संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५ Translation - भाषांतर पुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं षष्ठे तापसवत्सरे ।वेधसोऽस्य द्वितीये कल्पके च प्रथमे मनौ ॥१॥प्राकट्यं तव रुद्राच्च ममाऽपि ब्रह्मतोऽभवत् ।प्रतिकल्पं त्रिलोकीनामुत्पत्तिस्तत्र जायते ॥२॥उत्पादकोऽत्र वै ब्रह्मा सायं संहारको हरः ।पोषणस्य प्रकर्ता तु विष्णुस्तत्र सदा मतः ॥३॥किन्तु तं नियमं त्यक्त्वा रुद्रो देवो महेश्वरः ।ब्रह्माणमाह मा सृष्टिं कुरु त्वं यत् करोम्यहम् ॥४॥सायंकालस्य कार्यं त्वं गृहाण लोकसंहृतिम् ।न मे तद् रोचते ब्रह्मन् संहाराख्यं हि कर्म यत् ॥५॥योगिनां मादृशानां तन्महद् दुःखं विवेकिनाम् ।संहृतिर्नहि योग्या मे हिंसात्मिकाऽतिनिर्घृणा ॥६॥सतां धर्मो न वै हिंसा परदुःखप्रदातृता ।परदुःखाऽसहिष्णुत्वे मम हिंसा न रोचते ॥७॥अपि कायेन मनसा नेच्छामि परहिंसनम् ।कुतश्च कर्मणा कुर्वे पापकृत् कर्म भीषणम् ॥८॥अपदेभ्यः सपदानां हिंसा पापाऽधिकान्विता ।सपदेष्वपि लिक्षाणां मक्षिकाणां ततोऽधिका ॥९॥चटकानां च गृध्राणां गरुडानां ततोऽधिका ।श्वादीनां गोमहिषाणामुष्ट्राणां करिणां ततः ॥१०॥नागानां च पिशाचानां भूतानां च ततोऽधिका ।दैत्यानां रक्षसां हिंसा दानवानां ततोऽधिका ॥११॥सूतमागधबन्दीनां भृत्यानां च श्वपाकिनाम् ।मानवानां च विप्राणां नारीणां च ततोऽधिका ॥१२॥कन्यकानां कुमाराणां बालानां च सतां तथा ।योगिनां चापि भक्तानां साधूनां ब्रह्मचारिणाम् ॥१३॥सगर्भाणां सूतिकानां सतीनां च ततोऽधिका ।तीर्थानां चापि चैत्यानां प्रतिमानां ततोऽधिका ॥१४॥मन्दिराणामृषीणां च देवानां च ततोऽधिका ।मुमुक्षूणां तापसानां हिंसा पापाधिका तथा ॥१५॥यज्ञीयानां नृपाणां च गुरूणां च ततोऽधिका ।वेदानां चापि शास्त्राणां हिंसनं सर्वतोऽधिकम् ॥१६॥हर्येशानां विभूतीनां हिंसनं च ततोऽधिकम् ।इत्येषां पापविस्तारो हिंसात्मा मे न रोचते ॥१७॥करिष्येऽहं सर्जनं वै कुरु त्वं वै विसर्जनम् ।चिरं मया कृतं विसर्जनं त्वया प्रसर्जनम् ॥१८॥आयतौ त्वं विधेह्येव विसर्जनं न सर्जनम् ।अहं सदा करिष्ये सर्जनं न तु विसर्जनम् ॥१९॥इत्युक्तश्च तदा लक्ष्मि! ब्रह्मा लोकपितामहः ।शंकरं प्राह मा मैवं त्वादृशो हिंसकोऽस्मि न ॥२०॥श्रेष्ठं कार्यं विहायैव कः कनिष्ठे विशेज्जनः ।ब्राह्मणोऽहं न तत्कर्तुं शक्नोम्यत्र कदाचन ॥२१॥रुद्रस्य तव कार्यं तत् क्रूरस्य निर्घृणस्य च ।ब्राह्मणा दयया युक्ता न निषादाः कदापि वै ॥२२॥मया नैषादिकं कार्यं मनसाऽपि न मन्यते ।जालं पाशो घातनं च कर्तनं कूर्चनं तथा ॥२३॥विदलनं रोधनं च नैषादिकं हि तद्भवेत् ।दाहनं भेदनं चापि पेषणं प्राणकर्षणम् ॥२४॥मारणं पापकर्मैतन्मे न शंभो प्ररोचते ।नाहं तत्र कृतप्रज्ञो भवाँस्तत् कर्तुमर्हति ॥२५॥इत्युक्तः शंकरो लक्ष्मि! रौद्रभावमुपागतः ।असहमानो वाक्यानि जग्राह वेधसं गले ॥२६॥न्यपातयत् क्षितौ तत्रोत्तानं वै वेधसे हरः ।पादं दत्वा बलाद् वक्षस्येव शूलं गले न्यधात् ॥२७॥हाहाकारो महानासीत्तदा त्रैलोक्यवासिषु ।ब्रह्मणोऽद्य विनाशो वै भविष्यतीति मेनिरे ॥२८॥ऋषयः पितरो देवा जडाश्च चेतना अपि ।चकम्पिरे रुद्ररोषान्मध्यस्थः कोऽपि नाऽऽगमत् ॥२९॥भयं गतोऽपि विष्णुश्चाऽन्यस्य तत्र तु का कथा ।ब्रह्मा सस्मार मां तत्र त्रातारं परमेश्वरम् ॥३०॥अक्षरान्मम वै स्थानात्तूर्णं तत्र समाययौ ।त्वया सार्धं तदा लक्ष्मि! शूलं जग्राह पाणिना ॥३१॥त्वमादिष्टा प्रवेष्टुं च हरे शान्तिकरी सती ।हररोषोऽभवच्छान्तस्तवाऽऽवेशात्तदा प्रिये ॥३२॥विवेदाऽकार्यमेवैतन्नम्रो मां वीक्ष्य लज्जितः ।शंखचक्रगदापद्मधरं श्रीपुरुषोत्तमम् ॥३३॥कोटिसूर्यसमाभासं सर्वाभूषणभूषितम् ।सर्वेश्वरं धृतशूलं ब्रह्मरक्षाकरं प्रभुम् ॥३४॥अकस्मादागतं शान्तं सर्वान्तरनिवासिनम् ।अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ॥३५॥ब्रह्मणो वक्षसि न्यस्तः शंभुपादो मया तदा ।शूलं च मम हस्ताभ्यामुद्धृतौ लीलया प्रिये ॥३६॥शंभुः पपात वेगेनोत्तानो मम बलात्तदा ।पार्श्वे पतन्तं शंभुं तं देवाश्चालम्बनं ददुः ॥३७॥रक्ष रक्ष हरेकृष्ण बालकृष्ण परेश्वर ।अजं रक्ष हरं रक्ष रक्ष नः शरणागतान् ॥३८॥सर्वे वयं तव बालाः पोष्या रक्ष्याः सदा त्वया ।इत्युक्त्वा ते निपेतुर्मे पादयोर्दण्डवत् तदा ॥३९॥पुष्पाद्यैर्मानसैर्भावैः पुपूजुर्मां दयाभृतम् ।परब्रह्माऽक्षरातीतं ब्रह्मवक्षोगतं हरिम् ॥४०॥शंकरोऽपि च मे भक्तो प्रययाचे क्षमापनम् ।मया शंभुबोधितश्च संहारे दूषणं न ते ॥४१॥मम शक्तिस्वरूपोऽसि कर्ताऽहं तव रूपवान् ।मया सृष्टमिदं सर्वं विज्ञवेधःस्वरूपिणा ॥४२॥मया सम्पुष्यते सर्वं दातृविष्णुस्वरूपिणा ।मया संह्रियते सर्वं हर्तृहरस्वरूपिणा ॥४३॥योऽहं सोऽहं हरो विष्णुर्ब्रह्मा भिन्नाभिधान्वितः ।पृथग्भावो न भवतां मम माया दुरासदा ॥४४॥तया भेदं गतश्चाऽहं ममेच्छयैव मायया ।करोमि भेदवत् सर्वं विभिन्नं चेतरो यथा ॥४५॥अज्ञानिवच्चेष्टयामि लीला मे सार्वकालिकी ।.तत्र ते दूषणं शंभो हिंसादोषात्मकं न वै ॥४६॥उत्पन्नं स्याद् विनष्टं वै स्वभाव एषो वस्तुनः ।तत्र द्रष्टा भवान् रुद्रो विनाशे न्यायतो मम ॥४७॥निमित्तानि प्रलयाद्याः कालो युगा निशास्तथा ।कालसीमा निमित्तं वै मया मर्यादया कृता ॥४८॥तस्मात्ते दूषणं शंभो संहारे नास्ति सर्वथा ।इत्युक्तः शंकरो लक्ष्मि! मया स्वास्थ्यमुपागतः ॥४९॥कलहं तं परित्यज्य सदा संहारमानसः ।सेवते मन्नियोगं वै हरतेऽन्ते यथोदितम् ॥५०॥अथाऽहं संविनीयैव शंभुं ब्रह्मसुतोऽभवम् ।अनादिश्रीब्रह्मनारायणः श्रीपुरुषोत्तमः ॥५१॥त्वं च लक्ष्मि हरदेहान्निष्क्रान्ता कन्यका ततः ।वैष्णवी रुद्रपुत्री वै मह्यं हरेण चार्पिता ॥५२॥इत्येवं मम वै तत्र प्राकट्यं च तवाऽप्यभूत् ।आकल्पान्तं ततश्चाऽहं ब्रह्मनारायणोऽवसम् ॥५३॥त्वया साकं हि वैष्णव्या नारायणीश्रि! तत्स्मर ।एवमन्येऽप्यवताराः कोटिशस्तत्र मेऽभवन् ॥५४॥न तान् शक्ताः प्रसंख्यातुं चान्ये मामन्तरा प्रिये ।अथाऽन्ये वत्सरे चापि प्राकट्यं मम संशृणु ॥५५॥यमाख्ये वत्सरे चाद्ये कल्पे चाद्ये मनौ तथा ।देवतानां विवादोऽभूद् धिष्ण्यार्थं स्वर्गवासिनाम् ॥५६॥एकः प्राह महेन्द्रस्य पदं भोक्ष्येऽहमेव ह ।चाऽपरश्च तदा प्राह सूर्योऽहं नाऽपरो भवेत् ॥५७॥तृतीयः प्राह चन्द्रोऽहं तुर्यः प्राह धनी त्वहम् ।कश्चित् प्राह जलेशोऽहं कश्चित्प्राह मरुत्त्वहम् ॥५८॥वसुश्चाऽहं देवगुरुश्चाऽहं चेशानदेवता ।अहमग्निर्गणेशोऽहं सेनान्यहं ध्रुवोऽप्यहम् ॥५९॥मेरुर्मम दिवं मेऽपि मरुच्चाऽहं भवाम्यपि ।यमश्चाऽहमहं विष्णुर्भवामि शंकरोऽप्यहम् ॥६०॥दिक्पालोऽहं लोकपालः साध्योऽहं संभवामि वै ।विश्वदेवपदं चाऽहं भोक्ष्ये पितृपदं त्वहम् ॥६१॥इत्येवं वदमानानां सुराणां कलहो मिथः ।वरिवर्ति महानेवाऽशाम्यः केनापि शासिना ॥६२॥परस्परं तदा लक्ष्मि! बलिनो देवसत्तमाः ।प्रसह्येष्टपदान्येव स्वायत्तोकृत्य सर्वथा ॥६३॥स्थितवन्तो निर्बलाश्च निराधारास्तदाऽभवन् ।अन्धराज्यं यथा स्वर्गं तत्राऽभवद् बलार्जितम् ॥६४॥सात्त्विका देवताश्चेन्द्रवसुचन्द्रादयस्तदा ।आन्ध्यस्य वारणार्थं वै मिमिलुर्वै गुरोर्गृहे ॥६५॥कथमान्ध्यं निवर्तेतेत्येवं विचारणा व्यधुः ।ब्रह्मणो वापि शंभोर्वा विष्णोर्वा वचनानि वै ॥६६॥अमर्यादा न मन्यन्ते देवा गर्वप्रवेगिताः ।तस्मादत्र प्रकर्तव्यः सर्वेषां हितकृद् विधिः ॥६७॥यथा सुरगुरुर्मार्गं दर्शयेत् कुर्म एव तम् ।श्रुत्वैवं तु तदा देवानाह सुरगुरुः स्वयम् ॥६८॥द्यौः सदा देवमाता वै देवान् गर्भे प्ररक्षति ।सेयं मूर्तिमती चास्ते कुर्मस्तत् सा वदेच्च यत् ॥६९॥विष्णुर्नाम तथाऽऽदित्यो राजतेऽत्र सदस्यपि ।यथा वदेत् तथा सर्वे कुर्मस्तद्वचनं हितम् ॥७०॥इत्युक्तौ तौ नमस्कृत्य देवान् सर्वानुपस्थितान् ।प्राहतुर्निर्णये चान्ध्ये योग्यौ नाऽऽवां तथापि वः ॥७१॥सूचयावो हरिं कृष्णं परं ब्रह्म सनातनम् ।आराधयामश्चाऽत्रैवाऽधिकारपदद प्रभुम् ॥७२॥स एव निर्णयं नश्च दास्यत्येवाऽक्षराधिपः ।येन सम्पालितं सर्वं येन सन्नोदितं त्विदम् ॥७३॥येन सञ्चालितं याति स नो दास्यति निर्णयम् ।येन ऋद्धिः प्रदत्ता च यथाकर्म यथागुणम् ॥७४॥यथास्थानं यथैश्वर्यं यथाधिष्ण्यं पदानि च ।आराधितः समागत्य स नो दास्यति निर्णयम् ॥७५॥इत्युक्ताः सर्वदेवास्ते प्रसह्य बलवादिनाम् ।शासनार्थं सस्मरुश्च परब्रह्म सनातनम् ॥७६॥अक्षरेशं भगवतां भगवन्तं परेश्वरम् ।तूर्णं चाऽक्षरधाम्नोऽहं समायातो महाप्रभुः ॥७७॥त्वया साकं तदा नारायणीश्रि! परेश्वरः ।देवगुरोः सभायां वै विष्ण्वाख्याऽऽदित्यसन्निधौ ॥७८॥दिव्यो दिव्याम्बरभूषो दिव्यैश्वर्यसमन्वितः ।कोटिचन्द्रार्करूपश्च सभामध्ये व्यवस्थितः ॥७९॥त्वमादिष्टा तदा लक्ष्मि! द्युतनौ समवस्थिता ।अदृश्या शासयित्री त्वं सर्वेषां हितकारिणी ॥८०॥सुरा दृष्ट्वा तु मां सर्वेश्वरेश्वरेश्वरेश्वरम् ।प्रणताश्चासनं चापि मधुपर्कं ददुस्ततः ॥८१॥कुशलं पृष्टवाँश्चाऽहं तेभ्यस्तेऽप्यनिवेदयन् ।आन्ध्यं स्वर्गे प्रधिष्ण्यार्थं तच्छान्तिं चार्थयन्नपि ॥८२॥मया नारायणीश्रि! वै तदा सुदर्शनानि मे ।समर्थमुक्तरूपाणि शासकानि समन्ततः ॥८३॥क्रूराणि सायुधान्येव प्रहितानि दिवि प्रिये! ।यत्र यत्र सुराः सन्ति परधिष्ण्यस्थितास्तदा ॥८४॥ताँस्तानाहूय सर्वान् वै मम युक्ताः सुदर्शनाः ।धृत्वा धृत्वा गुरोर्द्वारं समानिन्युर्मदन्तिके ॥८५॥मया पृष्टाश्चान्ध्यप्रवर्तयितारश्च वै तदा ।नोचुस्ते लज्जिताः किञ्चित् क्षमां मत्तो ययाचिरे ॥८६॥दण्डिता वै मया सर्वे यमिताश्च निजे पदे ।स्थापिताश्च यथायोग्ये पदे देवा दिवि स्थिताः ॥८७॥सर्वेषामधिकारे वै व्यवस्था च मया कृता ।तदा त्वं च मयाऽऽदिष्टा सर्वनियामिका सती ॥८८॥परधिष्ण्याऽयोग्यपात्रनिरोधिनी तदाऽभवः ।ऐश्वर्यं च मया लक्ष्मि! तदा तुभ्यं समर्पितम् ॥८९॥धिष्ण्ये धिष्ण्ये त्वया तत्र स्थातव्यं सर्वदा प्रिये ।अयोग्यश्चेत् समागच्छेत् प्रसह्य पदमुत्तमम् ॥९०॥अन्यस्याऽन्यस्तदा लक्ष्मि! त्वया क्षेप्यो विदूरतः ।तदारभ्य हि देवेषु चाऽन्यपदेऽपरः क्वचित् ॥९१॥उपविष्टं समर्थो वै जायते क्षिप्यते द्रुतम् ।एवं सर्वपदेष्वेव त्वं तदा संस्थिता प्रिये ॥९२॥अहं पुत्रोऽभवं विष्णोरादित्यस्य तदा प्रियः ।त्वं ततः कन्यका जाता द्युगर्भा श्रीर्नरायणी ॥९३॥द्यावा तदाऽर्पिता मह्यं तदा त्वं द्युनरायणी ।अहमासं तदा कल्पेऽनाद्यादित्यनरायणः ॥९४॥अनादिश्रीकृष्णनारायणः श्रीपतिरच्युतः ।आकल्पान्तं तदादित्यगृहेऽवसं सुतः सदा ॥९५॥द्युपुत्री त्वं मम पत्नी देववीथी तदाऽभवः ।अहं स्मरामि तत्सर्वं स्मर त्वं देववीथिकाम् ॥९६॥परब्रह्म स्वयं चाहमभवं तत्र वै सदा ।असंख्या मेऽवताराश्च तत्र वर्षेऽभवन्नपि ॥९७॥एवं धिष्ण्यविवादं वै त्यक्त्वा देवा यथोदितम् ।स्वस्वधिष्ण्यं गताः सर्वे विवादपदवर्जिताः ॥९८॥तदारभ्य पुनर्नैव पदार्थं योधनं क्वचित् ।बभूव तत्र वर्षे वै तथा कल्पान्तरेऽपि च ॥९९॥मया नियमितं सर्वं यथेष्टं स्थापितं यथा ।तथैव याति सुखतो विपरीतं न वै क्वचित् ॥१००॥इत्येवं ते शिवपुत्रि! प्राकट्यं कीर्तितं मम ।पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिफलप्रदम् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः षष्ठवत्सरे रुद्रशासनार्थम् अनादिब्रह्मनारायणस्य, सप्तमवत्सरे देवानां धिष्ण्यनियमार्थम् अनाद्यादित्य-नारायणस्य, प्राकट्यमिति निरूपणनामा पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP