संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ६३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ६३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-के दासा वैष्णवाः कृष्णकान्त प्रिय कृपानिधे ।के भक्ता कीदृशाश्चापि कीदृशो महिमाऽपि च ॥१॥श्रीपुरुषोत्तम उवाच-देहसेवाविधातारो मम दासा हि ते मताः ।रहस्यसेविनः श्रेष्ठा निःशंका दिव्यदृष्टयः ॥२॥अहं मानुषरूपेण विचरामि जनैः सह ।जना मां वीक्ष्य लौकीयं सेवन्ते नैव शंकिताः ॥३॥मन्वते निजवत् कामक्रोधस्वभावसंभृतम् ।न मन्वते हि भक्तानां संकल्पपूरकं प्रभुम् ॥४॥सर्वाणि मे चरित्राणि देहजानि शुभानि वै ।स्मृतान्यपि वीक्षितानि मोक्षदानि न संशयः ॥५॥तत्र संशयकर्तारो न सेवन्ते हि मां खलाः ।अदिव्यं मां प्रमन्वाना निन्दां कुर्वन्ति मे ततः ॥६॥तेन पापेन निरये तिर्यक्ष्वपि प्रयान्ति च ।आसुरत्वं न वै तेषां लक्ष्मि क्वचिन्निवर्तते ॥७॥दास्यं हि कठिनं लक्ष्मि महत् सर्वार्पणात्मकम् ।नरो वा यदि वा नारी देहं दैहिकमर्पयेत् ॥८॥निःशंकं चार्पयेत् सर्वं तद्दास्यं चोत्तमोत्तमम् ।तर्कमूहं संशयं वा न मध्ये कारयेत् क्रियात् ॥९॥धर्मं लज्जां व्यवहारं न मध्ये स्थापयेन्मम ।नारायणकृतो धर्मो लज्जा नारायणश्रिता ॥१०॥नारायणव्यवहारो मोक्षदा नेतरे इति ।मत्वा मम क्रियां सर्वां धर्मात्मिकीं विचिन्तयेत् ॥११॥कामः क्रोधश्च लोभश्च मोहो मदश्च नर्म च ।अश्लीलं चाऽघटितं च मम दिव्यं हि सर्वथा ॥१२॥न मे कामो नारकी वै न मे क्रोधो हि घातकी ।न मे लोभः पापभृच्च न मे मोहो हि वञ्चकः ॥१३॥न मे मदो बन्धकृच्च न मे नर्म वृषोज्झितम् ।न मेऽश्लीलं क्षुद्रकृच्च न मेऽघटितमस्ति यत् ॥१४॥सर्वं दिव्यं कृतं मुक्तिप्रदं प्रजायते हि तत् ।तस्माद् दास्यं हि कठिनं कर्तुं सर्वैर्जनैरिह ॥१५॥नरा नार्यश्च या दास्यं कर्तुमिच्छन्ति मे सदा ।तैश्च ताभिः सदा भाव्यमाशंकावर्जितैस्तथा ॥१६॥आशंकावर्जिताभिश्च पत्नीभिर्भाव्यमित्यपि ।लक्ष्मीराधारमाकान्तातुल्याभिर्भाव्यमित्यपि ॥१७॥ततो दास्यं प्रकर्तव्यं निरावरणमुत्तमम् ।सर्वं प्रेमभृतं दास्यं शोभते वर्धतेऽत्यति ॥१८॥भेदभावं विना दास्यं वर्धते नित्यमेव च ।शंका विना परं दास्यं महानन्दप्रदं भवेत् ॥१९॥परमेशे पतिकृष्णे स्वामिनि परमात्मनि ।कथं शंका कथं प्रातिकूल्यं विवेकिनो भवेत् ॥२०॥यत् करोति स्वयं कृष्णो मोक्षदं सर्वमेव तत् ।यत् करोति स्वयं कृष्णो धर्म एव हि पुण्यकृत् ॥२१॥तस्माद् दास्यं हि तादात्म्यप्रदं कार्यं सतीजनैः ।तादात्म्ये चावरणानि भेदकानि प्रिये शृणु ॥२२॥ऐक्यभावे भेदभावश्चावरणं हि तन्मतम् ।अहमन्या हरिश्चान्यश्चेति भानं द्वितीयकम् ॥२३॥आवरणं विघ्नकर्तृ दास्ये क्षतिं करोति तत् ।अहं नारी नरः कृष्णः परश्च पुरुषो ह्ययम् ॥२४॥पराऽहं चेति भानं चाऽवरणं तत् तृतीयकम् ।हरेः पार्श्वे स्थितायाश्च भयमन्यस्य यद् भवेत् ॥२५॥तदप्यावरणं तुर्यं दास्ये क्षतिं दधाति वै ।नाऽयं वै समयश्चाऽस्ति पञ्चमावरणं हि तत् ।नात्र नैव मनो मेऽस्ति षष्ठमावरणं हि तत् ॥२६॥अर्थार्थित्वं सप्तमं चावरणं चापि विद्यते ।मानं दास्ये महद्विघ्नं चाष्टमं तद्धि गद्यते ॥२७॥नवमं स्वार्थसिद्धिश्च रोधिका दास्यकर्मणः ।दशमं चाऽदिव्यता च रोधिका सेवने सदा ॥२८॥यथेष्टविनियोगश्च दास्ये भवति पद्मजे ।स चेन्नास्ति तदा दास्यं चोत्कृष्टं नैव पद्यते ॥२९॥स्वत्वं दास्यं त्वदीयत्वं तत्परत्वं तदात्मता ।पञ्चकं दास्यसन्दृब्धं शोभते दास्यमेव तत् ॥३०॥यथा लक्ष्मि तव दास्यं शोभते सर्वमेव ह ।तथा दास्यं नराणां वा नारीणां शोभते कृतम् ॥३१॥भक्तियुक्तं कृतं सर्वं सप्रेम शोभते मयि ।सर्वावरणवर्ज्यं स शोभते मोदते मयि ॥३२॥ब्रह्मक्रियारता नित्यं मम सेवापरायणाः ।शंखचक्राद्यंकिताश्च मोदन्ते मयि वैष्णवाः ॥३३॥सतां सेवापराश्चापि साध्वीसेवापरास्तथा ।विष्णुपूजापराश्चापि मोदन्ते मयि वैष्णवाः ॥३४॥हरेर्दासा हरेश्चापि प्रिया हर्यर्थवर्तिनः ।सर्वदा मम भक्त्याढ्या मोदन्ते मयि वैष्णवाः ॥३५॥महोत्साहपराश्चापि महानैवेद्यभोजनाः ।सर्वप्रसादयोक्तारो मोदन्ते मयि वैष्णवाः ॥३६॥विष्णोरयं यतश्चास्ते तस्माद्वै वैष्णवो मम ।नारायणस्य मे चास्ते ततो नारायणीयकः ॥३७॥सर्वेषामुत्तमो भक्तो नारायणीय एव ह ।ब्रह्मणोऽयं ब्राह्मभक्तश्चाक्षरस्य तथाऽऽक्षरः ॥३८॥कृष्णस्याऽयं कार्ष्णभक्तो मोदन्ते मयि वैष्णवाः ।नारायणीया ब्राह्माश्च तथाऽऽक्षरा ममाऽनुगाः ॥३९॥ब्रह्मरूपधरा भक्ता ब्राह्मणास्ते प्रकीर्तिताः ।यतः सकाशात् सञ्जाता ब्राह्मणा वेदपारगाः ॥४०॥साधवस्ते सनकाद्या गुरवो ब्राह्मणाः पुरा ।विप्रादीनां गुरवस्ते साधवो ब्रह्मयोगिनः ॥४१॥ब्रह्मणा निर्मिताः पूर्वं सनकाद्या हि साधवः ।ब्रह्मशीला यतयश्च स्कन्दश्च हनुमाँस्तथा ॥४२॥एवमेते प्रतिसृष्टिसाधवो गुरवः सदा ।शूद्राणां हि द्विजाः सन्ति गुरवो गृहमेधिनाम् ॥४३॥द्विजादीनां ब्राह्मणाश्च गुरवो गृहमेधिनः ।ब्राह्मणानां साधवश्च गुरवो मोक्षदा यतः ॥४४॥साधवः सर्वतः श्रेष्ठाः सुरर्षिपितृपूजिताः ।सुरेभ्यः साधवः श्रेष्ठा महर्षिभ्यस्तथोत्तमाः ॥४५॥पितृभ्यः साधवः श्रेष्ठा भूसुरेभ्यः सदोत्तमाः ।त्रैलोक्ये नास्ति तच्छ्रैष्ट्यं यच्छ्रैष्ठं सत्सु विद्यते ॥४६॥सतीतः साधवः श्रेष्ठा यतयो ब्रह्मदर्शनाः ।गोभ्यश्च साधवः श्रेष्ठा नित्यं ब्रह्मपरायणाः ॥४७॥भूदेवीतश्चोत्तमाश्च सन्तो वै क्षमयाऽन्विताः ।मूर्तिभ्यः साधवः श्रेष्ठा ज्ञानदानप्रमोक्षणैः ॥४८॥देवतायतनेभ्यश्च श्रेष्ठाः सन्तो हि तारकाः ।पतिव्रताभ्यः श्रेष्ठाश्च सन्तः श्रीपतिसेविनः ॥४९॥षडंगवेदिविप्रेभ्यः श्रेष्ठाः सन्तो हरिप्रियाः ।वेदेभ्यः साधुवाक्यानि श्रेष्ठानि कृष्णयोजनात् ॥५०॥वेदेभ्यः साधवः श्रेष्ठा वेदाः साधुत्वसंश्रयात् ।तीर्थेभ्यः साधवः श्रेष्ठाः शीघ्रं पापविनाशनात् ॥५१॥व्रतेभ्यः साधवः श्रेष्ठा यथेष्टाऽनन्तपुण्यदाः ।पावकात् साधवः श्रेष्ठा मायाकल्मषशोधकाः ॥५२॥ब्रह्मर्षयोऽपि साधूनां पूजयन्ति पदानि वै ।ईश्वराः कृष्णरूपाश्च परमेशोऽहमच्युतः ॥५३॥पूजयामः सतो भक्तान् साधून् सर्वस्वपावनान् ।सन्तस्ते सद्गुणैश्चाढ्या गुणाढ्याः श्रेष्ठिनो हि ते ॥५४॥सन्तस्ते ब्रह्मराज्येन राजानश्चक्रवर्तिनः ।सन्तस्ते ज्ञानभण्डारा विद्वांसो गुरवः पराः ॥५५॥आचार्याः सन्त एवैते मोक्षदा मन्त्रदास्तथा ।सन्तस्ते वेदविद्यादिविज्ञास्ते ब्राह्मणोत्तमाः ॥५६॥षट्कर्मनिरताः सन्तो विप्रा एव मता मम ।लक्ष्मि सन्तो ममात्मानश्चात्माऽहं वै सतां सदा ॥५७॥सत्यशौचक्षान्तियुक्ता रागद्वेषविवर्जिताः ।ब्रह्मविद्याविवेकज्ञा वैष्णवाः साधवः पराः ॥५८॥अग्निहोत्रपराश्चापि नित्यं चातिथिपूजकाः ।पितृभक्ता मातृभक्ता वैष्णवाः साधवः पराः ॥५९॥दयाधर्मादिसंयुक्तास्तथा पुण्यपरायणाः ।शंखचक्रादिचिह्नाढ्याः वैष्णवाः साधवः पराः ॥६०॥कण्ठे माला तौलसेयी धृता यैश्चानने हरिः ।गीतिः कृष्णस्य कुर्वन्तो वैष्णवाः साधवः पराः ॥६१॥संहितासु रता नित्यं मखेषु च रतास्तथा ।सर्वधर्मेष्वादरिणो वैष्णवाः साधवः पराः ॥६२॥पापात् पापान्मोचयन्ति नैव निन्दन्ति मानवान् ।देहिनः सुखयन्त्येव वैष्णवाः साधवः पराः ॥६३॥गोपालकृष्णं श्रीकृष्णं कृष्णनारायणं हि माम् ।येऽर्चयन्ति प्रतिमां मे वैष्णवाः साधवः पराः ॥६४॥शालग्रामं पूजयन्ति पूजयन्त्यवतारिणम् ।अनादिश्रीहरिं मां च वैष्णवाः साधवः पराः ॥६५॥गोपालोऽयं च कृष्णोऽयं रामादित्योऽयमच्युतः ।इत्येवं मां पूजयन्ति वैष्णवाः साधवः पराः ॥६६॥कुंकुमवाप्यां रूपं मे यथा च सिद्धपत्तने ।यथा च गोकुले तद्वद् यथा हिमालयेऽपि च ॥६७॥यथा च नार्मदे तीरे यथा रूपं धृतं मया ।तादृग्रूपं पूजयन्ति वैष्णवाः साधवः पराः ॥६८॥चतुर्भुजां द्विनेत्रां च शंखचक्रगदाब्जगाम् ।पीताम्बरां समुरलीं वनमालादिशोभनाम् ॥६९॥मुकुटेन युतां रम्यां कौस्तुभोद्भासितां तथा ।राधारमादिसंयुक्तां सौवर्णीं प्रतिमां मम ॥७०॥रौप्यां ताम्रोद्भवां चापि पैत्तलीं मणिजां तथा ।प्रतिष्ठाप्याऽऽगममन्त्रैर्वेदवाक्यैर्विशेषतः ॥७१॥षोडशोपचारमन्त्रैः पूजयेयुर्विधानतः ।प्रेमभक्त्या हृदयेन वैष्णवाः साधवः पराः ॥७२॥साधवस्ते वैष्णवा वै मन्मयाः पुण्यरूपिणः ।यथा विष्णुस्तथा सर्वे नाऽन्तरं वर्तते मनाक् ॥७३॥एवं विज्ञाय राजश्रि साधून् सम्पूजयेत् सदा ।अहं विष्णुरहं साधुः सती चाहं पतिव्रता ॥७४॥अहं माता पिता चाहं पतिः साध्वी च योगिनी ।अहं नारायणः साधुः स्वामी नारायणी त्वहम् ॥७५॥रुद्रो रुद्रीरजश्चाजी सुरः सुरी भवाम्यहम् ।सर्वभूतेषु सततं वसामि संभवामि च ॥७६॥पतिकामुकया पूज्यश्चाहं पतिस्वरूपवान् ।मोक्षकामुकया पूज्यश्चाऽहं श्रीपुरुषोत्तमः ॥७७॥श्रीनारायणीश्रीरुवाच-कथं कदा भवान् पूज्यो वस्तुभिः कैश्च केशव ।विधिना केन भगवन् पतिकामुकया वद ॥७८॥श्रीपुरुषोत्तम उवाच-चैत्रमासे शुक्लपक्षे ह्येकादश्यां प्रगे शुभे ।गत्वाऽऽरामे ग्रहीतव्या दिव्या दमनमञ्जरी ॥७९॥गुर्वाज्ञया प्रकर्तव्यं पूजनं दमनस्य वै ।दमने तिष्ठते कामदेवश्च रतिसंयुतः ॥८०॥कामदेव नमस्तेऽस्तु त्वं सदा पुरुषोत्तमः ।हरिं कामं विचिनोमि कृपां कुरु ममोपरि ॥८१॥गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ।अधिवासनपूर्वं च सर्वतोभद्रमण्डले ॥८२॥स्थापयित्वा हरिं कामं रतिं च दमनद्रुमम् ।आच्छाद्य श्वेतवस्त्रेण पूजयेत् कन्यका प्रिये ॥८३॥क्लीं कामदेवाय नमो ह्रीं. रत्यै च नमोनमः ।पूर्वस्यां ह्रीं च कन्दर्पं पूजयामि निशाऽऽगमे ॥८४॥गन्धपुष्पाक्षतधूपदीपनैवेद्यकैः शुभैः ।आरार्त्रिकादिभिर्दैवं पूजयामि पतिं प्रभुम् ॥८५॥मदनाय नमः प्राच्यां मन्मथाय नमोऽग्निके ।कन्दर्पाय नमो याम्येऽनंगाय नमो नैर्ऋते ॥८६॥वारुण्यां मोहनाय नमः स्मराय नमोऽनिले ।कौबेर्यामीश्वराय नमः पुष्पबाणायेशान्यां नमः ॥८७॥सर्वदिक्षु नमस्कृत्य मां कन्या पूजयेत् ततः ।'ओं कन्दर्पपुरुषाय विद्महे कामदेवाय धीमहि ।तन्नोऽनङ्गः प्रचोदयात् ॥८८॥इति चाष्टोत्तरशतजपान् कुर्याद्धि सन्निधौ ।'नमोऽस्तु कामपतये पुष्पशराय ते नमः ॥८९॥मन्मथायाऽऽनन्ददात्रे नमो रतिकराय ते ।प्रीतिदाय नमस्तेऽस्तु सर्वबीजाय ते नमः ॥९०॥कान्ताय कान्तरूपाय सर्ववासाय ते नमः ।पुरुषोत्तमरूपायाऽनंगदेवाय ते नमः ॥९१॥अनादिश्रीकृष्णनारायण वाञ्च्छितकामद ।हृत्स्थान पूरय कामान्मे प्रभो कामेश्वरीप्रिय ॥९२॥स्तुत्वैवं मञ्जरी वारि दातव्ये मम पादयोः ।गीतवादित्रनृत्यैश्च कर्तव्यश्चोत्सवो महान् ॥९३॥जागरणं प्रकुर्याच्च प्रातः स्नात्वाऽर्चयेद्धरिम् ।गुरुं चापि द्रविणादि वस्त्रालंकारभोजनम् ॥९४॥दानेऽर्पयेद्धि गुरवे सहाऽश्नीयाच्च वैष्णवैः ।भूमिदानं धेनुदानं महादानं तु भूरिशः ॥९५॥सर्वदानं तया दत्तं मञ्जर्याः पूजनेन मे ।गोसहस्रप्रदानस्य फलं दमनकार्चने ॥९६॥मल्लिकाकुसुमैर्मां या वसन्ते कान्तमुत्तमम् ।अर्चयेत्परया भक्त्या सा कान्तं लभते ध्रुवम् ॥९७॥मधुकश्च दमनकश्चातिप्रीतिकरौ हरेः ।ताभ्यामहं पूजितो द्राक् पतिं ददामि योषिते ॥९८॥कन्यायै रतिरूपायै प्रसन्नः पुरुषोत्तमः ।पतिं ददामि तद्योग्यं कान्तं कान्तिनिधिं शुभम् ॥९९॥कामदेवसमं रम्यं सवयस्कं मदात्मकम् ।सौम्यशीलं च नीरोगं सम्पद्युक्त गुणाकरम् ॥१००॥प्रीतिपात्रं प्रेमपात्रं ददामि पतिमुत्तमम् ।इत्येवं कथितं लक्ष्मि मुक्तिदं भुक्तिदं व्रतम् ॥१०१॥पूजनं मम लोकेऽत्र भजनं चापि चोत्तमम् ।गुरुतीर्थं साधुसाध्वीरूपं चापि तथोत्तमम् ॥१०२॥दासदासीवैष्णवादिस्वरूपाणि तथा प्रिये ।अनावरणसेवा च कथिता मम लब्धये ॥१०३॥पठनाच्छ्रवणाच्चाऽस्य स्मरणात् करणात्तथा ।अवश्यं फलमाप्नोति भक्ता भक्तो यथोदितम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरयुगसन्ताने वधूगीतायामनावरणसेवादास्यसाघुसाध्वीश्रैष्ठ्यदमनकव्रतादिनिरूपणनामा त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP