संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं प्राकट्यं मे ततः परम् ।वेधसो मानवाख्ये वै चैकत्रिंशे तु वत्सरे ॥१॥कल्पे तु षट्शते त्रयोदशे मनौ तदा पुरा ।ब्रह्मणः पृष्ठनिम्नाऽधोभागान्मलिमसोऽसुरः ॥२॥हल्लकाऽऽख्यो बभूवाऽपि शवभक्षो भयंकरः ।तपस्तेपे महाघोरं चार्धकल्पं हि दारुणम् ॥३॥ब्रह्मा तुतोष च ततो गोचरोऽस्याऽभवद् भुवि ।असुरो मृत्तिकाभूतो वल्लीवृक्षाधिरोहितः ॥४॥अस्थिमृदस्तितामात्रो यत्राऽऽसीत् तत्र विश्वसृट् ।गत्वा जलेनाऽभिषिच्य द्रुमानुत्सार्य पार्श्वतः ॥५॥मृत्तिकाद्रुमूलभागात् हल्लकं चाऽभ्यजीवयत् ।वल्लीपादशरीरश्च हरिद्वर्णोऽतिदुर्बलः ॥६॥श्मश्रुलो वेधसः पुत्रस्तूत्तस्थौ मूलजालकात् ।वेधसं जीवयन्तं स्वं वीक्ष्य नेमेऽतिभावतः ॥७॥ययाचेऽपि वरं श्रेष्ठं कालसंहारकारकम् ।कालं वा कालरूपं वा संहारकं हि देहिनाम् ॥८॥संहारयाम्यहं चैवं वरं देहि पितामह ।ब्रह्मा प्राह वरश्चाऽयं मे बलादतिरिच्यते ॥९॥नाऽहं दातुं समर्थोऽस्मि कालाधीनोऽस्म्यहं यतः ।हल्लकस्तु तदा प्राह देहि चेत् तं न चाऽपरम् ॥१०॥तपः करिष्ये सततं तदर्थं वै पितामह ।कालं हन्तुं समर्थो वै कश्चिदेव हरिं विना ॥११॥नैवाऽस्ति सृष्टिजो व्यक्तिविशेषोऽपि कथंचन ।अतो हल्लक! यद्वच्मि शृणु ते यदि रोचते ॥१२॥कालस्य खलु रूपाणि बहूनि सन्ति सृष्टिषु ।तेष्वेकस्यैव रूपस्य सकृत् हन्ता भविष्यसि ॥१३॥यदि ते रोचते त्वेतत्तदा गृहाण मे वरम् ।इत्युक्तो मोहवशगो हल्लको वै तदा वरम् ॥१४॥जग्राह तत्तपस्त्यक्त्वा ययौ मेरुगुहां प्रति ।ब्रह्मणो वरदानेन गर्विष्ठो वर्तते सदा ॥१५॥सुरान् दैत्यान् राक्षसांश्च दानवान् किन्नरादिकान् ।तामसान् राजसान् देवान् यक्षान् किंपुरुषादिकान् ॥१६॥गन्धर्वांश्चारणाँश्चापि गणयत्येव नैव सः ।अवमानं करोत्येव युद्ध्यत्येव स्थले स्थले ॥१७॥ब्रह्मणो वरदानस्याऽनर्थं प्रकाशयत्यपि ।कालनाशक एवेति निजं प्रख्यापयत्यपि ॥१८॥स्वर्गे जयं समासाद्य पातालेषु ययौ ततः ।तत्रापि विजयं प्राप्य लोकालोकं ययौ हि सः ॥१९॥सर्वत्र विजयं प्राप्य यमलोकं ततो ययौ ।यमस्तं पूजयामास ज्ञात्वा कालविनाशकम् ॥२०॥हल्लकोऽयं ततो ज्ञात्वा निजं विजयिनं परम् ।ययौ कैलासलोकं स जेतुं रुद्रं शिवं हरम् ॥२१॥गणाः कैलासवासा वै जङ्गभद्रादयस्तु तम् ।न्यवारयन् गोपुराद् वै ततोऽसौ हल्लको रुषा ॥२२॥युयुधे द्वारपालैश्च विजित्य तान् गणान् परान् ।गणेशान् भूतमूर्धन्यान् भैरवादींस्ततः परम् ॥२३॥शंभुगृहं ययौ क्रूरो दुष्टो मलिनवासनः ।कैलासं वै निजं कर्तुं वशे कर्तुं सतीं तथा ॥२४॥गणान् भृत्यांस्तथा कर्तुमियेष वीक्ष्य सम्पदः ।प्राह शंभुं भव भृत्यो मम शंभोऽन्यथा तव ॥२५॥विधास्येऽहं विनाशं वै देहि सतीं तु मे तव ।कैलासराज्यं मे दत्वा याहि त्वं मेरुपर्वतम् ॥२६॥पुनः कालान्तरे दास्ये तृप्तोऽहं ते यथायथम् ।शंभुर्विचारयामास बलं त्वस्य भवेत् कियत् ॥२७॥योत्स्येऽनेन तु बलिना ब्रह्मणो वरयोगिना ।नाशयिष्ये क्षणादेनं वरदानयुताऽसुरम् ॥२८॥विचार्यैवं कालरूपं रौद्रं दधार शंकरः ।त्रिशूलं त्वन्तिमलयकर्तृ दधार तैजसम् ॥२९॥सांकर्षणं भीमरूपं कृत्वा शीघ्रं समाययौ ।युद्धार्थं तस्य सान्निध्यं तावत् हल्लक इत्यपि ॥३०॥जग्राह पार्वतं रूपं भयकृच्च विनाशकृत् ।सशूलचन्द्रकशस्त्रं करे दधार चाऽऽयसम् ॥३१॥कालकालो यथा भाति तथा भात्यत्र हल्लकः ।युद्धदुन्दुभयो नेदुः कैलासे गणताडिताः ॥३२॥देवा देवेश्वरास्तत्राऽऽययुः कौतुककर्षिताः ।शंभोः साहाय्यकाः सर्वे दिक्पालाश्च समाययुः ॥३३॥युद्धं हल्लकहरयोर्जातं प्रलयकारकम् ।मेघा नष्टाः फटाकैश्चाऽद्रयो नष्टाश्च हेतिभिः ॥३४॥क्षितिः शीर्णा पत्प्रघातैः कम्पैश्चुक्षुभिरेऽब्धयः ।वेगैर्निपेतुस्ताराश्च जगर्जुर्नादनैर्दिशः ॥३५॥गणा गणेश्वरास्तत्र त्रासमापुर्मृतिं प्रति ।भग्नाः केचित् कटिभागात् केचित् स्कन्धप्रदेशतः ॥३६॥अन्ये गलात्परे जान्वोर्भागाद् भग्ना मृतिं ययुः ।भूतप्रेतपिशाचादीन् कालभैरवभैरवान् ॥३७॥हस्तेनैकेन संगृह्य मुखे न्यस्याऽत्ति हल्लकः ।शूरभद्रं वीरभद्रं जङ्गभद्रं सुभद्रकम् ॥३८॥वामहस्तेन युगपन्मुखे न्यस्य चखाद तान् ।एतादृशो महानास्ते कालकालो महासुरः ॥३९॥शंकरः संशयमाप्तो जये त्रिशूलसंस्रवात् ।शंभोर्हस्तगतं शूलं स्रंसते स्म पुनः पुनः ॥४०॥वृषभश्च तथा सिंहो द्वावेतावपि वै तदा ।हल्लकस्य प्रचक्रेण निकृतौ मृत्युमापतुः ॥४१॥सती संशयमापन्ना जीवने शंकरस्य तु ।शीघ्रं शंभोः शरीरे सा तिरोभावमुपागता ॥४२॥शंभुर्विज्ञाय कैलासं छिन्नं भिन्नं मृतानुगम् ।त्यक्त्वा च जीवनाऽऽशां स दुद्राव हल्लकाऽन्तिकम् ॥४३॥पुरश्चागत्य शीघ्रं स्वं त्रिशूलं प्रलयानलम् ।मारयामास मूर्ध्न्यस्य हल्लकस्य गलोपरि ॥४४॥हस्ताद् वियुज्य वेगेन हल्लकस्य गले गतम् ।प्रविष्टं चाऽनलप्रख्यं त्रिशूलं तद्धरस्य यत्। ॥४५॥निगलितं गतं तत्र रसभावमुपागतम् ।पथ्यं जातं हल्लकस्योदरेऽमृतमिवाऽभवत् ॥४६॥अत्यद्भुतमिदं जातं कालशूलं हि जीर्णितम् ।एवमन्यानि शूलानि त्रिशूलानि च हेतयः ॥४७॥सर्वे हल्लकवर्ष्माऽऽप्य रसभावमुपागताः ।अहेतिः शंकरो जातस्तदा विष्णुं तथा ह्यजम् ॥४८॥प्रसस्मार शिवस्तूर्णं विष्णुस्तत्र ह्युपाययौ ।चक्रं ददौ निजं तस्मै हराय च हरोऽपि तत् ॥४९॥चक्रं मुमोच कण्ठेऽस्य हल्लकस्य रसं ह्यभूत् ।अथाऽन्यच्चक्रमाधत्तं मुक्तं तद् रसता गतम् ॥५०॥एवं चक्राणि सर्वाणि गतानि रसतो तदा ।ब्रह्मा त्वागत्य च तत्र यावत्पश्यति शंकरम् ॥५१॥तावत् सशूलचन्द्रेण मुक्तेन वेगगामिना ।शंकरस्य शिरः कण्ठान्निकृतं हल्लकेन वै ॥५२॥हाहाकारो महान् जातो रौद्रो रुद्रोऽपि वै हतः ।शोकमापुः सर्वदेवा मानवाश्च महर्षयः ॥५३॥अथापि सर्वभूतानि बभूवुः शोकभाञ्जि च ।हल्लकस्यापि सामर्थ्यं शूलचन्द्रायुधेन वै ॥५४॥सहैव तु गतं सर्वं ब्रह्मणो वरदानतः ।असामर्थ्यो बभूवाऽपि विज्ञातः सर्वयोद्धृभिः ॥५५॥ब्रह्मणोदितमेवाऽथ विज्ञाय तु सुरास्ततः ।गणाश्चाभिप्रदुद्रुवुर्मारणायाऽसुरस्य वै ॥५६॥तावत्त्रिशूलचक्राणि सर्वाण्यपि च यानि वै ।गलितान्यभवँस्तानि निर्गत्य चाऽऽययुर्द्रुतम् ॥५७॥विष्णुं प्रति समस्तानि शंकरस्य शवं प्रति ।विष्णुश्चक्रं मुमोचाऽस्मै यावत् तावत्स हल्लकः ॥५८॥हरे विष्णो हरे कृष्ण त्राहि मां शरणागतम् ।उक्त्वा पपात सहसा पादयोः शार्ङ्गिणोऽसुरः ॥५९॥न हन्तव्यो व्रतं विष्णोः शरणागतरक्षणम् ।अतश्चक्रं नाऽहनत्तं विष्णो विष्णो प्रवादिनम् ॥६०॥ब्रह्मणो वरदानाच्च तथानिमित्तशालिनम् ।ब्रह्मणः पृष्ठपुत्रं च भक्तं तापसयोगिनम् ॥६१॥बबन्ध तं हरिः पाशैः शंकरस्याऽपराधिनम् ।वदन्तं च हरे विष्णो नारायण प्रपाहि माम् ॥६२॥रटन्तं मनसा मां च स्मरन्तं च हृदा हि माम् ।एतादृशं हरघ्नं तं देवहत्या सुरासदा ॥६३॥ववल्गे क्रूररूपा सा शतचक्रकरा हरा ।प्राणानां ग्राससामर्थ्या विकृता विकृतानना ॥६४॥घोरां च वल्गितां त्वेनां हल्लको वीक्ष्य दुःखदाम् ।चुक्रोश बहुधा तत्र रणांगणे सुरान्तिके ॥६५॥हत्यया ताडितो देवैस्ताडितो गणकोटिभिः ।मृतप्रायो मरन् वव्रे हरेः शरणरक्षिणः ॥६६॥देहि मे भक्तरूपाय शरणस्थाय माधव ।अग्र्यं पदं महैश्वर्यं द्वेषिणे शंकरस्य वै ॥६७॥ब्रह्मणो वरदानाच्च महाकालस्य चैककम् ।रूपं मया हतं लाभं विना वै शांकरं त्विदम् ॥६८॥हत्वा हतोऽस्मि सञ्जातो मायया गर्वनोदितः ।तपः सर्वं क्षिप्तर्वोश्च तामसे कर्मणि प्रभो ॥६९॥अतः कृपया विष्णो त्वं सुखं देहि कृपां कुरु ।देवहत्या दहत्येषा तां निवारय केशव ॥७०॥इत्युक्त्वाऽतिरुरोदाऽपि मरणाऽन्तिकतां ययौ ।विष्णुः प्राह मनोः कालं तथा रात्रिः प्रपूर्णिका ॥७१॥देवहत्याकृतं पापं भुंक्ष्व हल्लक रौरवे ।पञ्चदशमनूनां वै कालान्ते दिवसान्तरे ॥७२॥यावद् दुःखानि संभुक्त्वा मलिनो म्लेच्छकर्मवान् ।म्लेच्छेश्वरो भवान् भक्तो ब्रह्मणो मे भविष्यति ॥७३॥अनेकसंख्यलोकानामासुराणां गुरुर्महान् ।इत्युक्त्वा भगवान् विष्णुर्यमदूतैश्च हल्लकम् ॥७४॥प्रेषयामास पापं तं सहत्याकं यमालयम् ।अथ देवाः ऋषयश्च पितरो मानवा द्विजाः ॥७५॥पार्षदाश्च गणाश्चापि भक्ता देव्यः सतीस्त्रियः ।योगिन्यो मातरश्चापि ग्रहाद्या द्युसदोऽपि च ॥७६॥भक्ताः सर्वे च कैलासे संगता हरिणा स्मृताः ।विष्णुस्तेभ्यस्तथा ताभ्यः शंभोरुजीवनाय वै ॥७७॥प्रोवाचाऽऽराधनां कर्तुं मम सर्वावतारिणः ।अनादिश्रीकृष्णनारायणस्य स्वामिनः सतः ॥७८॥सर्वाऽन्तर्यामिणस्तेऽथाऽऽराधयामासुरुत्सुकाः ।मां सदाऽक्षरधामस्थं श्रीपतिं पुरुषोत्तमम् ॥७९॥द्रागेवाऽहं त्वया साकं श्रुत्वाऽऽराधनमागतः ।कैलासे गोचरश्चक्षुष्मतां दिव्यसुमूर्तिमान् ॥८०॥वीक्ष्य मामभवन् सर्वे विशोकाश्चार्थयँस्ततः ।शंभुजीवनदानार्थ ततोऽहं प्राविशं तनौ ॥८१॥शंकरस्य कबन्धेऽपि मस्तकेऽपि च योगतः ।प्राणशक्तिं प्रदायैवाऽजीवयं चाऽप्यसन्धयम् ॥८२॥कबन्धे मस्तकं शंभोश्चार्चयं देवकोटिभिः ।पितृभिर्मानवैश्चाऽपि महर्षिभिस्ततः परम् ॥८३॥शूरभद्रादयो ये च चर्विताश्च मृतास्तदा ।ये च लक्ष्मि! मृताः सर्वे हता ये च गणाश्च ते ॥८४॥मया स्मृता मनोजन्या अभवन् जीवनान्विताः ।आगत्य पुरतः शंभोस्तस्थुस्ते नवसृष्टयः ॥८१॥वृषभाद्या मृताश्चाप्युजीवितास्तत्र वै मया ।गणानां कोटयः सर्वा देवानां कोटयस्तथा ॥८६॥सर्वा मया प्रसंकल्प्य स्वस्थाश्चोज्जीवितास्तदा ।शंकरस्य पुनर्जीवोत्सवः कैलासके कृतः ॥८७॥सती शंभोः स्वरूपाच्च तदोज्जगाम गोचरा ।प्रत्यक्षा वै महादेवी प्रसन्ना चाऽभवत्ततः ॥८८॥आर्थयन्मां नित्यमेव कैलासे भूतलोपरि ।स्थातुं साकं त्वया लक्ष्म्या शंभुश्चाऽऽर्थयदेव तु ॥८९॥देवाश्च मानवाश्चाप्यार्थयन्मां पुरुषोत्तमम् ।स्थातुं कैलासके क्षेत्रे देहिनां श्रेयसेऽपि च ॥९०॥ततोऽहं शिवराजीश्रि! त्वया साकं सदाऽवसम् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥९१॥अनादिश्रीशिवनारायणनाम्ना शिवेश्वरः ।त्वं तदा चाऽभवस्तत्र शिवनारायणी प्रिये! ॥९२॥अथ देवा ययुः सर्वे मानवाः पितरस्तथा ।स्वस्वलोकान् मुनयश्च कैलासेऽहं ततोऽवसम् ॥९३॥आकल्पान्तं शिवराज्ञि! जानाम्यहं न चेतरे ।स्मर ते मेऽपि दिव्यं तत्प्राकट्यं कमले! प्रिये! ॥९४॥भद्राद्रौ शीतले रम्ये विशालेऽयुतयोजने ।तत्र स्थिते तु कैलासे भूभागे त्ववसं सदा ॥९५॥वैष्णवी पृथिवी सर्वा तदा प्राऽभून्मया कृता ।देवाश्च वैष्णवाः सर्वे त्वासन् भक्तिपरा मम ॥९६॥मम भक्ते फलं लक्ष्मि! राजसे तामसेऽपि च ।असुरे वा सुरे वाऽपि प्राप्ते कालेऽङ्कुरायते ॥९७॥तस्माद् भक्तिः सर्वश्रेष्ठा भुक्तिमुक्तिफलप्रदा ।स्थाप्यते वै मया धर्मयुता काले युगे दिने ॥९८॥कल्पान्ते वा समारम्भे स्थापयामि सदा हिताम् ।पठनाच्छ्रवणाच्चाऽस्य भुक्तिर्मुक्तिर्भवेदपि ॥९९॥स्मृद्धिसम्पत्पुत्रवाँश्च भवेदानन्दशेवधिः ।महैश्वर्ययुतश्चापि परमेशसरूपवान् ॥१००॥सर्वविघ्नविनाशश्च सर्वाऽमृतनिषेवणः ।भवेच्छाश्वतवासश्च ब्रह्मसायुज्यवान् भवेत् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधस एकत्रिंशे वत्सरे हल्लकाऽसुरस्य ब्रह्मणो वरदानाद् विजययात्रायां शंभोश्शिरच्छेदे समुज्जीवनार्थम् अनादिश्रीशिवनारायणस्य प्राकट्यमित्यादिनिरूपणनामा षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP