संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-.शृण्वन्तु श्रीरमाद्याश्च जयाद्या मम वै प्रियाः ।तानि रत्नानि सर्वाणि महागुणानि सन्ति वै ॥१॥भूतरक्षोविषव्यालव्याधिघ्नान्यवहान्यपि ।भवन्ति गुणयुक्तानि तथैव विगुणान्यपि ॥२॥वज्रा मुक्ताः पद्मरागा मरकता मणीश्वराः ।इन्द्रनीलाश्च वैदूर्याः पुष्परागाश्च जातयः ॥३॥कर्केतनाः सपुलका रुधिराः स्फटिकास्तथा ।विद्रुमा मौक्तिकाः काचा मणयस्ते भवन्ति वै ॥४॥आकारं च तथा वर्णं गुणं दोषं च तत्फलम् ।परीक्ष्य मूल्यमेतेषां निर्णीयते न चान्यथा ॥५॥कुलग्नेषूपयुज्यन्ते यानि चोपहतेऽहनि ।दोषाढ्यानि भवन्त्येव वियोजयन्ति सम्पदा ॥६॥तस्मात् परीक्ष्य रत्नानि गृह्णीयाद् धारयेदपि ।शुभे काले शुभान्येव परां श्रियं ततो लभेत् ॥७॥वज्रमणिः समस्तेषु महाप्रभाववान् भवेत् ।बलाऽस्थिसमिद्बीजानि निपेतुर्यत्र तत्र च ॥८॥वज्राणि वज्रनामानि जातानि विविधानि च ।हैममातंगसौराष्ट्राः पौण्ड्रकलिंगकोसलाः ॥९॥वेणातटाश्च सौवीरा देशा वज्रोद्भवान्विताः ।आताम्रा हिमशैलोत्था मातंगोत्थाः कपीशिनः ॥१०॥सौराष्ट्रजास्तु ताम्रास्ते श्यामाः पुण्ड्रभवा मताः ।कलिंगोत्थाः स्वर्णवर्णाः पीतप्रभास्तु कोसले ॥११॥वेणातटीयाः शशिभाः सौवीरे मेघकान्तयः ।सम्यक् सम तु पार्श्वेषु गुणवद्वर्णवल्लघु ॥१रे॥रेखाबिन्दुकाकपदकलंकत्रुटिवर्जितम् ।परमाणुमात्रमपि वज्रं वज्रोत्तमं हि तत् ॥१३॥यदि तीक्ष्णाग्रधारं तत् तस्मिन् देवसमाश्रयः ।लाभदं चावितथं तत् सर्वसौख्यप्रदं धृतम् ॥१४॥यथावर्णस्तथा देवनिवासस्तैजसो यथा ।तथामूल्यं तथा देवाभिधानं चापि कल्प्यते ॥१५॥वर्णभेदेन वज्रेषु भिन्ना देवा वसन्ति हि ।हरित्सु हरिरेवाऽऽस्ते श्वेतेषु वरुणः स्वयम् ॥१६॥पीतेषु शक्रएवाऽऽस्ते पिङ्गेषु तु हुताशनः ।श्यामेषु पितरः सन्ति ताम्रेषु मरुतस्तथा ॥१७॥विप्रः कुमुदस्फटिकशंखाभं धारयेद्धितम् ।क्षत्रियः शशबभ्र्वक्षिसदृशं धारयेन्मणिम् ॥१८॥वैश्यः कदलीदलभं धारयेलाभदं मणिम् ।शूद्रः स्वच्छकरवालनिभं सन्धारयेन्मणि ॥१९॥जपाविद्रुमशोणं वा हरिद्रारससन्निभम् ।द्वौ वज्रवर्णौ राजानो धारयेयुर्हितप्रदौ ॥२०॥सर्वरङ्गमयं वज्रं राजा वै धारयेन्मणिम् ।अधरोत्तरवृत्तोऽपि बहुवर्णयुतो मणिः ॥२१॥राजयोग्यो नेतरेषां वर्णानां कष्टदो हि सः ।वज्रो विभूतिर्गुणिनामन्येषां व्यसनप्रदः ॥२२॥यस्य शृंगं दलितं वा विशीर्णं लोक्यते यदि ।सगुणोऽपि न वै धार्यः श्रेयोऽर्थिभिः कदाचन ॥२३॥विशीर्णस्फुटितशृंगो मलपृषतमध्यकः ।वज्रः श्रियं नाशयति न रक्ष्यो भवने क्वचित् ॥२४॥यदेकदेशो रक्ताभो यद्वा लोहितवर्णवान् ।स कुर्यान्मृत्युरेवाऽयं मणिर्धार्यो न वै क्वचित् ॥२५॥कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशेति च ।उत्तंगसमतीक्ष्णाग्रा वज्रस्याऽऽकरजा गुणाः ॥२६॥षट्कोटिशुद्धममलं प्रस्फुटतीक्ष्णधारकम् ।लघु वर्णान्वितं दोषशून्यं तथा सुपार्श्वकम् ॥२७॥इन्द्रायुधांशुरंगाढ्यकृताभिव्योममण्डलम् ।दुर्लभं धारयेद् वज्रमायुःस्त्रीधनवर्धकम् ॥२८॥सम्पद्गोपशुधान्यानां सम्पदां च प्रवर्धकम् ।व्यालवह्निविषव्याघ्रतस्कराऽम्बुभयापहम् ॥२९॥आथर्वणाभिचाराणां दूरान्निवर्तकं मणिम् ।विंशतितण्डुलभारं वज्रं गुणाऽग्र्यमूल्यकम् ॥३०॥गुणैः प्रभया स्नेहेन गुरुत्वेनांऽशहीनकम् ।वज्रं न्यूनं मतं तद्वै मूल्ये लाभे सुखादिषु ॥३१॥अर्धे त्वर्धगुणं प्रोक्तं पादं पादगुणं भवेत् ।पादार्धगुणकं चापि मूल्ये पादार्धकं भवेत् ॥३२॥त्रिंशद्भागं शतांशं चाऽशीतिभागं तथा ह्यपि ।सहस्रभागं वज्र स्यात् सूक्ष्मं गुणेऽपि शक्तिमत् ॥३३॥अष्टाभिः सर्षपैश्चापि वज्राणां गुरुता भवेत् ।यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिषु ॥३४॥रत्नवर्गे समस्तेऽपि धारणं तस्य विद्यते ।स्वल्पमात्राऽपि गुरुता धारणे त्वनुमीयते ॥३५॥कर्तव्यं धारणं तस्मात् परमाणोरपि ध्रुवम् ।अल्पोऽपि दोषवान् वज्रो दशांशमूल्यवान् भवेत् ॥३६॥प्रकटाऽनेकदोषस्तु शतांशमूल्यवान् भवेत् ।बहुदोषस्य वज्रस्य मूल्यं स्वल्पं विभूषणे ॥३७॥सन्नह्य धार्यते तादृक् सदोषं लघुहानिदम् ।अलं सदोषवज्रस्य भूषायां धारणं ह्यपि ॥३८॥नार्या वज्रमधार्यं वै सगुणं ह्यपि कर्हिचित् ।पुत्रप्रसवमिच्छन्त्या नैव धार्यं कदाचन ॥३९॥धार्यं तु दीर्घं चिपिटं ह्रस्वं वज्रं च निर्गुणम् ।अयसा पुष्परागेण तथा गोमेदकेन च ॥४०॥वैदूर्येण स्फटिकेन काचैश्चापि पृथग्विधैः ।प्रतिरूपाणि जायन्ते कुशलैर्वज्रसन्निभाः ॥४१॥क्षारोल्लेखनशालाभिस्तेषां कार्यं परीक्षणम् ।पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥४२॥सर्वाणि विलिखेद् वज्रं तच्च तैर्न विलिख्यते ।गुरुता सर्वरत्नानां श्रेष्ठत्वे च प्रभाऽच्छता ॥४३॥कारणं वज्रके हेतुर्लघुता च प्रभाऽच्छता ।वज्रजातिरजातिं वै विलिखन्ति समन्ततः ॥४४॥वज्रेण लिख्यते वज्रं वज्रं नाऽन्येन लिख्यते ।वज्राणि मुक्तामणयो ये च केचन जातयः ॥४५॥न तेषां प्रतिबद्धानां भा भवत्यूर्ध्वगामिनी ।तिर्यक्क्षतत्वात् केषांचित् कथञ्चिद् यदि दृश्यते ॥४६॥तिर्यगालिख्यमानानां सा पार्श्वेषु विहन्यते ।विशीर्णकोटिवज्रो विवर्णः सरेखबिन्दुकः ॥४७॥सेन्द्रायुधश्चेत् पुत्रादीन् धनं धान्यं ददाति सः ।विद्युत्प्रभमिन्द्रवज्रं दधानो नृपतिः खलु ॥४८॥पराक्रमेण तस्यैव साम्राज्यं लभते भुवि ।कथितं वज्ररत्नं वो ब्रह्मप्रियास्ततः परम् ॥४९॥मुक्ताफलात्मकं रत्नं कथयामि निबोधत ।अच्छाः स्वच्छाः सान्द्रभाश्च मलभाश्च पृथक् पृथक् ॥५०॥हस्तिमेधक्रोडशंखमीनाऽहिशुक्तिवेणुजाः ।पृध्वीसलिलजा मुक्ता मणयः संभवन्ति वै ॥५१॥शुक्त्युद्भवं मुक्तकं तु श्रेष्ठं सर्वेषु गण्यते ।शुक्त्युद्भवं भवेद् वेध्यं शेषाण्यवेध्यकानि हि ॥५२॥वेणुहस्तिमत्स्यसूतं शंखजं च वराहजम् ।भासाहीनं यद्यपि स्यान्मंगलं तत् प्रशस्यते ॥५३॥शंखोद्भवं गजोत्थं च मुक्तारत्नं कनिष्ठकम् ।गजकुंभमध्यवर्णं पीतं वा निष्प्रभं तथा ॥५४॥वृहत्कोणपलमानं शांखं चापि कनिष्ठकम् ।श्रेष्ठाः शंखा हस्तिनश्च शुद्धवंश्यास्तु ये मताः ॥५५॥तेषु वृत्तानि पीतानि जायन्ते निष्प्रभाण्यपि ।मीनेषु यानि जायन्ते सुवृत्तानि लघून्यपि ॥५६॥अतिसूक्ष्माणि पाठीनपृष्ठवर्णानि तानि च ।मत्स्याऽऽननेषु जायन्ते पयोधेर्मध्यतः खलु ॥५७॥वाराहदंष्ट्राप्रभावं दंष्ट्रांकुरसमानभम् ।भूतलोत्थं च मुक्ताख्यं क्वचित् तादृङ् मतं शुभम् ॥५८॥उपलोत्थं च तद्वर्णं वंशोत्थं तत्समानभम् ।वेणवोऽपि भव्यजनैर्भोग्याः सर्वत्र नैव ते ॥५९॥भुजंगजानि रत्नानि वृत्तानि चोज्ज्वलानि च ।धौतानीव भवन्त्येव खड्गधाराप्रभाणि च ॥६०॥भौजंगममौत्तिकधृक् पुण्यवान् तेजसाऽन्वितः ।राज्यश्रीमान् भवेदेव प्रभावाढ्यो भवेदपि ॥६१॥रत्नमूल्यस्य जिज्ञासुः शुभे मुहूर्तके खलु ।रक्षितं सुमहत् कृत्वा स्थापयेद् भवनोपरि ॥६२॥तदाऽम्बरे महाघोषा भेरीनादा भवन्ति हि ।विद्युतो विस्फुरणानि घनाश्चापि भवन्ति हि ॥६३॥एतादृशं मौक्तिकं तु यत्र कोषे गृहेऽस्ति वा ।न तत्र सर्पा विघ्नानि यातुधानाश्च नाऽऽधयः ॥६४॥उपसर्गा व्याधयो न यत्र भुजंगमौक्तिकम् ।अथ मेघोद्भवं यत् स्यान्मौक्तिकं तत्तु देवताः ॥६५॥व्योममार्गाद्धरन्त्येव त्वादित्यार्चिसमप्रभम् ।रात्रौ भाति दिवावत्तद् यत्रास्ते प्रभया स्वया ॥६६॥एतादृशस्य रत्नस्य मूल्यं स्वर्णमयी मही ।अपि नैव सुपर्याप्ता यतस्तत् स्वर्णरत्नदम् ॥६७॥यस्याऽग्रे रत्नमेतत् स्याद् भुंक्ते स क्षितिमण्डलम् ।प्रजानां नृपतेश्चापि वर्धन्ते भाग्यकान्तयः ॥६८॥योजनानां सहस्रेषु ह्यनर्था यान्ति नैव तु ।एतादृशानि मुक्तानि बलस्य दन्तरूपिकाः ॥६९॥समिधो याः कृतास्तत्राऽध्वरे ताभ्यस्तदा तदा ।बीजानि यानि जातानि विचित्रवर्णाकानि वै ॥७०॥समुद्राणां जले यानि निपेतुः शुद्धकानि हि ।चन्द्रांऽशुकान्तिरम्याणि शुक्तिजानि हि तानि वै ॥७१॥द्वीपे तु सैंहले तानि सौराष्ट्रे ताम्रपर्णके ।पारशवे पारलोके कौबेरे पाण्ड्यदेशके ॥७२॥हाटके हेमके चेति जायन्ते शुक्तिजानि वै ।शुक्त्युत्थं नातिनिकृष्टवर्णं गुणप्रभायुतम् ॥७३॥संस्थानमानयुक्तं च जायते वर्धनादिषु ।वर्धने पारसीके च पाताले सिंहलेऽपि च ॥७४॥शुक्तिजस्यैकस्य मुक्ताफलस्य शाणयोगिनः ।मूल्यं मुद्राः सहस्रे द्वे राजत्यः संभवन्ति हि ॥७५॥माषार्धहीनरत्नस्य दशांशहीनमूल्यकम् ।माषकत्रयगुरु यत् सहस्रद्वयमूल्यकम् ॥७६॥सार्धद्वयमाषकस्य मूल्यं सार्धसहस्रकम् ।माषकद्वयगुरु यन्मूल्यं सहस्रमुद्रकम् ॥७७॥सार्धमाषकगुरु यन्मूल्यं पञ्चशतानि वै ।षड्गुञ्जागुरु यद् रत्नं तस्य सार्धशतद्वयम् ॥७८॥चतुर्गुञ्जागुरु यत्तन्मूल्यं शतद्वयं मतम् ।गुञ्जाद्वयगुरु यत् तन्मूल्यं शतं मतं तथा ॥७९॥गुञ्जैकगुरुमूल्यं तु पञ्चाशन्मुद्रिकाः खलु ।षोडशगुञ्जाधरणं दार्विकाख्यं भवेद्धि तत् ॥८०॥त्रिंशद्ग्रुञ्जाधरणं तु शिक्यं रत्नं तदुच्यते ।निकृष्टानि तु रत्नानि त्रिंशन्मूल्यानि तानि वा ॥८१॥विंशतिमूल्यकान्येव दशमूल्यानि वा तथा ।अथाऽस्य संपरीक्षा तु भाण्डे जाम्बीरजं रसम् ॥८२॥निक्षिप्य पच्यते रत्नं घृष्यते पिण्डमूलकैः ।सरेखं स्यात् कृत्रिमं तन्निकृष्टं वा भवेत् किल ॥८३॥मृल्लिप्ते पुटके मध्ये निक्षिप्य चाऽनले पचेत् ।दुग्धे ततश्च पयसि घृते पुनर्जलेषु च ॥८४॥ततो वस्त्रैर्घर्षणेन गुणकान्तियुतं भवेत् ।तच्छ्रेष्ठं सत्यमेवेति मौक्तिकं क्षतिवर्जितम् ॥८५॥श्वेतकाचसमं हेमनद्धं धार्येत भूषणम् ।कृत्रिमं चेति सन्देहे कार्यं पुनः परीक्षणम् ॥८६॥उष्णे सलवणे स्नेहे निशां तद् वासयेज्जले ।व्रीहिभिर्मर्दनीयं तच्छुष्कवस्त्रान्तरीकृतम् ॥८७॥यदि नाऽऽयाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ।सितं प्रमाणवत् स्निग्धं गुरु स्वच्छं सुनिर्मलम् ॥८८॥तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवद्धि तत् ।नाऽस्य भर्तारमेकोऽपि दोषोऽनर्थं उपैति वा ॥८९॥एवं मुक्तामणयो वै मयोक्ता वो हरिप्रियाः ।पद्मरागान् प्रवक्ष्यामि शृणुतैतान् यथोद्भवान ॥९०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वज्रमणेर्मुक्तमणेश्चोत्पत्तिमूल्यश्रैष्ठ्यादिनिरूपणनामा द्वाषष्ट्यधिकशततमोऽध्यायः ॥१६२॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP