संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-रसकल्याणललिताव्रतं लक्ष्मि च ते शृणु ।द्वादश्यां मण्डपं कुर्यात् सर्वतोभद्रमण्डलम् ॥१॥पूरयेद् बहुधान्यैश्च कलशान् स्थापयेच्छुभान् ।मध्यमे कलशे स्थाप्या सौवर्णी भूषणान्विता ॥२॥रसकल्याणललितालक्ष्मीः रसप्रदायिनी ।माघमासे शुक्लपक्षे द्वादश्यां ललितां श्रियम् ॥३॥स्नापयेन्मधुना चेक्षुरसेन च घृतेन च ।दध्ना दुग्धेन च तीर्थजलैः संस्नापयेत्ततः ॥४॥भूषाम्बराणि दद्याच्च चन्दनाक्षतकुंकुमम् ।शृंगारद्रव्यमेवापि दिशेत् पुष्पादिकानि च ॥५॥धूपं दीपं च नैवेद्यं नीराजनं तथाऽर्पयेत् ।प्रार्थयेद् दक्षिणां दद्यात् पुष्पांजलिं समर्पयेत् ॥६॥एवं सम्पूज्य विधिवत् साधून् विप्रान् प्रपूजयेत्॥पूजयेद् द्विजदाम्पत्यं दद्याद् दानं धनादिकम् ॥७॥भोजयेदन्नपानाद्यैर्मधुरेण रसेन च ।सुवर्णकमलं वस्त्रयुगलं कलशं दिशेत् ॥८॥कलशं शर्करापूर्णं रसपूर्णं दिशेच्च वा ।रसं विद्याद् घृतं क्षीरं दधि मधु च शर्कराम् ॥९॥लड्डुकान् भोजयेच्चापि संयावमथ पूरिकाः ।घारिकामप्यपूपाँश्च पिष्टापूपाँश्च मण्डकान् ॥१०॥क्षीरं शाकं पायसान्नं दध्यन्नं भोजयेत्तथा ।कमले माधवि लक्ष्मि मातः रमे समुद्रजे ॥११॥भद्रे जये कम्भरे श्रि महालक्ष्मि सुखं कुरु ।पद्मिनि पद्मजे कृष्णे नारायणि नरायणि ॥१२॥आद्ये श्रीललिते कृष्णप्रिये ब्राह्मि नमोऽस्तु ते ।वासुदेवि महादेवि हिरण्ये धनरूपिणि ॥१३॥सर्वरसे सर्वसुखे सर्वकल्याणदायिनि ।सम्पदं मोदमत्यन्तं देहि मे त्वद्व्रतेन वै ॥१४॥एवमभ्यर्च्य सौवर्णां लक्ष्मीं रसप्रदायिनीम् ।रसकल्याणललितां दाने श्रीगुरवे दिशेत् ॥१५॥पञ्चरत्नादिसहितामङ्गुष्ठमात्रनिर्मिताम् ।चतुर्भुजां चक्रशंखमालापूजासमन्विताम् ॥१६॥तथा गोमिथुनं दद्याद् विप्राय तु महात्मने ।सालंकारं सवस्त्रं च सदोहं दुग्धदं शुभम् ॥१७॥अनेन विधिना यस्तु रसकल्याणिनीश्रियः ।व्रतं कुर्यात् स पापेभ्यस्तत् क्षणादेव मुच्यते ॥१८॥नवाऽर्बुदसहस्राणि समाः स्वर्गे महीयते ।सुवर्णं कमलं लक्ष्मीं मासि मासि ददन्नृपः ॥१९॥अग्निष्टोमसहस्रस्य फलं स्वर्गे समश्नुते ।नारी कन्या च कुरुते विधवा वा सती च या ॥२०॥अग्निष्टोमफलं प्राप्य सौभाग्यारोग्यमाप्नुयात् ।मतिदातापि वै स्वर्गे मोदते देवतागृहे ॥२१॥शृणु लक्ष्मि व्रतं चान्यत् तवैव दशमीदिने ।आषाढे शुक्लपक्षे वै चातुर्मास्याऽग्रगे दिने ॥२२॥प्रातरेव समुत्थाय स्नात्वा ध्यायेद्धरिं प्रभुम् ।ततश्चार्द्रानन्दलक्ष्मीं सौवर्णीं पूजयेद् व्रती ॥२३॥अंगुष्ठमात्रां सद्वस्त्रां भूषाशृंगारशोभिताम् ।नारायणीश्रियं दर्भगन्धोदकैः सुचन्दनैः ॥२४॥स्नापयेच्छुक्लपुष्पैश्च कुंकुमाक्षतभोजनैः ।नैवेद्यैर्भोजयेच्चापि नीराजयेत् क्षमापयेत् ॥२५॥अनादिश्रीकृष्णनारायणेन सहितां श्रियम् ।प्रार्थयेद्भावहृदयैः स्वेष्टदं स्वेष्टदां तदा ॥२६॥महालक्ष्म्यै नमः पादौ महाविष्णो नमोऽस्तु ते ।शोकहन्त्र्यै नमो जङ्घे सुखदाय नमोऽस्तु ते ॥२७॥कमलायै नमश्चोरू आनन्दाय नमो हरे ।ईश्वरिण्यै नमः कटिं सम्पत्प्रदाय ते नमः ॥२८॥माधव्यै च नमो नाभौ स्वर्णवर्णाय ते नमः ।स्तनौ पोषणकारिण्यै नमो विश्वंभराय ते ॥२९॥कण्ठे नमः सरस्वत्यै नीलकण्ठाय ते नमः ।करौ कमलधारिण्यै नारायणाय ते नमः ॥३०॥बाहू नमो रक्षयित्र्यै सुदर्शनधराय च ।चान्द्र्यै चन्द्रानने नौमि हरिं वह्निमुखाय च ॥३१॥नेत्रे कृपाप्रवर्षिण्यै करुणानिलयाय च ।भ्रुवौ नमः क्षेमदायै कुशलकारिणे नमः ॥३२॥ललाटे धनरूपायै स्वर्णवर्णाय ते नमः ।मुकुटे सर्वरत्नायै सकौस्तुभाय ते नमः ॥३३॥सर्वकायौ सर्ववासौ सर्वैश्वर्यसमन्वितौ ।सर्वकामप्रदौ वन्दे आर्द्राश्र्यानन्दमाधवौ ॥३४॥सम्पदा चोपकरणैर्धनैर्धान्यै रसादिभिः ।भूषाम्बरादिभिश्चापि गृहमार्द्रं प्रपूरितम् ॥३५॥कुरुतं स्त्रीदासदासीभृत्यापत्यसुशोभितम् ।दिव्यसाधनशोभं च धेनुवाजिगजान्वितम् ॥३६॥उद्यानवाटीक्षेत्राढ्यं यशोमानप्रवर्धितम् ।यानविमानवाहाढ्यं शिष्यप्रशिष्यसत्प्रजम् ॥३७॥मोदप्रमोदसौख्याढ्यं समुत्साहोत्सवान्वितम् ।वाद्यगीतिमहासत्रदानपानसमन्वितम् ॥३८॥धर्मकर्माऽध्वरयुक्तं नित्यं च बहुदक्षिणम् ।विघ्नशून्यं पञ्चयज्ञपरं कुरुतं मद्गृहम् ॥३९॥स्नुषाभिः परितो रम्यां साधुसाध्वीविराजितम् ।परमेशमहाभक्तिप्रवाहितं निरन्तरम् ॥४०॥अन्ते दिव्यरसाढ्ये वामक्षरे वसतिं च मे ।एवमभ्यर्थ्य च पुष्पाञ्जलिं दत्वा विसर्जयेत् ॥४१॥लक्ष्मीं नारायणं चार्द्रानन्दौ श्रीगुरवे दिशेत् ।रत्नहीरकधान्यानि द्विजातिभ्यो दिशेत्तथा ॥४२॥भोजयेद् बालबालाद्या दिशेच्च दक्षिणाः शुभाः ।शंखचक्रे सकटके स्वस्तिकांऽकुशचामरान् ॥४३॥दद्यात् सत्पुरुषायाऽपि मिष्टान्नाम्बरकाणि च ।घृतपात्राणि पात्राणि सहिरण्यकानि सन्दिशेत् ॥४४॥शर्करासक्तुपात्राणि चतुर्मासं दिशेत्तथा ।तिलपात्राणि पूर्णानि रसपात्राणि यानि च ॥४५॥गन्धोदकं पुष्पवारि चन्दनं कुंकुमोदकम् ।अपक्वं दधि दुग्धं च गोशृंगोदकमित्यपि ॥४६॥तुलसीं कमलं दद्याच्चातुर्मास्ये सदार्चने ।दाने सर्वं प्रदद्याच्च वदेच्चापि श्रियाः पुरः ॥४७॥लक्ष्मि मे प्रीयतां नित्यं पापनाशाय माधवी ।सौभाग्याय प्रसन्नाऽस्तु ललिते मे सुखाय च ॥४८॥एवमुक्त्वा दिशेत् सर्वं कार्तिके दशमीदिने ।हिरण्यकमलं दत्वा चैकादश्यां प्रगे पुनः ॥४९॥पूजयित्वा व्रतं पूर्णं कुर्याद् दिशेद् द्विजातये ।सतूलावरणां शय्यां लक्ष्मीर्मे प्रीयतामिति ॥५०॥आर्द्राननरमानारायणव्रतं त्विदं महत् ।तेनेहाऽमुत्र च सदानन्दमाप्नोति सम्पदः ॥५१॥भुक्त्वा स्वर्गान् चिरस्थाँश्च परं पदमवाप्नुयात् ।श्रोतुर्वक्तुश्च संस्मर्तुश्चाप्यानन्दो भवेद् ध्रुवः ॥५२॥गृहे स्वे महदानन्दशतानि चानुभूय च ।भूयो लक्ष्मीपदं याति श्रीपुरं धाम चैश्वरम् ॥५३॥शृणु लक्ष्मि व्रतं तेऽन्यच्छारदेयव्रतोत्तमम् ।बृहस्पतेस्तु दिवसे कर्तव्यं पूजनं तव ॥५४॥मण्डपं सुभगं कृत्वा तोरणादिसमन्वितम् ।सौवर्णकलशैर्धान्यैश्चासनादिभिरूर्जितम् ॥५५॥तन्मध्ये कारयेद् रम्यं गजासनं सुवर्णजम् ।तत्र पीठे स्थापयेच्च शारदाख्यां रमां सतीम् ॥५६॥द्विभुजां ललितालक्ष्मीं सर्वाभरणभूषिताम् ।वीणाकमलहस्तां च मुकुटादिसुशोभनाम् ॥५७॥अथ पार्श्वे स्थापयेच्च गायत्रीं च सरस्वतीम् ।वाद्ययुक्तां दिव्यरूपां वेदपुस्तकधारिणीम् ॥५८॥एवं देवीत्रयं तत्र पूजयेद् गन्धकुंकुमैः ।अक्षतैः श्वेतपुष्पाद्यैर्धूपदीपाऽऽदिवस्तुभिः ॥५९॥क्षीरं च पायसं सिद्धान्नं मिष्टं भोजयेत्तथा ।मिष्टवारि सुगन्धाढ्यं पाययेच्छीतलं तथा ॥६०॥ताम्बूलकं प्रदद्याच्च नीराजनं ततश्चरेत् ।प्रार्थयेच्छारदालक्ष्मीं वाणी मे प्रीयतामिति ॥६१॥कृपया ते भविष्यामि विद्यावारिनिधिः परः ।रसनाग्रे मम नित्यं सरस्वती वसत्वपि ॥६२॥इह लोके सदानन्दमवाप्नुयां तथा कुरु ।वेदाः शास्त्राणि शस्त्राणि गीतनृत्यादिकं च यत् ॥६३॥न विहीनं त्वया वाणि तथा मे सन्तु सिद्धयः ।वाणी मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा मतिः ॥६४॥एताभिः पाहि चाष्टाभिस्तनूभिर्मां नरायणि ।एवं सम्प्रार्थ्य दानानि दद्यात् पुष्पाञ्जलिं तथा ॥६५॥भोजयेद् बालबालाश्च साधुसाध्वीश्च योषितः ।धनवस्त्राणि दद्याच्च कमण्डलुं च पुस्तकम् ॥६६॥वाद्यदानं प्रकुर्वीत शृंगाराभरणार्पणम् ।परिहारं प्रकुर्वीत गुरवे श्रियमर्पयेत् ॥६७॥मौनव्रतेन भुञ्जीत सायं प्रातश्च च वै व्रती ।गुरुवारे प्रतिमासं मासास्त्रयोदश व्रतम् ॥६८॥सन्ध्यायां च तथा मौनं रक्षन् व्रती समाचरेत् ।नाऽन्तरा भोजनं कुर्यात् समाप्ते च व्रते ततः ॥६९॥उद्यापनं परं कुर्यान्महोत्सवसमन्वितम् ।वस्त्रयुग्मं स्त्रियै दद्याद् विप्रायै भोजनान्वितम् ॥७०॥गोदानं गृहदानं च कुर्याद् यथाधनं व्रती ।अनेन विधिना कृत्वा पायसादि प्रभोजनम् ॥७१॥विद्यावान् धनवान् मिष्टकण्ठो व्रती प्रजायते ।शारदायाः प्रसादेन ब्रह्मलोके महीयते ॥७२॥नरो नारी कुमारी वा कुरुते शारदाव्रतम् ।ब्रह्मलोके वसेद् ब्राह्मी यावत्कल्पायुतत्रयम् ॥७३॥विद्यादानं प्रकुर्याद् यो व्रतं कृत्वा धनार्पणैः ।विद्वान् विद्यां प्रदद्याच्च शारदाव्रतवांश्च यः ॥७४॥विद्याधरपुरे सोऽपि वसेत् कल्पाऽयुतत्रयम् ।अन्ते लक्ष्मीपुरं याति ब्रह्माऽक्षरं व्रजेत्ततः ॥७५॥अथाऽन्यत्ते शुभं लक्ष्मि कल्याणीकमलाव्रतम् ।अशेषयज्ञफलदमशेषाघविनाशनम् ॥७६॥अशेषदुष्टशमनमशेषसुरपूजितम् ।पवित्राणां पवित्रं च मंगलानां सुमंगलम् ॥७७॥दैवतं दैवतानां च पुराणानां पुरातनम् ।माघशुक्लैकादशिकाव्रतं कल्याणदं शुभम् ॥७८॥घृतेनाऽभ्यञ्जनं कृत्वा दशम्यां च तिलैर्जलैः ।स्नात्वा प्रातर्हरिकृष्णं पूजयेत् सर्ववस्तुभिः ॥७९॥नमोऽनादिकृष्णनारायणाय पादयोर्नमः ।सर्वात्मने नमः के च वैकुण्ठाय नमो मुखे ॥८०॥श्रीवत्सधारिणे वक्षःस्थले नमो मुहुर्मुहुः ।शंखचक्रगदापद्मवरदानप्रधारिणे ॥८१॥नमो बाहुषु सर्वेषूदरे दामोदराय च ।मेढ्रे नमः सुखदाय ऊर्वोः सौभाग्यदाय च ॥८२॥जान्वोर्नमो भूतध्राय जंघयोर्मोक्षदाय च ।पादयोः पापनाशाय श्रीकृष्णाय नमो नमः ॥८३॥नमः कल्याणकारिण्यै कमलायै नमो नमः ।नमः श्रीललितालक्ष्म्यै जयालक्ष्म्यै नमो नमः ॥८४॥नमः श्रीमाणिकीलक्ष्म्यै नारायणीश्रियै नमः ।नमः श्रीसुखदालक्ष्म्यै शिवराज्ञीश्रियै नमः ॥८५॥नमः श्रीपार्वतीलक्ष्म्यै कान्ताप्रमाश्रियै नमः ।नमः श्रीकम्भरालक्ष्म्यै महालक्ष्मीश्रियै नमः ॥८६॥नमः श्रीसन्तुष्टिलक्ष्म्यै कार्ष्णीश्रियै नमो नमः ।नमः श्रीराधिकालक्ष्म्यै रमालक्ष्म्यै नमो नमः ॥८७॥एवं नत्वा च गोविन्दं श्रियं नत्वा पुनः पुनः ।सर्वोपचारकैश्चोभौ कल्याणदौ प्रपूजयेत् ॥८८॥गन्धैर्माल्यैर्धूपदीपैर्भक्ष्यैर्नानाविधैरपि ।जलैस्ताम्बूलकैश्चारार्त्रिकैः पुष्पार्पणैस्तथा ॥८९॥प्रीयतां मम गोपालः श्रीपतिः पुरुषोत्तमः ।प्रीयतां मम कल्याणीमहालक्ष्मीनरायणी ॥९०॥एवमुच्चार्य शयने स्थापयेत् परमेश्वरी ।मध्याह्ने पूजयेच्चापि भोजयेच्च निशामुखे ॥९१॥सोत्सवं पूजयेच्चापि भोजयेत् पायसादिकम् ।सुप्त्वा चैकादशीप्रातरुत्थाय स्नानमाचरेत् ॥९२॥पूजयेद् विधिना लक्ष्मीं कल्याणीं मण्डपे शुभे ।सर्वतोभद्रके रम्ये मण्डले विष्णुना सह ॥९३॥पूजयित्वा च गोदाने शय्यादानं घटार्पणम् ।लक्ष्म्यर्पणं रत्नभूषाम्बरपात्रधनार्पणम् ॥९४॥धान्यभोजनभोग्याद्यर्पणं कुर्याद् व्रती प्रगे ।भोजयेछ्रीमहालक्ष्मीं दुग्धं फलादिकं शुभम् ॥९५॥मध्याह्ने पूजयेच्चापि भोजयेत् पायसादिकम् ।सायं सम्पूजयेच्चापि रात्रौ जागरणं चरेत् ॥९६॥द्वादश्यां प्रातरेवाऽपि प्रपूज्य विधिना दिशेत् ।गुरवे साधवे साध्व्यै दानानि च द्विजातये ॥९७॥भोजयेत् सुमृष्टमिष्टान्नानि विप्रान् सतस्तथा ।बालकान् बालिका नारीः साधून् संभोजयेत्तथा ॥९८॥दद्याद् दानानि बहूनि परिहारं ततश्चरेत् ।लक्ष्मीनारायणसंहितायाः कथामिमां वदेत् ॥९९॥पठनाच्छ्रवणादस्य स्मरणाच्चानुमोदनात् ।भुक्तिर्मुक्तिर्भवेच्चापि कल्याणानि बहूनि च ॥१००॥पुराजन्मनि चाभीरीकन्या कल्याणिनीव्रतम् ।कृत्वा नारायणपुत्री ऊर्वशी समजायत ॥१०१॥पुरा वैश्यकुटुम्बोत्था पुलोमकन्यका त्विदम् ।व्रतं कृत्वा महेन्द्राणी व्यजायत दिवेश्वरी ॥१०२॥पुरा कृत्वा व्रतं चैतत् सुरपुत्रो द्विजस्ततः ।सूर्यो बभूव स्वर्गेशः सहस्ररश्मिवान् प्रभुः ॥१०३॥तस्मात् कल्याणिकालक्ष्मीव्रतं स्वेष्टोत्तमप्रदम् ।माघे दिनत्रयं कार्यं सर्वकल्याणसम्प्रदम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने रसकल्याणललिताव्रतस्य, आर्द्रानन्दरमानारायणव्रतस्य, शारदेयव्रतस्य, कल्याणीकमलाव्रतस्य च निरूपण-नामा अष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP