांचनं च गा दद्यात् तत्र दक्षिणाः ।उत्पातास्ते शान्तिमाप्य फलदा न भवन्ति वै ॥१०॥शृणु लक्ष्मि तथा चान्यानुत्पातान् दुःखशंसकान् ।नगरादुपसर्पन्ते समीपमुपयान्ति वा ॥११॥नद्यो ह्रदाः प्रस्रवाणि विरसाश्च भवन्ति वा ।विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥१२॥स्नेहं क्षीरं सुरां रक्तं वहन्ते वा कुलोदकाः ।षण्मासाभ्यन्तरे तत्र परचक्रभयं भवेत् ॥१३॥जलाशया नदन्ते वा प्रज्वलन्ति यथाऽनलैः ।विमुञ्चन्ति तथा लक्ष्मि ज्वालाधूमरजांसि च ॥१४॥यद्वा तेषु जलोत्पत्तिः सुसत्त्वा वा जलाशयाः ।संगीतशब्दाः श्रूयन्ते जनमारभयं भवेत् ॥१५॥तच्छान्त्यै मधुतैलाज्यैर्हवनं त्वाचरेन्नृपः ।जपेत्तु वारुणान्मन्त्रान् जापयेद् विप्रकोविदैः ॥१६॥जले होमो जले चाप्यभिषेचनं घृतादिभिः ।मध्वाज्यपायसं दद्याद् भोजने साधुयोगिनाम् ॥१७॥श्वेताम्बरयुता गाश्च दद्याच्छ्रीगुरवे तथा ।जलकुंभान् प्रदद्याद्वै रत्नमौक्तिकमर्पयेत् ॥१८॥शृणु लक्ष्मि तथा चाऽन्यन्नारीषु विकृतिं यथा ।अकालप्रसवा नार्यः कालातीतप्रजास्तथा ॥१९॥विकृतप्रसवाश्चापि युग्मत्रिप्रसवाश्च वा ।अमानुषा ह्यतुण्डाश्च सञ्जातव्यसनाः स्त्रियः ॥२०॥हीनांगा अधिकांगाश्च प्रसूयन्ते वसन्ति च ।पशवः पक्षिणश्चापि जन्तवश्च सरीसृपाः ॥२१॥यत्र देशेऽथवा ग्रामे कुले वा तादृशा यदि ।विनाशस्तस्य देशस्य ग्रामस्य वा कुलस्य वा ॥२२॥नृपस्तादृशहीनांगान्नरान्नारीर्विवासयेत् ।स्वराष्ट्रे सूयमानाश्च स्त्रीजातीः शान्तयेद्धवैः ॥२३॥नारीयज्ञं प्रकुर्याद्वै हवनं भोजनादिकम् ।नारीणां बालिकानां च वस्त्रालंकारकार्पणम् ॥२४॥मातॄणां देवतानां च देवीनां पूजनं तथा ।योगिनीनां सतीनां च साध्वीनां पूजनं तथा ॥२५॥राधालक्ष्मीप्रभापारवतीनां पूजनं चरेत् ।माणिक्यादुःखहालक्ष्मीमहालक्ष्मीप्रपूजनम् ॥२६॥ललितायमुनागंगारतिभक्तिप्रपूजनम् ।कुलदेवीप्रपूजां च कुर्यात्तथैव कारयेत् ॥२७॥कस्येच्छकैः प्रकुर्याच्च विप्रतर्पणमित्यपि ।ततः शान्तिर्भवेल्लक्ष्मि ह्यपपद्रवो न जायते ॥२८॥शृणु नारायणीश्रि त्वं यानोपद्रवसूचनाम् ।यान्ति यानान्ययुक्तानि युक्तान्यपि न यान्ति च ॥२९॥नोद्यमानान्यपि पृष्ठे यान्ति तत्र महद्भयम् ।वाह्यमाना न वाह्यन्ते वाह्यन्ते नात्यनाहताः ॥३०॥अचलाश्च चलन्त्येव न चलन्ति चलानि च ।आकाशे तूर्यनादाश्च गीतगान्धर्वनिःस्वनाः ॥३१॥काष्ठदर्वीकुठारादि विकारं कुरुते यदि ।गावो लाङ्गूलहननैः स्त्रियः स्त्रीश्च प्रताडयेत् ॥३२॥उपस्करादिविकृतौ घोरं शस्त्रभयं भवेत् ।तच्छान्त्यर्थं वायुपूजां कारयेद् विप्रपूजनम् ॥३३॥सक्तून् दद्यादम्बरादि मिष्टान्नानि तु वायवे ।पवमानमहामन्त्रान् मारुताँश्च मनून् जपेत् ॥३४॥परमान्नं भोजयेच्च हवनं पायसादिभिः ।दक्षिणा भूयसीर्दद्यात्तेन शान्तिर्भवेद् रमे ॥३५॥शृणु श्रीशिवराज्ञीश्रि तथाऽन्यत् पशुसूचनम् ।प्रविशन्ति यदा ग्राममारण्या वनपक्षिणः ॥३६॥अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलौकसः ।स्थलौकसो जलं यान्ति घोरं वाशन्ति निर्भयाः ॥३७॥राजद्वारे पुरद्वारे शिवा घूकाः श्वजातयः ।दिने रात्रिंचरा यद्वा रात्रौ दिनचरास्तथा ॥३८॥ग्राम्यास्त्यजन्ति वै ग्रामं शून्यता तत्र वै फलम् ।दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ॥३९॥वाशन्ति विस्वरं यत्र तत्रापि शून्यता फलम् ।काका घूका मस्तकस्योर्धे वाशन्ति दिवा यदि ॥४०॥तस्याऽऽपत्काल आगच्छेद् वह्निर्वाऽऽकस्मिको भवेत् ।मरणं चाप्यकीर्तिश्च स्थानत्यागो भवेच्च वा ॥४१॥आपत्कालो भवेत्तस्य प्रजाकुटुम्बिभिः कृतः ।प्रदोषे कुक्कुटो वाशेद्धेमन्ते यत्र कोकिलः ॥४२॥अर्कोदये त्वभिमुखी शिवा रौति भयं दिशेत् ।गृहं कपोतः प्रविशेत् क्रव्यादो मूर्ध्नि लीयते ॥४३॥मक्षिकाश्च मधु कुर्युर्मृत्युर्गृहपतेर्भवेत् ।प्राकारद्वारगेहेषु तोरणापणवीथिषु ॥४४॥केतुच्छत्राऽऽयुधाद्येषु क्रव्यादः प्रपतेत् यदि ।जायन्ते वाऽथ वल्मीका मधु वा स्यन्दते यदि ॥४५॥स देशौ नाशमायाति राजा च म्रियते तथा ।मूषकाः शलभाश्चापि शुकाः क्षुद्रास्तृणादनाः ॥४६॥दृश्यन्तेऽसंख्यका यत्र क्षुन्मारभयमापतेत् ।काष्ठोल्मुकास्थिशृंगाढ्याः श्वानो मर्कटवेदनाः ॥४७॥विषश्वानश्चाभितोऽपि भ्रमन्ति यत्र पत्तने ।काका धान्यखले धान्यमुखाः पतन्ति वा पुरे ॥४८॥दुर्भिक्षवेदना तत्र बोध्या देहिक्षयंकरी ।रणसेनाभयं स्याच्च प्रजानां च वा तत्र च ॥४९॥काको मैथुनसक्तो वै दिवसे यदि दृश्यते ।राजा वा म्रियते तत्र स च देशो विनश्यति ॥५०॥उड्डीयन्ते निशि काका गृहभंगो भवेत् खलु ।उलूको दृश्यते यत्र नृपद्वारे तथा गृहे ॥५१॥ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ।मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ॥५२॥देवाः कपोता रक्षन्तु ग्रामं गृहं कुटुम्बिनः ।रुद्रमन्त्रानिन्द्रमन्त्रान् जपेयुः पञ्चषा द्विजाः ॥५३॥गावो देया ह्यवनान्ते ग्रहशान्तिं मखं चरेत् ।विष्णुयज्ञं प्रकुर्याच्च रुद्रयज्ञं च वा चरेत् ॥५४॥भौतिकीं शान्तिमेवाऽपि कारयेद्द्विजपुंगवैः ।शृणु लक्ष्मि तथा चाऽन्यद्भौतिकं सूचनादिकम् ॥५५॥प्रासादतोरणाऽट्टालद्वारप्राकारवेश्मनाम् ।निर्निमित्तन्तु पतनं दृढानां राजमृत्युकृत् ॥५६॥रजसा वाऽथ धूमेन दिशो यत्र समाकुलाः ।आदित्यचन्द्रताराश्च विवर्णा भयवृद्धिदाः ॥५७॥राक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः ।ऋतवश्च विफला वै ह्यपूज्यः पूज्यते जनैः ॥५८॥नक्षत्राणि वियोगीनि महद्भयप्रदानि वै ।केतूदयोपरागौ च छिद्रं वा शशिसूर्ययोः ॥५९॥ग्रहर्क्षविकृतिर्यत्र तत्र देशे महद्भयम् ।स्त्रियस्तु कलहायन्ते बाला निघ्नन्ति बालकान् ॥६०॥क्रियाणामुचितानां च विच्छित्तिर्यत्र जायते ।हूयमानस्तु यज्ञाऽग्निर्दीप्यते नैव शान्तिषु ॥६१॥पिपीलिकाश्च क्रव्यादा यान्ति चोत्तरतस्तथा ।पूर्णकुंभाः स्रवन्ते च हविर्वा विप्रलुप्यते ॥६२॥मंगल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः ।क्षवथुर्बाधते यत्र हसन्ति पुत्तलानि च ॥६३॥बाधन्ते भोज्यजातानि स्रवन्ते पात्रतः पयः ।देवेषु सत्सु विप्रेषु दैवतं दृश्यते न च ॥६४॥देवसाधुब्राह्मणेषु भावनारहिताः प्रजाः ।मन्दघोषाणि वाद्यानि वाद्यन्ते विस्वराणि च ॥६५॥गुरुमित्रद्विषो यत्र शत्रुपूजारता जनाः ।पूज्यान्मान्यान् श्रेष्ठजनान् जनो यत्राऽवमन्यते ॥६६॥शान्तिमंगलहोमेषु नास्तिक्यं यत्र जायते ।राजा वा म्रियते तत्र देशो वा स विनश्यति ॥६७॥राज्ञो यत्र तु दुर्भाग्यं तत्र चिह्नानि वै शृणु ।प्रजा निजाः नृपो द्वेष्टि प्रजाजनैर्विरुद्ध्यते ॥६८॥प्रजास्वं बलतो धत्ते प्रजाजनान् जिघांसति ।कृतघ्नतां दर्शयति याचितश्च प्रकुप्यति ॥६९॥करोति निन्दनं सतां प्रशंसां नाभिमन्यते ।असह्यं तु करं लोभाद् बलात् पातयते जने ॥७०॥एवं वै विकृते भावे शक्रयाग समाचरेत् ।सपत्नीकं सुरेशं च तथा देवान् प्रतर्पयेत् ॥७१॥भोजनानि द्विजातिभ्यः सुरेभ्यो बलयस्तथा ।सद्भ्यः पूजा सतीभ्यश्च शृंगारादिप्रदापनम् ॥७२॥बालिकाभ्यो भोजनानि बालेभ्योऽपि शुभानि च ।गोदानं भूकाञ्चनादिदानं वस्त्रार्पणादिकम् ॥७३॥कर्तव्यं हवनं श्रेष्ठं तेन शान्तिर्भवेत् खलु ।यत्र देशेऽथवा ग्रामे रन्धितान्नं तु मांसवत् ॥७४॥दृश्यते दधि रक्ताभं नश्येद् ग्रामः प्रदेशकः ।ग्रामाध्यक्षस्य वै धिष्ण्यं पतेत्तु कारणं विना ॥७५॥भग्नं भवेद् गृहं वापि नृपनाशो भवेत्तदा ।रक्तपाषाणवर्षा चेत् श्वरोदनं समन्ततः ॥७६॥देशग्रामविनाशः स्याद् विष्णुयागं ततश्चरेत् ।भूकम्पो गर्जनायुक्तो दुर्भिक्षस्य प्रसूचकः ॥७७॥दक्षिणादुत्तरं याति साम्राज्यस्य भयं महत् ।पूर्वात्तु पश्चिमं याति नृपघातो भवेद् ध्रुवम् ॥७८॥पूर्व तु पश्चिमाद् याति युद्धं नृपेषु जायते ।उत्तराद् दक्षिणं याति सुभिक्षं जायते तदा ॥७९॥आद्यप्रहरे रोगः स्याद् द्वितीये धननाशकृत् ।तृतीये धान्यधनकृच्चतुर्थे मध्यमप्रदः ॥८०॥सन्ध्यायां भूक्म्पने तु सर्वस्वनाशसूचनम् ।प्रयाणे कण्टके वृक्षे क्लेशदं काकभाषणम् ॥८१॥प्रयाणे सन्मुखं काकश्चायाति वाहने स्थितः ।यद्वाऽम्बरे तदा मृत्युः प्रवासं नैव कारयेत् ॥८२॥दक्षपार्श्वे पक्षक्षेपे गन्तव्यं नैव तद्दिशि ।गतः पुनर्न व्यायाति मरणं स्याद्ध्रुवं रमे ॥८३॥वामाद् दक्षं प्रयाते तु काके वधश्च बन्धनम् ।उत्तरं ताराक्षरणं दुर्भिक्षकृन्महद् भवेत् ॥८४॥महामारीरोगजन्म प्रजानां कदनं महत् ।तारकयोर्द्वयोश्चाभिमुख्ये क्षरणं युद्धकृत् ॥८५॥सशिखस्योदये छत्रभंगो बालादिनाशनम् ।सपुच्छस्योदये नाशो पशूनां वै समापतेत् ॥८६॥खग्रासे ग्रहणे युद्धं दुर्भिक्षं वा भवेद् भुवि ।प्रयाणे सौषधो देही कृष्णधान्यं कपासकम् ॥८७॥शुष्कतृणानि च करीषाणि शुष्कं च काष्ठकम् ।भस्म तैलं गुडं भाग्यहीनो जनः सतैलकः ॥८८॥नग्नो विकीर्णकेशा स्त्री रुग्णः काषाम्बरस्तथा ।विचित्तो जीर्णकन्थादि श्वपचो मलपात्रकम् ॥८९॥मृतपक्षी लोहवस्तु विधवा कर्दमस्तथा ।चर्म चर्मकरश्चापि तक्रं शवं च गर्भिणी ॥९०॥कारागारी कृष्णवृषः सर्पो मण्डूक इत्यपि ।कृकलासो वनगोधा शशस्तुषाश्च सूकरः ॥९१॥तृणान्यस्थि रक्तपुष्पं मार्जारो हिंस्रकः पशुः ।लोहकारो यन्त्रपिष्टा मुण्डी च दुर्जनोऽपि वा ॥९२॥जटी खञ्जश्च महिषो व्यंगश्च गर्दभस्तथा ।रोदनं च यतिश्चापि शत्रुश्च बन्धितो जनः ॥९३॥श्वयुद्धं च लुताजालं महत्पिपीलिकादयः ।पिपीलिकाप्रवासश्च पाषाणो लवणं तथा ॥९४॥क्षुवनं गोक्षुवनं च वन्ध्या रजकश्चाऽप्रियम् ।अभिमिलेद् यदि मार्गे न गच्छेत्तत्र वै क्वचित् ॥९५॥मरणं वा महादुःखं कार्याऽसिद्धिर्विडम्बना ।वामांगानि पुरुषस्य नार्या दक्षांगकानि तु ॥९६॥स्फुरेयुर्यदि विद्याद्वै महापत्तिं विनाशनम् ।गमने यष्टिकापातः शस्त्रपातोऽथवा भवेत् ॥९७॥मुकुटादेः प्रपातो वा पतनस्यैव सूचकः ।पतनं स्वस्य हर्म्याग्रे सोपानादौ च वा यदि ॥९८॥पराजयो भवेत्तूर्णं मरणं दुःखमित्यपि ।एवं जातेषु तत्कालं शान्तिकर्माणि चाचरेत् ॥९९॥विष्णुयागं रुद्रयागं देवपूजां ग्रहार्चनम् ।जपदानव्रताद्यं च कुर्याच्छान्तिर्भवेद्ध्रुवा ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने बहुविधोत्पातानां शान्तिकर्मादिकथननामा सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥१४७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP