संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां भक्तानिकोद्भवाम् ।आभीरी मम भक्ताऽऽसीदार्द्रशृंगपुरे स्थिता ॥१॥व्याघ्रारण्ये सिंहव्याघ्रहिंस्रप्राणिमये स्थले ।नाम्ना रूटाणकीदेवी पूर्वसंस्कारपावनी ॥२॥ शृणु लक्ष्मि महाश्चर्यं भक्तायाः प्रवदामि ते ।पूर्वजन्मनि सा शूद्रा धीवरी सरितस्तटे ॥३॥धीवरस्य तु नौकायां वर्तमानाऽभवत् सती ।शत्रुंजयाऽब्धिसंगस्थभूमौ वासवती सदा ॥४॥गोपनाथमहातीर्थगामिनः सा तु मानवान् ।प्रतितीरं नयत्येव नौकया कृष्णमानसा ॥५॥साधवो ये समायान्ति तान् वै भावेन सा सती ।विना द्रव्यग्रहणं वै परं तीरं नयत्यपि ॥६॥अन्याँस्तु द्रव्यमादाय परं तीरं नयत्यथ ।एकदा श्रीहरिचैतन्याऽऽख्यः साधुस्तु योगिराट् ॥७॥परं पारं प्रगन्तुं तु सरित्तीरमुपाययौ ।सिद्धः स साधुवर्यो वै पादुकाभ्यां जलोपरि ॥८॥याति स्वसिद्धतपसा क्वचिद् व्योम्ना प्रयात्यपि ।तथापि स्वेच्छया भूमौ विहरन् सरितस्तटे ॥९॥यदृच्छयाऽऽययौ तं च दृष्ट्वा तु धीवरी हि सा ।नमस्कृत्य स्वनौकायामागन्तुमार्थयद् हुदा ॥१०॥योगिवर्यस्तु धीवर्याः श्रेयसे नावि मां भजन् ।आरुरोह तत्र चोपादिदेश भक्तितोषितः ॥११॥भज कृष्णं भज नारायणं श्रीपुरुषोत्तमम् ।भज साधून् सतीः साध्वीः सद्गतिं त्व प्रयास्यसि ॥१२॥देहस्ते धीवरीरूप आत्मा ते चित्स्वरूपवान् ।देहोऽयं च वशे जीवात्मनः सदा हि वर्तते ॥१३॥यथा नौका वशे तेऽस्ति तथा देहो वशे तव ।यथा नौका दृश्यरूपा द्रष्ट्री त्व प्रेरिकाऽसि च ॥१४॥तथा देहो दृश्यरूपो द्रष्टाऽऽत्मा प्रेरकोऽति च ।देहो दुःखादिना व्याप्तो द्रष्टा दुःखादिवर्जितः ॥१५॥तत्र द्रष्टरि सर्वज्ञः कश्चिदन्यो विराजते ।यः सत्कार्ये प्रेरयति दुष्टकार्ये निषेधति ॥१६॥ अन्तरात्मा साक्षिरूपः स एव भगवान् हरिः ।अनादिश्रीकृष्णनारायणार्यकृष्णवल्लभः ॥१७॥तमेव भज योगीन्द्रसाधुसाध्वीप्रपूजितम् ।भक्त्या ह्यनन्यया स्नेहमय्या तं संप्रसेवय ॥१८॥हृदये तं प्रभुं कान्तं कृष्णं सदा निभालय ।ध्यानं गोपीपतेर्नित्यं कुरु स्वरूपशालिनः ॥१९॥बाह्यविषयान् सन्त्यज्य हृदये पश्य माधवम् ।इन्द्रियाणि समस्तानि तस्मिन् कृष्णे समर्पय ॥२०॥परावृत्त्येन्द्रियवृत्तीस्तस्मिन् कृष्णे नियोजय ।सच्चिदानन्दसन्दोहान् महानन्दं समर्जय ॥२१॥कृष्णानन्दस्य संभोक्त्री भव नित्यं रमासमा ।कृष्णभोगस्य सम्प्राप्त्या भोगाश्चान्ये विषं यथा ॥२२॥तथा ते वै भविष्यन्ति भुंक्ष्व कृष्णं पतिं प्रभुम् ।श्रीकृष्णस्य चरित्राणि दिव्यानि मानुषाणि च ॥२३॥संकीर्तय सदा भक्त्या स्वर्गमोक्षप्रदानि वै ।अद्भुतानि समस्तानि चरित्राणि रमापतेः ॥२४॥कामचेष्टाचरित्राणि युद्धायोजनकानि च ।उत्सवाद्यानि सर्वाणि स्मर नित्यं श्रियः पतेः ॥२५॥लौकिकाऽलौकिकान्येव निकृष्टान्युत्तमानि च ।तानि सर्वाणि दिव्यानि चरित्राणि रमापतेः ॥२६॥जडं कुर्याश्चेतनं तु चेतनं तु जडं हरिः ।एवंविधसमर्थस्य हरेः संगं सदा कुरु ॥२७॥प्रमादं च महालस्यं महामोहं मदं त्यज ।अहन्तां ममतां त्यक्त्वा चात्मरूपा सदा भव ॥२८॥संसारसागरं तर्तुं सत्सु नौषु स्थिरा भव ।पतिव्रता हरौ भूत्वा हरिं पतिं सदा भज ॥२९॥देहदशां विहायैव ब्रह्मदशां समाश्रय ।भोगान् सर्वान् हरौ कृष्णे स्थूलान् सूक्ष्मान् समर्पय ॥३०॥आत्माऽहं न तु देह्रोस्मीत्येवं वै मननं कुरु ।दास्यसि श्रीपतेश्चाहमिप्येवं दिव्यतां वह ॥३१॥एवंविवेकमासाद्य निर्बन्धा कर्मभिर्भव ।देहाभिमानजं पापं त्यज याम्यगतिं त्यज ॥३२॥भजित्वा श्रीपतिं चान्ते दृष्ट्वा दिव्यं रमापतिम् ।तेन साकं विमानेन दिव्याक्षरपदं व्रज ॥३३॥धीवरीत्वं विहायैव बुद्धिवरीत्वमावह ।मम साधोः प्रसंगेन वैष्णवी परमा भव ॥३४॥अनेन जन्मना यद्वा द्वितीयेनाऽक्षरं व्रज ।एवं लक्ष्मि तदा नावि तूपदिष्टा हि साधुना ॥३५॥परं बोधं प्राप्तवती धीवरी धीमती ह्यभूत् ।परतीरं समायातं चावतीर्य तु साधुराट् ॥३६॥ययौ तीर्थं च धीवर्यै दत्वा ज्ञानमनुत्तमम् ।अथ सा श्रीकृष्णनाम जपत्यहर्निशं ततः ॥३७॥मत्स्यादा धीवरी भाग्यवशेन कालयोगतः ।मृता सा मानवी जाता ह्याभीरी महिषीवती ॥३८॥पुनरेव स्त्रीस्वरूपा महाभागवती सती ।साधूनां सेविका बाल्याद् ब्रह्मचर्यपरायणा ॥३९॥विवाहेच्छा यया नैव कृता दग्धा तु कामना ।यौवने विद्यमानेऽपि वार्धक्ये इव संस्थिता ॥४०॥पूर्वसंस्कारवशतो जातिस्मरा तु योगिनी ।स्वभावतश्चात्मनिष्ठापरायणाऽभवद्धि सा ॥४१॥नाम्ना रुटाणकीदेवी दिव्यज्ञानपरायणा ।साधुसेवापरा साध्वी सांख्ययोगिनिका सदा ॥४२॥आत्मनिवेदिनी त्यागवती वैराग्यशालिनी ।मालाऽऽवर्तनमनिशं करोति कीर्तनं हरेः ॥४३॥महिषाणां तु दुग्धानि साधून् मिष्टानि नित्यशः ।कृत्वा पायसरूपाणि भोजयत्येव भक्तितः ॥४४॥स्नात्वा प्रातर्हरिकृष्णं प्रपूज्याऽर्घ्यं प्रदाय च ।सूर्यायाऽर्घ्यं च पितृभ्यो दत्वा कृत्वा समर्पणम् ॥४५॥श्राद्धं पायससिद्धान्नैः फलैर्जलैः प्रदाय च ।ततः सा भोजनं साधून् कारयित्वा सतीस्तथा ॥४६॥भुंक्ते प्रासादिकं नित्यं वर्तते पंक्तिपावनी ।यथा लक्ष्मीर्यथा गंगा यथा देवी सरस्वती ॥४७॥तथा सा ब्रह्मपरमा रुटाणकी हि दीव्यति ।यस्य गृहे नित्यमेव समायान्ति हि साधवः ॥४८॥साध्व्यश्चापि समायान्ति भक्तां ज्ञात्वा तु सेविकाम् ।कीर्तनानि प्रकुर्वन्ति रासान् महोत्सवान् शुभान् ॥४९॥एवं वै भजमानायाः सेविकाया गृहे क्वचित् ।निशार्धे संव्यतीते वै सुप्तेषु सर्वदेहिषु ॥५०॥दैत्योऽरण्यात् समायातः कश्चिदायसकुण्डलः ।ताडवद्दीर्घदेहश्च कृष्णवर्णोऽतिरोमवान् ॥५१॥युवा च बलवान् पुष्टो वटवृक्ष इवाऽपरः ।स तां सुप्तां महासाध्वीं जगृहे त्वतिलाघवात् ॥५२॥नीत्वा ययौ व्योममार्गे महारण्ये गतोऽभवत् ।अवाततार निबिडे वृक्षषण्डेऽपि लाघवात् ॥५३॥पृथ्व्यां निधाय तां रुटाणकीं सुरूपिणीं शनैः ।प्रबोधयामास दैत्यः सापि बुबोध यावता ॥५४॥ददर्श वनमध्ये स्वामानीतां वनवासिना ।आयसकुण्डलनाम्ना दैत्येन स्ववशीकृताम् ॥५५॥अथापि सा महाभक्ता धैर्यवती सतीश्वरी ।महाभागवती दुर्गासमा देवी हि वैष्णवी ॥५६॥कृष्णबलवती साध्वी भयं प्राप्ता न वै मनाक् ।सस्मार हृदये कृष्णं कान्तं जगत्पतिं पतिम् ॥५७॥यद्यहं तव भक्ताऽस्मि त्वया नैजा कृताऽस्मि च ।तवैव पातिव्रत्येन वर्तेऽहं श्रीसमा यदि ॥५८॥त्वयि चास्मि त्वात्मनिवेदिनी वै सांख्ययोगिनी ।त्वया करो गृहीतोऽस्ति मम चेत् स्वामिना सदा ॥५९॥तव सन्तश्च साध्यश्च सेविता वै मया यदि ।त्वदर्थकृतसर्वस्वा यदि चास्मि तव प्रिया ॥६०॥तदा त्वायाहि विष्णो त्वं कृष्ण शीघ्रं पुरो भव ।साक्षादागत्य रक्षां मे कुरु दैत्याद्धि दारुणात् ॥६१॥यदि तेऽहं न जाताऽस्मि भवामि भक्तिवर्जिता ।तर्हि दैत्यो बलिः स्पर्शं करोतु यदि ते रुचिः ॥६२॥यथेष्टं कुरु कान्त त्वं यथेष्टं निजनाणके ।यत्नं विधेहि भगवन्नौदासीन्यं च वाऽऽचर ॥६३॥इत्युक्त्वा हृदये मह्यं पूजां दत्तवती तदा ।दैत्योऽपि तां तदा वाचा रञ्जयन् बहुभावतः ॥६४॥वार्तां कर्तुं तु विविधां प्रेरयत्येव चोत्सुकः ।तथापि मौनमापन्ना मच्चित्ता न वदत्यपि ॥६५॥दैत्यो ननर्त पुरतो बहुहास्यकृतिर्मुहुः ।तथापि कृष्णचित्ता सा बहिर्मनो न वै व्यधात् ॥६६॥अथ गृहेऽपि निद्रायां सर्वेऽभवन् जडा यथा ।साधवश्चापि साध्व्यश्च जडाश्च महीमानकाः ॥६७॥रुटाणक्याः पिता नाम्ना दुर्वारणोऽपि निद्रितः ।माता नाम्ना खटमिष्टादेवी त्वासीद्धि निद्रिता ॥६८॥अन्ये ग्रामजनाः सर्वे आसँस्तदाऽतिनिद्रिताः ।कैश्चिज्ज्ञातं न हरणं रुटाणक्यास्तमोमये ॥६९॥अथ महिष्यः पशवो गन्धदृष्टय एव ताः ।विविदुर्दैत्यगन्धं च जाग्रन्निद्राविनिद्रिताः ॥७०॥बुबुधुस्ता महिष्यो वै दैत्यं समागतं तथा ।नीत्वा रुटाणकीदेवीं यान्तं व्योम्नि तमोमये ॥७१॥रणकाटं रम्भणं च पश्वाक्रोशं प्रचक्रिरे ।जजागरुः समस्तास्ते श्रुत्वा भयं समागतम् ॥७२॥चक्रुः परितः काष्ठानां वह्नीन् शार्दूलशंकया ।दीर्घशब्दान् महानादान् चक्रुस्ते परितः खलु ॥७३॥सिंहशंकामयाः सर्वे दैत्यं न विविदुस्तदा ।एवं घटिका विगता कृतेऽपि रक्षणेऽभितः ॥७४॥महिष्यो नाऽभवन् शान्ता गर्जन्ति विह्वला यथा ।एका तु महिषी रूटाणक्यासनं द्रुतं ययौ ॥७५॥शृंगाभ्यामासनं नीत्वा भ्रमणं प्रचकार सा ।आहूता तु तदा सर्वै रूटाणकि रुटाणकि ॥७६॥क्व गता त्वासनं चेयं महिषी नाशयत्यपि ।समाहूता चापि यदा न प्रत्युवाच भामिनी ॥७७॥न दृश्यते जनमध्ये गृहे साध्वीसतीष्वपि ।तदा शंकास्पदा जाता नीता केनापि पुत्रिका ॥७८॥अथ वै विह्वलाः सर्वे रुरुदुर्मार्गणाय च ।परितो निर्ययुश्चापि सीम्नि क्वापि न ददृशुः ॥७९॥प्रत्याययुर्गताशास्ते सस्मरुर्मां परेश्वरम् ।साध्व्यश्च साधवः सर्वे नामसंकीर्तनं व्यधुः ॥८०॥अनादिश्रीकृष्णनारायणार्यकृष्णमाधव ।तदा ययावहं चक्रगरुडाभ्यां युतो वने ॥८१॥नृत्यन्तं दैत्यराजं तं चकर्ताऽहं सुलाघवात् ।तत्तेजो मयि त्वाकृष्य कृत्वा तां गरुडोपरि ॥८२॥आनन्दयित्वा प्रीत्या तामनयं तद्गहं द्रुतम् ।सापि दिव्यतमा जाता साध्वी मत्स्पर्शमात्रतः ॥८३॥दिव्यैश्वर्यवती लक्ष्मि यथा त्वं त्वादृशी हि सा ।एवं तां व्योममार्गेण चाऽऽर्द्रशृंगपुरे गृहे ॥८४॥अवस्थाप्य तथा सर्वभक्तेभ्यो दर्शनं मम ।दत्वा तेजोमयं दिव्यं स्थित्वा च घटिकाऽधिकम् ॥८५॥साधुसाध्वीकृतां सेवामंगीकृत्य च पायसम् ।भोजनं पूजनं वारिपानं ताम्चूलकादिकम् ॥८६॥भुक्त्वा गरुडवाहोऽहं गन्तुं सज्जोऽभवं यदा ।तदा भक्ताः प्रेममग्नाः प्रार्थयामासुरुत्सुकाः ॥८७॥सह त्वस्मान्नय कृष्ण यदि ते स्मोऽतिसेवकाः ।रूटाणकी साधवश्च साध्व्यश्चापि तथाऽऽर्थयन् ॥८८॥अहं लक्ष्मि तदा तेभ्यो मम मन्त्रं ददौ शुभम् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥८९॥पादजलं प्रसादान्नं पायसं च ददौ तदा ।अपक्वान्मानवान् भक्तिं कर्तुमादिश्य तत्र च ॥९०॥पक्वान् साध्वीः साधुजनान् रुटाणकीं तथा सतीम् ।मातरं जनकं तस्यास्तथा तां महिषीमपि ॥९१॥विधाय दिव्यदेहाँश्च मुक्तान् मुक्तानिकास्तथा ।निधाय गारुडे पृष्ठेऽनयं धामाऽक्षरं मम ॥९२॥अन्यानपक्वान् कालेनाऽनयं वैकुण्ठमुत्तमम् ।एवं लक्ष्मि मया रक्षा कृताऽऽभीर्या हि योषितः ॥९३॥सा तु मुक्तानिका जाता ब्रह्मप्रिया मदक्षरे ।रूपेश्वरीतिनाम्नाऽद्य वर्तते तव मण्डले ॥९४॥युवती मम पत्नीयं पश्यैनां मद्विवाहिताम् ।अन्याः साध्व्यो युवत्योऽत्र सन्ति दश स्त्रियो मम ॥९५॥मन्दारकलिकाद्यास्तास्तव सख्योऽत्र योषितः ।कुंकुमवापिकाक्षेत्रे ब्रह्मप्रिया मम प्रियाः ॥९६॥दिव्यचक्षुष एवैतां कथां विदन्ति नेतरे ।चमत्कारो मम दिव्यस्ते रमे कथितो मया ॥९७॥भक्तानां रक्षणं चैवं करोमि सर्वथा सदा ।पक्वानां मोक्षणं चापि धामाऽक्षरप्रदानकम् ॥९८॥ये मां भजेयुः सततं सर्वस्वार्पणभावनाः ।तेषामहं च ते मेऽपि सम्बद्धाः संभवन्ति हि ॥९९॥मदर्पितानामवनं करोमि सर्वथा सदा ।कालाद् यमात् कर्मतश्चेन्द्रियादिभ्यश्च दोषतः ॥१००॥पटनाच्छ्रवणादस्य चिन्तनात् कथनादपि ।भुक्तिर्मुक्तिर्भवेदेव मम प्राप्तिः सुखप्रदा ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पूर्वजन्मनि धीवर्या रूटाणक्या आभीरीभक्तायाः साध्वीनां च दैत्याद् रक्षणं मोक्षण च श्रीहरिणाकृतमित्यादिनिरूपणनामा नवविंशत्यधिकद्विशततमोऽध्यायः ॥२२९॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP