संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु चान्यां कथां लक्ष्मि मम प्राकट्यशोभनाम् ।सप्तत्रिंशेऽण्डजाख्ये वत्सरे वै वेधसः पुरा ॥१॥एकोननवतिकल्पे षष्ठे मनौ समुद्भवाम् ।ऋषिर्नाम्नाऽजहारितो बभूव तापसो महान् ॥२॥वेदविज्ञः साधुधर्मश्चैकलोऽपि वने वसन् ।अध्यापयति विप्रादीन् सत्करोति समागतान् ॥३॥अतिथीनर्चयत्यन्यान् ददात्येभ्यः समाश्रयम् ।आश्रमे पर्णशालायां वसति वृक्षमण्डले ॥४॥फलकन्ददलपत्रमूलाढ्यान् पादपान् स च ।वृत्त्यर्थं जलमादत्त्वा पोषयत्यपि सर्वदा ॥५॥देवानां च सतां चाभ्यागतानां स्वागतादिकम् ।करोति फलमूलाद्यैः पक्वैर्मिष्टैर्निवेदितैः ॥६॥अथ राजा सैन्ययुक्तो विद्रवाधिपतिस्तदा ।यात्रार्थमभिगच्छन् वै मार्गेणाऽऽश्रममाययौ ॥७॥विश्रान्तिं प्राप मध्याह्ने न च जानाति तमृषिम् ।समर्थं चाश्रमवासं मत्वा किंचिद् वनेचरम् ॥८॥राजा नेमे न विप्रं तं साधुं साधुस्वभावकम् ।प्रत्युताऽस्य द्रुमस्तम्बादिषूष्ट्रान् करिणो वृषान् ॥९॥तुरंगमान् मुमोचैते भक्षयामासुरेव च ।भञ्जयामासुरामूलान्नाशयामासुरित्यपि ॥१०॥पुष्पितान् फलितान् वृक्षान् ऋषिर्दृष्ट्वाऽवदन् नृपम् ।मा राजन् मम वृक्षाणां नाशं विधेहि मूलतः ॥११॥निष्कासय पशून् दूरे पार्श्वेऽरण्ये द्रुमान्विते ।राजोवाच वनं मेऽस्ति सर्वं राज्ञो भवत्यपि ॥१२॥पशवो मे क्षुधाव्याप्ता भक्षयिष्यन्ति वै द्रुमान् ।याहि त्वं दूरतश्चास्मात् स्थानाद्वनेचरोऽसि यत् ॥१३॥ऋषिर्गर्विष्ठनृपतेर्दण्डं व्यचिन्तयद् द्रुतम् ।जलमादाय हस्ते च शशाप भव घोटकः ॥१४॥तूर्णं राजाऽभवत्तत्र तुरंगमोऽतिशोभनः ।सैन्यं दुःखं प्राप सर्वं प्रार्थयामास तमृषिम् ॥१५॥तस्य राज्ञो विमोक्षार्थं राज्ञी चाप्यार्थयन्मुहुः ।ऋषिस्तस्यै तदा प्राह पतिस्तेऽश्वोऽयमुत्तरे ॥१६॥कालेऽश्वमेधयज्ञे त्वत्पुत्रनिष्पादिते पुनः ।स्नात्वा नारायणयोगादवभृथे नृपो नरः ॥१७॥भविष्यति न सन्देहश्चेदानीं यातु वै गृहम् ।इत्युक्ता स्वपतिं चाऽश्वं नीत्वा सा स्वगृहं ययौ ॥१८॥ससैन्या सा गृहं गत्वाऽऽराधयत्परमेश्वरम् ।राज्ञ्या यशोवराख्यायाः पुत्रो धर्मधराभिधः ॥३९॥पितुर्वर्मधराख्यस्य मोक्षार्थं यज्ञमारभत् ।दीक्षितः सञ्चयामास यज्ञीयं वस्तुजातकम् ॥२०॥शुद्धपृथ्व्यां चतुष्प्रान्ते वाजिमेधीयमण्डपे।यज्ञकार्ये वर्तमाने गुरुणा देवसत्रिणा ॥२१॥सर्वस्याऽऽप्त्यै सर्वजित्यै सर्वशापविछित्तये ।सर्वपापोपशान्त्यै च हूयमानेऽनले घृते ॥२२॥देवाः साक्षात् समायँश्च ब्रह्मविष्णुमहेश्वराः ।अन्ये देवाश्चाययुर्वै भागधेयाऽधिकारिणः ॥२३॥देवसत्री गुरुर्विप्रोऽपूजयत्तं तुरंगमम् ।पूर्वभागे कृष्णवर्णं पश्चार्धे श्वेतरूपिणम् ॥२४॥ललाटे शकटाकारपुण्ड्रयुतं शुभाकृतिम् ।प्रागसकृत्प्रपायितसोमरसाऽश्वयुग्मजम् ॥२५॥जातमात्रं प्रपायितसोमरसं च वर्धितम् ।चैत्र्यां सांग्रहणीष्टिकृद् वैशाख्यां च नृपस्ततः ॥२६॥प्रजापतिदेवताकयागकृच्च ततः परम् ।अमावस्येष्टिकृच्चापि कारितवपनस्तथा ॥२७॥धृतनूत्नाऽम्बरो मौनी कृताऽग्निहोत्रसत्क्रियः ।परेऽह्नि मण्डपे गत्वा कृतैकादशकाहुतिः ॥२८॥ब्रह्मौदनं च ऋत्विग्भ्यश्चाशयित्वा सुकल्प्य तान् ।यज्ञीयाऽश्वं यजमानः श्वानं च चतुरक्षकम् ॥२९॥तडागादिजले नीत्वा सर्त्विक् तौ समप्रोक्षयत् ।अध्वर्युश्चाऽप्रोक्षयच्च श्वानमुत्सृज्य वै ततः ॥३०॥अश्वं चावासृजत् पृथ्व्यां भ्रमणार्थ नृपः स्वयम् ।रक्षकैर्धन्विभिः शूरैश्चतुःशतैर्युतं ततः ॥३१॥नृपः प्रत्यहमेवापि विष्णुक्रमणसंज्ञकान् ।होमान् सायं च प्रातश्च कुर्वन् वीणाप्रगाथिनौ ॥३२॥ब्रह्मक्षत्रौ समाहूय गाययत्येव वै यशः ।पारिप्लवं शृणोत्येव प्रतीक्षतेऽश्वकाऽऽगमम् ॥३३॥आश्वपदिकमार्गेषु योग्यहोमानकारयत् ।मुख्यं दन्तान् हनूं चोरु पादौ लिंगं च वाजिनः ॥३४॥संस्मृत्य हवनं चाऽप्यकारयन् नृपतिः स्वयम् ।गमनं धावनं चाक्रन्दनं हेषणमित्यपि ॥३५॥शयनं चाऽप्यवघ्राणं लुण्ठनं वाजिनो गुणान् ।संस्मृत्य देवतीकृत्य तेभ्यो होमान् ददौ नृपः ॥३६॥अथ कृत्वा विजयं चागतमश्वं तु पावनम् ।प्रपूज्याऽस्थापयत् स्थाने सुत्याकमकारयन्नृपः ॥३७॥सुत्यात्रये द्वितीयेऽह्नि चोद्गातुः स्थानकेऽश्वकम् ।उद्गातारं व्यधाद् राजा वडवाभिः समन्वितम् ॥३८॥ह्रेषां चकार तुरगश्चोद्गीथः स व्यजायत ।अखातयत्ततो यूपानेकविंशतिसंख्यकाम् ॥३९॥मध्ये चोत्तरदक्षिणकोणयोः सुव्यवस्थितान् ।पूर्वेऽग्निष्ठे तुरगं तं बबन्ध राज्जुदालजे ॥४०॥यूपेऽस्य पार्श्वयोर्देवदारुजौ द्वौ च यूपकौ ।तत्पार्श्वयोस्त्रयस्त्रयो बिल्ववृक्षविनिर्मिताः ॥४१॥तत्पार्श्वयोस्त्रयस्त्रयः खादिरास्तत्प्रपार्श्वयोः ।पालाशाश्च त्रयस्त्रयो यूपास्तान् समपूजयत् ॥४२॥अश्वं रशनयाऽऽवेष्ट्य त्रयोदश पशून् परान् ।रशनायां रज्जुबन्धैरबन्धयच्च पार्थिवः ॥४३॥अश्वललाटे चाग्नेयं पश्चभागे तु पौष्णकम् ।उपर्यैन्द्रापौष्णपशुमबन्धयच्च पार्थिवः ॥४४॥बाह्वोराज्ञेयकौ कृष्णग्रीवौ चाबन्धयन्नृपः ।त्वाष्ट्रौ सक्थ्नोः श्वेतपृष्ठौ बार्हस्पत्यौ तु पार्श्वयोः ॥४५॥श्वेतवर्णोदरं धातृदैवं चाऽधो ह्यबन्धयत् ।पुच्छे श्वेतमजं चाप्यबन्धयत् पार्थिवस्ततः ॥४६॥कृष्णवर्णमजं सौर्यं दक्षपार्श्वेऽप्यबन्धयत् ।याम्यं कृष्णं वामपार्श्वेऽबन्धयच्चैवमेव सः ॥४७॥ग्राम्यान् शतत्रयं नवचत्वारिंशद् बबन्ध सः ।आरण्यकान् शतत्रयं षष्टिं चापि बबन्ध सः ॥४८॥अजादयो ग्राम्यवाच्या आरण्याः श्वापदादयः ।तदुपाकरणं चक्रे पर्यग्निकरणं तथा ॥४९॥नमस्कृत्य पशून् सर्वान् संकल्प्य देवतार्थकान् ।दिव्यान्पूज्यानपसार्याऽवाऽसृजत्तान्पशून्नृपः ॥५०॥अश्वनाम्ना सुकुष्माण्डं धृत्वा घृताक्तकम्बले ।कृत्वा प्राक्शिरसं चोदक्पादं संज्ञपनं व्यधात् ॥५१॥राज्ञ्यः पत्न्यो ग्राम्यशब्दैर्गर्हां व्यधुस्ततः परम् ।फलगर्भवपाहोमान् षट् प्रजापतये ददौ ॥५२॥विष्णुक्रमानक्रामच्च कुष्माण्डान्यपराणि च ।पशुस्थानानि संज्ञप्य होमान् सर्वानकारयत् ॥५३॥आज्यादिना तिस्र आहुतीश्च हुत्वा ततः परम् ।पत्नीसंयाजान्तकर्माऽनुष्ठाय व्यरमन्नृपः ॥५४॥सुत्यादिने तृतीये च कृत्वा सौमिककर्म च ।प्राजापत्यान् पशूनेकादश कुष्माण्डरूपिणः ॥५५॥हुत्वा कर्माण्यनुष्ठायाऽवभृथं प्रचकार ह ।पिंगाक्षश्वेतकुष्ठस्य पुरुषस्य तु मूर्धनि ॥५६॥होमत्रयं प्रदत्वा चाऽददत् शतसुवर्णकम् ।कृत्वा त्रैधातवीयेष्टिम् आसम्वत्सरमेव ह ॥५७॥तत्तदृतुफलैः राजाऽयजच्चाश्वं प्रपूजयन् ।दैवाऽश्वं देववन्मेने राजा परमधार्मिकः ॥५८॥वत्सराऽन्ते लक्षयतीन् साधून् सन्यासिनस्तथा ।सतीः साध्वीस्तथा विप्रान् बालान् विद्यार्थिनस्तथा ॥५९॥विद्यार्थिनीर्भिक्षुकीश्च भोजयामास वै नृपः ।आवर्षं नित्यहोमान्ते ददौ दानानि भावतः ॥६०॥प्रतीक्षते कदा चाश्वरूपः पिता मनुष्यताम् ।गच्छेदिति विचारस्थो निद्रां ययौ नृपो निशि ॥६१॥वत्सरान्ते यज्ञपरिहारे रात्रौ नरायणम् ।ददर्श दिव्यरूपं चाऽच्युतं मुकुटमण्डितम् ॥६२॥सर्वाभरणसंयुक्तं सर्वशोभासमन्वितम् ।सर्वैश्वर्यादिसम्पूर्णं न्यूनषोडशवत्सरम् ॥६३॥आचतुर्दशहायन्या त्वया लक्ष्म्या विराजितम् ।प्रसन्नाननया सत्या तदा सौभाग्यशोभया ॥६४॥निद्रायामेव तुष्टाव श्रीकृष्णं पुरुषोत्तमम् ।त्वं यज्ञस्त्वं चाश्वरूपश्चाश्वमेधस्त्वमेव च ॥६५॥त्वं राजा त्वं राज्यपालस्त्वं राजेश्वर एव च ।त्वं लोकस्त्वं लोकनाथस्त्वं देवस्त्वं सुरेश्वरः ॥६६॥त्वं विष्णुस्त्वं स्वयं ब्रह्मा त्वं वैराजो महेश्वरः ।त्वं भूमा त्वं प्रधानेशो वासुदेवो जनार्दनः ॥६७॥त्वं धामेशो महाकालो मायेशस्त्वं परेश्वरः ।त्वं श्रीकृष्णप्रभुः श्रीमत्पुरुषोत्तम सर्वराट् ॥६८॥कर्ता धर्ता नियन्ता च पाता हर्ताऽन्तरस्थितः ।त्वमेव सर्वं भगवँस्त्वयि सर्वं समर्पितम् ॥६९॥त्वं वै शरण्य एवाऽसि पितुर्मेऽश्वभवं प्रभो ।शापजन्यं द्रुतं नारायण नाशय केशव ॥७०॥एवं तुष्टाव मां राजा तदा सोऽभिहितो मया ।अश्वमेधे महायज्ञे मां विहाय त्वया नृप ॥७१॥पूजिता देवताश्चाऽन्ये विना मत्स्मरणं किल ।अनर्पितोऽश्वमेधश्च मयि चाऽर्पणवर्जितः ॥७२॥त्वदिच्छापूरको नैव वर्ततेऽद्य नराधिप ।तस्मात्पुनस्त्वश्वयज्ञं कुरु पूजय मां पुनः ॥७३॥सर्वत्र सर्वकार्येषु ततस्ते जनको नरः ।मानुषतां पुनश्चापि समेष्यति न संशयः ॥७४॥दर्शनं मे पुनर्भावि सर्वं योग्यं भविष्यति ।इत्युक्त्वाऽदृश्यतां प्राप्तस्त्वयाऽहं श्रीनरायणि ॥७५॥धर्मधरो नृप निद्रां विहाय तूर्णमेव ह ।उत्थितश्च यथार्थं वै स्वप्नं मेने ततः पुनः ॥७६॥कृत्वा मे कानकीं मूर्तिं यथादृष्टां त्वया सह ।पुनश्चक्रेऽश्वमेधं स विधिना मां प्रपूजयन् ॥७७॥अवभृथे पुनश्चाऽहं प्राप्तो दिव्यस्वरूपवान् ।त्वया साकं तदा लक्ष्मि स्नात्वा वारि च पावनम् ॥७८॥अश्वे पितरि चिक्षेप स्वयं नारायणो ह्यहम् ।स तु राजा वर्मधराऽभिधो विधूय पापकम् ॥७९॥पूर्वरूपं राजरूपं प्राप्तवान् द्रुतमेव ह ।साश्रुर्जातिस्मरो मां स तुष्टाव बहुगद्गदः ॥८०॥यशोवराऽभिधा राज्ञी श्रि! ते सत्कारमाचरत् ।देवसत्री गुरुस्तस्याः पुपूज मां परेश्वरम् ।८१॥षोडशोपसुवस्त्वाद्यैः प्रार्थयामास वै पुनः ।अजहारितवचनाद्भगवन्! समुपागतः ॥८२॥शापमुक्त्यै नृपस्याऽस्य वसाऽत्र भगवन्! सदा ।तथाऽस्त्वेवं मयोक्तश्च देवसत्री तपोधनः ॥८३॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।अनादिश्रीमेधनारायणनाम्ना स्थिरोऽभवम् ॥८४॥त्वया मेधावतीलक्ष्म्या साकं विद्रवखण्डके ।ततः पृथ्व्यां चाश्वमेधा यज्ञा वै बहवोऽभवन् ॥८५॥उच्चावचा मखा यथाशक्त्याऽकुर्वन् नराधिपाः ।विना युद्धं दिव्यमश्वं प्रपूज्य च पुनः पुनः ॥८६॥वर्तमानस्य मे भूमौ पूजितस्याऽश्वमेधके ।उत्सृष्टं तुरगं केचिन्नाऽबध्नन् मम भीतितः ॥८७॥सर्वे नृपा ज्ञातवन्तो नारायणोऽश्वमेधिनः ।पक्षे गृहे मखे चाऽऽस्ते प्रत्यक्षः परमेश्वरः ॥८८॥तस्य यज्ञे युद्धविघ्नं कर्तव्यं नहि सर्वथा ।युद्धेन विजयं कश्चिन्नैव यास्यति निर्णयः ॥८९॥इत्येवं तत्र कल्पे वै यज्ञा हिंसाविवर्जिताः ।दैवपाशवभोक्तारोऽभवन् मत्तोषकारिणः ॥९०॥अजहारितविप्रश्च साधुधर्मपरायणः ।श्रुत्वा मां त्वाययौ शीघ्रं श्रीपतिं पुरुषोत्तमम् ॥९१॥राजगृहं च राजानं मिलित्वा मां ततः परम् ।साधुरूपो मम भक्तो मत्सेवायां व्यराजत ॥९२॥प्रददौ स मयाऽऽज्ञप्तो वैष्णवान् श्रेयसे मनून् ।प्रजाभ्यो बोधयामास कारयामास मच्छ्रितान् ॥९३॥वर्मधरोऽपि वैराग्यात् प्राप्य दीक्षां तु साधवीम् ।उपादिदेश लोकेभ्यः प्रत्यक्षोपासनां हि मे ॥९४॥भेजे मां सततं साधुः साधुधर्मपरायणः ।राज्ञी यशोवरा चापि साध्वीदीक्षामवाप्य माम् ॥९५॥भेजे श्रिया युतं नित्यं साध्वीधर्मपरायणा ।नारीभ्यः प्रददौ सा तु दीक्षां मे वैष्णवीं सतीम् ॥९६॥भजनं कारयामास कारयामास वैष्णवीः ।साध्वीर्ब्रह्मस्वरूपस्था ब्रह्मशीलप्रपालिकाः ॥९७॥आकल्पान्तं स्थितश्चाहं त्वया साकं नरायणि ।स्मर नारायणीश्रि! त्वं सर्वं मेधावतीं निजाम् ॥९८॥एवमन्येऽवतारा मे जातास्ततोऽप्यनेकशः ।जानाम्यहं तु तान्सर्वान् धर्मकार्यपरायणान् ॥९९॥पठनाच्छ्रवणादस्य स्मरणाद्धारणादपि ।अश्वमेधफलं प्राप्याऽघानि निर्धूय सर्वथा ॥१००॥सकामश्चेद् बहून् स्वर्गान् भुक्त्वा चिरं ततः परम् ।यायाद् ब्रह्मपरं धाम भक्त्या मे सततं प्रियम् ॥१०१॥निष्कामस्य तु भक्तस्य भक्तिर्मे जायते द्रुतम् ।सर्वसौख्यैः सुसन्तुष्टो याति मत्परमं पदम् ॥१०२॥सर्वतीर्थफलं सर्वव्रतोत्थं च फलं तथा ।सर्वसेवाफलं चापि प्राप्नुयात् श्रवणाज्जनुम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः सप्तत्रिंशे वत्सरेऽजहारितशापेनाऽश्वीभूतस्य वर्मधरनृपस्य मोक्षार्थं तत्पुत्रकृताश्वमेधेऽनादि-श्रीमेधनारायणस्य मेधावतीश्रिया सहितस्य प्राकट्यमित्यादिनिरूपणनामैकत्रिंशोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP