संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं तथा चान्यकथां शुभाम् ।धवलाख्ये पुरे त्वासीच्चर्मकारो मृतादनः ॥१॥ग्रामोपशल्यवासश्च मृतानां खुरिणां सदा ।पशूनां ग्राममध्यात् स शवानामपहारकः ॥२॥चर्मशुद्धिकरश्चाप्यस्पृश्यो दूरे प्रतिष्ठति ।मृतमांसादनश्चासीत् सकुटुम्बः सदा ह्यघी ॥३॥क्वचिद् वसतिमासाद्य कृत्वा तु चर्मविक्रयम् ।प्राप्तधनेन गोधूमाद्यन्नं शाकफलादिकम् ॥४॥क्रीतं स्वगृहमानाय्य पाचयित्वा भुनक्त्यपि ।क्वचिच्चारण्यमार्जारैः शृगालैः शशकैस्तथा ॥५॥वाराहैश्च तरक्ष्वाद्यैः क्वचित् कच्छपमत्स्यकैः ।विदधाति कुटुम्बस्य भोजनं पिशिताशनः ॥६॥एवं जात्या कर्मणा च भोजनेनाऽतिकिल्बिषी ।मृतादनाख्यश्चर्मकृद् दूरे त्याज्योऽवसत् सदा ॥७॥अथैकदा तु वर्षायां पतितायामहर्निशम् ।जलपूरं समायातं बहुवेगं समन्ततः ॥८॥तत्रैके प्राणिनो जीवा उह्यन्ते वनिनस्तदा ।मृताश्च जीविनश्चापि ग्राम्याश्च पशवोऽपि च ॥९॥ये चरन्ति तृणक्षेत्रे गोचरे तेऽपि केचन ।पूरवेगेन वर्षायां गृहं मन्तुं न शेकिरे ॥१०॥एका गौः पूरवेगेन चोह्यमाना तु जीविता ।चर्मकारस्य वासस्योच्छ्रायस्यैव समीपतः ॥११॥जलैश्चाकृष्यमाणा सा निर्गता वीक्षिता तदा ।चर्मकारेण दययोद्धर्तुं गां वै समीहितम् ॥१२॥मृतादनः स्वयं पुष्टस्तर्तुं शक्तो बली दृढः ।शतहस्तमितां रज्जुं कट्यां बध्वा जलेऽपतत् ॥१३॥रज्जुप्रान्तं द्वितोयं तु दत्वा दोष्षु कुटुम्बिनाम् ।अपरां च दृढां रज्जुं मुकुलितां गलेऽक्षिपत् ॥१४॥पतित्वा सहसा वारिवेगे वहति यत्र गौः ।तीर्त्वा वेगेन तस्यास्तु निम्नभागे पुरोऽभवत् ॥१५॥पूरेण चोह्यते धेनुश्चर्मकारोऽपि चोह्यते ।तीरस्था रजुकाध्रा ये तेऽनुधावन्ति तं तटम् ॥१६॥तरता चर्मकारेण हस्तस्य लाघवेन वै ।मुकुलिताया रज्ज्वास्तु प्रान्तो धेनुगले कृतः ॥१७॥ग्रन्थिः कृता च सहसा शृंगयोर्निहिता तु सा ।रज्जुं कृत्वा लम्बमानां प्रान्तं कट्यां बबन्ध सः ॥१८॥अथ कुटुम्बिनः प्राहाऽऽकर्षयन्तु बलादिति ।कुटुम्बिभिश्च सा रज्जुराकृष्टा स्वकरधृता ॥१९॥चर्मकारः पूरवेगात् तटमाकर्षितोऽभवत् ।धेनुश्चापि कटिरज्जुवद्धा चाऽऽकर्षिताऽभवत् ॥२०॥तीरं प्रति समाकृष्टा मिलित्वा तु कुटुम्बिभिः ।चर्मकारेण सहिता सजीवा तीरमागमत् ॥२१॥तदा गौः प्राणसंरक्षातुष्टाऽऽशीर्वादमाह तान् ।भवतां सर्वपापानि नष्टानि मम रक्षणात् ॥२२॥गोदाने यत्फलं गोजीवने यच्च फलं महत् ।गोसेवायां फलं यच्च तत्सर्वं भवतां भवेत् ॥२३॥प्रसूयमानाधेन्वाश्च दाने यत् फलमुच्यते ।तत्फलं भवतामस्तु मम प्राणप्ररक्षणात् ॥२४॥स्वर्णधेनुफलं यच्च कपिलाधेनुजं फलम् ।गोमेधे च फलं यत् तदस्तु वो मम रक्षणात् ॥२५॥पृथ्वीरक्षाफलं यच्च प्रजारक्षाफलं तु यत् ।कन्यारक्षाफलं यत्तदस्तु वो मम रक्षणात् ॥२६॥सतीरक्षाफलं यच्च बालरक्षाफलं च यत् ।विप्ररक्षाफलं यत्तदस्तु वो मम रक्षणात् ॥२७॥साधुरक्षाफलं यच्च देवरक्षाफलं च यत् ।शरणागतरक्षोत्थं वस्तदस्तु ममाऽवनात् ॥२८॥भीतरक्षाफलं यच्च प्राणरक्षाफलं च यत् ।मोक्षदानफलं यत्तदस्तु वो मम रक्षणात् ॥२९॥धर्मरक्षाफलं यच्च गर्भरक्षाफलं च यत् ।मातृसेवाफलं यच्च वोऽस्तु तन्मम रक्षणात् ॥३०॥देवपूजाफलं यच्च मृत्युत्राणफलं च यत् ।गंगातीर्थफलं यत्तद् वोऽस्तु मम प्ररक्षणात् ॥३१॥ब्रह्महत्यादिपापानि पशुहिंसोद्भवानि च ।मांसभक्षणपापानि लीयन्तां मम रक्षणात् ॥३२॥गवार्थे ब्राह्मणार्थे वा साध्वर्थे च सतीकृते ।देवार्थे प्राणदातुस्तु सर्वपापविनाशनम् ॥३३॥मदर्थे प्राणदा यूयं मदर्थे कृतजीवनाः ।मम रक्षाकरा यूयं जीवन्तु ऋद्धिसेविताः ॥३४॥भुक्तिं मुक्तिं महास्मृद्धिं भुञ्जन्तु स्वर्गसदृशीम् ।वंशो वोऽस्तु सदा भक्तो भक्तिमान् गवि गोपातौ ॥३५॥गोपाले गोपिकाकान्ते गोविन्दे गोपबालके ।गोपालबालके स्नेहो गोलोके वसतिश्च वः ॥३६॥इत्येवं गौर्ददौ तेभ्यश्चाशीर्वादाँस्तदा शुभान् ।कम्पमाना भयोद्विग्ना शीतार्त्ता क्षुधिता तथा ॥३७॥अथ शनैश्च तां धेनुं सगर्भां चाश्रयेच्छुकीम् ।निनाय चर्मकारः स स्वालये तां ररक्ष ह ॥३८॥ददौ घासोत्तमग्रासान् सिषेवे तृणवारिभिः ।नास्याः कश्चित् समायाति स्वामी नेतुं न विद्यते ॥३९॥ततः सा चर्मकारस्य गृहे वासं व्यधाच्च गौः ।तृणान्यत्त्वा पार्श्वभूमौ सायमागत्य तिष्ठति ॥४०॥चर्मकारो निजां मत्वा सेवते तु यथाबलम् ।दरिद्रोऽपि यतित्वाऽपि गोऽर्थं तृणं जलं मुहुः ॥४१॥आनयत्येव क्षेत्राद्वा वनाद्वा दूरभूमितः ।एवं प्रसेवमानस्य मृतादनस्य तस्य हि ॥४२॥गोसेवायाः फलं धेनोराशीर्वादफलं तथा ।प्राप्तं तेनैकदा प्रातः प्रेरितस्तु मृतादनः ॥४३॥अद्य गृहं विलिम्पामि गौरमृदा च शकृता ।विचार्येत्थं स्त्रिया साकं नीत्वा सीतां खनित्रिकाम् ॥४४॥वंशपात्रद्वयं चापि मृदमाहर्तुमेव ह ।नदीतीरं ययौ यत्र गौरमृद् लभ्यते शुभा ॥४५॥सीतया च खनित्रेण गर्ते खनति मृत्तिकाम् ।वितस्तिमात्रं खनितं तीरे पार्श्वगभूस्तरम् ॥४६॥तावच्चरुस्ताम्रधातोः स्वर्णरूप्यकसंभृतः ।निर्गतो भूतलमध्याच्छोभनो दैववाञ्च्छया ॥४७॥मृतादनेन शीघ्रं वै तस्मात् स्वर्णस्य मुद्रिकाः ।निष्कास्य वंशपात्रे मृत्तिकागुप्ताश्च वै गृहम् ॥४८॥आनीता पञ्चपात्राणि न तु जानाति कश्चन ।गृहान्तरे तु विवरे सर्वाः क्षिप्ताः सुगोपिताः ॥४९॥गोसेवायाः फलं मत्वा सेवते गां सभार्यकः ।ताम्रपात्रं तु गर्ते वै यथाऽऽसीत् तत्तथा पुनः ॥५०॥रिक्तं निधाय संगोप्य मृद्भिर्गृहं गतो हि सः ।यथापेक्षं नाणकेन भुंक्ते सुखानि सर्वथा ॥५१॥भुंक्ते भोजनपानानि वस्त्राणि मोदकानि च ।यथाऽन्ये नैव जानीयुस्तथा भुंक्तेऽर्जितं धनम् ॥५२॥तेन पथा समायातानतिथीन् सेवतेऽपि च ।गोष्ठे स्थितान् द्रुमच्छायाप्रदेशे सेवतेऽतिथीन् ॥५३॥फलानि शर्कराश्चापि मधुपर्कं ददात्यपि ।वस्त्रं जलं यथापेक्षं ददाति चणकादिकम् ॥५४॥घृतपक्वं तैलपक्वं पक्वं च वह्निनाऽपि यत् ।सूर्यपक्वमृतुपक्वमन्नं ददाति साधवे ॥५५॥योग्यं ददाति नाऽयोग्यं सेवते साधुयोगिनः ।कुटुम्बं सेवते साधून् शृणोति भजनानि च ॥५६॥कथां शृणोति मे रम्यां साधूक्तां पावनीं पराम् ।अहिंसा परमो धर्मो विघसाशी प्रमुच्यते ॥५७॥मांसादनं महत्पापं याम्यपुरीप्रयोजकम् ।मत्स्यादः सर्वमांसाशी कदापि नैव मुच्यते ॥५८॥अभक्ष्यभक्षणाद् भ्रष्टो न याति मोक्षणं क्वचित् ।याम्यदूताः पीडयन्ति रन्धयन्ति यमालये ॥५९॥तं तु मांसादनं नित्यं पाचयन्ति महानले ।निकृन्तन्ति मारयन्ति नरके पातयन्ति च ॥६०॥मद्यं मांसं तथा चौर्यं व्यवायश्चेति कल्मषम् ।भयंकरं महाघोरं कर्तव्यं नैव मानवैः ॥६१॥जन्म चेदं मानवं वै मोक्षाय लभ्यते भुवि ।मोक्षः साध्यो मानवैर्वै त्याज्या दोषा अघानि च ॥६२॥बहुष्वपि तु देहेषु पक्षिषु च पशुष्वपि ।मद्यमांसादयो भुक्तास्तत्पापान्तो न विद्यते ॥६३॥अस्मिन् वै मानवे भावे पुण्यं कार्यं दिवंप्रदम् ।भक्तिः कार्या हरेश्चापि मोक्षो गम्यः परेऽक्षरे ॥६४॥एवं कथां पावनीं च चर्मकारः शृणोति वै ।ततोऽस्य जाता सहसा मुमुक्षा साधुसंगतः ॥६५॥नियमान् जगृहे चाऽहिंसां च मांसादिवर्जनम् ।अन्नभोजित्वमेवापि नित्यं श्रीहरिसेवनम् ॥६६॥साधूनां सेवनं गवां सेवनं पापवर्जनम् ।दानं यथार्हं पात्राय भगवत्कीर्त्तनं तथा ॥६७॥व्रतोत्सवाँश्च देवानां चातुर्मास्यव्रतानि च ।एवंविधान् स नियमान् जग्राह मोक्षदान् सदा ॥६८॥अथ साधुर्धर्मशालायनो नाम्नाऽटवीं भ्रमन् ।निरम्बरः समायातश्चर्मकारगृहान्तिकम् ॥६९॥ददर्शैनं चर्मकारो योगिनं योगमानसम् ।स्मरन्तं परमात्मानं जपमालान्वितं शुभम् ॥७०॥दिगम्बरं प्रशान्तं च निर्विकारं स्थिराशयम् ।शीलव्रतं रागशून्यं सुरूपं जटिलं मुनिम् ॥७१॥चर्मकारस्तु तं गत्वा प्रणाममकरोन्मुदा ।स्वागतं ते महाभाग साधो जयोऽस्तु ते सदा ॥७२॥आयाहि मम वासेऽत्र चर्मकारोऽस्मि जातितः ।यदि त्वं मन्यसे साधो गृहं पावय मेऽनघ ॥७३॥श्रुत्वा शालायनः प्राह कल्याणं सत्यवादिनः ।तवाऽस्तु साधुभक्तस्य भक्तस्य भगवानपि ॥७४॥वशीभवति दिव्यात्मा तत्र साधोस्तु का कथा ।पावना भगवद्भक्ता अपि चाण्डालयोनयः ॥७५॥चर्मकाराः प्रजाः सर्वाश्चर्मनद्धा भवन्ति हि ।चर्मगर्भे चर्मयोनौ प्रजायन्ते हि चर्मतः ॥७६॥चर्मस्नानं कारयन्ति चर्म शृंगारयन्ति च ।चर्मण्येव च तैलाद्यैः कुर्वन्ति मर्दनादिकम् ॥७७॥भूषाम्बराणि देहाय चर्मिणे चार्पयन्त्यपि ।चर्ममयं जगत् सर्व को नास्ति चर्मकारकः ॥७८॥ब्रह्मा चर्मकारश्चास्ते तत्पुत्राश्चर्मकारकाः ।भक्त त्वं चर्मकारोऽसि चर्मकारस्य वंशजः ॥७९॥प्रजानां चर्मकारत्वे विशेषो नास्ति कश्चन ।मुग्धा ये चर्मविषये चर्मकारा हि ते मताः ॥८०॥अमुग्धाश्चर्मविषये ब्रह्माकारा हि ते मताः ।साधवो ब्रह्मसदना ब्रह्माकारा बृहत्प्रियाः ॥८१॥आत्माऽयं विद्यते यावद् देहे स चर्मकारकः ।अदेहो जायते भक्त्या मोक्षो स ब्रह्मकारकः ॥८२॥अहमात्मा साधुरूपो ब्रह्मरूपो भवामि ह ।हरेर्भक्त्या स्नेहमय्या ब्रह्माकारो भवाम्यहम् ॥८३॥भक्त त्वं साधुयोगेन ब्रह्माकारो भवस्यपि ।साधुभक्ताः साधुरूपाः साधुकारिण एव ते ॥८४॥साध्वर्थं यस्य सर्वस्वं ब्रह्मात्मा चोच्यते हि सः ।स एव पापरहितः पुण्यात्मा पंक्तिपावनः ॥८५॥इत्येवमुक्त्वा साधुः स ययौ तस्यालयं तदा ।चर्मकारो भक्तराजश्चक्रेऽस्य स्वागतं शुभम् ॥८६॥आसनं प्रददौ रम्यं पादप्रक्षालनं व्यधात् ।पपौ पादामृतं सर्वं कुटुम्बसहितो हि सः ॥८७॥पादसंवाहनं चक्रे देहसम्मर्दनं तथा ।मधुपर्कं ददौ मिष्टं शर्करां सक्तुमित्यपि ॥८८॥ददौ फलानि श्रेष्ठानि पक्वानि विविधानि च ।जलं च शयनं चापि ददौ विश्रान्तिहेतवे ॥८९॥पुत्राः पुत्र्यो दम्पती च सर्वं देहस्य मर्दनम् ।भोजयित्वा प्रचक्रुर्वै मार्गश्रमनिवृत्तये ॥९०॥साधुर्निद्रां परां लेभे सर्वे चक्रुश्च मर्दनम् ।देहसंवाहनं चापि व्यजनेनाऽनिलाऽर्पणम् ॥९१॥एवं सेवां प्रचक्रुस्ते धर्मशालायनस्य वै ।धर्मशालायनो निद्रां कृत्वा च बुबुधे तदा ॥९२॥जलं पीत्वा निषसादासने मालाजपान्वितः ।मृतादनाद्याश्चाग्रेऽस्य निषेदुर्भक्तिभावतः ॥९३॥साधुः प्राह सदा भक्तिः कर्तव्या परमात्मनः ।गोसेवा साधुसेवा च कर्तव्या मुक्तये त्विह ॥९४॥गृहाण मन्त्रं दिव्यं त्वं कुटुम्बेन युतो हि मत् ।स्वर्गं दिव्यं ततो मोक्षं लप्स्यसे नाऽत्र संशयः ॥९५॥इत्युक्तश्चर्मकारः स कुटुम्बसहितस्तदा ।मन्त्रं जग्राह साधोश्च 'हरेकृष्णनरायण' ॥९६॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।बालकृष्णं ततो भेजे साधूक्तपद्धतिं व्रजन् ॥९७॥ततः स तीर्थयात्रायां साधुना सह वै ययौ ।कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ॥९८॥सुवर्णं बहुधा तत्र दाने यज्ञे समार्पयत् ।मन्दिरं कारयामास सरस्तटे तथा च सः ॥९०१॥आश्रमं रचयामास भजनार्थं निजं शुभम् ।वंशेन सहितस्तत्र साधुना सह चाऽवसत् ॥१००॥अथैकदाऽहं कमले प्रसन्नस्तत्र चाययौ ।दर्शनं स्वं ददौ तस्मै चतुर्भुजं सुतैजसम् ॥१०१॥कुटुम्बं पूजयामास श्रीकृष्णं मां सनातनम् ।मृतादनो मम पादवारि प्रक्षाल्य संपपौ ॥१०२॥विमानं तूर्णमायातं ब्रह्मधाम्नोऽतिभासुरम् ।तत्र मृतादनश्चाध्यरोहन् मम निदेशतः ॥१०३॥गवा साकं तया तत्राऽनयं तं मम धाम वै ।अन्यत् सर्वं कुटुम्बं च स्वर्गे देवास्ततोऽभवन् ॥१०४॥पुण्यं भुक्त्वा धेनुवृत्तं यास्यन्ति धाम मे परम् ।साधुसेवाप्रपुण्यं च मम भक्तेः फलं तथा ॥१०५॥भोक्ष्यन्ते रुचिरं लक्ष्मि शाश्वतानन्दपूरितम् ।एवं गोसेवया मांसादनपापं विनाशितम् ॥१०६॥पुण्योद्भवेन च साधुसमागमो धनागमः ।तीर्थवासः परामुक्तिः सर्वं तस्य व्यवर्तत ॥१०७॥पठनाच्छ्रवणादस्य स्मरणान्मननादपि ।भुक्तिर्मुक्तिर्भवेच्चापि शाश्वतं पदमर्ज्यते ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मृतादननामकचर्मकारस्य धेनोः प्राणरक्षणेन मांसादनादिपापनाशः पुण्यप्राप्तिः साधोः समागमः स्वर्गं मोक्षश्चेत्यादिनिरूपणनामा सप्ताशीत्यधिकशततमोऽध्यायः ॥१८७॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP