संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं माहात्म्यं मे ततोऽधिकम् ।बालेषु चाऽघशून्येषु ह्यनाथेषु वसाम्यहम् ॥१॥बालानां हृदयं शुद्धं मायाजिह्मत्ववर्जितम् ।वासनादिरहितेऽस्मिन् साधुवन्निवसाम्यहम् ॥२॥बालाः सर्वे मूर्तयो मे स्वच्छा आदर्शसदृशाः ।ब्रह्मावस्थास्ततो बाला योगावस्था यथा जनाः ॥३॥मूर्त्यवस्थाश्च मे बाला बालिकाश्चाऽष्टवर्षगाः ।एते सर्वे साधवो वै सनकाद्या यथा पुरा ॥४॥साधुधर्माः साधवस्ते गृहधर्मास्तु यौवने ।युवभावविहीनास्तु साधवो ब्रह्मचारिणः ॥५॥साधुत्वं शीलवर्तित्वं गृहित्वं कामयोगतः ।कामजये हि साधुत्वं कामिनोऽपि प्रजायते ॥६॥अकामिनोऽपि संभोगे कामे गार्हस्थ्यमेव तत् ।न स्त्रीयोगो न पुंयोगो गार्हस्थ्ये कारणं भवेत् ॥७॥रतिप्रयोगो गार्हस्थ्यं तद्धीनत्वं च साधुता ।सा च नार्यां नरे चापि भवेन्निष्कामभावने ॥८॥अकामः सत्यकामो वै सर्वकामः प्रजायते ।स एव ब्रह्म विज्ञेयो ब्राह्मण्यं साधुतान्वितम् ॥९॥ब्रह्मिष्ठत्वं दुर्लभं श्रि! साधुत्वं दुर्लभं तथा ।मत्कृपातो भवत्येव ब्रह्मिष्ठता च साधुता ॥१०॥साध्वीता मत्कृपातश्च जायते मोक्षदा शुभा ।वंशोद्धारणकर्त्री च साध्वीता च यथा त्वयि ॥११॥सत्यधर्मरता साध्व्यः सन्तो ब्रह्मपरास्तथा ।यदृच्छालाभसन्तुष्टा हठाऽऽडम्बरवर्जिताः ॥१२॥धर्मलब्धार्थभोक्तारः परमेशसमर्पकाः ।निर्बन्धाः स्वच्छहृदयाः साधवः साधुभूषणाः ॥१३॥गुणकर्मतपोभिः श्रि! नरो नारायणो भवेत् ।मालिन्यं सम्परित्यज्य नीचोऽप्युच्चतरो भवेत् ॥१४॥यथा जन्मान्तरे शूद्रः कर्मणा धर्मसंभृता ।उत्तरे जन्मनि विप्रो जायते पुण्ययोगतः ॥१५॥तथैकस्मिन् जनौ चापि ब्रह्माचारैस्तु ब्राह्मणः ।जायेत ब्राह्मणेतरो विप्रोऽपि शूद्रतां व्रजेत् ॥१६॥शुभाऽशुभक्रियासंगपापपुण्यबलं महत् ।विवर्तयति धर्मान् वै सत्त्वाधिको हि भूसुरः ॥१७॥रजोऽधिको भवेद् राजा तमोऽधिकस्तु शूद्रकः ।सत्त्वरजोभ्यां संस्पृष्टो वैश्यो भवति शोभनः ॥१८॥रजस्तमोभ्यां संस्पृष्टो वैश्यो भवत्यशोभनः ।तमोमात्राबहुलस्तु घातकी श्वपचो भवेत् ॥१९॥सत्त्वमात्राबहुलस्तु विप्रः साधुः सती भवेत् ।ब्रह्मयोगबहुलस्तु मुक्तो भवति वै क्षितौ ॥२०॥इत्येतत् कथितं लक्ष्मि चोत्कृष्टत्वं शुभावहम् ।मम योगपरश्चात्र नारायणोऽपि जायते ॥२१॥तद्योगेन तथा चान्ये नारायणा भवन्त्यपि ।एवं परम्परा नारायणानां मम योगतः ॥२२॥भवत्येव प्रभावेण ममैश्वर्यादिलाभतः ।नारायणा नराः सर्वे नारायण्यः स्त्रियस्तथा ॥२३॥उपासनया जायन्ते ममैव परमात्मनः ।देवता वसवो रुद्रा जायन्ते विष्णवस्तथा ॥२४॥उपासनया जायन्ते ब्रह्माणश्चेश्वरास्तथा ।ईश्वराण्यश्च जायन्ते ममोपासनया रमे ॥२५॥वीतरागा विमुच्यन्ते कर्मभिः कर्मबन्धनैः ।यैश्च नारायणास्ते वै जायन्ते समनुष्ठितैः ॥२६॥तानि सर्वाणि कर्माणि मदुपास्तिमयानि हि ।ऋते चोपासनां मे वै बलि कर्म नास्ति वै ॥२७॥उपासना सकामानां कामनापूरिका भवेत् ।निष्कामानामहं स्मृद्धः स्मृद्धिदाता प्रसह्य वै ॥२८॥कर्मणा मनसा वाचा मामुपास्ते हि भक्तिमान् ।न सज्जने च कर्तव्ये बन्धनं नैव गच्छति ॥२९॥प्राणयात्राऽतिपाताद्वै विरताः शीलयोगिनः ।तुल्यद्वेषप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥३०॥सर्वभूतदयावन्तो विश्वास्याः सर्वदेहिनाम् ।कृतभक्तिसमाचारा लोकास्ते धामगामिनः ॥३१॥स्वार्थशून्याः परकार्यसहायदा निराशया ।धर्मलब्धप्रतुष्टाश्च लोकास्ते धामगामिनः ॥३२॥नारीवर्गेषु पश्यन्ति मातृस्वसृदुहितृवत् ।नरवर्गेषु पश्यन्ति पितृमातृसुपुत्रवत् ॥३३॥यथोक्तसाधुसेवाढ्या मम भक्तिपरायणाः ।अस्तेना भाग्यजीवाश्च लोकास्ते धामगामिनः ॥३४॥नैजभोग्यरता ये च धर्मकालाभिसारिणः ।अग्राम्यसुखलुब्धाश्च हृच्चक्षुस्तेजसाऽन्विताः ॥३५॥इन्द्रमार्गानुसाराश्चेन्द्रियाऽवश्याऽऽत्मसंस्थिताः ।मम भक्तौ कृतावासा लोकास्ते धामगामिनः ॥३६॥अकषायकृतो मार्गो दानधर्मतपोमयः ।शीलशौचदयाढ्यश्च भक्तिसेवाऽर्पणाऽन्वितः ॥३७॥आशीःप्रसन्नतादश्च सत्संगफलवर्धनः ।नैर्मल्यधीप्रकर्षाढ्यः सेवनीयः सदा बुधैः ॥३८॥आत्महेतोः परार्थे वा नर्महास्याश्रयाच्च वा ।मृषाभावविहीना ये यान्त्यकषायसत्पथे ॥३९॥वृत्त्यर्थं धर्महेतोर्वा कामकाराच्च ये जनाः ।भाषन्ते नाऽनृतं ते वै यान्त्यकषायसत्पथे ॥४०॥मिष्टां वाणीं बाधशून्यां पापलेशविवर्जिताम् ।हार्दस्नेहां ये भाषन्ते यान्त्यकषायसत्पथे ॥४१॥अपैशून्यरताः सन्तो मित्राऽभेदप्रवर्तनाः ।अद्रोहाः ऋतमैत्राश्च यान्त्यकषायसत्पथे ॥४२॥शाठ्यशून्याः सौम्यवाचः कोपभावविवर्जिताः ।हृद्विदारणशून्यास्ते यान्त्यकषायसत्पथे ॥४३॥सान्त्वयुक्ता हितवाचः सत्यगुणा हरिश्रिताः ।साधवः साध्विका लक्ष्मि यान्त्यकषायसत्पथे ॥४४॥मनसाऽपि न वाञ्च्छन्ति निर्जनेऽपि धनं परम् ।न्यस्तं वा मिलितं ये ते यान्त्यकषायसत्पथे ॥४५॥ग्रामे गृहेऽपि पारक्यं नाभिवाञ्च्छन्ति वै क्वचित् ।अजातशत्रवो ये ते यान्त्यकषायसत्पथे ॥४६॥श्रुतवन्तो भक्तिमन्तः सत्यदयाप्रपालकाः ।नित्यतुष्टा विरागास्ते यान्त्यकषायसत्पथे ॥४७॥मैत्रीचित्तरताः श्रद्धास्नेहोपकारसम्मुखाः ।फलविपाकविज्ञास्ते यन्त्यकषायसत्पथे ॥४८॥न्याय्याऽऽग्रहाः स्वर्गशीलाः समुत्थानपरायणाः ।आत्मनिष्ठा मत्परास्ते यान्त्यकषायसत्पथे ॥४९॥महाप्राज्ञा ब्रह्मपरा ज्ञानविज्ञानभाविनः ।तर्कशास्त्रपरा ये ते यान्त्यकषायसत्पथे ॥५०॥पापत्रासान्विताश्चापि श्रेयःसाधनतत्पराः ।आनृण्याऽभिलषुकास्ते यान्त्यकषायसत्पथे ॥५१॥ये तु शुक्लाभिजातीयाश्चात्मद्रोहविवर्जिताः ।जन्तुत्रासाकराश्चाप्यभयदानप्रदास्तया ॥५२॥आत्मवत्स्नेहभावाश्च देववत्सुघटाः शुभाः ।दैवाचाराः सौम्यभावा यान्त्यकल्मषसत्पथे ॥५३॥सुवृत्ताः सत्कर्मिणश्च प्राणिद्रोहविवर्जिताः ।दीर्घायुषो भवन्तीह यान्त्यकल्मषसत्पथे ॥५४॥दाता सतां च सत्कर्ता दीनार्तकृपणादिषु ।भक्ष्यभोज्यान्नपानानां दाताऽम्बरादिदायकः ॥५५॥भक्तियोगकृतावासो ज्ञानदानप्रदायकः ।शरणागतरक्षश्च यात्यकल्मषसत्पथे ॥५६॥प्रतिश्रयान् सभाः कूपान् कुर्यात् पुष्करिणी प्रपाः ।आसनं शयनं यानं गृहं रत्नं धनं मनः ॥५७॥सस्यजातानि सर्वाणि गाः क्षेत्राणि च कन्यकाः ।यश्च प्रीतमना दाने प्रयच्छति च पात्रके ॥५८॥सर्वस्वार्पणकर्ता वै यात्यकल्मषसत्पथे ।देवताद्विजसाधूनां सतीनां पूजकस्तथा ॥५९॥नमस्कर्ता प्रश्रितश्च सर्वप्रियकरः शुचिः ।सर्वहितः सुमुखश्च यथार्हसत्क्रियापरः ॥६०॥सन्मार्गदर्शी गुर्वर्ची यात्यकल्मषसत्पथे ।सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥६१॥उदात्तकुलजातीय उदात्ताभिजनस्तथा ।मैत्रदृष्टिः पितृसमो विश्वास्यः सर्वजन्तुषु ॥६२॥भक्तिमान् मे महापुण्यो यात्यकषायसत्पथे ।एवंविधः सदा लक्ष्मि निर्बाधं सुखमेधते ॥६३॥एष श्रेष्ठः सतां पन्था बाधा यत्र न विद्यते ।साधून् वै वेदविदुषः सिद्धान् भक्तियुतांस्तथा ॥६४॥सेवन्ते ये भावयुता वर्जयन्त्यशुभं सदा ।तेषां शाश्वतसौख्याढ्यः पन्था ब्रह्मगतिप्रदः ॥६५॥एषां समागमैर्लक्ष्मि कल्याणानि भवन्ति वै ।श्रेयांसि सर्वरूपाणि स्वर्गाण्यसंख्यकानि च ॥६६॥प्रतिपद्यन्त एवाऽत्र सतां धर्मे स्थितस्य वै ।नृणां हितार्थमेवाऽत्र मया ते समुदाहृतम् ॥६७॥हितं चात्मा विवेकस्थो निजं जानाति चान्तरे ।परं कर्तुं न शक्नोति विना सद्गुरुसंश्रयम् ॥६८॥पुण्यं लब्धुं समिच्छन्ति मानवाः सर्वदा प्रिये ।पुण्यहेतून्न कुर्वन्ति मूढाः सत्यपि वैभवे ॥६९॥सतां संगान्ममसंगात् साध्वीसंगाच्छुभं परम् ।श्रेयः परं भवत्येव जानन्त्येव च तत्तथा ॥७०॥तथापि पापबाधाभिर्बाधितास्तर्कनिम्नगाः ।अभिमानमहादुष्टग्रासाननगताः सदा ॥७१॥न सेवन्ते सतः साध्वीर्नार्चयन्ति च मां तथा ।विषयेष्वभिरागाश्च पतन्ति निरयादिषु ॥७२॥न तरन्ति पापदुष्टा मायानदीं मनोहराम् ।नास्तिका दानशून्याश्च भावशून्याः प्रदूषकाः ॥७३॥भक्तिभावविहीनाश्च दिव्यभावविवर्जिताः ।दुष्टभावयुता नित्यं देहदृष्टियुताः सदा ॥७४॥निकृष्टकर्मसु रताः स्वार्थमात्रपरायणाः ।उदरेन्द्रियसुतृप्ता बाह्यसौख्याभिदृष्टयः ॥७५॥अनात्ममात्रनिरता यान्ति निरयमेव ते ।आत्ममात्ररताः साधुधर्मरताश्च सेवकाः ॥७६॥आज्ञापालनकर्तारो यान्त्यकल्मषमत्पथे ।वर्णास्तथाऽऽश्रमा लक्ष्मि ये केऽपि स्युर्नराः स्त्रियः ॥७७॥वृद्धाशीर्वादसौभाग्याः प्रयान्ति स्वर्गमेव ते ।वध्वः कन्याः कुमार्यो वा स्वामिन्यो वा सपुत्रकाः ॥७८॥अपुत्रा वाऽपि वृद्धाऽऽशीर्वादस्थाः स्वः प्रयान्ति ताः ।प्रधाना वापि राजानो भृत्या वा दीनवर्तिनः ॥७९॥ससत्ता वाऽप्यसत्ता वा नित्यं वृद्धोपसेविनः ।ऋजवो नम्रतासाराः स्वः प्रयान्ति न संशयः ॥८०॥येऽत्र लोके यशोभागाः सेवकाः स्वर्गभागिनः ।ते गन्तारः पदं चोर्ध्वं ममाऽनुग्रहसंभवात् ॥८१॥साधुशीलाः साधुवृत्ताः क्षमिणः सेविनस्तथा ।सेवाभिः सुखदातारो द्युगता यान्ति मत्पदम् ॥८२॥येषां मुखे हरेर्नाम हृदये श्रीहरिः स्वयम् ।वृद्धाज्ञावचनाश्चापि मत्पदाश्रयिणो हि ते ॥८३॥गोसुतासुतदातारो वाटिकाक्षेत्रसौधदाः ।कटिसक्थ्यंकदातारो द्युगता यान्ति मत्पदम् ॥८४॥गां विप्राय सुतां कुमाराय सुतं च साधवे ।वाटीं देवाय मे क्षेत्रं सौधं कुटुम्बियोगिने ॥८५॥कटिं बलं च भीताय शरणं सक्थि कष्टिने ।अंकं द्रव्यं दरिद्राय दत्वा यान्ति दिवं जनाः ॥८६॥ततो भक्तिं ममाऽऽसाद्य मह्यमर्पणकारिणः ।त एव साधवो यान्ति मत्पदं कमलाश्रितम् ॥८७॥केशौष्ठगण्डदातारो वक्षःपृष्ठकरप्रदाः ।ग्रीवाजंघापाददाश्च यान्ति स्वर्गं च मत्पदम् ॥८८॥केशान् ब्रह्मेशविष्णूँश्च दत्वा सन्न्यासमाश्रिताः ।प्रयान्ति मम भक्तास्ते स्वर्गं ततोऽमृतं पदम् ॥८९॥ओष्ठौ चादेशमन्त्रौ च दत्त्वाऽऽचार्यपदं श्रिताः ।प्रयान्ति भक्तिमन्तो मे स्वर्गं धामाऽक्षरं ततः ॥९०॥गण्डौ प्रेमस्नेहभावौ हार्दिकौ भक्तिपूर्वकौ ।दत्वा मे मम भक्ताः श्रि! प्रयान्ति स्वस्ततोऽक्षरम् ॥९१॥वक्षो विश्वासमेवाऽपि कृत्वा दत्वा च तं मयि ।विश्वस्तो याति वै स्वर्गं ततो मत्पदमक्षरम् ॥९२॥पृष्ठं साहाय्यमार्प्यैव परलोकप्रदं शुभम् ।स्वर्गे पूर्वं ततो भक्त्या याति मद्धाम चोत्तमम् ॥९३॥करौ सेवां च दास्यं च कृत्वा दत्वाऽर्पणं मयि ।स्वर्गं याति ततो भक्त्या मम धाम प्रयाति सः ॥९४॥ग्रीवां सर्वस्वमेवाऽपि जीवदानमथापि वा ।प्राणदानं च मे दत्त्वा याति स्वर्गं ततोऽक्षरम् ॥९५॥जंघे सम्पत् कुलं चोभे दत्वा मे स्वः प्रयाति हि ।ततोऽर्पय्य समस्तं च मम धाम प्रयाति सः ॥९६॥पादौ धनं जीविकां च यो ददाति महात्मने ।स्वर्गत्वा मम भक्त्या च प्रयाति धाम चाऽक्षरम् ॥९७॥एवं दानानि वै लक्ष्मि ज्ञात्वा नार्या नरेण च ।यथार्थानि च गुप्तानि देयानि मोक्षकांक्षया ॥९८॥योषादानं प्रदातव्यं बहुभावेन वै सदा ।योषा माया समाख्याता या उषा रजनीमुखा ॥९९॥बन्धयित्री हि जीवानां सा देया परमात्मने ।स्वयं मायाविहीनः सन् प्रयाति परमं पदम् ॥१००॥कन्यादानं प्रदातव्यं कुमाराय सुखप्रदम् ।कन्या तृष्णा सुखाशा सा कुमाराय परात्मने ॥१०१॥शार्ङ्गिणे मारशून्याय दत्वाऽऽत्मा धाम संव्रजेत् ।गोदानं च प्रदातव्यं गोः ज्ञानं श्रीहरेः शुभम् ॥१०२॥दत्वा दाता ग्रहीता च यातारौ धाम चाऽक्षरम् ।इत्येवं लक्ष्मि विज्ञाय माहात्म्यं मम ये त्विह ॥१०३॥कर्मभूमौ प्रकुर्वन्ति विचरन्ति विमुक्तये ।शाश्वतानन्दभोक्तारो भवन्ति मत्पदाश्रये ॥१०४॥इत्येवं कथितं तेऽत्र माहात्म्यं मम योगजम् ।अधिकं पठनाच्चापि श्रवणाद् भुक्तिमुक्तिदम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ब्राह्मण्यसाधुत्वप्रापकसाधनानि धामगमनसाधनानि चाऽकषायसत्पथसाधनानि दिव्यदानादीनि हरेर्योगश्चेत्यादि-निरूपणनामा षटसप्ततितमोऽध्यायः ॥७६॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP