संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २२७

द्वापरयुगसन्तानः - अध्यायः २२७

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां भक्तस्य शोभनाम् ।
कीशनकुलपालस्य नाम्ना देश्यावनस्य वै ॥१॥
देश्यावनोऽभवद् योगी चन्द्रावनस्य चात्मजः ।
गोमण्डल्याश्चापगायास्तटे गौवादिखेटगः ॥२॥
पित्रा पुत्रः शिक्षितो वै कीशनकुलपालने ।
कीशयोर्नर्तने चापि नकुलयोस्तु योधने ॥३॥
वानरो भवति राजा वानरो घर्घरीयुता ।
शाटीधरा च लज्जायां वर्तते कीशसन्निधौ ॥४॥
राज्ञीव वर्तते चापि नृत्यस्येव प्रशिक्षिता ।
नृत्यक्षतौ वानरस्तां ताडयत्येव रोषतः ॥५॥
बानरोऽपि ततः खातवंशयोर्मध्यरज्जुगः ।
नटवत् संप्रयात्येव स्थाल्या छत्रधरो नटः ॥६॥
वानरी डमरूवाद्यं वादयत्येव रंगगा ।
जनान् प्रदर्शयत्येषा यष्ट्या हस्तेन वानरम् ॥७॥
जना दृष्ट्वा मग्नचित्ता अर्पयन्ति धनाऽन्नकम् ।
अथाऽपि वानरश्चाऽधोऽवतीर्य शकटीं नवाम् ॥८॥
आयुक्त्वा तु शृगालौ द्वौ तत्राऽऽरोप्य तु वानरीम् ।
स्वयंभूत्वा सूतकर्मा चालयत्येव राजवत् ॥९॥
नकुलौ वानरीपार्श्वे पार्षदाविव तिष्ठतः ।
चामरे शोभिते धृत्वा वीक्षन्ते कौतुकं जनाः ॥१०॥
शृगालौ वहमानौ तौ कीशो यष्ट्या प्रताडनम् ।
यावत् करोति जम्बुकौ क्रुद्धौ प्रतिमुखौ धुरि ॥११॥    
भूत्वा निर्गत्य धुरतश्चोत्प्लुत्याऽऽक्रुश्य रोषतः ।
वानरेण समं सम्यग् युध्यतः संप्रपश्यताम् ॥१२॥
जनानां तत्र कीशेन युद्ध्यत्येकस्तु जम्बुकः ।
द्वितीयो वानरीकर्णे धृत्वा नीत्वाऽतिगोऽभवत् ॥१३॥
देश्यावनस्तदा त्यक्त्वा रंगं दुद्राव वानरीम् ।
आनेतुं च शृगालां तु तावत् कीशोऽपि धावति ॥१४॥
आनेतुं वानरीं तावज्जम्बुकोऽप्यनुधावति ।
नकुली पृष्ठतस्तत्र वंशयोरधिरोहतः ॥१५॥
प्रपश्यतो हि वानर्या हरणं क्रोष्टृणा कृतम् ।
युद्धं तत्र पुनस्तावद् देश्यावनकृतावनम् ॥१६॥
पुना रंगानयनं च शृगालस्य क्षमार्थनम् ।
भिक्षां जनेभ्यः पुरिकानास्ती तत्स्त्री प्रयाचते ॥१७॥
एवं देश्यावनो नित्यं नगरे खर्वटे पुरे ।
गत्वा गत्वा हास्यनाट्यं कारयत्येव पाशवम् ॥१८॥
तदुत्पन्नाऽन्नवस्त्राद्यैर्धनैः पिष्टादिभिः सदा ।
निर्वहत्येव सततं पत्न्या साकं प्रतिष्ठति ॥१९॥
पशूनां पोषणं चापि करोति दयया युतः ।
नैसर्गिको भक्तधर्मा देश्यावनः प्रगेऽन्वहम् ॥२०॥
स्नाति कृष्णं चित्रछविं नमति च प्रपश्यति ।
जलं फलं च धरति भोजनं पुरिकाकृतम् ॥२१॥
निवेद्य विष्णवे दत्वा पशुभ्यो निजयोषिते ।
ततो भुंक्ते नान्यथैव नारायणं तु मां स्मरन् ॥२२॥
लक्ष्मि सर्वत्र भक्ता मे संस्कृताश्चाप्यसंस्कृताः ।
येऽपि केऽपि भजन्ते मां यथा तथापि चेश्वरम् ॥२३॥
तेषां मनःप्रपूर्त्यर्थं प्रयते भक्तिकर्शितः ।
पुरिकाऽपि तु शूद्राणी स्नात्वा मां सेवतेऽन्वहम् ॥२४॥
शकट्यां मम मूर्तिं च रक्षत्येव छविं शुभाम् ।
नान्यधर्मं प्रजानाति जानाति शरणागतिम् ॥२५॥
छविस्थो भगवान् कृष्ण उद्धारं नः करिष्यति ।
तदर्पणं विना नैव भोक्तव्यं जलमित्यपि ॥२६॥
हरेर्भक्तिं विना वन्ध्यो नेतव्यो दिवसो न वै ।
अन्तरात्मा हरिश्चास्ते कीशे नकुले क्रोष्टरि ॥२७॥
नार्या नरे च सर्वत्र वृक्षे जडे च चेतने ।
एवं तौ बुध्यतो लक्ष्मि कीशनकुलपालकौ ॥२८॥
अतस्तौ पावनौ स्निग्धौ भक्तौ मे मम सम्मतौ ।
दिने खेलं विरचय्योत्पाद्योपार्जनभोजने ॥२९॥
यथालब्धे सुसन्तुष्टौ रात्रौ कुरुतः कीर्तनम् ।
डमरूवाद्यसहितं कृष्ण राम रमापते ॥३०॥
एवं नित्यं हि कुरुतो भजनं वै निशामुखे ।
पूर्णिमायां तु मिष्टान्नं निवेदयतो मत्पुरः ॥३१॥
पशुभ्यः सम्प्रदायैव ततस्तौ मत्प्रसादजम् ।
भुञ्जाते प्रतिमासं तौ व्रतं त्वेतन्निरन्तरम् ॥३२॥
तुलसीमिश्रितं वारि पिबतस्तौ सदा रमे ।
नहि भक्तौ कारणं वै वनं स्थलं गृहं धनम् ॥३३॥
स्नेहस्तु कारणं तत्र हृदयं भक्तिकारणम् ।
श्रद्धा च कारणं तत्र पुण्यं च कारणं महत् ॥३४॥
एवं गोमण्डलीतीरे वसतोश्चोभयोरपि ।
एकदा साधुसंघो वै यात्रार्थी पार्श्वतोऽगमत् ॥३५॥
तावुभौ सहसा गत्वा नेमतुः साधुपादयोः ।
विश्रान्त्यर्थं घटिकां चार्थयामासतुरीश्वरान् ॥३६॥
साधवोऽपि नदीतीरं वृक्षछायां विलोक्य तु ।
क्षणं विश्रान्तिमापुस्ते पपुर्जलं तु शीतलम् ॥३७॥
पूर्णिमाऽऽसीद् भाग्ययोगान्मिष्टमासीत् कृतं तदा ।
संयावं श्रीहरये वै निवेदितं समस्तकम् ॥३८॥
साधुभ्यो ददतुर्भक्त्या भुक्तवन्तश्च साधवः ।
मम स्मृतियुता लक्ष्मि संयावो वृद्धिमाप्तवान् ॥३९॥
मयाऽन्तर्यामिणा ज्ञात्वा संयावो वर्धितो ह्यति ।
विंशतिः साधवः सर्वे तृप्तास्तावान् स चाऽभवत् ॥४०॥
संयावः पूर्वमानो वै न्यूनतां नाऽव्रजन्मनाक् ।
साधवोऽपि विविदुर्वै भक्तेः प्रतापमेव तम् ॥४१॥
तन्मध्ये मण्डलीशो यः साधुर्नाम्ना सुधाऽमरः ।
उपादिदेश वाक्यानि मत्वा भक्तं तु पात्रकम् ॥४२॥
शृणु भक्त! सदा सेव्यो हरिश्च तस्य साधवः ।
नारायणः सत्सु चास्ते कामसंकल्पपूरकः ॥४३॥
न जातिर्न धनं राज्यं कृष्णप्रसादसाधनम् ।
स्नेहभक्तिः साधुसेवा कृष्णप्रसादसाधनम् ॥४४॥
साधवो भगवन्निष्ठा तथा श्रीभगवान् स्वयम् ।
क्षेत्रं वै नैमिषारण्यं कुण्ठितं यत्र मानसम् ॥४५॥
इन्द्रियाणि कुण्ठितानि निवृत्तानि स्थिराणि च ।
विषयेभ्यः परावृत्य जायन्ते शान्तिदानि च ॥४६॥
तत्र क्षेत्रे साघुरूपे तथा नारायणात्मके ।
सत्संगसलिले स्नात्वा पुण्ययज्ञान् समाचरेत् ॥४७॥
आशु सिद्धिर्भवेत्तत्र मोक्षधर्मस्य चोत्तमाम् ।
ध्यानं सिद्धिस्तथा शीघ्रं मुमुक्षूणां प्रजायते ॥४८॥
वानरा इन्द्रियाण्येव त्वहंमनसी जम्बुकौ ।
पूर्वकर्माणि नकुलास्तान् वशान् सन्नयेत् सदा ॥४९॥
धर्मे ज्ञाने च वैराग्ये भक्तौ साधुप्रसेवने ।
हरेर्मूर्तौ च तिष्ठेयुस्तथा वशान् विधापयेत् ॥५०॥
परोत्कर्षाऽसहिष्ण्वाख्यामिर्ष्यां त्यजेत् सदा सुधीः ।
मानं त्याज्यं प्रयत्नेन सुधिया सर्वरोधकम् ॥५१॥
सत्त्वेन भाव्यं सततं धर्मे रुचिर्यतो भवेत् ।
सत्त्वं प्रोक्तं कृतयुगं यत्र ध्यानं भवेद्धरेः ॥५२॥
रजोवेगान् रोधयेद्वै काम्यकर्मप्रपेरकान् ।
रजस्त्रेतायुगो बोध्यः सेवा कार्याऽत्र दैहिकी ॥५३॥
रजस्तमोभ्यां युक्तात्मा द्वापरात्मा प्रकथ्यते ।
तत्र लोजाऽर्जनतृष्णा त्यजेत् सेवां चरेद्धरेः ॥५४॥
तमोमयः कलिर्बोध्यो यत्र मायाऽनृतादिकम् ।
तत्र समागमः कार्यः सतां च भजनं मुहुः ॥५५॥
उच्चैः संकीर्तनं विष्णोः कलेर्वेगो निवर्तते ।
पूर्वकर्मानुसारेण प्रवर्तन्ते युगा हृदि ॥५६॥
अतो ध्यानं चात्मनिष्ठा माहात्म्यबुद्धिरुत्तमा ।
साधनीया विशेषेण युगधर्मादिरोधिनी ॥५७॥
श्रीकृष्णं भजतो भीतिर्नास्त्येव कालकर्मजा ।
कृतार्थोऽस्मीति मत्वैव सेवेत साधुसत्तमान् ॥५८॥
भक्तिं कुर्यान्नवधाऽपि सर्वस्वार्पणभावनाम् ।
कृष्णसाध्वाश्रयेणैव कलिर्नश्यति वै हृदः ॥५९॥
यत्र कृष्णनिवासोऽस्ति तत्र कलिर्न विद्यते ।
यत्र सन्तः स्थिताः सन्ति तत्र माया न विद्यते ॥६०॥
महाभागवतो धर्मो महावैष्णवतात्मक्ः ।
सर्वनिवेदनात्मा स पालनीयः सदा शुभः ॥६१॥
चौर्यं पिशुनता दम्भः कर्तव्या नैव सर्वथा ।
सतां समागमः कार्यो विश्वासोऽपि सदा सताम् ॥६२॥
मर्यादा च सतां पाल्या यथा कृष्णस्य सा तथा ।
सेवा सतां सदा कार्या यथा कृष्णस्य सा तथा ॥६३॥
येषु हिंसा मदश्चौर्यमनृतं कपटं तथा ।
नास्तिकत्वं च माया च ते न विश्वासभूमयः ॥६४॥
ते तु रुचिं न कुर्वन्ति सत्संगे सत्सु वा हरौ ।
द्रुह्यन्त्येव ते सततं कलिप्रियास्तु पापिनः ॥६५॥
अतो मुमुक्षुणा सेव्याः सन्तो नैव तु नास्तिकाः ।
सतां योगेन सर्वेश भजित्वा मुक्तिमर्जयेत् ॥६६॥
सत्संगे श्रद्धयाऽनन्यभावेन भजते तु यः ।
देहान्ते स व्रजत्येव धामाक्षरं हरेः परम् ॥६७॥
गोलोकं वापि वैकुण्ठं व्रजेन्नारायणाश्रमम् ।
श्वेतद्वीपं व्रजेद्वापि श्रीपुरं चाऽमृतं व्रजेत् ॥६८॥
दिव्यदृष्टिमतां तानि चान्तिके सन्ति सर्वथा ।
बाह्यदृष्टिमतां तानि धामानि सन्ति दूरतः ॥६९॥
देहे जीवो यथा तत्र जीवे श्रीपुरुषोत्तमः ।
वर्तते तन्मयीदृष्ट्या पश्येद्धामानि चान्तिके ॥७०॥
यत्र कृष्णोऽस्ति हृदये बहिर्वा तत्र सन्ति वै ।
सर्वधामानि कृष्णस्यैश्वर्याणि निखिलान्यपि ॥७१॥
एवंविज्ञास्तु ये भक्तास्ते श्रीकृष्णसमा मताः ।
तेषां दर्शनजं पुण्यं कृष्णदर्शनसदृशम् ॥७२॥
अन्यैः सर्वैरीदृशानां समागमेन मोक्षणम् ।
प्राप्यते दुर्लभं यद्वै सुलभं सत्प्रसादतः ॥७३॥
सत्सु स्नेहेन सन्तः स्वाश्रितान् नयन्ति चाऽक्षरम् ।
वासनाः क्षपयित्वैव नयन्ति परमं पदम् ॥७४॥
स्त्रीवर्गं नरवर्गं वा सकामं वापि देहिनम् ।
सन्तो विशोध्य दिव्यं तं कृत्वा नयन्ति चाऽक्षरम् ॥७५॥
शृणु देश्यावन! त्वं वै स्मर नाट्ये प्रभुं हरिम् ।
वंशरज्ज्वा धाम दिव्यमक्षरं स्मर सर्वथा ॥७६॥
रज्जुस्थे वानरे विष्णुं स्मर छत्रे तु छत्रकम् ।
वंशे पूर्वे तु गोलोकं द्वितीये तु विकुण्ठकम् ॥७७॥
स्मर दिव्यं रथं तं तु यत्र सा वानरी स्थिता ।
ब्रह्मरथं स्मर तत्र मायां विष्णोस्तु वानरीम् ॥७८॥
क्रोष्टारं चाप्यहंकारं द्वितीयं मानसं स्मर ।
ताभ्यां सा सज्जते माया तां समर्पय विष्णवे ॥७९॥
नकुलं तु गुरुं सर्वद्रष्टारं स्मर तत्र हि ।
रज्ज्वक्षरस्थितो दिव्यो गुरुस्त्वां तारयिष्यति ॥८०॥
डमरूत्थं महानादम् ओंनारायणमाधवम् ।
विधेहि सततं सर्वजीवानां श्रवणाय वै ॥८१॥
पश्य सेवात्मिकां भक्तिं रंगरक्षाकरीं नटीम् ।
पश्य भिक्षां मोक्षयात्रां नित्यद्रव्यमयीं तथा ॥८२॥
भिक्षाप्रदान् शरणे वै समायातान् शरीरिणः ।
पश्य साधोः संगमेन पावनान् दत्तचित्तकान् ॥८३॥
साधुं सुधामरं मां त्वं पश्याऽन्तर्यामिणं हरिम् ।
ज्ञानदं मोक्षदं कृष्णनारायणं हितार्थिनम् ॥८४॥
देश्यावनं निजात्मानं पश्य कीशादिपालकम् ।
स्वामिनं च नियन्तारं रंगखेलविधायिनम् ॥८५॥
रंगभूमिं पश्य जातिं देहं गेहं समस्तकम् ।
खेलान्तं पश्य मरणं विसर्जनं तु कर्मणाम् ॥८६॥
दर्शकानां मनोरञ्जनं तु पश्य शमादिकम् ।
एवं कृत्वा तव तृप्तिं जातां पश्य तु शाश्वतीम् ॥८७॥
इत्येवं नित्यमीक्षँस्त्वं परं पदं प्रयास्यसि ।
हृदये ब्राह्मीमुपनिषदं प्राप्य भयं नहि ॥८८॥
यावद्वै वासना चाऽस्ति तावत् खेलः प्रवर्तते ।
उपनिषन्निवासेन खेलः खेलो भवेत् सदा ॥८९॥
परा शान्तिः प्रवर्तेत देश्यावन तथाऽऽचर ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९०॥
हरे कृष्ण बालकृष्ण श्रीपते पुरुषोत्तम ।
भज नित्यं परमेशं त्वेवं समाहितो भव ॥९१॥
इत्युक्त्वा कमले साधुः समण्डलः सुपूजितः ।
प्रसन्नमानसो भूत्वा दत्वाऽऽशीर्वचनं ययौ ॥९२॥
अथाऽयं देश्यवचनो विलोक्य पात्रके धृतम् ।
प्रसादात्मकसंयावं सम्पूर्णं तु यथातथम् ॥९३॥
चमत्कारं महाश्चर्यं मेने कृपां हरेरपि ।
कुटुम्बयुग् बुभुजेऽपि प्रसादं तावदेव सः ॥९४॥
दिव्यदृष्टिरभवद्वै कुटुम्बसहितः खलु ।
अग्रे पार्श्वे पृष्ठतश्च हरिस्तस्याऽभितोऽभवत् ॥९५॥
यत्र पश्यति तत्रैव विश्वात्मानं प्रपश्यति ।
ऊर्ध्वेऽधो भूतले पात्रे वस्त्रे रथे च वानरे ॥९६॥
जम्बुके नकुले नट्यां परात्मानं प्रपश्यति ।
दिव्यभावोऽभवद्भक्तः कल्पितं लभते करे ॥९७॥
नारायणस्य मे मूर्तिः सर्वतो गोचराऽभवत् ।
कृपा सा मे गुरोः साधोश्चापि लक्ष्मि शुभा हि सा ॥९८॥
यया सर्वमस्य जातं ब्रह्मदर्शनमुत्तमम् ।
अथ वाक्सिद्धमाज्ञाय जनाश्चायान्ति संघशः ॥९९॥
कृत्वा तु दर्शनं तस्य भवन्ति पावना अपि ।
मन्त्रं गृह्णन्ति मे तस्माद् भक्ताद् वियन्ति वै ततः ॥१००॥
कृतकृत्याः प्रजायन्ते महाभागवतेक्षणात् ।
अथ काले समायाते त्वाविर्भूतोऽभवं पुरः ॥१०१॥
विमानेन सहितश्च पार्षदैश्च समन्वितः ।
त्वया साकं तथा लक्ष्मि दिव्यदेहानकारयम् ॥१०२॥
कीशनकुलक्रोष्टॄँश्च कीशपं कीशपां तथा ।
विमाने ताँश्चाधिरोहयित्वाऽनयं ममाऽक्षरम् ॥१०३॥
एवं लक्ष्मि ददौ मुक्तिं मुक्तमण्डलमध्यगाम् ।
मम प्रसादभोक्तृभ्यः सर्वेभ्यो भक्तियोगतः ॥१०४॥
पठनाच्छ्रवणादस्य मननाद्वर्तनात्तथा ।
भुक्तिं मुक्तिं लभेच्चापि दिव्यं स्वर्गं च शाश्वतम् ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने देश्यावनस्य कीशपालस्य सुधाऽमरसाधोः प्रसंगेन मोक्षणमित्यादिनिरूपणनामा सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥२२७॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP