संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ९४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ९४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं महतामाश्रयात् सदा ।महत्त्वं चापि कल्याणं जायते धर्मरक्षणम् ॥१॥सतां योगेन वै सर्वश्रेयांसि संभवन्ति हि ।अत्रार्थे ते कथयामि पुरावृत्तं शुभास्पदम् ॥२॥आजनाभमिदं वर्षं दशसाहस्रयोजनम् ।सह्याद्रेः पश्चिमं मात्रागस्कराख्यं च यावता ॥३॥सिंहारण्यं मध्यभागं भूभागं तीर्थमुत्तमम् ।गोकर्णाख्यं महर्षीणां निवासाढ्यमभूत् पुरा ॥४॥सगरस्य सुतैः खाता पृथिवी पश्चिमा हि सा ।दक्षिणा पृथिवी खाता ह्यष्टसाहस्रयोजना ॥५॥अवशेषोऽस्य खण्डस्य द्वे सहस्रेऽवशिष्यते ।पृथ्वीखातोत्तरं तीर्थे गोकर्णे चिरकालतः ॥६॥सामुद्रं जलमापन्नं भूमग्ना क्षारवारिभिः ।तीर्थं गोकर्णसंज्ञं च शारभं तीर्थमित्यपि ॥७॥सिंहारण्यं समस्तं च जलमग्नं ततोऽभवत् ।सार्धयोजनविस्तारं गोकर्णं भूतलं ह्यभूत् ॥८॥गोकर्णाख्यऋषेः क्षेत्रं हरावताररूपिणः ।तत्राऽसंख्यानि तीर्थानि मुनिदेवालयास्तथा ॥९॥अवसन् सिद्धसंघाश्च मुनयः संशितव्रताः ।निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम् ॥१०॥तत्क्षेत्रे सर्वदा लक्ष्मि प्रीत्या भूतगणैः सह ।देव्या च सकलैर्देवैर्नित्यं वसति शंकरः ॥११॥सिद्धिकामा वसन्ति स्म मुनयस्तत्र केचन ।अचिरेणैव तत्सिद्धिं प्राप्नुवन्ति स्म तद्बलात् ॥१२॥अम्भोधिसलिले मग्नं वीक्ष्याश्रमादि भूतलम् ।तपसां निधयः सन्तस्तथा प्रजाजना अपि ॥१३॥सह्याद्रिं पूर्वभागस्थं निलयर्थं समारुहन् ।वसन्तस्तत्र ते सन्तः सम्प्रधार्य परस्परम् ॥१४॥उद्धारोपायमत्यन्तश्रेष्ठं साधुसमाश्रयम् ।महेन्द्रादौ तपस्यन्तं रामं गन्तुं प्रचक्रमुः ॥१५॥मलयाचलवासाश्च तथा नीलाद्रिवासिनः ।देशभूवासिनश्चापि रामं गन्तुं प्रचक्रमुः ॥१६॥शुष्कसुमित्रधर्माद्या मुनयः संशितव्रताः ।ययुर्दिदृक्षवो रामं महेन्द्रमचलं प्रति ॥१७॥अतीत्य सुबहून् देशान् वनानि द्रोणमापगाः ।आसेदुरचलश्रेष्ठं ददृशूराममण्डलम् ॥१८॥प्रशान्तसर्वसत्त्वाढ्यं सर्वर्तुद्रुमशोभितम् ।आश्रमं सम्प्रविश्यैव ददृशुः परशुप्रभुम् ॥१९॥अजिने तु सुखासीनं शिष्यैः परिवृतं प्रभुम् ।ववन्दिरे महामौनं पुपूजाऽर्घ्यादिभिर्हरिम् ॥२०॥कृतातिथ्यानृषीन् रामः स्मितपूर्वमभाषत ।स्वागतं वो महाभागाः पावितोऽहं शुभागमैः ॥२१॥सेवां ममाऽर्हाम् ऋषयो दर्शयन्तु करोमि वै ।श्रुत्वा महर्षयः प्राहुर्गोकर्णाख्यं तु भूतलम् ॥२२॥खनद्भिः सागरजन्यैः पतितं सागराम्भसि ।उत्सारितार्णवजलं क्षेत्रं तत् सर्वपावनम् ॥२३॥उपलब्धुमभीप्सामो भवतस्तु कृपां कुरु ।विष्णोरंशो भवानास्ते साधुः सतां बलोदयः ॥२४॥भृगोः पुत्रस्यर्चिकस्य जमदग्निः सुतोऽमलः ।तस्य त्वं ब्रह्मधर्माऽसि समर्थोऽसि महाप्रभुः ॥२५॥तस्मात् कर्तुमशक्यं तत्ते किञ्चिन्नैव विद्यते ।वाञ्च्छितार्थप्रदं त्वां चाभियाचितुं समागताः ॥२६॥स त्वमात्मप्रभावेण समुत्सार्याऽर्णवोदकम् ।क्षेत्रं गोकर्णमित्याख्यं सिंहारण्ये जले प्लुतम् ॥२७॥दातुमर्हसि भगवन्नः सर्वानृषिसत्तमान् ।इति श्रुत्वा ततो रामः प्राह योग्यं तपोधनाः ॥२८॥करणीयं सतां कार्यं नाऽत्र कार्या विचारणा ।किन्तु शस्त्राणि सन्न्यस्य तपः कर्तुं समागतः ॥२९॥विना शस्त्रं तदसाध्यं किं कर्तव्यं दिशन्तु माम् ।शुष्काद्याः ऋषयः प्राहुः श्रुत्वा रामोदितं हिं तम् ॥३०॥सतां संरक्षणार्थाय शस्त्रसंग्रहणं तु यत् ।व्रतं प्रतिज्ञां धर्मं वा सत्यं पोषयति ध्रुवम् ॥३१॥न च्यावयते सत्याद्वा न धर्माद्वा व्रतान्न वा ।तस्मात् साधुर्हितार्थाय भवता ग्राह्यमायुधम् ॥३२॥तप एव महत्तच्च कृतं तेऽत्र भविष्यति ।धर्म एव महांस्तेन चरितस्ते भविष्यति ॥३३॥इत्युक्तः परशुध्रक् च विचार्य साधुरक्षणम् ।परं भागवतं धर्मं सशस्त्रः सह चाययौ ॥३४॥तपस्त्यक्त्वा सतां रक्षातपो धृत्वाऽम्बरे ययौ ।सह्याद्रिं चाययौ पश्चान्मलयाचलमाययौ ॥३५॥वरुणं त्वाह्वयामास मेघगम्भीरया गिरा ।अहं मुनिगणैः सार्धमागतस्त्वद्दिदृक्षया ॥३६॥तस्मात् स्वरूपधृक् मह्यं प्रचेतो देहि दर्शनम् ।पुनः पुनश्चापि समाहूतो यदा न चाययौ ॥३७॥निस्तोयमर्णवं कर्तुमियेष रुषितो हरिः ।आचम्य च धनुर्धृत्वाऽऽरोप्य ज्याघोषमाचरत् ॥३८॥स्वर्णपुंखं विशिखं च भार्गवं वह्निदैवतम् ।समन्त्रास्त्रं महाघोरं सन्दधे च मुमोच ह ॥३९॥ततश्चचाल वसुधा सशैलवनकानना ।प्रक्षोभं परमं जग्मुः सर्वलोकाश्च वार्धयः ॥४०॥सदिग्दाहाऽभ्रपटलैरभवन् संवृता दिशः ।अस्त्राग्निज्वालिता आपो विनाशं प्रययुस्तदा ॥४१॥बभूव वरुणो देवो गर्विष्ठोऽपि शराग्निना ।दग्धस्तूर्णं भस्मसाद्वै समुद्रः शुष्कतां ययौ ॥४२॥तावद् ब्रह्मादयस्तत्राऽऽययुस्तुष्टुवुरीश्वरम् ।अलं चाऽलं हरे शान्तिं गृहाण परमेश्वर ॥४३॥असाध्यं ते न वै किञ्चिच्छ्रीपतेः परमात्मनः ।वरुणो दग्धतां यातो जलं नष्टं प्रजायते ॥४४॥जलहीनं जगत् सर्वं नाशं क्षणात् प्रयास्यति ।प्रसीद त्वं कृपासिन्धो निवारयाऽस्त्रमुल्बणम् ॥४५॥उज्जीवय च वरुणं जलहेतुं सुरं प्रभो ।नमस्ते रुद्ररूपाय संकर्षणाय ते नमः ॥४६॥महाकालस्वरूपाय मृत्युरूपाय ते नमः ।सर्वसंहारकृत्कृष्णसाधुरूपाय ते नमः ॥४७॥क्षत्रान्तकाय देवानां हिताय च नमो नमः ।सतां हिताय रामाय श्रीहरये ते नमः ॥४८॥इतिस्तुतो हरिस्तत्र वीक्ष्य देवान् पुरःस्थितान् ।शान्तिमासाद्य वह्न्यस्त्रं निजग्राह निवृत्तये ॥४९॥संहृत्याऽस्त्रं स्थितो रामो वरुणो नाशतां गतः ।उज्जीवनार्थं तस्यैवाश्विनीबालौ सुरादयः ॥५०॥सस्मरुस्तूर्णमायातौ ब्रह्माज्ञया रसौषधैः ।वारुणं भस्मचयनं सिषिचतुः समन्त्रकैः ॥५१॥वरुणो भस्मतस्तत्रोज्जीवनं प्राप्य चोत्थितः ।कृताञ्जलिर्भीत एव पपात रामपादयोः ॥५२॥उवाच रक्ष मां राम कृपया शरणागतम् ।अपराधमिमं नैव प्रगणय्य प्रशाधि माम् ॥५३॥एवं ब्रुवाणं वरुणं रामः प्राह जलेश्वरम् ।त्वत्तोये मेदिनीं पूर्वं खनद्भिः सगरात्मजैः ॥२४॥अधो निपातितं तीर्थं गोकर्णमृषिसेवितम् ।एषां वासाय तत् क्षेत्रं प्रदेहि पूर्ववच्छुभम् ॥५५॥मा जलं तत्र चायातु योजनानां शतद्वये ।गोकर्णे चापि च शूर्पारके तीर्थे कदाचन ॥५६॥भवतीर्थे सतीतीर्थे तीर्थे तथा च शारभे ।श्रुत्वा वरुण ओमित्यंगीकृत्य संप्रपूज्य च ॥५७॥भुवं दत्वा जीवनं च लब्ध्वा ययौ सुरैः सह ।व्यस्मयन्त तु मुनयो दृष्ट्वा रामस्य विक्रमम् ॥५८॥ऋषयः स्थानमासाद्य प्रसेदुश्चातिहर्षिताः ।कृतकृत्या भशं राममाशिषा समपूजयन् ॥५९॥तैराज्ञप्तो ययौ रामो महेन्द्रपर्वतं प्रति ।तत्तोयनिःसृते क्षेत्रे न्यूषुर्महर्षयः प्रजाः ॥६०॥द्वीपाश्चान्तर्जले ते च वर्तन्ते तीर्थरूपिणः ।मुनयो व्योममार्गेण विचरन्ति हि योगिनः ॥६१॥इत्येवं साधुयोगेन रामयोगेन पद्मजे ।त्वत्पिता प्रददौ भूमिं जीवनं वरुणाय च ॥६२॥हरिः प्रददौ तत्रैव तीर्थलाभो भवत्पुनः ।सर्वं ददाति साधुर्वै भुक्तिं मुक्तिं समुन्नतिम् ॥६३॥परोपकारशीला वै साधवो ह्यनिवर्तिनः ।शृणु चान्यां कथां चापि साधुजन्यां हितावहाम् ॥६४॥सूर्यपुत्रो बभूवाऽपि चेक्ष्वाकुर्नृपसत्तमः ।अयोध्यायां च तद्वंशे कुवलाश्वोऽभवन्नृपः ॥६५॥धार्मिकश्च महाशूरो यज्वा साधुप्ररक्षकः ।हिमालयस्य निकटे ह्युत्तंकस्याऽऽश्रमान्तिके ॥६६॥धुन्धुनामा मधोः पुत्रो राक्षसोऽभवदुल्बणः ।तन्नाशार्थं कुवलाश्वं युयोजोत्तंक एव ह ॥६७॥सज्जोऽभवत् कुवलाश्वो धुन्धुं नाशयितुं सरुट् ।सहस्रैरेकविंशत्या पुत्राणां सह सत्वरः ॥६८॥तमाविशत्ततो विष्णुर्भगवान् स्वेन तेजसा ।उत्तंकस्य नियोगेन लोकानां हितकाम्यया ॥६९॥दिव्यैः पुष्पैश्च तं देवाः समन्तात् समवाकिरन् ।धुन्धुश्चासीद् वालुकायामन्तस्तले हि भूतले ॥७०॥तत्र गत्वा च राजा स्वतनयैः सह भूतलम् ।विशालं खनयामास धुन्धुरासादितस्तले ॥७१॥धुन्धुर्मुखेन वह्निं वै ह्यवासृजद् भयंकरम् ।वह्निना कुवलाश्वस्य पुत्रा दग्धाः समस्ततः ॥७२॥त्रयो दूरं स्थितास्तत्रोर्वरिता जीवसंयुताः ।कुवलाश्वो जलास्त्रेण शमयामास चानलम् ॥७३॥धुन्धुं च मारयामास शैवाऽस्त्रेण हिं सत्वरम् ।उत्तंकं दर्शयामास मृतं तं राक्षसं नृपः ॥७४॥उत्तंकोऽपि प्रसन्नोऽभूद् वरं ददौ तु भूभृते ।ददतश्चाऽक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् ॥७५॥धर्मे रतिं च सततं स्वर्गे वासं तथाऽक्षये ।पुत्राणां चाऽक्षयान् लोकान् ये चात्र राक्षसा हताः ॥७६॥उत्तंकस्य प्रसादेन चाययुर्देवतास्तदा ।विमानानि समादाय पुत्रास्ते चैकविंशतिः ॥७७॥सहस्राणि दिव्यदेहा भूत्वा विमानसंस्थिताः ।ययुः स्वर्गं पश्यतां वै सर्वेषां जयनादिनाम् ॥७८॥एवमृषेः प्रतापेन राजा विजयमाप्तवान् ।पुत्राणां चाऽक्षयं स्वर्गं साधोः प्रतापतोऽभवत् ॥७९॥अथैवं कुवलाश्वस्य दृढाश्वो जीववान् सुतः ।तस्य वंशेऽभवद्राजा सत्यव्रतो महाबलः ॥८०॥स च विदर्भनृपतेर्विवाहे मण्डपे ययौ ।पाणिग्रहणकाले वै युद्धं कृत्वा महाबलः ॥८१॥कामाद् बलाच्च मोहाच्च संहर्षेण बलेन च ।भाविनोऽर्थस्य च बलाद् भार्यां जहार मण्डपात् ॥८२॥देवान् विप्रानवमत्य पापं वै कृतवान् स च ।तेन त्रय्यारुणाख्येन पित्रा त्यक्तो ह्यधार्मिकः ॥८३॥कथितश्चापि वासाय श्वपाकैः सह वै बहिः ।उवासाऽपि बहिर्गत्वा श्वपाकाऽवसथान्तिके ॥८४॥अथ द्वादशवर्षाणि नाऽवर्षत् पाकशासनः ।विश्वामित्रस्तदा देशे तपश्चकार दारुणम् ॥८५॥विश्वामित्रस्य पत्नी च बहुपुत्रसमन्विता ।कुटुम्बभरणार्थाय व्यक्रीणान्मध्यमं सुतम् ॥८६॥ज्ञात्वा सत्यव्रतस्तद्वै मोक्षयामास तं सुतम् ।दत्वा बहूनि चाऽन्नानि सत्यबलोद्भवानि च ॥८७॥एवं सत्यव्रतस्तस्या भरणं ह्यकरोत्तदा ।विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमित्यपि ॥८८॥विश्वामित्रसुतो यश्च मोचितो गालवो हि सः ।महर्षिश्चाऽभवच्छूरो व्रतभक्तिसमन्वितः ॥८९॥तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया ।विश्वामित्रकलत्रादीन् सत्यव्रतो बभार ह ॥९०॥वसिष्ठश्चाऽभवद् राज्ये त्रय्यारुणिनृपस्य वै ।अयोध्यायां सत्यव्रते विमना इव सर्वथा ॥९१॥इतिहेतोर्वसिष्ठे वै सत्यव्रतस्य भावना ।नाऽऽसीन्मनागपि तत्र भाविनोऽर्थस्य वै बलात् ॥९२॥सत्यव्रतोऽथ वै रोषाद् वसिष्ठस्याश्रमं ययौ ।भोज्यादीनि समग्राणि जहार बालवत्तदा ॥९३॥भोजयामास तत्सर्वं विश्वामित्रस्य चात्मजान् ।वसिष्ठस्तं तदा प्राह त्रिपापस्त्वं सदाऽसि वै ॥९४॥कन्यास्त्रीहरणं त्वेकं चाण्डालेन निवेशनम् ।मम भोज्यादिहरणं त्रिशंकुस्त्वं ततो मतः ॥९५॥विश्वामित्रस्तु तपसा निवृत्तो ज्ञातवानिदम् ।प्रसन्नोऽभूद् वरं प्रादाद् देववत् प्रसुखी भव ॥९६॥अथ वव्रे सत्यव्रतस्त्रिशंकुः पुण्यवानपि ।सशरीरो व्रजे स्वर्गं भुक्त्वा राज्यमकण्टकम् ॥९७॥त्रय्यारुणौ मृते राज्येऽभ्यषिचत् तं त्रिशंकुकम् ।राज्यं कृत्वा ययौ तेन वर्ष्मणा दिवमेव सः ॥९८॥मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।विश्वामित्रः सशरीरं दिवमारोपयन्नृपम् ॥९९॥संभवोऽसंभवस्याऽयं तदद्भुतमिवाऽभवत् ।विश्वामित्रप्रसादेन त्रिशंकुर्दिवि राजते ॥१००॥प्रतापोऽयं महानास्ते साधोः ऋषेस्तपस्विनः ।तस्माद्वै साधवः सेव्या उद्धर्त्तारो हि पापिनाम् ॥१०१॥तस्य सत्यरता भार्या सुषुवे हरिचन्द्रकम् ।रोहितस्तस्य पुत्रश्च विश्वामित्रकृपालयाः ॥१०२॥तारिता बहुकष्टैश्च विश्वामित्रेण धीमता ।शाश्वतकीर्तयो लोके कृताः स्त्रीपुत्रभूभृतः ॥१०३॥एतत्ते कथितं लक्ष्मि साधोराश्रयणे सदा ।कल्याणं विविधं चापि जायते मोक्षणं ह्यपि ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने परशुरामाश्रयेण सिंहारण्यवासिनां सागरमग्नस्य गोकर्णतीर्थस्य पुनर्लाभः, उत्तंकर्षेः कृपया कुवलाश्वस्य धुन्धुमारत्वम्, विश्वामित्रस्य कृपया सत्यव्रताख्यत्रिशंकोः सदेहस्वर्गगामित्वमित्यादिसाधुप्रतापवर्णननामा चतुर्नवतितमोऽध्यायः ॥९४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP