संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १४० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १४० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४० Translation - भाषांतर श्रीनारायणीश्रीरुवाच-भगवन् पावनान्येव व्रतानि कथितानि मे ।नवनवानि चान्यानि शिष्टान्यपि निवेदय ॥१॥श्रीपुरुषोत्तम उवाच-बहूनि सन्ति कमले! व्रतानि मोक्षदान्यपि ।भुक्तिदान्यपि बहुधा वदामि शृणु तान्यपि ॥२॥फलेच्छया विहितानि भोगदानि भवन्ति वै ।मम प्रसन्नतार्थं तु कृतानि मोक्षदानि हि ॥३॥सम्वत्सरं नक्तभोजी नक्तव्रतं समीरितम् ।कार्तिकाद्वा ह्यषाढाद्वा समारभेत तद्व्रती ॥४॥एकादशीं समारभ्य वर्षे पूर्णे तु धेनुयुक् ।चक्रं सुदर्शनं हैमं दद्याच्छ्रीगुरवेऽर्पणे ॥५॥सुसाधून् भोजयेच्चापि व्रतोद्यापनमाचरेत् ।वस्त्रदानानि दद्याच्च विष्णुलोके स मोदते ॥६॥एकभक्तं व्रतं कुर्यान्मध्याह्ने भोजनात्मकम् ।देवाय सर्वं प्राऽर्प्यैव भुञ्जीत नाऽन्यया क्वचित् ॥७॥वर्षव्रतं भवेदेतद् वर्षान्ते च महोत्सवम् ।उद्यापनं कारयेच्च वृषभं कानकं दिशेत् ॥८॥भोजनानि दिशेच्चापि साधुभ्यो गां दिशेदपि ।एकान्तरव्रतं चापि वर्षमात्रं प्रपालयेत् ॥९॥एकान्तरितभोजी स्याद् व्रतान्ते च महोत्सवम् ।स्वर्णपद्मं दिशेद् दाने ह्युद्यापनं समाचरेत् ॥१०॥शर्करापूर्णपात्रं च दद्यात् प्रभोजयेत् सतः ।व्रती याति महापुण्यं चान्तेऽपि वैष्णवं पदम् ॥११॥चातुर्मास्ये वर्जयेच्च देहाभ्यंगं सुतैलजम् ।अभ्यंगवर्जनं त्वेदत् व्रतं प्रोक्तं तपः परम् ॥१२॥व्रतान्ते तैलदानादि दद्याच्च भोजन्यान्यपि ।मम प्रीतिकरं त्वेतत्तेन याति हरेः पदम् ॥१३॥रसानां वर्जनं चापि रसव्रतं प्रकीर्तितम् ।मधुनारिकेलवारिदधिक्षीरघृतैक्षवम् ॥१४॥वर्जयेद् वत्सरान्ते वा ह्युद्यापनं समाचरेत् ।रसदानादि दद्याच्च सूक्ष्मवस्त्राणि चार्पयेत् ॥१५॥कामव्रतं प्रकुर्याच्च सदा शोकविनाशकम् ।चातुर्मास्ये ब्रह्मचर्यपरायणः सदा भवेत् ॥१६॥पूर्णे व्रते कांचनस्याऽशोकवृक्षं समर्पयेत् ।इक्षुं समर्पयेच्चापि वस्त्राण्यपि समर्पयेत् ॥१७॥उद्यापनं चरेद्भुक्त्वा भोगान् विष्णुपदं व्रजेत्॥नखानां कर्तनं चातुर्मास्ये व्रती हि वर्जयेत् ॥१८॥केशानां वपनं चापि चातुर्मास्ये विवर्जयेत् ।अकर्तनसंज्ञं चैतद् व्रतं कृत्वा महोत्सवम् ॥१९॥कुर्यादुद्यापनं चान्ते भोजयेत् पायसं सतः ।कानकान्नखकेशाँश्च दाने दद्याद् द्विजातये ॥२०॥सौम्यां मूर्तिं मम लक्ष्मि तव प्रतिदिनं दिशेत् ।मासपर्यन्तमेवैतत् सौम्यव्रतं प्रकीर्तितम् ॥२१॥वैकुण्ठे सौम्यमुक्तः स्यादत्र वै चन्द्रमा भवेत् ।बहुदानानि रत्नानां दद्यात्तु श्रावणाऽन्तके ॥२२॥कार्तिके कानकीं मूर्तिं गृहोपस्करशोभिताम् ।दद्यात् सम्पूज्य गुरवे सौभाग्यव्रतमुच्यते ॥२३॥विष्णोर्मूर्तिं श्रिया मूर्तिं दद्याच्छ्रीगुरवे तदा ।अन्यदानानि कुर्वीत श्रीहरिः प्रीयतामिति ॥२४॥सारस्वतं व्रतं कुर्यात् सन्ध्यायां मौनमेव तु ।सम्वत्सरं व्रतं कृत्वा घृतकुंभं तिलान् घटम् ॥२५॥वस्त्रयुग्मं च पात्रं च घण्टां दद्याद् द्विजायते ।गोदानं गुरवे दद्यात् पुस्तकानां प्रदानकम् ॥२६॥सारस्वतव्रतं चेदं विद्यारूपादिदायकम् ।अथ सम्पद्व्रतं कुर्यात् पञ्चम्यां माधवीं सतीम् ॥२७॥लक्ष्मीं नित्यं पूजयेच्च वर्षान्ते हेमपद्मकम् ।कमलं गुरवे दद्याद्धेनुं दोग्ध्रीं सवत्सिकाम् ॥२८॥स वैष्णवं पदं याति लक्ष्मीवान् जन्मजन्मसु ।नित्यं वै मार्जयेत् सर्वं मन्दिरं श्रीपते प्रभोः ॥२९॥वर्षान्ते प्रदिशेद्धेनुं दोग्ध्रीं जलघटं तथा ।जन्मायुतं स राजा स्यात्ततो विष्णुपुरं व्रजेत् ॥३०॥एतदायुर्व्रतं नाम पापमार्जनकारकम् ।अथ कीर्तिर्व्रतं कुर्यादेकभुक्तं सदाऽऽचरेत् ॥३१॥वर्षान्ते धेनुदशकं दद्याद् वृक्षं हिरण्मयम् ।अश्वमेधफलं स्याच्च भूतिकीर्तिफलं भवेत् ॥३२॥अथ सामव्रतं प्रोक्तं नित्यं स्तोत्रं प्रकीर्तयेत् ।हरेरग्रे त्रिकालं वै तिलदानं च नित्यदा ॥३३॥पुष्पाऽक्षतप्रदानं च हरये पूजनार्थकम् ।सम्वत्सरान्ते पूर्णे च हेमपद्मं दिशेन्महत् ॥३४॥अष्टांगुलं तिलधेनुं दद्याद्याति परं पदम् ।अथ वीरव्रतं कुर्यान्नवम्यामेकभुक्तकः ॥३५॥कन्यका भोजयेद् वर्षं वर्षान्ते हेमकञ्चुकीः ।शाटीर्हैमं केशरिणं दद्याच्छ्रीगुरवे तथा ॥३६॥कन्यकाभ्यो यथायोग्यभूषाम्बरादि चार्पयेत् ।जन्मार्बुदं सुरूपः स्याच्चाऽन्ते धाम हरेर्व्रजेत् ॥३७॥सम्वत्सरं पूर्णिमायां पयोव्रती भवेत्तथा ।समान्ते पञ्चधेनूश्च दोग्ध्रीर्दद्यात् सवत्सिकाः ॥३८॥वासांसि च पिशंगानि जलकुंभयुतानि च ।स याति वैष्णवं लोकं पितॄणां तारयेच्छतम् ॥३९॥पितृश्राद्धं कारयेच्च पितृव्रतमिदं मतम् ।अथ चैत्रादिमासेषु चतुर्षु शीतलं जलम् ॥४०॥पाययेत् सर्वलोकांश्च व्रतान्ते मणिकं दिशेत् ।अन्नवस्त्राणि दद्याच्च तिलपात्रं सुवर्णकम् ॥४१॥जलानन्दव्रतं त्वेतत् कल्पान्तो भूपतिर्भवेत् ।अथ कुर्याद् धृतिव्रतं प्रत्यहं श्रीहरिं तु माम् ॥४२॥पञ्चामृतेन सुभगं स्नपनं कारयेत्ततः ।वर्षान्ते शंखदानं च कुर्याद् याति हरेः पदम् ॥४३॥मा हिंस्यात् सर्वभूतानि वर्षान्ते व्रतकृज्जनः ।गोदानं हेमहरिणप्रदानं चाचरेत् त्विदम् ॥४४॥अहिंसाव्रतमेतेन कल्पान्तो भूपतिर्भवेत् ।अथ माघस्नानमेव कुर्याच्छीतेन वारिणा ॥४५॥सूर्यं नित्यं पूजयेच्च दद्याद् दानं द्विजातये ।धान्यवस्त्रविभूषादि सूर्यव्रतं तदुच्यते ॥४६॥चातुर्मास्ये महाविष्णुं महालक्ष्मीं च पूजयेत् ।गोदानं भोजनं चापि यथाशक्ति दिशेद् व्रती ॥४७॥स वैष्णवपदं याति विष्णुव्रतमिदं शुभम् ।अथ व्रतं शीलनाम शीलाऽऽरोग्यफलप्रदम् ॥४८॥वर्षं पूर्णं ब्रह्मचर्यं पालयेत् स्त्रीः नरोऽपि वा ।घृतधेनुः प्रदद्याच्च पुष्पमालाः सदाऽर्पयेत् ॥४९॥सुसाधून् घृतमुत्कृष्टं पायसं भोजयेत्तथा ।उद्यापनं वत्सरान्ते कुर्याद् धान्यधनं दिशेत् ॥५०॥अनादिश्रीकृष्णनारायणाऽक्षरं प्रयाति सः ।अथ वर्षं न भुञ्जीत तैलं यच्छेत्प्रदीपकम् ॥५१॥स्वर्णं दीपं काञ्चनं च चक्रं दद्याद् द्विजातये ।वस्त्रयुग्मं प्रददेत याति ब्रह्मपदं हि सः ॥५२॥दीपव्रतमिदं प्रोक्तं दीप्तिदं रूपदं तथा ।अथ कार्तिकमारभ्य नक्तं भुञ्जीत पायसम् ॥५३॥वर्षान्ते गां प्रदद्याच्च पायसाख्यव्रतं त्विदम् ।कल्याणकारकं पृथ्व्या राज्यप्रदं प्रमोक्षदम् ॥५४॥अथ गन्धानुलेपादि वर्जयेद् वत्सरं सदा ।निर्गन्धाख्यं व्रतं प्रोक्तं वर्षान्ते गन्धदानकम् ॥५५॥अथ कान्तिव्रतं कुर्याद् गोदानं प्रत्यहं दिशेत् ।लवणं नैव भुञ्जीत सम्वत्सरं ततः परम् ॥५६॥उद्यापनं प्रकुर्याच्च कान्तिकीर्तिफलप्रदम् ।राजा भूत्वा कल्पपूर्णं विष्णुलोके वसेद् ध्रुवे ॥५७॥ब्रह्मव्रतं ततः कुर्याद् ब्रह्माण्डं काञ्चनं शुभम् ।स्वल्पं तिलसमायुक्तं पुण्ये दिने द्विजायते ॥५८॥दद्यात् त्रिदिवसान् तिलाशनो भवेद् व्रती तथा ।माल्यवस्त्रविभूषाणां दानं कुर्याद् व्रती परम् ॥५९॥ब्रह्मलोकं प्रयात्येषो निर्वाणपदमाप्नुयात् ।शक्तितस्त्रिपलादूर्ध्वं ब्रह्माण्डं परिकीर्तितम् ॥६०॥अथ धेनुव्रतं कुर्यात् त्र्यहं पयोव्रती भवेत् ।काञ्चनं च वृषं धेनुं ददेतोभयतोमुखीम् ॥६१॥तण्डुलान् सम्प्रयच्छेच्च पलोर्ध्वं कानकं वृषम् ।दत्वा ब्रह्मपदं याति गोलोकं धेनुसद्व्रतात् ॥६२॥अथ कल्पव्रतं कुर्यात् पलोर्ध्वं कल्पपादपम् ।कृत्वा दद्यात् साधवे च तण्डुलान् द्विदलान्वितान् ॥६३॥कल्पदानेन कल्पान्ते स्वर्गाद् गच्छति मत्पदम् ।अथ मासोपवासी स्यात् प्रयच्छेन्महिषीं शुभाम् ॥६४॥दोग्ध्रीं श्रीगुरवे चैतन्माहिषं व्रतमुच्यते ।दद्याद् विंशतिपलोर्ध्वं पृथिवीं काञ्चनीं शुभाम् ॥६५॥धराव्रतमिदं प्रोक्तं त्वैकभोजी दिने भवेत् ।सप्तकल्पशतान्येव वसति श्रीशमन्दिरे ॥६६॥ततो यात्यक्षरं धाम धराव्रतकरः पुमान् ।मद्भक्तो मां प्रयात्येव पार्षदः सन् प्रसेवते ॥६७॥माघे चैत्रे गुडं दद्याद् गुडव्रतपरायणः ।गुडभोजी गुडपायी तिलैर्गुडैः प्रपूजयेत् ॥६८॥मां. लक्ष्मीं च गुडदाने दद्याद् गुडमयीं गुडम् ।गुडव्रतमिदं प्रोक्तं मुक्तिदं मोक्षदं तथा ॥६९॥अथ पक्षोपवासी स्यात् कपिलायुगलं दिशेत् ।उद्यापनं प्रकुर्याच्च परमानन्दकारकम् ॥७०॥कल्पान्ते राजराजः स्यात् कपिलाव्रतमेव तत् ।अथ वर्षं चैकभोजी नित्यभोज्यजलप्रदः ॥७१॥विष्णुलोके वसेदन्ते प्राप्तिव्रतमिदं मतम् ।नक्ताशी चाष्टमीषु स्याद् वत्सरान्ते च धेनुदः ॥७२॥स्वर्गं याति ततश्चान्ते ब्रह्मपदं प्रयाति सः ।सुगतिव्रतमेवेदं प्रोच्यते सद्गतिप्रदम् ॥७३॥विप्रायेन्धनदो यस्तु वत्सरं धेनुदस्तथा ।वैश्वानरव्रतं चेदं तत्कर्ता ब्रह्म गच्छति ॥७४॥एकादश्यां व्रतकर्ता द्वादश्यां काञ्चनीं शुभाम् ।अनादिश्रीकृष्णनारायणमूर्तिं ददाति च ॥७५॥समान्ते वैष्णवं हैमं चक्रं ददाति यो व्रती ।एतत्कृष्णव्रतं कृत्वा कल्पान्ते राज्यभाग् भवेत् ॥७६॥वर्षान्ते मां प्रदायैव मम धाम ह्यवाप्नुयात् ।पायसाशी समान्ते तु दद्याद् विप्राय गोयुगम् ॥७७॥लक्ष्मीलोकमवाप्नोति श्रीव्रतं चैतदुच्यते ।सप्तम्यां यः प्रदद्याच्च धेनुं पयस्विनीं शुभाम् ॥७८॥सूर्यलोकं प्रयात्येव भानुव्रतं तदुच्यते ।चतुर्थ्यां नक्तभुक् दद्यादब्दान्ते हेमहस्तिनम् ॥७९॥व्रतं वैनायकं नाम भुक्तिमुक्तिफलप्रदम् ।चातुर्मास्ये स्वर्णरूप्यफलानि चार्पयेद् व्रती ॥८०॥फलव्रतं विष्णुलोकप्रदं त्वेतन्महाबलम् ।यश्चोपवासी सप्तम्यां समान्ते हैमपंकजम् ॥८१॥गाश्च दद्यात् स्वर्णघटे सौरव्रतं प्रकीर्तितम् ।सूर्यलोकप्रदं चैतत् सूर्यदानं दिशेदपि ॥८२॥द्वादश द्वादशीर्यस्तु समाप्योपोषणेन ह ।गोवस्त्रकांचनभूषा दद्याच्छ्रीगुरवे व्रती ॥८३॥परं पदमवाप्नोति विष्णुव्रतमिदं रमे ।कार्तिक्यां तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ॥८४॥शैवपदं समाप्नोति वार्षव्रतमिदं मतम् ।गोपदानि सुवर्णानि दद्याद् दाने पदव्रतम् ॥८५॥सप्तरात्रोषितो दद्याद् घृतकुंभं तु साधवे ।घृतव्रतमिदं प्रोक्तं ब्रह्मलोकफलप्रदम् ॥८६॥आकाशशायी वर्षासु चान्ते धेनुं पयस्विनीम् ।दद्यादाकाशसंज्ञं च व्रतमिन्द्रपदप्रदम् ॥८७॥अनग्निपक्वभोजी च तृतीयायां ततः परम् ।गोदानं तु प्रकुर्याद्वै मासान्ते यः पयस्विनीम् ॥८८॥श्रेयोव्रतमिदं प्रोक्तं गोलोकदं सुखप्रदम् ।हैमं पलद्वयादूर्ध्वे रथं चाश्वयुजं शुभम् ॥८९॥ददानो द्राग् वसेत् स्वर्गे कल्पशतं रथव्रती ।कल्पान्ते राजराजः स्यात्ततो याति परं पदम् ॥९०॥षष्मासानुपवासान् यः कुर्यादेकान्तरं दिनम् ।समान्ते गोप्रदः स्याच्च वारुणं व्रतमुच्यते ॥९१॥वारुणं राज्यमासाद्य ततो याति परं पदम् ।चान्द्रायणं व्रतं कुर्याद्धेमचन्द्रं दिशेत् सते ॥९२॥चन्द्रव्रतमिदं श्रेष्ठं चन्द्रलोकफलप्रदम् ।ज्येष्ठे पञ्चतपा नित्यं हेमधेनुप्रदो भवेत् ॥९३॥तपोव्रतमिदं प्रोक्तं साम्राज्यं लभते ततः ।वैकुण्ठं चापि गोलोकं चाऽक्षरं लभते ततः ॥९४॥देवालये वितानं तु दद्यात् पटादिभिः कृतम् ।वितानदो दिवं याति वितानव्रतसत्फलात् ॥९५॥माघे निन्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् ।राजा भवेद् दिवं याति चार्द्रव्रती प्रमुक्तिगः ॥९६॥श्रेष्ठं तु भवनं धाम ददाति फाल्गुने तु यः ।धामव्रती प्रयात्येव परमेश्वरमन्दिरम् ॥९७॥साधुं साध्वीं प्रपूज्यैव भोजयेद्मिष्टमुत्तमम् ।स्वयं प्रसादं भुञ्ज्याच्च प्रसादाख्यव्रतं त्विदम् ॥९८॥सर्वपापहरं पुण्यप्रदं मोक्षप्रदं तथा ।पावनं सर्वश्रेष्ठं वै पंक्तिपावनमुत्तमम् ॥९९॥प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः ।नित्यं वैश्वानरपूजाकर्ता याति विभावसुम् ॥१००॥वैश्वानरव्रतं चेदं दिव्यतादं सुखप्रदम् ।दशम्यानेकभक्ताशीं समान्ते दशधेनुदः ॥१०१॥सुवर्णपत्रिकां दद्याद् ब्रह्माण्डाधिपतिर्भवेत् ।विश्वव्रतं प्रोच्यते वै लक्ष्मि पुण्यस्य सागरः ॥१०२॥कीर्तनं सर्वदा कुर्यात् कीर्तनाख्यं व्रतं त्विदम् ।कथां च सर्वदा कुर्यात् कथाख्यं तु व्रतं त्विदम् ॥१०३॥भजनं सर्वदा कुर्याद् भजनाख्यं व्रतं त्विदम् ।एकषष्टिव्रतान्येवं लक्ष्मि ते कथितानि वै ॥१०४॥लोकानामुपकारार्थं यतो लोकस्त्रिरंगवान् ।पठनाच्छ्रवणाच्चास्य स्मरणात् करणादपि ॥१०५॥अनुमोदनदानाच्च सहाय्यकरणादपि ।व्रतपुण्यं लभेतैव भुक्तिं मुक्तिमवाप्नुयात् ॥१०६॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने प्रकीर्णकानामेकषष्टिव्रतानां संक्षेपतो निरूपणनामा चत्वारिंशदधिकशततमोऽध्यायः ॥१४०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP