संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १९७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १९७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं पितृहणः कथां तथा ।सौराष्ट्रे कर्षुको भक्तो वृद्धोऽभवत् कुटुम्बवान् ॥१॥कोटिनारनगरस्याऽभ्याशे ग्रामे पटोलके ।नाम्ना शाणधरश्चेति पञ्चपुत्रप्रपौत्रवान् ॥२॥सप्तपुत्रीपिता चापि वाटिकाक्षेत्रगोधनः ।भजते श्रीहरिं मां च नित्यं कृषेश्च कर्मसु ॥३॥यदुत्पन्नं भवेद् सर्वं मह्यं निवेद्य वै ततः ।भुङ्क्ते कुटुम्बसहितो नवान्नादीनि यान्यपि ॥४॥शाकपत्राणि सर्वाणि पक्वाऽपक्वकणाँस्तथा ।कन्दमूलादि यद्योग्यं भाजीपल्लवसत्फलम् ॥५॥भूषाम्बरादिकं दुग्धदधिगूडरसादिकम् ।यद्यत् प्राप्नोति यत्नेन मह्यं समर्प्य सर्वथा ॥६॥भुंक्ते यानं वाहनं च तथोपकरणान्यपि ।नित्यं निवेद्य मह्यं च जलान्नमपि सर्वथा ॥७॥गृह्णात्येवेति भक्तो मे श्रद्धाभक्तिपरायणः ।मूलकृष्णपुरीतीर्थं प्राचीसारस्वतं तथा ॥८॥सोमनाथमहातीर्थं गोपनाथादितीर्थकम् ।स्वर्णरेखानदीतीर्थं तथा कुंकुमवापिकाम् ॥९॥प्रयात्येव प्रगच्छन् वै भक्तिश्रद्धासमन्वितः ।एवंविधस्य भक्तस्य पूर्वकर्मकृतं तु यत् ॥१०॥जन्मान्तरे च तत्प्राप्तमेतज्जन्मनि चोल्बणम् ।पूर्वमासीत् स गोपालो गोरक्षातत्परः सदा ॥११॥तदा तु वृषदंशान् स प्रगृह्य गोवृषात् ततः ।पक्षौ विच्छिद्य सर्वान् गोवृषदंशान् विपक्षकान् ॥११॥कृत्वा क्षिपति भूमौ वै दंशास्ते पक्षवर्जिताः ।भूतले पतिताः सर्वे क्षुधातृषार्दितास्तथा ॥१३॥म्रियन्ते चातिदुःखेन शापं दत्वा पुनः पुनः ।हस्तहीनान् नः कुरुषे तथा त्वं भव दुःखितः ॥१४॥दंशानां म्रियमाणानां प्रत्यहं शापकारणात् ।अत्र जन्मनि तस्यापि शाणधरस्य हस्तयोः ॥१५॥पादयोश्चापि सर्वांगुष्ठांगुलीषु गदो महान् ।गलत्कुष्ठात्मको जातो दुर्गन्धस्राववाहकृत् ॥१६॥ओषधानि कृतान्येव वैद्यानां सुबहून्यपि ।गलत्स्रावो न वै नष्टो रोगनाशो मनाङ् न च ॥१७॥मानता अपि देवानां बहुधा च कृतास्तथा ।दानपुण्यादिकं चापि कृतं तु बहुधा मुहुः ॥१८॥गदस्तथापि ववृधे नखा नष्टाः शनैः शनैः ।अंगुल्यग्राणि नष्टानि मध्यभागा गलन्ति च ॥१९॥आमूलं गलिताः सर्वाङ्गुलिकांगुष्ठकास्ततः ।पूर्वकर्मानुरोधेन परं दुःखमवाप सः ॥२०॥पुत्राद्यैर्वाटिकाक्षेत्रे घासगृहं विधाय च ।तत्र पिता सुखट्वायां रक्षितः सर्वदा रमे ॥२१॥घृष्ट्वा घृष्ट्वा नितम्बौ स प्रयाति पार्श्वभूमिषु ।मलं च कुरुते तत्र मूत्रं च कुरुतेऽभितः ॥२२॥थूत्कारं चापि कुरुते पार्श्वे कश्चिन्न गच्छति ।परितोऽतीव दुर्गन्धा भूमिर्जाता च तद्गृहम् ॥२३॥दुर्गन्धमलयुक्तं च मक्षिकाकाकवासितम् ।एवंविधाय वृद्धाय पुत्रास्तु भोजनं सदा ॥२४॥दूरात् क्षिपन्ति सलिलं दूराद् ददत्यभाविताः ।मक्षिकाणां पक्षहीणीकृतानां क्रमशः फलम् ॥२९॥भुंक्ते शापधरो वृद्धो जीवो देहात् प्रयाति न ।निरयं चेह देहेऽस्याऽऽगतं भोगाय दारुणम् ॥२६॥मार्ज्यते नैव केनापि चिकित्सितं तु वर्धते ।हस्तपादफणाश्चापि गलत्कुष्ठेन खादिताः ॥२७॥प्रकोष्ठप्रान्तमाप्तश्च गदोऽपि वेगवानति ।लक्ष्मि चाऽराजना लोके पक्षिजन्तुसरीसृपान् ॥२८॥पशून् कीटान् मारयन्ति कुमृत्युना ह्यघं महत् ।उन्दुरुं नकुलं गोधां चटकां मण्डूकं च वा ॥२९॥तत्फलं क्रूरमेवाऽत्र लभन्ते सर्वनाशकृत् ।अपत्यानि च जन्तूनां मारयन्ति तथाऽबुधाः ॥३०॥वृथा निरपराधान् वै शापस्तेषां प्रजायते ।वाहनानामश्ववृषगजोष्ट्राणां वृथा ह्यपि ॥३१॥प्रवृत्तानां स्वकार्येऽपि कुर्वन्ति ताडनं मुहुः ।तेषां शापेन सर्वस्वं नश्यति स्वामिनः सुखम् ॥३२॥नार्यस्त्वज्ञैः प्रताड्यन्ते बालैश्च श्वान इत्यपि ।तेषां तासां प्रशापेन दग्धा भवन्ति ताडकाः ॥३३॥रोगिणश्चापि दीनाश्च जलान्नवर्जिता अपि ।दरिद्रा द्रव्यहीनाश्च गृहसम्पद्विहीनकाः ॥३४॥कृतं कर्म चिरं वाऽद्योपतिष्ठत्येव सर्वथा ।एवमस्य कृतं कर्म समुपपन्नमुल्बणम् ॥३५॥म्रियते नातिदुःखेऽपि पुत्राद्या भग्नमानसाः ।कुटुम्बं भग्नवाञ्च्छं च हताशं समजायत ॥३६॥भग्नश्रद्धास्ततः पुत्रा मन्त्रणां सप्रचक्रिरे ।म्रियते न पिता रुग्णो वाटिका रोगवायुना ॥३७॥रुग्णसस्यान्नरूपा च जाता रुग्णस्य वासतः ।गलत्पित्तस्रावकुष्ठी म्रियेत चेच्छुभं भवेत् ॥३८॥पूर्वेषां चाऽस्य पापानां बाहुल्यान्मरणं न वै ।समायाति न रोगोऽपि शान्तो भवति वर्धते ॥३९॥किं कर्तव्यं क्व गन्तव्यं ह्युपायो भासते न वै ।अथापि हिंसनं कार्यं पितुः पुत्रैरशोभनम् ॥४०॥मारयितव्य एवाऽत्र क्षेप्तव्योऽन्यत्र गर्तके ।जले प्रवाहणीयो वा जीवन् पितेति वैशसम् ॥४१॥रक्षणं युज्यते नाऽत्र किं कार्यं दुःसहे व्रते ।इत्येवं पञ्चपुत्राणां विचारः सम्प्रवर्तते ॥४२॥कनीयाँस्तत्र सहसा धर्मस्नेहयुतो यतः ।पितृसेवाफलं जानन् भ्रातृमध्ये ह्युवाच ह ॥४३॥पिता नारायणः साक्षात् पिता ब्रह्मा तथाऽपरः ।पितृतीर्थं परं प्रोक्तं पिता सेव्यो हि वंशजैः ॥४४॥पुत्राणां पितृसेवायाः फलं स्वर्गं च मोक्षणम् ।तस्मात् प्रसेवनीयश्च रुग्णो दुर्वृत्त इत्यपि ॥४५॥द्वितीयोऽपि ततः प्राह श्रुत्वा कनीयसो वचः ।योग्यं त्वयोक्तं शुभदं किन्तु स्वास्थ्ये सुवर्तिते ॥४६॥मरणादधिकं चास्य दुःखमत्र विलोक्यते ।तस्मात् सेवा दुःखदाऽस्य सर्वस्वरोगवर्धिनी ॥४७॥योऽस्य सेवापरः स्याद्वै तस्य रोगो भवेदपि ।संक्रमणादिजातीयो गदोऽयं परसंक्रमः ॥४८॥तस्मात् सेवाऽस्य योग्याऽपि सर्वारोग्यविनाशिनी ।दुष्टफला भवेत् तस्मात्तां सेवां नाऽनुमोदये ॥४९॥तृतीयस्तु ततः प्राह सेवायां त्वपरं जनम् ।भृत्यं वा भृत्यिकां नित्यं योजयामः सुवेतनाम् ॥५०॥चतुर्थः प्राह योग्यं तत्तथापि प्रमदा नरः ।कश्चिदपि न चाप्येत सेवाकृद् वेतनैरपि ॥५१॥तदा कर्तव्यमेवाऽत्र किं भवेत्तद् विचार्यताम् ।पञ्चमः प्राह वै श्रेष्ठस्तदा तु जीवनः पितुः ॥५२॥प्रवाहणं तीर्थजले नद्यां वा सागरेऽपि वा ।भृगुपाता विविधा वै शास्त्रेषु दर्शिता यथा ॥५३॥पर्वतात् पतनं वह्नौ ज्वलनं वारिगाहनम् ।भूमिगर्ते शयनं वाऽनशनं तीर्थभूमिषु ॥५४॥असाध्यरोगिणां विरागिणां च न्यासिनां तथा ।स्वर्गेच्छूनां भगुपातास्तादृशा इष्टसिद्धिदाः ॥५५॥अन्ततः खलु कर्तव्यं पितृर्भृगुप्रपातनम् ।यदि भृत्यो मिलेन्नैव न च सेवेत वेतनैः ॥५६॥एवं विचार्य पञ्चैते कनीयांसं न्ययोजयत् ।सेवायां किन्तु घृणया विमनाः स व्यजायत ॥५७॥वीतश्रद्धोऽभवच्चापि भृत्यं न्ययोजयत्ततः ।भृत्याश्च बहवो जाता दिनं वा द्विदिनं च वा ॥५८॥केचित् पञ्चदिनं भृत्याश्चान्येऽर्धदिनमात्रकम् ।घृणान्विता न कुर्वन्ति सेवनं ते प्रयान्ति हि ॥५९॥एवं भृत्याऽनभिलाभे पुत्रास्ते पञ्च सम्मताः ।पर्वतात् पातनं त्वस्य रोचतेऽस्मै विधीयताम् ॥६०॥पृष्टः पिताऽपि श्रुत्वैव नेत्युवाचाऽतिरागवान् ।वह्नौ प्रज्वलनं पृष्टस्तथापि नेत्युवाच तान् ॥६१॥गलपाशं प्रतिपृष्टस्तथापि नेत्युवाच तान् ।देहाऽहंभावयुक्तोऽयं मरणं स्वीकरोति न ॥६२॥भूगर्ते क्षेपणं पृष्टस्तथापि नेत्युवाच तान् ।मरणं रोचते नाऽस्य सरित्प्रवाहणं न च ॥६३॥जीवनं रोचते त्वस्य रुग्णदेहस्य वै पितुः ।अतिनिकृष्टदेहेऽपि तस्य जीवात्मनस्त्विह ॥६४॥नित्याश्रयत्वं स्नेहश्च तादात्म्यं वै पशोरिव ।मनुष्यस्याऽपि देवस्य ज्ञानिनोऽपि प्रवर्तते ॥६५॥अज्ञानिनां विशेषेण किमाश्चर्यं हि संसृतौ ।एवं पिताऽपि रुग्णे स्वदेहे वृद्धे गलद्द्रवे ॥६६॥तादात्म्यं समभिप्राप्तस्त्यक्तुं नोत्सहते स्म वै ।प्राह पुत्रान् दीनवच्च नाऽहं मर्तुं समुत्सहे ॥६७॥यथा मे दीयते त्वन्नं जलं च दूरतस्तथा ।दीयतां वाटिकायां वा पार्श्वे वनेऽथवा तु मे ॥६८॥आत्मघातो मया नैवेष्यते पुत्रा भयं महत् ।दृश्यते जायते प्राणत्यागे प्रसह्य चाप्यधि ॥६९॥स्मरिष्यामि परात्मानं दूरं क्षिपन्तु मामितः ।कर्मफलं प्रभुक्त्वैव मर्तुमिच्छामि सर्वथा ॥७०॥इत्युक्तास्ते सुताः प्राहुश्चान्तरे कपटान्विताः ।एवमस्तु पितस्त्वां वै वने क्षिपाम एव ह ॥७१॥दास्यामस्तत्र भक्ष्यादि वाटिकायां तु नैव हि ।किन्तु वै प्रथमं तीर्थं कारणीयं यतः शुभम् ॥७२॥पुण्यं भवेत् समस्तं च पापप्रक्षालनं भवेत् ।मूलद्वारावतीतीर्थं समुद्रतीरगं तु यत् ॥७३॥स्नापयित्वा पितस्तत्र नेष्यामो वाटिकान्तिकम् ।वने संरक्षयिष्यामो रोगसंक्रमभीतितः ॥७४॥इत्युक्त्वा ते सुताः सर्वे तीर्थछद्मधरा हि ते ।शकट्यां पितरं धृत्वा ययुः समुद्रसन्निधिम् ॥७५॥तटं गत्वा तु वेलायां स्नापयामासुरेव तम् ।प्राहुः पितः स्मग्णीयं स्मर नारायणं प्रभुम् ॥७६॥द्रव्यादि भूतले न्यस्तं गर्ते वाऽन्यत्र चेद् यदि ।दर्शनीयं कथनीयं प्रदर्शय निवेदय ॥७७॥भृगुपातं समुद्रस्य जले निक्षेपणात्मकम् ।कुर्मस्ते स्वर्गतिदं तन्मनः कृष्णे निवेशय ॥७८॥इत्युक्तः स पिता प्राह प्रारब्धं मम तादृशम् ।पुत्राश्चात्र न वो दोषो मरणं तादृशं मम ॥७९॥बहूनि पूर्वपापानि यत्फलं चेदृशं त्विह ।सत्सु पञ्चसु पुत्रेषु सत्यां पत्न्यां सुतासु च ॥८०॥समुद्रे मरणं मे यद् रुग्णस्य विवशस्य च ।अस्त्वेवं किन्तु सौवर्णं रूप्यकं नाणकं बहु ॥८१॥चुल्ल्या अधो मया पूर्वं निहितं तद् विदन्त्वपि ।लक्षाधिकं भवत्येव बहुवर्षाऽर्जितं तु तत् ॥८२॥अन्ये नैव प्रजानन्ति पञ्च जानन्तु मे धनम् ।इत्युक्त्वा श्रीहरिं ध्यात्वा ह्येकबन्धुं प्ररक्षकम् ॥८३॥सस्मार हृदये शीघ्रं सर्ववृत्तिभिरेकधा ।एकतानेन मां कृष्ण बालकृष्णं परं प्रभुम् ॥८४॥देहभानं तिरोभाव्येन्द्रियवृत्तीर्विकुंच्य च ।आन्तरं सर्वथा भानं जीवात्मनि समादधत् ॥८५॥स्वे रूपे सच्चिदानन्दं बालकृष्णं श्रियः पतिम् ।लक्ष्मीनारायणं कृष्णं रमेशं माणिकीपतिम् ॥८६॥पद्मावतीश्वरं ब्रह्मप्रियानाथं सतां पतिम् ।तुष्टाव स्वामिनं भक्त्या प्राणान्ते समुपस्थिते ॥८६॥पुत्रास्तु तं समुत्तोल्य चिक्षिपुर्वार्धिवारिषु ।वीक्षमाणा ह्यतिष्ठन्त तीरे सस्नुश्च तन्मिषात् ॥८७॥पितृदेहो जले मग्नो जीवतस्तस्य वै तदा ।मृतो वा जन्तुना ग्रस्त इत्यमन्यन्त चात्मजाः ॥८८॥रुरुदुस्तत्र पुत्रास्ते स्नेहाधीनोत्थमायया ।परमेशं हरिं मां च सस्मरुः पापनुत्तये ॥८९॥क्षमां कुरु हरेकृष्ण पितृहत्या भयंकरी ।पुण्यहन्त्री स्वर्गहन्त्री मोक्षहन्त्री क्षयंकरी ॥९०॥सा कृताऽस्माभिरब्धौ वै तां क्षमस्व परेश्वर ।विष्णुयज्ञ करिष्यामः पितृद्रव्येण भूरिणा ॥९१॥पितुरुद्धरणं स्वर्गे मोक्षे वा संविधेहि वै ।इत्येवं शरणं प्राप्ता मम चान्ते पितुर्मृतौ ॥९२॥सप्त पुत्र्यस्तथा पत्नी चाऽनशनं गृहे व्यधुः ।अवलास्ता निर्बलाश्चाऽशक्ता वक्तुं दुरन्तकम् ॥९३॥बलं त्वनशनं चक्रुर्विदित्वा पितृघातनम् ।पुपूजुर्मां गृहे ताश्च षोडशोपसुवस्तुभिः ॥९४॥तुष्टुवुः पितृरक्षार्थं व्रतानां मानता व्यधुः ।लक्षतुलसीपत्रैश्च पूजां मे चक्रिरे हि ताः ॥९५॥अथाऽह सहसा लक्ष्मि भक्तानां शुभकृत् प्रभुः ।प्राविरासं समुद्रे द्राक् पितृदेहस्य सन्निधौ ॥९६॥मूर्छां प्राप्तो जलमध्ये स्पृष्टो मया हि रोगवान् ।रोगो नष्टस्तदा शीघ्रं सांगुलिहस्तपादवान् ॥९७॥शाणधरोऽभवद् वृद्धः पुष्टो दिव्यवपुर्धरः ।उत्तोलितो मया वार्धौ जलोपरि ततस्तटम् ॥९८॥पुत्राणां सन्निधौ क्षिप्तः पूर्णांगो रोगवर्जितः ।शंखचक्रगदापद्मधरं मां तत्सुताश्च सः ॥९९॥पुपूजुरादरात् सर्वे तिरोभावं द्रुतं ततः ।गृहे चाविर्भूय तत्राऽनशनार्थे स्थितास्तु याः ॥१००॥स्त्रियस्ताभ्योऽवदं शाणधरश्चोज्जीवितो मया ।अरुग्णश्चालयं पुत्रैः साकमायाति सत्वरम् ॥१०१॥सोमनाथं ततस्तीर्थं कृत्वा चायान्ति तेऽत्र वै ।इत्युक्तास्ताः पुपूजुर्मां श्रीकृष्णं वल्लभं प्रभुम् ॥१०२॥प्रतीक्षन्ते स्म वाटं स्वपितुश्चागमदैशिकम् ।तिरोऽभवं ततश्चाऽहं दिनान्ते तु पिता गृहम् ॥१०३॥आययौ पुत्रसहितश्चानन्दोत्सवयोगकृत् ।कुटुम्बं सुप्रसन्नं वै जातं चान्ये जना अपि ॥१०४॥मम माहात्म्यवेत्तारोऽभवँश्चाश्चर्यसंभृताः ।भक्तिं ते कारणं प्राहुश्चारोग्ये प्राणरक्षणे ॥१०५॥अथ पुत्रैः कृतो यज्ञो महान् वैष्णवसंज्ञकः ।देवर्षिपितरश्चाऽहं तृप्तास्तत्राऽर्पिताऽन्नकैः ॥१०६॥दक्षिणाभिर्दीनजना भोजनैर्देहधारिणः ।भक्त्या चाहं श्रीहरिश्च प्रसन्ना ह्यभवन् मखे ॥१०७॥एवं पितृघातकानां पितुश्च रक्षणं मया ।कृतं लस्मि प्रभक्तानां दयालुना महात्मना ॥१०८॥अथाऽन्ते प्रापिता मोक्षं धामाऽक्षरं परं मम ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१०९॥आरोग्यं जायते चापि सौभाग्यं चापि वर्धते ।विघ्नानां च विनाशः स्याच्छत्रुनाशो भवेदपि ॥११०॥क्षेमं च कुशलं चापि विन्देत मम भक्तिमान् ।स्वर्गं स्मृद्धिं तथा स्वेष्टं जीवनं च लभेत वै ॥१११॥भक्त्याऽहं सर्वथा तुष्टो ददामि समभीप्सितम् ।ऐश्वर्यं च तथाऽऽयुष्यं धनं धान्यं सुतं सुताम् ॥११२॥सर्व ददामि भक्तायै भक्तायाऽपि समुद्रजे ।इत्येवं भक्तिवशगो वर्ते संरक्षयामि च ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शाणधराख्यकर्षुकस्य प्राग्जन्मकर्मभिर्जातगलत्कुष्ठरोगस्य भयेन पुत्रैः समुद्रे क्षिप्तस्य भगवतारोगनाशो रक्षणं पापनाशनं च कृतमित्यादिनिरूपणनामा सप्तनवत्यधिकशततमोऽध्यायः ॥१९७॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP