संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७५ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-दृष्ट्वा कृष्ण महाश्चर्यं निर्वृत्ताऽस्मि च वै तथा ।भूयोऽपि तव माहात्म्यं वद मे च प्रदर्शय ॥१॥श्रीपुरुषोत्तम उवाच-पश्य लक्ष्मि महाश्चर्यं मुखान्मेऽग्निरजायत ।इत्युक्ते वह्निरुत्पन्नो व्याप्नोत् पार्श्ववनेऽभितः ॥२॥ज्वालामालासमाकूलोऽदहद् व्याघ्रवनं क्षणात् ।सद्रुमं सतृणं विरुल्लतासस्यादिसंयुतम् ॥३॥सपक्षिगणसंघातं सश्वापदसरीसृपम् ।एवं वह्निर्महाज्वालो दग्ध्वा वनमशेषतः ॥४॥हरेः पुरो मूर्तिमान् स चाययौ शिष्यवत्तदा ।अनमत्पादयोश्चापि तिरोबभूव वै हरौ ॥५॥अथ वन सर्वथैव दग्धं दृष्ट्वा हरिस्त्वहम् ।सौम्येर्दृष्टिनिपातैस्तत् पुनः प्रकृतिमानयम् ॥६॥तथैव तद्वनं भूयः प्रपुष्पितलताद्रुतम् ।सपक्षिगणसंघुष्टं सश्वापदसरीसृपम् ॥७॥अभवत् पश्य लक्ष्मि त्वं यथापूर्वं यथास्थितम् ।दृष्ट्वाऽऽश्चर्यं च पप्रच्छ कान्तं लक्ष्मीर्नरायणम् ॥८॥कोऽयमग्निः कथं कृष्ण वर्तते त्वयि सर्वदा ।श्रुत्वा नारायणः प्राह शृणु तेजो हि मामकम् ॥९॥बहुधा वर्तते मूर्तौ संकर्षणात्मकं हि तत् ।तथा रुद्रात्मकं चापि शंकरात्मकमित्यपि ॥१०॥सर्वसंहारकृत् तद्वै महाकालस्वरूपवत् ।सर्वं चैश्वर्यरूपं मे वर्तते मयि सर्वदा ॥११॥यदा यदा प्रलयाश्च भवन्ति लोकिनां तदा ।ऐश्वर्यं तदिदं मे वै प्रवर्ततेऽति सृष्टिषु ॥१२॥संहरामि समग्रं वै तेनैव साधनेन तत् ।सृजामि च पुनः शक्त्या यथावत्कल्पनाकृतम् ॥१३॥सृष्ट्यैश्वर्यं च तन्मेऽस्ति यथा सृष्टं वनं पुनः ।भवत्यो ब्रह्मरूपिण्यः सृष्टा मया ममांऽशतः ॥१४॥एतज्जगत् समग्रं वै सृष्टं तथा मयांऽशतः ।मम चर्यापरीतस्य मे साधूनां प्रसेवया ॥१५॥कालात्माऽग्निर्न दहति मे संकीर्तनकारिणः ।पश्यैनं लोमशं त्यक्त्वा त्यक्त्वा तदाश्रमं तथा ॥१६॥ऋषीणामाश्रमाँस्त्यक्त्वा व्याप्नोद् वह्निर्न चाश्रमान् ।एवं मे भक्तभक्तानामनिष्टं कर्तुमक्षमः ॥१७॥ये मां भजन्ति मनुजास्तेषां कालो न विद्यते ।माया न विद्यते तेषामुद्वेगो नापि विद्यते ॥१८॥त्रेधा तापा न वै तेषां दुःखं तेषां न विद्यते ।तेषां कष्टमहं सर्वं भक्षयामि न संशयः १९॥कालकालोऽहमेवाऽस्मि जीवयामि ममाऽऽश्रितान् ।कालमाज्ञापयाम्येव भोगान् भक्तस्य शाश्वतान् ॥२०॥मा संहर कदाचित् त्वं मा जरां प्रापय क्वचित् ।इत्येवं मम भक्तानां तिष्ठामि रक्षणे सदा ॥२१॥इत्येतद् दर्शितं लक्ष्मि सामर्थ्यं मम गौरवम् ।महिमा मम भक्तेश्च दर्शितस्ते महाबलः ॥२२॥अहिंसा सत्यवचनं सर्वभूताऽनुकम्पनम् ।व्रतं दानं च शान्तिश्च धर्मा वै भक्तिसंश्रिताः ॥२३॥उपवासोऽपि वै भक्त्या गतार्थो भवति ध्रुवम् ।ब्रह्मचर्यं च भक्त्यैव गतार्थं मयि जायते ॥२४॥वेदव्रतं चाऽग्निकार्यं गुरुकार्यप्रसाधनम् ।स्वाध्यायश्चेति धर्माः स्युर्गतार्था भक्तिकारिणः ॥२५॥अतिथिव्रतता चापि प्रसादभोजनं च मे ।भुक्ते परिजने पश्चाद् भोजनं समशीलता ॥२६॥दम्पत्योरेव गृहिणो सुरेभ्योऽन्ननिवेदनम् ।सतां सेवाऽनिशं चाऽपि गतार्था भक्तिकारिणः ॥२७॥पालनं दानमुद्योगो यज्ञश्च भरणं तथा ।पितृसेवा स्वामिसेवा गतार्था भक्तिकारिणः ॥२८॥गवादेः पालनं चाऽग्निहोत्रं सत्पथवर्तनम् ।त्यागो दमः स्वागतं च गतार्था भक्तिकारिणः ॥२९॥शुश्रूषा च शुभाचारो दीनता भृत्यतादिकम् ।दासीता दासता चेति गतार्था भक्तिकारिणः ॥३०॥साधवो लोकसारा वै सनत्कुमारपूर्वजाः ।धात्रा सृष्टाः पुरा लोके लोककल्याणहेतवः ॥३१॥मया लक्ष्मि साधवस्तु भक्तिमन्तो विनिर्मिताः ।बहवश्चाऽत्र संसारे मम माहात्म्यबोधकाः ॥३२॥लोकाँस्तारयितुं कृत्स्नान् शक्ताः क्षितौ हि देवताः ।ब्रह्मविद्या भजनं च मत्कथा ध्यानमुत्सवः ॥३३॥मन्मन्त्रदानमित्येतत् कर्मषट्कं सतां सदा ।शरणागतरक्षा च मोक्षश्च पापनाशनम् ॥३४॥भक्तिदानं ब्रह्मशीलं कर्तव्यपञ्चकं सताम् ।विद्वत्ता शास्त्रशीलत्वं स्वाध्यायो जपनं श्रुतम् ॥३५॥आचारश्चेति षट्कं वै सतां स्वाभाविकं भवेत् ।शमश्चोपरतिः सत्सु प्रीतिः सत्कृतिरित्यपि ॥३६॥हरेः स्मृतिः सदा ब्रह्मस्थितिः सतां महान् वृषः ।मानक्रोधादिराहित्यं स्निग्धवाणीमनोऽन्तरः ॥३७॥अभ्यागतरतिः शेषप्रसादभोजनं तथा ।क्षमा तृप्तिश्च सन्तोषः सतां गुणाः स्वभावजाः ॥३८॥परिचर्या तु वृद्धानां गवां द्युवासिनां हरेः ।निवृत्तिः स्वादुवस्तुभ्यो धर्मो मोक्षाय तिष्ठति ॥३९॥आशापाशविमोक्षश्चाऽसंगिताऽऽध्यात्मचिन्तनम् ।स्नेहपाशविहीनत्वं चात्मन्यात्मसमर्पणम् ॥४०॥परिव्रजति साधुर्यो मोक्षदृष्टेन कर्मणा ।मुक्तो ह्यटति सर्वत्र मयि स्थिरो भवेत् सदा ॥४१॥एष मोक्षविदां धर्मो गतार्थो भक्तिकारिणः ।भक्तेः परतरं नास्ति शाश्वतानन्दधर्मभृत् ॥४२॥अदुःखमुत्तमसुखमजराऽमरमव्ययम् ।साधोर्मोक्षपदं चास्ते सहैव भक्तिकारिणः ॥४३॥ते सुरैः समतां यान्ति द्योतयन्ति जगत्त्रयम् ।भक्तिदयाधर्मपरास्तपसा दग्धकिल्बिषाः ॥४४॥सन्तश्चक्रधराः पुण्या मम लोकचराः शुभाः ।मालाचक्रधरा घ्नन्ति पापानि पापिनां क्षितौ ॥४५॥कण्ठे कण्ठीधरा हस्ते मालाध्रा मद्धरा हृदि ।भाले पुण्ड्रधरा देहे शीलध्रा भक्तिकारिणः ॥४६॥चित्ते क्षमाधरा भावे स्नेहध्राः प्रीतिवृत्तयः ।बुद्धौ मोक्षप्रियाश्चात्मन्येव ब्रह्मधराः सदा ॥४७॥आश्रितेषु च वात्सल्यधरा धीध्रा विवेचने ।मत्कथायां रसध्राश्च भूतेषूदासिताधराः ॥४८॥भोग्येऽनासक्तियुक्ताश्चाऽऽवश्यके यात्रिका यथा ।मयि तादात्म्यमापन्ना ब्रह्माम्बराः प्रपावनाः ॥४९॥उपास्तिपक्षयुक्ताश्च सतां संगकराः सदा ।आश्रिताऽर्पितसन्तृप्ताः साधवः साधुभूषणाः ॥५०॥एषां समाश्रयाल्लक्ष्मि गतार्थं मोक्षसाधनम् ।कर्तव्यं नाऽवशिष्येत धामस्थानां समागमात् ॥५१॥ऋषिधर्मः साधुधर्मः सत्ये शीले सदा रतिः ।न स्तम्भी न च मानी स्यान्नाऽप्रसन्नो न विस्मितः ॥५२॥पितृदेवार्चने रक्तो रात्रिम्मन्यो दिवा सदा ।स्वापम्मन्यो जाग्रतौ च निम्नम्मन्यो गुरुत्तमे ॥५३॥तमोमन्यः प्रकाशे च विषम्मन्यो रसोत्तमे ।हासम्मन्यो महावृद्धौ दैन्यम्मन्यः सगर्वके ॥५४॥सम्पत्सु विपदम्मन्यो मृतिम्मन्यश्च जीवने ।धर्मम्मन्यो हरेः संगे रतिम्मन्यो हृदन्तरे ॥५५॥भक्तिमत्सु सुखम्मन्यो जनम्मन्यो वनादिषु ।गतिम्मन्योऽच्युतगोत्रे तारयत्येव सज्जनः ॥५६॥साधुस्तारयिता लक्ष्मि साध्वी तारणिका मता ।त्यागे मूल्यं न मे चाऽस्ति मूल्यं भक्तौ हि मद्गृहे ॥५७॥भक्तिमतां साधूनां पूजयामि चरणौ सदा ।भक्तानां चापि साध्वीनां सम्मानं प्रकरोम्यहम् ॥५८॥मयि भक्तिस्तदा स्याद्वै निवृत्तिश्चान्यतो यदा ।शमे रतिर्मयि स्वापः क्रिडाकाण्डोऽपि वै मयि ॥५९॥ऋषीकेशाः साधवस्ते साध्व्यश्चापि तथाविधाः ।मम भक्तिभृतानन्दसन्दोहाप्लवसम्प्लुताः ॥६०॥देशेषु मम वासेषु नदीनां निर्झरेषु च ।स्रवन्तीनां निकुञ्जेषु पर्वतेषु वनेषु च ॥६१॥भक्तालयेषु वा सन्तो वसन्ति मम योगिनः ।योगचर्यापराश्चापि व्योमशय्यासनास्तथा ॥६२॥वृक्षाऽऽश्लेषाशना नित्यं वन्यपरिजनाः सदा ।चीरवल्कलसंवीता मम भक्तिपरायणाः ॥६३॥सुखं वसन्ति निर्विघ्ने सद्भिर्देवगणैः सह ।सत्त्वस्थाः सर्वमुत्सृज्य दीक्षिता मयि माधवे ॥६४॥एवंविधाः साधुवृत्ताः साधुशीला मदाश्रयाः ।नरा नार्यः प्रिया मे वै तेषां लोकाः सनातनाः ॥६५॥स्थिताः पापे समुत्सृज्य पापं कुर्वन्ति सत्क्रियाम् ।पुण्यं भक्तिं तदा तेऽपि साधुत्वमुपयन्ति वै ॥६६॥स्थितो ब्रह्मिष्ठधर्मेण ब्राह्मण्यमुपयाति च ।यः कोऽपि मम योगेन ब्रह्मभूयं स गच्छति ॥६७॥अध्यात्म नैष्ठिकं सद्भिर्ब्रह्मकामैर्निषेव्यते ।वनं नारायणश्चाऽहं सतां वासो मयि ध्रुवे ॥६८॥वनं गुरुस्तथा बोध्यो गुरौ वासः सतां सदा ।हवनं मे च नैवेद्यं यज्ञोऽहं श्रीनरायणः ॥६९॥चातुर्मास्यं सतां चाहं व्रतान्यहं सतां सदा ।एवमाचारवन्तो वै साधवः साधुभूषणाः ॥७०॥विमुक्ताः सर्वपापैस्ते चरन्ति साधवो मयि ।सन्तः सत्पथनित्यास्ते प्रयान्ति परमां गतिम् ॥७१॥ब्रह्मलोकं महापुण्यं दिव्यर्द्धिमत् सुशाश्वतम् ।प्रयान्ति मुनयः सिद्धा लक्ष्मि मत्पदसंश्रयाः ॥७२॥स्वयं ते निर्भयाश्चाऽत्र ददत्यभयदक्षिणाम् ।भक्तिलाभपरा नित्यं साधवः साधुभूषणाः ॥७३॥सर्वभूतानुकम्पाश्च सर्वभूताऽऽर्जवव्रताः ।सर्वभूतात्मभूताश्च साधवः साधुभूषणाः ॥७४॥सर्ववेदेषु वा स्नानं सर्वभूतेषु दर्शनम् ।सर्वात्मसमता येषां ते सन्तः साधुभूषणाः ॥७५॥आर्जवं वै सतां धर्मो ह्यधर्मो जिह्म एव ह ।आर्जवेन युता लोके देवताः सन्ति गोचराः ॥७६॥व्यपेतमायो भक्तात्मा प्रीत्या सत्पथमाश्रितः ।चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥७७॥शृणु लक्ष्मि मां विहाय करोति सत्क्रियामपि ।ऐहिकं हि फलं तस्य विना भक्तिं हि नश्वरम् ॥७८॥उपवासव्रतैर्यान्ति गन्धर्वलोकमुत्तमम् ।मण्डूकवज्जलेशायी नागलोकं प्रयाति वै ॥७९॥शष्पपत्रादिभक्षी तु प्रगच्छत्यमरावतीम् ।शैवालपर्णभक्षी तु वारुणं लोकमृच्छति ॥८०॥फलमूलाऽनिलाऽदस्तु यक्षलोकं प्रगच्छति ।अग्नितपःपरो राजा प्राणरोद्धा नृपो भवेत्। ॥८१॥अनशने रतो राजा स्वर्गे दिवि प्रमोदते ।जलाब्धौ देहमरणे वारुणं लोकमृच्छति ॥८२॥अश्मना चरणौ भित्त्वा मृतो भवति गुह्यकः ।हत्वाऽग्नौ देहमुत्सृज्य वह्निलोके प्रजायते ॥८३॥वीररीत्या गतो लोकं शक्तस्य स तु विन्दते ।कामगेन विमानेन मोदते स सुरादिभिः ॥८४॥योगिदीक्षां गृहीत्वा च रुद्रलोकं प्रयाति सः ।धनदानानि दत्त्वा तु कुबेरालयमृच्छति ॥८५॥स्वर्णदानानि च दत्वा सूर्यलोकं प्रयाति सः ।पेयदानानि दत्त्वा च चन्द्रलोकं प्रयाति सः ॥८६॥वस्त्रदानानि दत्त्वा तु ग्रहलोकान् प्रयाति सः ।कन्यादानानि दत्त्वा तु चाऽप्सरोलोकमृच्छति ॥८७॥यानदानानि दत्त्वाऽत्र याति वैमानिकं गृहम् ।अन्नदानानि दत्त्वाऽत्र पितृलोकं प्रयाति सः ॥८८॥ब्रह्मदानानि दत्त्वाऽत्र सत्यलोकं प्रयाति च ।ऐश्वर्यादिप्रदानेन यातीश्वरालयान् स वै ॥८९॥भक्त्या सर्वस्वदानेन मम लोकं प्रयाति सः ।यदि मां स्मरति तत्र चान्यथा याति तैजसम् ॥९०॥वैराजपदमेवाऽयं मद्भक्त्या तु पदं मम ।तानि सर्वाणि दानानि मह्यं तत्राऽन्तरात्मने ॥९१॥स्मृत्वा ददाति भक्त्या चेन्नयामि ब्रह्म शाश्वतम् ।एवं मे महिमा लक्ष्मि भावनामात्रगोचरः ॥९२॥भावनाभक्षकश्चाऽहं भावनातन्तुबन्धनः ।भावनारूपपत्रेण चोपतिष्ठामि सन्निधौ ॥९३॥साध्व्यः सन्तो भावनाढ्यास्ततो मन्मयमूर्तयः ।मदाचारा मम देहास्तारकाः पापिनां सदा ॥९४॥तेभ्यो नाऽणुः प्रभेदोऽस्ति मम सर्वार्थयोजने ।त एवाऽहमहं ते च हार्दं ते कथितं मम ॥९५॥भवत्यो भक्तिमत्यो मे सर्वा ब्रह्मप्रियाः स्त्रियः ।साध्व्य एव सदा स्थाऽत्र तारिका मोक्षदाः शुभाः ॥९६॥भवतीनां निवासोऽत्राऽक्षरं धाम तदेव हि ।भवतीनां सन्निधानं सत्संगः शाश्वतो हि सः ॥९७॥भवतीनां सेवनं च सदाऽऽत्मसेवनं परम् ।भवतीनां दर्शनादि सदा मुक्तिप्रदं शुभम् ॥९८॥भवतीनां क्रियाः सर्वा मद्योगाद् ब्रह्मसंज्ञिकाः ।भवतीनां शरीराणि पुरुषोत्तमवन्ति वै ॥९९॥भवतीनां च सर्वस्वं चाऽहं श्रीपुरुषोत्तमः ।ततः श्रीपुरुषोत्तम्यो भवत्यः सन्ति सर्वथा ॥१००॥न मे मनाग् भवतीभ्यो भेदोऽत्र च परत्र च ।यूयं चाहमहं यूयं सर्वं मे भवतीकृतम् ॥१०१॥एवं मत्वाऽपरा या मद्भक्तियुक्ता भविष्यति ।तदा तस्या भवतीनां तुल्यता वै भविष्यति ॥१०२॥पठनाच्छ्रवणादस्य ज्ञानस्य श्रवणादपि ।साध्वीभावोदयः स्याच्च ब्रह्मप्रियात्वमृच्छति ॥१०३॥राधारमासमानत्वं भवेद् भक्त्या न संशयः ।ब्रह्ममुक्तसमानत्वं भवेद् भक्त्या न संशयः ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वह्निप्रकाशनतिरोभावौ, साधुप्रतापो, विविधफलप्राप्तिः, साधुसंगमे मम प्राप्तिरित्यादिनिरूपणनामा पञ्चसप्ततितमोऽध्यायः ॥७५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP