संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १४४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १४४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४४ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-युगधर्मा हरे नित्या आहोस्वित् परिवर्तिनः ।युगेऽन्ये चान्ययुगजा प्रवर्तन्ते न वा वृषाः ॥१॥श्रीपुरुषोत्तम उवाच-युगधर्मा रमे नित्या युगो धर्मात्मको हि सः ।किन्तु बलिष्ठपुरुषैर्विवर्त्यन्तेऽन्ययौगिकाः ॥२॥कल्मषाः कलिधर्मा वै विवर्त्यन्ते ऋतंभरैः ।देहधर्मा विवर्त्यन्ते बलिष्ठैर्योगिभिस्तथा ॥३॥कालधर्मा विवर्त्यन्ते सतीभिः साध्विकादिभिः ।दोषधर्मा विवर्त्यन्ते सिद्धैश्च साधुभिस्तथा ॥४॥देशधर्मा विवर्त्यन्ते समर्थाचार्यपुंगवैः ।प्रजाधर्मा विवर्त्यन्ते राजभिश्च प्रशासकैः ॥५॥यतिधर्मा विवर्त्यन्ते चमत्कार्यवतारकैः ।कन्याधर्मा विवर्त्यन्ते समाजैर्लोकपूजितैः ॥६॥उत्सवाद्या विवर्त्यन्ते सिद्धवाग्भिर्जनैरिह ।वर्णधर्मा विवर्त्यन्ते वर्णाग्र्यनीतिवेदिभिः ॥७॥आश्रयाः परिवर्त्यन्ते त्यागिविदेहिभिर्जनैः ।मानसानि विवर्त्यन्ते त्वाकर्षणपरैर्जनैः ॥८॥सत्यधर्मा यत्र सत्यं पुरुषे तत्र सन्ति वै ।त्रेताधर्मा रजोयुक्तं सत्त्वं यत्र प्रवर्तते ॥९॥द्वापरस्य रजोयुक्तं तमो मनाक् प्रवर्तते ।कलेर्धर्मास्तामसा वै तमो यत्र प्रवर्तते ॥१०॥सात्त्विके सत्त्वधर्मा वै तामसे कलियोजिताः ।सत्त्वरजोयुते त्रेतारजस्तमोयुते द्विकः ॥११॥कृते युगे चतुष्पाद्वै लक्ष्मि धर्मः प्रवर्तते ।प्राप्यते भगवाँस्तेन धर्मकामार्थमोक्षदः ॥१२॥धर्मो हि भगवान् कृष्णः पूजा कृष्णो हि तर्पणम् ।होमः सन्ध्या तथा ध्यानं धारणा सकलं हरिः ॥१३॥पादा धर्मस्य चत्वारः सत्यं दानं तपो दया ।धर्मपाता हरिश्चाऽहं पादाः सत्यादयो मम ॥१४॥त्रेतायुगे त्रिपाद्धर्मः सत्यदानदयात्मकः ।यज्ञयागादयः सर्वं त्रेतायामप्यहं रमे ॥१५॥द्वापरे द्विचरणश्च दानदयात्मकस्त्वहम् ।कलौ दानं पादमेकं दानात्मकोऽस्म्यहं रमे ॥१६॥सत्ये श्वेतो भवाम्येव त्रेतायां रक्तवर्णवान् ।द्वापरेऽहं पिशंगश्च कलौ कृष्णो भवाम्यहम् ॥१७॥सत्त्वं रजस्तम इति वर्तन्ते पुरुषे गुणाः ।पूरुषनोदितास्तेऽपि परिवर्तन्त आत्मसु ॥१८॥प्रभूतं तु यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रतिः ॥१९॥यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनाम् ।तदा त्रेता हृदये वै रजोभूतिर्मतो बहिः ॥२०॥यदा लोभस्त्वसन्तोषो मानो दंभश्च मत्सरः ।काम्यकर्मरतिश्चापि द्वापरं तद्रजस्तमः ॥२१॥यदा सदाऽनृतं निद्रा हिंसा क्लेशश्च तन्द्रिका ।शोकमोहौ भयं दैन्यं तिष्यस्तदा तमो मतः ॥२२॥द्वापरे विगते लक्ष्मि जनाः कटुकभाषिणः ।कामप्रधानभावाश्च देशा दस्युविशेषकाः ॥२३॥धर्माः पाखण्डपूर्णाश्च प्रजाभक्षा नृपास्तदा ।शिश्नोदरस्पर्शतृपाः प्रजा भूभृत आर्थिकाः ॥२४॥अव्रता बटवोऽशौचा विभवश्च कुटुम्बिनः ।तपस्विनो ग्रामवासा न्यासिनो ह्यर्थलोलुपाः ॥२५॥महाहारा महातृष्णाः कलौ तु साधवस्तदा ।त्यजन्ति स्वामिनं भृत्यास्तापसस्त्यजति व्रतम् ॥२६॥शूद्रास्तु प्रतिगृह्णन्ति वैश्यास्तपःपरायणाः ।उद्विग्नाश्च जनास्तिष्ये पिशाचसदृशीप्रजाः ॥२७॥अन्यायभोजका देवातिथिपूजाविवर्जिताः ।स्त्रीपरास्तु नराः सर्वे पित्र्युदकविवर्जिताः ॥२८॥बहुप्रजाऽल्पभाग्याश्च भवन्त्येव कलौ स्त्रियः ।शिरःकण्डूयनपरा आज्ञां भिन्दन्ति सर्वथा ॥२९॥तथा मायामसूयां च वधं चापि तपस्विनाम् ।साधयन्ति स्वार्थपराः पापेन व्याकुलेन्द्रियाः ॥३०॥कलौ प्रमादको रोगः सततं क्षुद्भयानि च ।अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥३१॥अनृतं ब्रुवते लुब्धां दुराचारैर्दुरिष्टकाः ।सर्वेषां मानवानां तु सम्बन्धाः सर्वजातिषु ॥३२॥शयनासनभोज्यानि चैककीर्णानि सर्वथा ।भ्रूणहत्या वीरहत्या साधुहत्या स्थले स्थले ॥३३॥स्वल्पायुष्येऽपि म्रियन्ते क्रमं विना कुटुम्बिनः ।अल्पतेजोबलाश्चाप्यनृतप्राया अधार्मिकाः ॥३४॥राजवृत्तिस्थिताश्चौराः कामाचाराश्च पार्थिवाः ।एकपत्न्यो न शिष्यन्ति वर्धन्ते चाभिचारिकाः ॥३५॥काषायिणश्च निःकच्छा वृत्त्यर्थं दैवलिङ्गिनः ।उपहृत्य परान्नादि साधयन्ति निजार्थकम् ॥३६॥श्वपचा राज्यकर्तारो विप्रास्तेषां हि सेवकाः ।सेवन्ते श्वपचान् विप्राः श्रुतभाग्यबलाक्षयाः ॥३७॥वेदशास्त्रागमधर्मा विघ्नरूपाः कलौ रमे ।उत्सादिता भवन्त्येव धर्मसंकरताऽत्र वै ॥३८॥यज्ञा नैव भवन्त्येव विवाहा न तदा कलौ ।मनःप्रसन्नताहेतुर्दाम्पत्ये स्वेष्टचारिता ॥३९॥म्लेच्छाचारं प्रजाः सर्वाः कलौ श्रेष्ठं वदन्ति हि ।चित्रवर्षी तदा देवः सस्यानां चित्रपाकता ॥४०॥सर्वे लोभवणिग्वृत्ताः कपटैविक्रयार्थिनः ।नाऽव्याहृतक्रूरवाक्यो नाऽऽर्जवी नाऽनसूयकः ॥४१॥नोपकारी न च प्रत्युपकारी पापके युगे ।नृपशून्या वसुमती न च धान्यधनावृता ॥४२॥निन्दकाश्च पतिताश्च कलौ भवन्ति सर्वथा ।मण्डलानि भवन्त्येव देशेषु नगरेषु च ॥४३॥राजकार्यकराण्येव धर्मघ्नानि कलौ युगे ।अल्पोदका चाल्पफला वसुहीना वसुन्धरा ॥४४॥गोप्तारश्चाप्यगोप्तारो लुण्टकाश्चाप्यशासकाः ।हर्तारः परवित्तानां परस्त्रीपुत्रयोषिताम् ॥४५॥साहस्रप्रियदुष्टाशाः प्रनष्टचेतना जनाः ।मुखे मिष्टा हृदि दुष्टा भवन्ति सुहृदः कलौ ॥४६॥चौराश्चौरस्वहर्तारो हर्तुर्हर्ता कलौ परः ।कीटमूषकसर्पाश्च धर्षयन्ति कलौ हि तान् ॥४७॥बहवश्चैव पन्थानः सम्प्रदायाः कलौ युगे ।प्रच्छन्नाधर्मभोक्तारो बहिश्चेष्टप्रदर्शिनः ॥४८॥देवसाधुयतियोगिसाध्वीधनान्नभोगिनः ।क्षुत्तृप्ता मानवा पुष्टिं कुर्वन्ति कुपथस्य वै ॥४९॥सत्ये शताब्दिको धर्मस्त्रेतायां वार्षिकः स तु ।द्वापरे मासिकः सोऽपि कलौ चाह्निक एव सः ॥५०॥आह्निकं चापि धर्मं तं जहत्येव कलौ जनाः ।व्याकुलाश्च परिभ्रान्ताः परस्परभयार्दिताः ॥५१॥स्वान् प्राणान् परिरक्षन्तो निष्कारुण्याः सुदुखिताः ।निर्मर्यादा निराक्रान्ता निःस्नेहा निरपत्रपाः ॥५२॥उद्यमवर्जिताश्चापि मांसाहारा जनाः कलौ ।समुद्रतीरवासाश्च मत्स्याहारास्तु सर्वथा ॥५३॥अनिकेता वल्कलाढ्या भूशय्या मानवास्तदा ।पशवो मानवा दैवाः पक्षिणो जलचारिणः ॥५४॥समवृत्ताः प्रायशो वै कलौ सांकर्यभोगिनः ।अहं नारायणस्तत्र प्रेरयामि निजाश्रितान् ॥५५॥दिव्यदेहान् पार्षदान्मे ऋषिरूपान् हि तापसान् ।धर्मसंस्थापनार्थाय ते वसन्ति ह्यगोचराः ॥५६॥पर्वतेषु शुभाचारा वन्यमूलफलाशिनः ।युगलानि प्रजायन्ते तेभ्यो धर्ममयानि च ॥५७॥सर्वैश्वर्यसमर्थानि वेदभक्तियुतानि च ।ममाऽवतारैर्बहवो हन्यन्ते दुष्टजातयः ॥५८॥अतिवातातिवृष्ट्याद्यैर्नश्यन्ति चाब्धितीरगाः ।ततो वनानामृषयो मम पुत्राश्च पार्षदाः ॥५९॥प्रवर्तन्ते कार्तवीर्या भूमौ सन्तानकारिणः ।एवं कृतस्य सन्तानः कलेश्चैव क्षयस्तथा ॥६०॥कृतस्य योग्यतायुक्ता जायन्ते पार्षदर्षयः ।उपभोगसमर्थाश्च दिव्यदेहाः ऋतव्रताः ॥६१॥वैराग्ययोगिनः सर्वे चात्मबोधपरास्तथा ।सन्तुष्टास्तपआस्थाश्च धर्मिष्ठा भक्तिशीलिनः ॥६२॥सप्तर्षयस्तदा स्वर्गादागत्यैषु वसन्ति च ।सत्यं सप्तर्षयो धर्मं कथयन्तीह तेषु च ॥६३॥तिष्ठन्ति ये कलौ सिद्धा अदृष्टा विहरन्ति च ।प्रकाशं ते समायान्ति ह्याचार्यास्ते भवन्ति हि ॥६४॥गुरवो लोकरक्षार्हाः प्रजासु विहरन्ति च ।योग्यब्रह्ममहावंशोत्थेभ्यो राज्यं ददत्यपि ॥६५॥एवं कृतं युगं लक्ष्मि! पुनस्तत्र प्रवर्तते ।त्वं कलौ क्षीणतां याता सत्ये पुनः प्रवर्धसे ॥६६॥शुद्धिं त्वं लभसे लक्ष्मि साधुसाध्वीसमागमात् ।आसुरी यातुधानी च पैशाची यक्षराक्षसी ॥६७॥तिष्या त्वं सत्यरूपा वै दैवी लक्ष्मीः प्रजायसे ।युगलानि तदा सत्ये प्रायशो गृहधर्मिणः ॥६८॥यतितुल्याश्च यतयो ब्रह्मचर्यपरायणाः ।अकामाश्चातिनिष्कामा आत्मानन्दविहारिणः ॥६९॥संकल्पमात्रयोगाश्च स्त्रीदृष्टिमात्रयोगिनः ।मानस्यश्च प्रजाश्चापि पुत्रपौत्रादयः पुनः ॥७०॥साधुसाध्वीस्वरूपास्ते भवन्ति चागते कृते ।देवाऽसुरमनुष्याश्च यक्षगन्धर्वराक्षसाः ॥७१॥धर्मव्रताः प्रजायन्ते सत्ययुगबलाद्धि ते ।परिणाहोच्छ्रये तुल्या जायन्ते पूर्ववत्पुनः ॥७२॥बले योगे तथैश्वर्ये सम्पत्सु च समाधिषु ।व्योमगतौ जलगतौ जायन्ते पूर्ववत्पुनः ॥७३॥मेधायां च विकासे च भौतिकेषु यथा पुरा ।तथा कृते प्रजायन्ते मम संकल्पनोदिताः ॥७४॥पशवः पक्षिणश्चापि धेनवः कामधेनवः ।तरवः कल्पतरवो वल्लिकाः कल्पवल्लिकाः ॥७५॥मानवा दिव्यदेहाश्च योषितो दिव्ययोषितः ।तथा कृते प्रजायन्ते यथा पूर्वे कृतेऽभवन् ॥७६॥किन्तु लक्ष्मि ब्राह्मसंज्ञान्मुहूर्तात् प्रातरूनकम् ।प्रातःकालात् संगवश्च ततो मध्याह्नकं तथा ॥७७॥ततोऽपरार्धाऽर्धकालः सायं न्यूनबलं ततः ।एवं कृता युगाः सर्वे पूर्वपूर्वतरूनकाः ॥७८॥मनाक्स्वल्पबलाश्चापि मनाक् ह्रासप्रमर्दिताः ।उत्तरोत्तरह्रासयुक्तास्ततस्तुल्या न सर्वथा ॥७९॥सृष्ट्यारंभस्थसत्याद्वै परे सत्ययुगास्ततः ।न्यूनबला भवन्त्येव नादिसत्यसमा हि ते ॥८०॥मम योगबलं पूर्णं यत्र तत्रादिसदृशाः ।मन्न्यूनबलवद्व्यक्तौ न्यूनबलं कृतं युगम् ॥८१॥एवमेव विजानीहि मद्विना निर्बलं जगत् ।यत्राऽहं तत्र सर्वत्र गार्हस्थ्येऽपि हि साधुता ॥८२॥यत्र नाऽहं तत्र लक्ष्मि साधुत्वेऽपि न साधुता ।यस्मिन् कस्मिन् युगे लक्ष्मि येनाऽहं समुपार्जितः ॥८३॥तेनाऽर्जितः सत्ययुगः सर्वं तेनार्जितं प्रियम् ।लक्ष्मि सन्तः प्रवक्ष्यामि साधूनथ ततश्च वै ॥८४॥संयुज्य ब्रह्मणा ह्यन्तस्तेन सन्तः प्रचक्षते ।सन्तं श्रीपरमात्मानं तन्वन्ति ये प्रजासु च ॥८५॥सन्तस्ते साध्नुवन्ति स्वकार्यं मोक्षात्मकं तथा ।परेषां मोक्षकार्यं च साधयन्ति ह साधवः ॥८६॥दिव्यानां कर्मणां लक्ष्मि साधनात् साधुरुच्यते ।ब्रह्मणि चरणाल्लक्ष्मि ब्रह्मचारी स एव सः ॥८७॥गुरोर्हितः स्वहितकृत् सत्ये हिते सदा रतः ।साधुर्वै ब्रह्मचारी च हितकृत् साधुसत्तमः ॥८८॥कारणात् साधनाच्चैव गृहस्थः साधुरुच्यते ।सत्ययुगे गृहस्थास्ते साधुतुल्या हि साधवः ॥८९॥तापसास्ते तथाऽरण्ये वैखानसा हि साधवः ।यतमाना यतयश्च साधवो योगसाधनात् ॥९०॥धर्मश्चोच्चगतिः प्रोक्तः कुशलानां प्रदायकः ।नारायणेन ऋषिणा ब्रह्मणा निर्मितो वृषः ॥९१॥दाराग्निहोत्रपूजादिर्वर्णाश्रमविभागशः ।सद्भिराचरितस्तस्याच्छिष्टाचारः स उच्यते ॥९२॥शिष्टा मे पार्षदाः पुत्राः शिष्या महर्षयस्तथा ।शिष्यन्ते येऽत्र धर्मार्थं लोकसन्तानकारिणः ॥९३॥पूर्वैः पूर्वतरैः शिष्टैराचर्यते पुनः पुनः ।पूर्वैः पूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः ॥९४॥दानं सत्यं तपो भक्तिर्विद्येज्या पूजनं दमः ।अष्टैतानि चरित्राणि शिष्टाचारो हि सम्मतः ॥९५॥ब्रह्मचर्यं तपो मौनं निराहारत्वमित्यपि ।सेवनं निजपित्रोश्च गुरोराश्रयणं तथा ॥९६॥षट्कमेतत्साधुधर्मो गृहस्थाः साधवस्ततः ।मायाप्रवाहमासाद्य नो वहते तरत्यपि ॥९७॥तारकः साधुरेवाऽयं गृहस्थोऽपि हि सज्जनः ।शिष्टाचारप्रवृद्धश्च वृषो वै साधुसम्मतः ॥९८॥कर्मणां मयि न्यासस्तु सन्न्यासः साधुधर्मकः ।ब्रह्मस्तोत्रं विधिस्तोत्रं गुणस्तोत्रं हरेर्मम ॥९९॥प्रवर्त्यन्ते पूर्वरीत्या शिष्टैः सद्भिः सुधार्मिकैः ।ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥१००॥सांसिद्धिकानि येषां वै साधवः ऋषयश्च ते ।ऋषन्ते परमं ब्रह्म ततस्ते ऋषयो मतः ॥१०१॥गत्यर्थादृषतेर्धातोः सार्थकत्वं हि साधुषु ।ईश्वराणां सुता ये च मानसाश्चौरसास्तथा ॥१०२॥ऋषिपुत्राः ऋषीकाश्च ऋषयस्ते तपोधनाः ।ब्रह्मपुत्रा ब्राह्मणाश्च क्षत्रियाश्च विशस्तथा ॥१०३॥ऋषिपुत्राः ऋषयस्ते लोकसन्तानहेतवः ।इत्येवं लक्ष्मि बहुधा सत्यधर्मा हि साधवः ॥१०४॥सत्ये पुनः प्रवर्तन्ते गृहस्था अपि साधवः ।तेषामाश्रयणान्मोक्षो भुक्तिश्च जायते ध्रुवम् ॥१०५॥पठनाच्छ्रवणाच्चापि स्मरणात् साधुसंगतेः ।फलं भुक्तिमोक्षरूपं जायते नात्र संशयः ॥१०६॥सर्वेष्वपि युगेष्वेव गुणश्चैको महान् रमे ।कृष्णस्य मे कीर्तनाद्वै भवेदेव हि मोक्षणम् ॥१०७॥कृते यज्ञे हरिर्लभ्यस्त्रेतायां जपतोऽर्ज्यते ।द्वापरे सेवया प्राप्यो हरिः कलौ तु कीर्तनात् ॥१०८॥कलिर्दोषनिधिस्तत्र गुणो हरिप्रकीर्तनम् ।द्वापरोऽर्धदुरितोऽपि गुणवान् मम जन्मतः ॥१०९॥सत्यादौ नाऽतिजन्माऽहं सर्वाः साधुप्रजायतः ।भवाम्यहं कलौ भूयश्चाऽन्ययुगव्यपेक्षया ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने युगधर्माणां परिवर्तनविवेचनादिनिरूपणनामा चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP