संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-आकर्णय कथां नारायणीश्रि त्वं तथाऽपराम् ।आसीत् कर्णपुरे राजा पृथ्वीधराभिधः पुरा ॥१॥खण्डराज्यं पालयन् स प्रजां ररक्ष धर्मतः ।प्रातर्यस्यांऽगणे नित्यं भिक्षुकास्तु शताधिकाः ॥२॥तृप्यन्ति त्वन्नलाभेन ह्यनाथा बालबालिकाः ।ह्यनाथा विधवाश्चापि भुंजतेऽस्याऽन्नसत्रके ॥३॥विष्णोस्तु मन्दिरे गत्वा राजा पृथ्वीधरः स्वयम् ।नारायणस्य मूर्तेर्वै पूजनं तुलसीदलैः ॥४॥सहस्रैकमितैर्नित्यं करोति विष्णवे नमः ।वदन् ध्यायन् स्मरन् मां वै श्रीपतिं पुरुषोत्तमम् ॥५॥धूपं दीपं च नैवेद्यं जलं ताम्बूलकं तथा ।नीराजनं स्तुतिं प्रदक्षिणां कृत्वा च दण्डवत्। ॥६॥शतरूप्यकदानं चाम्बराणां शतकं तथा ।एकां गां च ददात्येव दाने नित्यं ततः परम् ॥७॥पुष्पाञ्जलिं श्रीहरये दत्वा याति निजालयम् ।एवं मां भजते नित्यं मन्निवेदितभोजनः ॥८॥वर्तते स्म सदा भक्तो हिंसाव्यवायवर्जितः ।यस्य पुण्यं पुराजन्मकृतं तस्य तु भक्तता ॥९॥धर्मे मतिश्च भवति सत्यपि राज्यवैभवे ।एवं लक्ष्मि सदा पृथ्वीधरः कृत्वा शुभाह्निकम् ॥१०॥याति न्यायालयं तत्र ददात्येव च निर्णयम् ।अथ सायं नित्यमेव कथां शृणोति मामकीम् ॥११॥लक्ष्मीनारायणसंहितायाः सतां सभागतः ।सन्तोऽस्य साधवो धीराः छिन्दन्ति संशयान् बहून् ॥१२॥सतां पादजलानां च पानं गृह्णाति भूपतिः ।कथान्ते कीर्तनं वाद्यसहितं प्रकरोति सः ॥१३॥सहस्रशो जना नार्यो नराः कुर्वन्ति कीर्तनम् ।'हरे कृष्ण हरे कृष्ण बालकृष्ण हरे हरे ॥१४॥हरे विष्णो हरे जिष्णोऽनादिकृष्ण हरे हरे' ।एवंविधं भजनं ते सतालाद्यं प्रचक्रिरे ॥१५॥अथ सन्तः प्रयान्त्येव मठेषु च नृपस्ततः ।सायं देवार्चनं कृत्वा लब्ध्वा सद्भोजनं ततः ॥१६॥ध्यानमग्नो भवत्येव मालामावर्तयन्मम ।अनादिश्रीकृष्णनारायणेत्येवं जपन्मुहुः ॥१७॥स्वपित्येवेति राजाऽपि साधुचर्यां प्रसेवते ।अस्य राज्ञी मधुविन्दानाम्नी भक्ता तु वैष्णवी ॥१८॥पातिव्रत्यान्विता यद्वत् साध्वी विप्रा सती यथा ।भजते मां परात्मानं मत्वा संसारमुल्बणम् ॥१९॥बन्धनं दुःखदोषाढ्यं वासनावासितं क्षयम् ।नित्यं तु परमात्मानं मुक्तिं चात्मानमेव सा ॥२०॥मनुते मोक्षदातॄँश्च सतो जनान् प्रसेवते ।शान्तशीला नृपवत्सा भजते मां जनार्दनम् ॥२१॥यथा राजा तथा लक्ष्मि प्रजा गुणवती भवेत् ।अस्य पुत्रादयश्चापि भेजिरे मां श्रियः पतिम् ॥२२॥प्रजाः सर्वाः सर्ववर्णा भजन्ते स्म च मां तथा ।दानं कुर्वन्ति च जपं कुर्वन्ति स्म प्रसेवनम् ॥२३॥सतां च साधुवासादौ मार्जनादि दधत्यपि ।एवं वै वर्तमानानां वैष्णवानां निरन्तरम् ॥२४॥प्रसन्नो भगवान्नास्ते पर्जन्यश्चापि वर्षति ।सम्पदः सम्प्रमोदन्ते यथा लक्ष्म्यः सचेतनाः ॥२५॥धेनवः कामवर्षिण्यो वृक्षाश्च फलदायिनः ।सस्यानि कणदान्येव रसदा च रसाऽभवत् ॥२६॥मम भक्तस्य तस्य श्रि रिपवो नाऽभवँस्तथा ।ईतयो नाऽभवँश्चापि सुखाढ्यः सोऽभवन्नृपः ॥२७॥तस्य पुत्रोऽभवत् काले जन्मान्धः प्रथमः सुतः ।जन्मोत्सवाः कृतास्तेन यथाकालं सुतः स तु ॥२८॥नेत्रे नोद्धाटयत्येव जन्मान्धो विदितोऽभवत् ।राज्ञा विष्णोरनुष्ठानं कृतं वै वैष्णवे मखे ॥२९॥चक्षुषोरुद्धाटनार्थं सूर्यचन्द्रप्रपूजनम् ।घृतस्य दीपदानं चाऽखण्डितं देवमन्दिरे ॥३०॥कृतं च वत्सरं तस्य गतं चान्ध्ये ततो नृपः ।आशां विहाय सहसा तपस्येव मनोऽकरोत् ॥३१॥राजसौधं विहायैवोद्याने वृक्षघटान्तरे ।छायायां चासनं कृत्वा निषसाद तपस्ययम् ॥३२॥मालामावर्तयत्येषो रटन् कृष्णनरायाणम् ।फलाहारोऽभवद् राजा त्वेकभुक्तो हि निर्जने ॥३३॥शालग्रामं पुरो धृत्वा भजते मां स्मरत्यपि ।वल्कलाम्बर एवापि मृगचर्मासनस्तथा ॥३४॥सर्वभोगविहीनश्च पुत्रनेत्रसमीहनः ।दिवारात्रौ भजते मां तत्राश्रमे द्रुमालये ॥३५॥वर्षा शैत्यमातपं च सहते भजते च माम् ।पूजां करोति भावेन शालग्रामस्य मे नृपः ॥३६॥करोति त्रिषवणं च सूर्यं नमस्करोति च ।पञ्चकेशी पितृपूजी सम्वत्सरं व्यवर्तत ॥३७॥एवं वर्षोत्तरे राजा रात्रौ ध्यात्वा तु मां मुहुः ।अस्तौत् कृष्ण तव नाम हरिः दुःखहरं हि तत् ॥३८॥कथं भक्तस्य मे दुःखं नैव हरसि माधव ।कर्तुमकर्तुमन्यथाकर्तुं शक्तोऽसि सर्वथा ॥३९॥पुण्यं यत्तत्तव कृष्ण प्रसन्नता ह्यनुग्रहः ।पापं यत्तत्तव कृष्ण प्रातिकूल्यं ह्युदासिता ॥४०॥यदि भक्तं प्रति चैवमौदासीन्यं प्रदर्श्यसे ।का गतिस्तर्हि भक्तस्य त्यक्तस्य रक्षकेन वै ॥४१॥रक्षां कुरु सुतस्यापि चक्षुर्दानेन माधव ।पापं विधूय तस्यैव सदृष्टिं तं विधापय ॥४२॥इत्युक्त्वा दण्डवच्चक्रे श्रुत्वाहं प्रार्थनां द्रुतम् ।तपो विलोक्य पुत्रस्य नेत्रार्थं त्वागतोऽभवम् ॥४३॥जटिलो दण्डवान् साधुर्भस्माक्तो मृगचर्मवान् ।कमण्डलुं करे धृत्वाऽदृश्ये वै वृक्षमण्डले ॥४४॥हरे नारायण विष्णो वदन् सत्सन्निधौ ययौ ।जयोऽस्तु योगिनः क्षितिपतेस्तापसवेषिणः ॥४५॥इत्यहं शब्दमुच्चार्य कमण्डलुजलं शुभम् ।ददौ तस्मै स राजाऽपि विस्मयं परमं गतः ॥४६॥आकस्मिकः साधुवेषश्चातिथिः कुत आगतः ।भवेद्वा मे मनःपूर्तिकरो दिव्योऽयमच्युतः ॥४७॥अतिथिः पूजनीयो वै साधुस्तत्र विशेषतः।विचार्येत्थं समुत्थाय राजा पपात पादयोः ॥४८॥आसनं प्रददौ चार्घ्यं मधुपर्कं ददौ तथा ।पूजनं प्रचकारापि पुष्पगन्धफलादिभिः ॥४९॥नमस्कारं विधायाऽथ पप्रच्छागमनं प्रति ।धन्योऽहं कृतकृत्योऽहं साधुजनस्य दर्शनात् ॥५०॥तीर्थरूपं परं वारि प्राप्तं यस्य कमण्डलोः ।दर्शनं पावनं लब्धं सर्वेन्द्रियपवित्रकृत् ॥५१॥स्पर्शनं पापहारं च लब्धं साधुपदस्य ह ।सेवनं च प्रसादं च लप्स्येऽद्य भाग्यवैभवात् ॥५२॥कृपया चापि च दिव्यानुग्रहात् पुण्यसञ्चयात्॥इत्युक्त्वा मौनमास्थाय तस्थावग्रे कृताञ्जलिः । ॥५३॥अहं साधुस्वरूपश्चाऽवदं श्रेयोयुतो भव ।कुशलं ते भूप किंवा ब्रूहि तपसि कारणम् ॥५४॥राजोवाच हि साधूनां कृपया कुशलं मम ।पुत्रवान् धनवानस्मि भक्तिमानस्मि साधुषु ॥५५॥तथाप्यकुशलं चास्ते पुत्रः पश्यति नैव मे ।जन्मान्धो विद्यते साधो वद् किं कारणं भवेत् ॥५६॥तस्य वै दृष्टिमत्वार्थं तपः करोमि माधवे ।आराधनात्मकं नान्यकांक्षा मे वर्तते प्रभो ॥५७॥पुत्रोऽचक्षुर्भवेद् यस्य राज्यमन्धं तु तस्य वै ।अनन्धस्य गृहे चाऽऽन्ध्यं वंशे चान्ध्यं हि दुःखदम् ॥५८॥आन्ध्यमेतत् कथं दूरं यायाज्जानासि दर्शय ।कृतकृत्यो भवाम्येवं साधोस्तेऽत्र समागमात् ॥५९॥साधूनां वचनं दिव्यं सत्यार्थं सिद्धिदं सदा ।साधूनां हृदयं सौम्यं सर्वदुःखहरं खलु ॥६०॥साधूनां दर्शनं पुण्यं सेवनं मोक्षदं तथा ।सर्वाशापूरकः साधोरनुग्राहः समर्जितः ॥६१॥इत्युक्त्वा विररामाऽसौ लक्ष्मि चाऽहं तदाऽवदम् ।शृणु राजँस्तव पुत्रः पूर्वजन्मनि तापसः ॥६२॥यथाऽहं तापसवेषस्तथा स तापसोऽभवत् ।नाम्ना दुर्वोढको विप्रो दरिद्रो राज्यवा़ञ्छया ॥६३॥अकरोत् स तपो रेवातटे तीर्थे तु शुक्लके ।बहवो यत्र चायान्ति यान्ति तीर्थार्थिमानवाः ॥६४॥नरा नार्यस्तत्र तीर्थे स्नान्ति प्रयान्ति पार्श्वतः ।दुर्वोढकः प्रपश्यन् वै तपःस्थले प्रतिष्ठति ॥६५॥बलवच्चेन्द्रियं लक्ष्मि मानसं बलवत्तथा ।विषये पुरतो याते चागते चञ्चलं भवेत् ॥६६॥तन्निरोधस्तापसेन कर्तव्यः सर्वदा रमे ।इन्द्रियाणां मनसश्चाऽनिरोघे निष्फलं तपः ॥६७॥प्रमाथि मानसं कस्मिन् क्षणे नेष्यति दुष्पथम् ।निश्चयश्चापि विश्वासो नास्ति तन्मनसः सदा ॥६८॥एकदा त्वं स्वयं राजा तीर्थार्थं सकुटुम्बकः ।यथापेक्षितवस्त्वाढ्यः परिमेयपुरःसरः ॥६९॥गतो रेवां प्रति शुक्लतीर्थं स्नातुं तु पर्वणि ।यत्राऽयं तापसः साधुर्विप्रस्तपति तत्स्थले ॥७०॥मनाग् दूरे चाम्रवणे त्वं निवासं तदाऽकरोः ।ज्ञात्वा तपस्विनं साधुं जटिलं त्वं च तत्पुरः ॥७१॥सपत्नीको नमस्कारमकरोः पूजनं तथा ।फलादिकं चाऽऽर्पयश्च राज्ञी च भावपूरिता ॥७२॥साधोश्चरणौ प्रक्षाल्य जलं पपौ तव प्रिया ।रूपयौवनसौन्दर्यपुष्टिशृंगारशालिनीम् ॥७३॥वीक्ष्य तां मोह उत्पन्नो विप्रस्याऽस्य तपस्विनः ।सकामं चापि प्रच्छन्नं चक्षुर्द्वयं प्रयोजितम् ॥७४॥तेन विप्रेण शिष्यायां राज्ञ्यां तदा तु तीर्थके ।पुण्यायां सेविकायां च तथैव राजमातरि ॥७५॥सकामस्तपसि दृब्धो राज्यार्थं लालसान्वितः ।अजितेन्द्रियचित्तश्च दृष्टिपापं तदा व्यधात् ॥७६॥भवन्ति खलु जात्यन्धा जन्मान्धा रागिणस्तु ते ।परस्त्रियां तु ये मुग्धा दुष्टचक्षुः प्रयुञ्जते ॥७७॥एवमेतस्य विप्रस्य तापसस्य तदा खलु ।रूपसौन्दर्यमुग्धस्य मोहपापं तदा ह्यभूत् ॥७८॥तस्मान्मोहाऽनुद्भवार्थं रूपवत्यः स्त्रियः सदा ।धर्मरक्षार्थमेवापि दर्शयन्ति मुखं नहि ॥७९॥लज्जावस्त्रं प्रावरणं मुखोपरि प्रकाशने ।सदा रक्षन्ति सन्नार्यः पातिव्रत्यादिगुप्तये ॥८०॥दर्शनं मोहकृत्तस्माद्दर्शनं न ददत्यपि ।असूर्यम्पश्यास्तिष्ठन्ति प्रावरणेन चावृताः ॥८१॥अथ राजन् तापसः स कालेन निधनं गतः ।तव पुत्रो ह्ययं जातो यस्यां मुग्धस्तद्गर्भजः ॥८२॥तपःफलं राज्यमेतल्लब्धं तेन महात्मना ।दुष्टचक्षुर्दृष्टिफलं जन्माख्यं लब्धमेव च ॥८३॥तपसा ते प्रभक्तस्य पूजादिभिः प्रतोषितः ।समायातोऽस्मि भगवान् शालग्रामे तु यः स्थितः ॥८४॥सोऽहं नारायणकृष्णो भवामि ते ह्यभीष्टदः ।ब्रूहि राजन् ददाम्यत्र यत्ते मनसि रोचते ॥८५॥भक्तार्थं त्वागतोऽस्म्यत्र यदिच्छसि ददामि ते ।इत्युक्तः स तु राजर्षिः पृथ्वीधराभिधस्तदा ॥८६॥ययाचे सुतदृष्टिं च भक्तिं मे पादयोस्तथा ।अन्ते धामाऽक्षरं चापि वंशं च भक्तमेव ह ॥८७॥श्रुत्वाऽहं प्रददौ तस्मै तथाऽस्त्वेवं भविष्यति ।जलं कमण्डलोर्दत्वा तिरोभावं ततः स्थलात् ॥८८॥राजा प्रसन्नचित्तस्तु तपः पूर्णं विधाय च ।ययौ सवल्कलो नैजं ग्रामस्थं भवनं प्रति ॥८९॥प्रजाभिः पूजितश्चापि लक्षितो वरपात्रकः ।प्राप्तमनोरथश्चापि जयशब्दैः प्रवर्धितः ॥९०॥ययौ स्वभवनं तावद् वाद्यानि चोत्तमानि वै ।अवाद्यन्त समन्तात्तु राज्ञी प्रसन्नतां ह्यगात् ॥९१॥राजा सुतं प्रति गत्वा मया दत्तं जलं द्रुतम् ।पुत्रनेत्रे ददौ नेत्रं जलस्पर्शात् सदृष्टिकम् ॥९२॥दक्षं ह्यभूत् ततो वामं जलस्पर्शात् सदृष्टिकम् ।जातं महोत्सवश्चासीत्तपःफलं समर्जितम् ॥९३॥अथ पुत्रो युवा जातो जातिस्मरो हि सर्वदा ।दुष्टचक्षुःफलं नैजं स्मरत्येव सदा ततः ॥९४॥महाभागवतः सोऽपि जातो धर्मसमन्वितः ।नाम्ना चित्रध्वजो राजा साधुभक्तः प्रतापवान् ॥९५॥भजते मां सदा लक्ष्मि राज्यं पित्रा समर्पितम् ।सञ्चालयति नीत्या वै प्रजास्तोषयत्येव सः ॥९६॥पिताऽस्य निधनं यातो विमानेन तदाऽप्यहम् ।स्वधामाऽक्षरमेवैनं प्रापयामास वैष्णवम् ॥९७॥एवं मया स्वभक्तस्य तपसा ह्येधितस्य च ।इच्छापूर्तिः कृता पुत्रचक्षुर्दानेन विष्णुना ॥९८॥भक्तानां सर्वथा लक्ष्मि चान्ध्यं बाह्यं च वाऽऽन्तरम् ।नाशयामि प्रसन्नोऽहं भक्तिवश्यो भवन् भुवि ॥९९॥आत्मप्रकाशं दिव्यं च ददामि ज्ञानशेवधिम् ।येन मायातमस्तीर्त्वा प्रयान्ति परमं पदम् ॥१००॥पठनाच्छ्रवणाच्चास्य स्मरणाद् भजनान्मम ।भुक्तिमुक्तिर्भवेच्चापि सम्पत् सौख्यं प्रमोक्षणम् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पृथ्वीधराभिधनृपतेर्जन्मान्धपुत्रस्य प्राग्जन्मवृत्तान्तं भगवता कृतसदृष्टिकत्वं चेत्यादिनिरूपणनामा द्व्यशीत्यधिकशततमोऽध्यायः ॥१८२॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP