संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं घटलक्ष्मीव्रतं तव ।घटलक्ष्मीव्रतिनस्तु क्रमात् सप्तदिवं भवेत् ॥१॥भूलोकोऽयं दिवं प्रोक्तः सम्पत्सुखप्रमोदनैः ।भुवर्लोकोऽपि च दिवं सिद्धिमतां हि योगिनाम् ॥२॥स्वर्गादयो दिवं सन्ति सत्यान्ताः सर्व एव ते ।देवलोका हि सप्तैते यतो दिव्यगतिप्रदाः ॥३॥पर्यायेण तु सर्वेषामाधिपत्यं तव व्रतात् ।घटलक्ष्मीव्रतादेव जायते नात्र संशयः ॥४॥इह लोके शुभं रूपमायुः सौभाग्यमुत्तमम् ।लक्ष्मीश्च विपुला सम्पज्जायते ते व्रतादिह ॥५॥शृणु चात्र कथां दिव्यामगस्त्यस्य महात्मनः ।पुरा वह्निः समाज्ञप्तो महेन्द्रेण सुरद्विषाम् ॥६॥विनाशार्थं ततो वह्निर्ददाह कोटिदानवान् ।निर्दग्धेभ्योऽवशिष्टा ये दानवास्तु सहस्रशः ॥७॥पलायमानास्त्रस्ताश्च समुद्रं विविशुः खलाः ।तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः ॥८॥विरोचनश्च ते चाऽब्धौ सन्निवेशमकुर्वत ।अशक्तास्ते चेति मत्वा वह्निना समुपेक्षिताः ॥९॥अथ कालान्तरे दैत्या बलमवाप्य वै पुनः ।सम्पीडयन्ति ते देवान् मनुष्यान् सह जंगमान् ॥१०॥विप्रान् साधून् प्रसम्पीड्य प्रविशन्ति पुनर्जलम् ।एवं वर्षसहस्राणि वीराः पञ्च च सप्त च ॥११॥जलदुर्गबलाल्लक्ष्मि पीडयन्ति जगत्त्रयम् ।ततः पुनर्महेन्द्रोऽपि वह्नये समुपादिशत् ॥१२॥अचिराद् दैत्यनाशार्थमब्धिरेष विशुष्यतु ।यस्मादस्मद्द्विषामेषः शरणं वरुणालयः १३॥तस्माद् भवान् द्रुतमस्य क्षयं विधातु शोषणात् ।अग्निः प्राह ततः शुक्रं समुद्रशोषणं प्रति ॥१४॥अधर्म एव देवेन्द्र सागरस्य प्रशोषणम् ।अस्य योजनमात्रेऽपि जीवकोटिशतानि वै ॥१५॥निवसन्ति हि जीवानां महान् प्रसंक्षयो भवेत् ।पापं चाऽसीमकं स्यान्मे तत्कथं प्रकरोम्यहम् ॥१६॥एवं श्रुत्वा महेन्द्रस्तु प्राह रोषाद् वचस्तदा ।न धर्माऽधर्मसंश्लेषं प्राप्नुवन्त्यमरा दिवि ॥१७॥भवान् दाहकरो देवः पापलेपविवर्जितः ।तथापि नाऽऽज्ञां वहसे शषामि मानुषो भव ॥१८॥अथाह पवनं चेन्द्रस्त्वं प्रशोषय सागरम् ।पवनोऽपि तथा प्राह पापकृत्यं करोमि न ॥१९॥तदेन्द्रस्तं शशापापि भव त्वं मानुषोऽनिल ।एवं शापं गतौ तौ च वशिष्ठाऽगस्त्यनामकौ ॥२०॥वह्निर्जातोऽगस्त्यमुनिर्वायुर्वसिष्ठ एव च ।कुंभाद् द्वौ सहजातौ वै मित्रावरुणवीर्यतः ॥२१॥उर्वशी श्रीनरनारायणपुत्र्यप्सरोवरा ।मित्रेणाऽऽमन्त्रिता कामाद् गच्छन्ती चाम्बरे यदा ॥२२॥पश्चाद् दृष्टा वरुणेन धृता कामार्थमित्यपि ।किन्तु सा सत्यमार्गस्था वरुणं नाभ्यनन्दत ॥२३॥मित्रेणाऽहं वृता पूर्वं तस्य भार्या भवामि ह ।ते भार्या धर्मतो नास्मि ह्यधुना वरुण प्रभो ॥२४॥आह तां वरुणश्चित्तं मयि न्यस्य प्रगम्यताम् ।सापि मित्रं गता मित्रः शुश्राव च तयोदितम् ॥२५॥चित्तन्यासं समाकर्ण्य क्रुद्धस्तत्याज तां तदा ।वेश्याधर्मं श्रितवती द्वाभ्यां त्यक्ता हि सा ययौ ॥२६॥संकल्पजं धातुमुग्रं मित्रश्च वरुणोऽपि च ।उर्वशीदर्शनोत्थं वै घटमध्ये ससर्जतुः ॥२७॥एतस्मिन्नेव काले तु निमिना श्रीवसिष्ठकः ।शप्तो विदेहभावत्वे विदेहः सन् घटे स्थितः ॥२८॥अगस्त्योऽपीन्द्रशापेन घटे तत्र स्थितोऽभवत् ।अग्निरगस्त्यो घटत उत्पन्नस्तत्र बालकः ॥२९॥वायुर्वशिष्ठो घटत उत्पन्नस्तत्र बालकः ।वरुणांऽशोऽगस्त्यकश्च मित्रांशस्तु वसिष्ठकः ॥३०॥उत्पन्नौ जातमात्रौ तौ जातिस्मरौ प्रवेदिनौ ।चक्रतुः शापमुक्त्यर्थं घटलक्ष्मीव्रतं ह्युभौ ॥३१॥मण्डपं कदलीस्तभैः कारयामासतुश्च तौ ।हारतोरणमालाभिर्वस्त्रपुष्पफलादिभिः ॥३२॥मृत्तिकाकलशाद्यैश्च कुण्डवेदीभिरन्वितम् ।होमसामग्रिकायुक्तं काष्ठासनादिराजितम् ॥३३॥पूजोपहारयुक्तं च स्वर्णकलशराजितम् ।मृत्तिकाया घटं वारियुतं स्वयोनिमुत्तमम् ॥३४॥मण्डपे चानयामासतुश्च द्वौ तौ पुपूजतुः ।मातरं श्रीमहालक्ष्मीमाह्वयामासतुश्च तौ ॥३५॥स्थापयामासतुस्तत्र घटे सौवर्णकारिताम् ।पञ्चामृतैर्जलैश्चापि स्नापयामासतुस्ततः ॥३६॥भूषयामासतुः शृंगारयामासतुरीश्वरीम् ।वेषयामासतू रक्ताम्बराद्यैर्मातरं हि ताम् ॥३७॥पूजयामासतुः पुष्पाक्षतकुंकुमकज्जलैः ।सर्ववस्तुभिरभ्यर्च्याऽऽरार्त्रिकं चक्रतुस्तथा ॥३८॥मिष्टान्नं पायसान्नं च भोजयामासतुर्मुदा ।जलं ताम्बूलकं चाप्यर्पयामासतुरादरात् ॥३९॥सुवर्णकलशं पार्श्वे माल्यवस्त्रविभूषितम् ।पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम् ॥४०॥तिलपत्रफलयुक्तं स्थापयामासतुश्च तौ ।अङ्गुष्ठमात्रं पुरुषं परमं ब्रह्म शाश्वतम् ॥४१॥अनादिश्रीहरिं मां स्थापयामासतुरत्र च ।धान्यानि वस्त्रभूषाश्च पात्ररत्नानि सर्वथा ॥४२॥विन्यस्य पूजयामासतुश्च गां वत्सिकायुताम् ।सर्वाभरणभूषाढ्यां शृंगखुरैः सुवर्णजाम् ॥४३॥सकांस्यदोहपात्राढ्यां घण्टाऽऽभरणभूषिताम् ।पूजयामासतुश्चापि पुष्पाञ्जलिं न्यवापतुः ॥४४॥ततः प्रसन्ना माता श्रीघटलक्ष्मीर्महासती ।प्रत्यक्षाऽभूत्तयोरग्रे वरार्थं तौ न्ययोजयत् ॥४५॥वव्राते तौ वरं श्रेष्ठं मातस्तव प्रसादतः ।जन्मनोऽस्माद् भवेन्मुक्तिर्मानुषात्तत् तथा कुरु ॥४६॥लक्ष्मीः प्राह तदागस्त्यं दैत्या वसन्ति वारिधौ ।अब्धिपानोत्तरं मुक्तिर्मानुषात्ते भविष्यति ॥४७॥वसिष्ठोऽयं दिव्यदेहस्त्वया साकं भविष्यति ।लक्ष्मीः प्राह पुनश्चापि वरार्थं च तदा मुनिः ॥४८॥वसिष्ठः सम्प्रययाचे घटलक्ष्मीव्रतं शुभम् ।अगस्त्योदयदिवसे प्रातः शुक्लतिलादिभिः ॥४९॥तीर्थजलैः स्नानमाप्तः शुक्लाम्बरधरो गृही ।मृद्घटे वा स्वर्णघटे लक्ष्मीं त्वां पूजयेत्तु यः ॥५०॥श्रीहरिं च वसिष्ठं चाऽगस्तिं च पूजयेत्तु यः ।आसप्तरात्रं वापि च सप्तदशसमाश्च वा ॥५१॥पूजयेदर्घमप्यत्र दद्यात्तस्य क्रमात् खलु ।भूर्लोके च भुवर्लोके स्वर्गे महरि वै जने ॥५२॥तपोलोके सत्यलोके वासो भवेच्चिरं खलु ।कल्पं कल्पं प्रभुक्त्वा स भोगान् यायात्ततोऽक्षरम् ॥५३॥सप्ताऽर्घ्यकर्ता प्राप्नुयात् सप्तलोकान् समृद्धिकान् ।'नमो लक्ष्म्यै महालक्ष्म्यै विष्णुपत्न्यै नमो नमः ॥५४॥अर्घ्यं गृहाण सर्वेशि देहि सौख्यानि सर्वशः' ।'नमो नारायणाय श्रीपतये हरये नमः ॥५५॥अर्घ्यं गृहाण भगवन् देहि सौख्यानि सर्वशः' ।'काशपुष्पप्रतीकाशावग्निमारुतसंभवौ ॥५६॥मित्रावरुणयोः पुत्रौ कुंभयोनी नमोऽस्तु वाम्' ।एवमर्घ्यं च पूजां च पुष्पाञ्जलिं समर्पयेत् ॥५७॥तस्य लोकाः शाश्वतास्ते लक्ष्मि भवन्तु सर्वदा ।यावदायुश्च यः कुर्यात्तस्य वासोऽक्षरे भवेत् ॥५८॥इत्यर्थिता वशिष्ठेन कुंभलक्ष्मीः प्रसूस्तदा ।तथास्त्विति प्राह ताभ्यां शीघ्रं लीनाऽभवत् प्रसूः ॥५९॥मुनी कृत्वा परिहारं तेपतुर्दुश्चरं तपः ।ततः कालेन दैत्यानां वीक्ष्योपद्रवमुल्बणम् ॥६०॥अगस्त्यः पीतवानब्धिं दैत्या नाशं ययुस्तदा ।इन्द्रादिदेववृन्देन हता नष्टाः सुरद्विषः ॥६१॥ततो देवाः प्रसन्ना वै ब्रह्माद्याश्चाययुर्मुनी ।यत्र तपस्तेपाते तौ वरार्थं प्रेरितौ च तैः ॥६२॥अगस्त्यश्च वरं वव्रे यदभीष्टं तदाऽभवत् ।यावद् ब्रह्मसहस्राणां पञ्चविंशतिकोटयः ॥६३॥वैमानिकौ भविष्यावो द्वावावां स्वर्गगामिनौ ।वसिष्ठः सप्तमध्ये स्यादगस्त्यो दक्षिणापथे ॥६४॥अस्मत्तारोदये कुर्याद् यः कश्चित् पूजनं तु नौ ।स सप्तलोकसम्राड् वै पर्यायेण भवेदिति ॥६५॥देवाः प्राहुस्तथाऽस्त्वेव ययुस्ते च यथागतम् ।वसिष्ठागस्त्यकौ चापि मलयाद्रौ गतौ तदा ॥६६॥ततः कालान्तरेऽगस्त्यं पर्शुरामः प्रतापवान् ।समुद्रस्य प्रपानार्थं सर्षिगणो न्यवेदयत्। ॥६७॥गोकर्णतीर्थभूम्यर्थं तदाऽगस्त्यः पुनः पपौ ।एवं कृत्वा महत्कार्यं स्वर्गं ययतुस्तौ मुनी ॥६८॥इत्येतत् कथितं लक्ष्मि घटलक्ष्मीव्रतं तव ।सप्तदिनं फलाहारात्मकं पूजात्मकं तव ॥६९॥अगस्त्यस्योदये कार्यं भुक्तिमुक्तिफलप्रदम् ।एवं लक्ष्मि तव पूजां भाद्रपदेऽष्टमीदिने ॥७०॥मार्गशीर्षे च वैशाखे ऊर्जे वा शुक्लपक्षके ।मण्डपोद्यानसंयुक्तामुद्यापनसमन्विताम् ॥७१॥करिष्यन्ति नरा नार्यो यास्यन्ति ते परां गतिम् ।पञ्चगव्येन क्षीरेण पुष्पगन्धोदकेन च ॥७२॥मधुना स्नापयेत्त्वां सम्पूजयेत् फलपुष्पकैः ।शृंगारयेद् वेषयेच्च विभूषयेन्नीराजयेत् ॥७३॥भोजयेच्च ततः पुष्पाञ्जलिं दद्यात् सुमूर्तये ।क्षमां याचेत च नमेत् प्रार्थयेद् गुरवेऽर्पयेत् ॥७४॥ 'महालक्ष्म्यै नमः पादौ तव गुल्फौ नमः श्रियै ।शोकहन्त्र्यै नमो जङ्घे रमायै जानुनी नमः ॥७५॥ऊरू मंगलकारिण्यै वक्षःस्थल्यै नमः कटिम् ।पद्मायै नम उदरमुरः कामश्रियै नमः ॥७६॥करौ सौभाग्यलक्ष्म्यै ते बाहूदरमुखं श्रियै ।कमलायै नमो नासां पद्मिन्यै लोचने नमः ॥७७॥पुष्ट्यै ललाटमलकान् हिरण्यायै शिरो नमः ।हरिण्यै सुखदालक्ष्म्यै ललितायै नमो नमः ॥७८॥नारायण्यै वासुदेव्यै सम्पदायै नमोऽस्तु ते ।सर्वमंगलमांगल्यं देहि मे मातरीश्वरि ॥७९॥सर्वमंगलमांगल्यव्रतेन तव पद्मजे ।ममेष्टं सर्वमेवाऽस्तु कृपया तव चाब्धिजे ॥८०॥गीतमंगलनिर्घोषान् कारयेद् यजमानकः ।सुवासिन्यः कन्यकाश्च कुर्युर्गीतानि तत्र च ॥८१॥पूजयेयू रक्तवस्त्रै रक्तमाल्यानुलेपनैः ।कुसुमैरक्षतैर्वार्भिर्नमस्कारैः प्रभोजनैः ॥८२॥सिन्दूरकुंकुमतैलसारकस्तूरिकाऽञ्जनैः ।एवं सम्पूज्य तां मूर्तिं दद्याच्छ्रीगुरवे शुभाम् ॥८३॥गुरुं सम्पूजयेच्चापि कमलैश्चन्दनादिभिः ।परिहारं ततः कुर्याद् भोजयेद् बालबालिकाः ॥८४॥सर्वमंगलमांगल्यलक्ष्मीव्रतमिदं परम् ।यः कुर्यात्तस्य मांगल्यं बहुधा वै वसेद् गृहे ॥८५॥सर्वपापविनाशश्च सौभाग्यारोग्यवर्धनम् ।सर्वामोदप्रमोदेष्टानन्दसौख्यप्रदं व्रतम् ॥८६॥अथाऽप्यन्यद् व्रतं लक्ष्मि वदामि सांख्ययौगिकम् ।सांख्ययोगकृतदीक्षायुतां त्वां तत्र पूजयेत् ॥८७॥पूर्णिमायां तथा चैकादश्यां शुक्ले तु पक्षके ।सर्वमासेषु सौवर्णां कृत्वा लक्ष्मीं शुभाननाम् ॥८८॥रक्ताम्बरां रक्तलेपां रक्तचन्दनचर्चिताम् ।पाटलां त्वां रत्तवर्णासने सम्यक् प्रपूजयेत् ॥८९॥रक्तकुंकुमसलिलैः स्नापयेत् त्वां विभूषयेत् ।रक्तपुष्पाम्बरै रक्तहारै रक्त्ग्फलादिभिः ॥९०॥रक्तपुष्पैः पूजयेच्च रक्तां नारायणे मयि ।भोजयेत्पूजयेच्चापि नीराजयेन्नमेत्तथा ॥९१॥प्रार्थयेद् पूजिका त्वां च सांख्ययोगव्रतस्थिता ।रक्तवस्त्रे महालक्ष्मि रक्ते नारायणे स्थिते ॥९२॥स्वास्थ्यं त्यागं महाशान्तिं हरेर्योगं प्रदेहि मे ।अन्येभ्यश्च विरक्ताऽहं रक्ताऽहं श्रीपतौ प्रभौ ॥९३॥सांख्ययोगमहालक्ष्मीव्रतं तेऽत्र करोम्यहम् ।अनेन मम सौभाग्यं तवेव भवताद्धरौ ॥९४॥सर्वविघ्नविनाशोऽस्तु सर्वानन्दा भवन्तु मे ।सर्वे रसाः सर्वश्रेयःकल्याणानि भवन्तु मे ॥९५॥इत्यभ्यर्थ्य दिशेल्लक्ष्मीं गुरवे कानकीं तथा ।रत्नभूषाम्बरधान्यपात्रादीनि समर्पयेत् ॥९६॥एवं व्रतं प्रकर्त्र्यास्तु हरेर्दास्यं प्रपद्यते ।भुक्तिर्मुक्तिर्भवेद्धस्तगता नारायणाश्रयात् ॥९७॥सोपवासं प्रकर्तव्यं सांख्ययौगव्रतं त्विदम् ।सर्वपापहरं दिव्यदेहप्रदं हरिप्रियम् ॥९८॥हरिप्रिया भवेत् साध्वी व्रतकर्त्री विदेहिनी ।चमत्कारमयी दिव्याऽक्षरधामगता भवेत् ॥९९॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने घटलक्ष्मीव्रतस्याऽगस्त्यकृतस्य सर्वमंगलमांगल्यलक्ष्मीव्रतस्य, सांख्ययोगलक्ष्मीव्रतस्य च निरूपणनामा सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP