संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-अथाऽऽययौ हिमाद्रिर्वै पूजार्थं परमात्मनः ।सौवर्णं बहुधा धृत्वा स्थालेषु स्वर्णकाग्निषु ॥१॥राजतेषु च पात्रेषु विद्रुमानुत्तमान् मणीन् ।माणिक्याख्यान् मणींश्चापि पद्मरागमणींस्तथा ॥२॥वज्रमणीन्मारकतान्नीलमणीन्महोज्ज्वलाम् ।वैदूर्याख्यमणींश्चापि भृत्वा स्थालेषु चाययौ ॥३॥जातरूपप्रणद्धाँश्च वज्रमणींस्तथा परान् ।शुक्तिसंख्यान्मारकतानिन्द्रनीलान्महोज्ज्वलान् ॥४॥कर्कोटकान् सूर्यकान्ताँश्चन्द्रकान्तान् स्यमन्तकान् ।स्फटिकान् गोमेदकाँश्च धूलीमरकताँस्तथा ॥५॥राजमणीन् ब्रह्ममणीन् मुक्ताफलानि चानयत् ।अपूजयद्धरिं नारायणं कृष्णं परेश्वरम् ॥६॥मणीनां मालिकाहारान् रत्नानां मालिका ददौ ।हीरकाणां ददौ हारान् मौक्तिकानां ददौ तथा ॥७॥चन्दनाऽक्षतपुष्पाद्यैरारार्त्रिकादिभिर्हरिम् ।अपूजयद्धिमशैलो मेना सतीरपूजयत् ॥८॥एवं पूजोत्तरं चाद्रिर्निन्ये मेनालयं शुभम् ।क्रोशाधिकपरिमाणं सरोवरेण राजितम् ॥९॥समन्तात् सरसस्तस्य सोपानानि सुभान्ति वै ।सौवर्णैः राजतैर्वृक्षैर्द्रुमैर्युतानि चाभितः ॥१०॥नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः ।पत्रैर्मरकतैर्नीलवैदूर्यच्छदकैस्तथा ॥११॥तत्र सरसि पद्मानि पद्मरागच्छदानि वै ।वज्रकेसरजालानि सुगन्धीनि विभान्ति वै ॥१२॥मारकतानि पत्राणि नीलवैदूर्यकर्णिकाः ।शोभन्ते वल्लिकादेहे महाश्चर्यकराणि वै ॥१३॥सरोवरस्य या भूमिर्दिव्या नैसर्गकोमला ।नानारत्नैरुपचिता जलजानां समाश्रया ॥१४॥कपर्दिकानां शुक्तीनां शंखानां समुपाश्रया ।मकराणां च मत्स्यानां चण्डानां कच्छपैः सह ॥१५॥मारकतैरसंख्यैश्च शोभिता वज्रकोटिभिः ।पद्मरागेन्द्रनीलैश्च महानीलैश्च शोभिता ॥१६॥पुष्परागैः कोटिभिश्च कर्कोटकैरनन्तकैः ।राजावर्तैस्तुत्थखण्डै रुचिराक्षैश्च कोटिभिः ॥१७॥सूर्येन्दुकान्तकोट्याद्यैनींलैर्वर्णान्तिमैस्तथा ।ज्योतीरसैः स्फटिकैश्च स्यमन्तकैर्वलक्षकैः ॥१८॥गोमेदपित्तकैश्चापि धूलीमरकतैस्तथा ।प्रराजमणिभिश्चापि वैदूर्यगन्धिभिर्युता ॥१९॥मुक्ताफलैस्तथा ब्रह्ममणिभिर्मौक्तिकैर्युता ।एतादृशी क्षितिः सौम्या सरसः परितोऽभवत् ॥२०॥सुखोष्णं च सरस्तोयं स्नानाच्छैत्यविनाशकम् ।तस्योदकं बहु स्वादु लघुशीतं सुगन्धिकम् ॥२१॥न क्षिणोति यथा कण्ठं कुक्षिं नाऽऽपूरयत्यपि ।तृप्तिं विधत्ते परमां शरीरे च महत् सुखम् ॥२२॥जलमध्येऽभवछ्रेष्ठः प्रासादो रुक्मभित्तिजः ।सर्वरत्नमयश्चन्द्रकान्तिकान्तितभूस्तरः ॥२३॥रम्यवैदूर्यसोपानो विद्रुमाऽमलसारकः ।इन्द्रनीलमहास्तम्भो मरकतोत्थवेदिकः ॥२४॥वज्रांशुजालैः स्फुरितो रम्यो दृष्टिमनोहरः ।प्रासादे तादृशे मेनकया पूजार्थमच्युतः ॥२५॥नित्यं संरक्षितश्चास्ते भक्तेच्छाधीनमाधवः ।भोगिभोगावलिसुप्तः सर्वालंकारभूषितः ॥२६॥जान्वा तु कुञ्चितस्त्वेकः पादः श्रीस्वामिनस्तथा ।फणीन्द्रसन्निविष्टोऽङ्घ्रिद्वितीयश्च परात्मनः ॥२७॥लक्ष्म्युत्संगगतोऽङ्घ्रिश्च शेषभोगप्रशायिनः ।फणीन्द्रभोगसन्न्यस्तबाहुः केयूरभूषणः ॥२८॥अङ्गुलिपृष्ठविन्यस्तस्वशीर्षध्रैकहस्तकः ।जानुस्थमणिबन्धाऽऽकुञ्चितलम्ब्यन्यहस्तकः ॥२९॥किञ्चिदाकुञ्चितनाभिदेशहस्ततृतीयकः ।आत्तगुच्छघ्राणदेशस्थितचतुर्थहस्तकः ॥३०॥लक्ष्म्या संवाह्यमानांऽघ्रिः पद्मपत्रनिभैः करैः ।सन्तानमालामुकुटो हारकेयूरभूषितः ॥३१॥भूषितश्च विभूषाभिरङ्गदैरंगुलीयकैः ।फणीन्द्रफणविन्यस्तचारुरत्नशिरोज्ज्वलः ॥३२॥अज्ञातवस्तुचरितः प्रतिष्ठितो हिमाद्रिणा ।मेनानुपूज्यः सततं सन्तानकुसुमार्चितः ॥३३॥दिव्यगन्धानुलिप्तांगो दिव्यधूपेन धूपितः ।सुरसैः सुफलैर्हृद्यैश्चामृतैः पायसादिभिः ॥३४॥भोजितो मेनकादेव्या सुप्तश्चोत्पलशीर्षकः ।शोभितोत्तमपार्श्वश्च सर्वाभिर्दृष्ट एव सः ॥३५॥अनादिश्रीकृष्णनारायणेन वीक्षितो हरिः ।मूर्तिमयोऽपि भगवान् दिव्यश्चोत्थाय सन्निधौ ॥३६॥नत्वा हृदये चाश्लिष्य ववन्दे पुरुषोत्तमम् ।अनादिश्रीहरिः कृष्णनारायणो जगद्गुरुः ॥३७॥अवतारगुरुर्व्यूहगुरुश्चांशगुरुः स्वयम् ।नारायणानां सर्वेषां गुरुर्मद्गृहमागतः ॥३८॥धन्योऽस्मि कृतकृत्योऽस्मीत्युक्त्वा पुपूज कारणम् ।पूजां कृत्वाऽभवत्तत्राऽदृश्यो मूर्तौ भुजङ्गमः ॥३९॥परमेशस्ततोऽप्यग्रे हिमाद्रेर्भवनं ययौ ।सर्वरत्नमयं दिव्यप्रभायुक्तं समृद्धिकम् ॥४०॥सर्वोपस्करसंयुक्तं सर्वभोज्यसमन्वितम् ।सर्वपेययुतं दिव्यं कोमलासनशोभितम् ॥४१॥सर्वसुगन्धसंव्याप्तं - कल्पलताभिशोभितम् ।सर्वकामप्रदं दासदासीकोटिसमन्वितम् ॥४२॥स्वर्णहीरकरत्नानां सिंहासनेन राजितम् ।तस्मिन्न्यषादयत्कृष्णनारायणं हि मेनका ॥४३॥पुपूज परया प्रीत्याऽऽरार्त्रिकं प्रचकार च ।हरिस्तत्राऽमृतभोज्यं गृहीत्वा चोपदादिकम् ॥४४॥पावयित्वाऽऽलयं चाऽद्रेस्त्वाज्ञयाऽग्रेऽम्बरे ययौ ।विमानेन द्रुतं प्राप केदारं शिखरं शुभम् ॥४५॥केदारेशो महादेवः श्रीपतेः पुरतोऽभवत् ।पुपूज परमात्मानं ब्रह्मप्रियादिसंयुतम् ॥४६॥बहुरत्नादिभिश्चापि फलपुष्पादिभिस्तथा ।लब्ध्वा पूजां हरिश्चाग्रे ययौ कैलासपर्वतम् ॥४७॥त्रिपुरारिसेवितं च कल्पद्रुमसमन्वितम् ।शंकरः सर्वगणयुक् सतीयुग् वीक्ष्य माधवम् ॥४८॥समीपे चाऽऽजगामाऽपि पुपूज परमेश्वरम् ।कुबेरो गुह्यकैः साकं पुपूज श्रीपतिं हरिम् ॥४९॥सर्वरत्नैः फलपुष्पैः प्राप्य पूजां हरिस्ततः ।सौगन्धिकं गिरिं वीक्ष्य सुवेलं पर्वतं तथा ॥५०॥चन्द्रप्रभं गिरिं चापि दिव्यमच्छोदकं सरः ।चैत्ररथं वनं वीक्ष्य सर्वौषधिं गिरिं तथा ॥५१॥दिव्यारण्यं विशोकाख्यं वीक्ष्य ककुद्मिनं गिरिम् ।वैद्युतं च गिरिं वीक्ष्य वैभ्राजं च वनं ततः ॥५२॥अरुणं पर्वतं वीक्ष्य शैलोदं च सरस्ततः ।गौरं तु पर्वतं वीक्ष्य सरः काञ्चनवालुकम् ॥५३॥राजतं भ्राजमानं वै हिमाद्रिं भूमिमण्डलम् ।ऊर्ध्वं चाब्भ्रसमुद्रं वै वीक्षमाणाः पुरो ययुः ॥५४॥ -पर्वतानां श्रेणिकाश्च दृष्ट्वा श्रीमानसं सरः ।व्यलोकयन् विमानस्था कृष्णपत्न्यः सुहर्षिताः ॥५५॥कृष्णेन साकं तत्तीरे चावतेरुः समन्ततः ।स्रस्नुस्ताः स्वामिना साकं चक्रुश्च जलखेलनम् ॥५६॥स्नपयन्ति स्नापयन्ति समाश्लिष्यन्ति माधवम् ।हर्षयन्ति मोदयन्ति स्नान्ति मोदन्त इत्यपि ॥५७॥आनन्दयन्ति कान्तं श्रीहरिणा हृदि संधृताः ।आनन्दिताः कान्तमय्यो रञ्जयन्ति प्रियं स्त्रियः ॥५८॥पतिं विविधचेष्टाभी रञ्जयन्ति तदङ्गनाः ।कमलानि समादाय कान्ते ता योजयन्ति वै ॥५९॥काश्चिदाताडयन् कान्तमुदकैः करताडितैः ।ताड्यमानाश्च कान्तेन प्रीतिमत्योऽभवँस्तदा ॥६०॥अदृश्यन्त तदा लक्ष्म्यः श्वासनृत्यत्पयोधराः ।कान्ताम्बुताडनोच्छीर्णकेशपाशनिबन्धनाः ॥६१॥स्नाताः शीतापदेशेन काश्चित्कान्तं समाश्लिषत् ।एवं कान्तं रामयित्वा रमयित्वा ततः स्त्रियः ॥६२॥निर्ययुर्मण्डयन्ति स्म गात्राणि तटमास्थिताः ।शृंगारयन्ति गात्राणि भूषयन्ति विभूषणैः ॥६३॥सज्जा भूत्वा विमानस्था बभूवुः पतिवाञ्च्छया ।विमानेन ततः सर्वा धवलं गिरिमाययुः ॥६४॥ततश्च वनशोभाढ्यं हनुमत्पर्वतं ययुः ।हनूमता पूजितश्च श्रीपतिः पुरुषोत्तमः ॥६५॥लक्ष्म्या सम्पूजितश्चापि हनूमान् तपसः स्थितौ ।सहायकृत् पर्वतेऽपि पुरा रक्षाकरः कपिः ॥६६॥ततो विमानमार्गेण ययुर्गगां तु काञ्चनीम् ।जलानि तत्र पीत्वैव शिवेश्वरपुरीं ययुः ॥६७॥वाराणसीं महाश्रेष्ठां पावनीं वरणान्विताम् ।गंगां सुशोभनां प्राप्य दृष्ट्वा विश्वेश्वरं शिवम् ।विश्वेश्वरगृहे सर्वा रात्रिं निन्युः सुखान्विताम् ॥६८॥शंकरेण तु कृष्णस्य सम्मानं बहुधा कृतम् ।भोजनाच्छादनाद्यैश्च पानैः संवाहनादिभिः ॥६९॥शयनैः सुखभोगाद्यैः प्रसादितः परेश्वर ।वैकुण्डसदृशे हर्म्ये रात्रिं निनाय माधवः ॥७०॥पूजां प्राप्य भोजनादि कृत्वा विदायमालभत् ।विमानेन द्रुतं विन्ध्याचलं वीक्ष्य ततः परम् ॥७१॥सप्तपुटं पर्वतं च भृगुकच्छं श्रियाः पुरम् ।गोपनाथं ततो वीक्ष्य निजां लोमशभूमिकाम् ॥७२॥नगरीमाययुः सर्वा विश्रान्तिमापुरुत्तमाम् ।अथ सायं स्थिताः स्वामिनाथस्य पुरतः स्त्रियः ॥७३॥भोजनादि विधायैव पप्रच्छुः परमेश्वरम् ।रत्नानीमानि सर्वाणि हीरकादीनि केशव ॥७४॥कदा कस्मात् प्रजातानि हिमालयाऽर्पितानि वै ।भौतिकानि हि सर्वाणि न तु दिव्यानि सन्ति वै ॥७५॥कौस्तुभादेर्लेशमात्रदिव्यतैतेषु नास्ति यत् ।मणिरत्नकथां श्रोतुमिच्छामहे वयं प्रभो ॥७६॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हिमाद्रिकृतपूजां प्रगृह्य केदारकैलासमानसरोहनूमत्पर्वतकाशीविन्ध्यसप्तपुटभृगुकच्छगोपनाथादीन् वीक्ष्य हरेः लोमशवापिकागमनं ब्रह्मप्रियाणां भौतिकहीरकाद्युत्पत्तिजिज्ञासा चेत्यादिनिरूपणनामा षष्ट्यधिकशततमोऽध्यायः ॥१६०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP