संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-त्वया लक्ष्मि! ततो वीक्ष्य कान्तं पुरातनं निजम् ।वरमाला मम कण्ठेऽर्पिता राज्ञां प्रपश्यताम् ॥१॥सर्वः समाजश्चकितो महाश्चर्यपरोऽभवत् ।अहो विप्रो राजकन्यां प्राप्तवानित्यभूत् स्वनः ॥२॥दरिद्राय गता कन्या भाग्यहीनाय भिक्षिणे ।असमानसमस्ताय गता कन्या तु मृत्यवे ॥३॥अहो राजगृहे जन्म भाग्यं दारिद्र्यदुःखदम् ।कल्पवल्ली कांचनाभा भल्लुककरगाऽभवत् ॥४॥सौवर्णपद्मिनी रम्या पतिता शुष्ककर्दमे ।स्थलपद्मात्मिका माला वानरस्य गले गता ॥५॥स्वातिसलिलयुग्विद्युत् पतिता शुष्कपर्वते ।लक्ष्मीर्दिव्या राजयोग्या दरिद्रे पतिताऽधुना ॥६॥कौमुदी चन्द्रमुत्सृज्य क्षुद्रतारकमाश्रिता ।प्रभा सूर्यं परित्यज्य शून्यमम्बरमाश्रिता ॥७॥विद्या सन्तं विहायैव वैतण्डिकमधिश्रिता ।द्यौर्महेन्द्रं परित्यज्य नैर्ऋतं समुपाश्रिता ॥८॥कान्तिः कान्तं परित्यज्य भ्रान्तिवद् भ्रान्तमाश्रिता ।सती सत्यं विहायैव मायया मायिनं गता ॥९॥जटा शंभुं परित्यज्य वटस्तम्बं प्रवल्गिता ।गंगा विष्णुपदं त्यक्त्वा क्षारसागरमागता ॥१०॥भक्ति धर्मं परित्यज्य दुःशीलं समुपागता ।शय्या युगलं सन्त्यज्य विधुरं समनुसृता ॥११॥सिंहिका सिंहमुत्सृज्य शूकरं समुपागता ।करिणी हस्तिनं त्यक्त्वा गेण्डुकं पशुमाश्रिता ॥१२॥सरीसृपं गता त्यक्त्वा शेषं नागं हि नागिनी ।कल्गिर्वै मुकुटं त्यक्त्वा याता चिर्पटवेटनम् ॥१३॥अहो भाग्यस्य बलिता राज्ञी वाग्घरिमाश्रिता ।नैवं दृष्टं पुरा क्वापि दृश्यन्ते न जनैः क्वचित् ॥१४॥दिव्या चिन्तामणिमाला कुक्कुरकण्ठमाहिता ।मन्यामहे जनाश्चैतद् दैवेनाऽस्याः कृतं किल ॥१५॥यद्वा समाजमालक्ष्याऽभिभूता कन्यका यतः ।तेजोभिर्वै समाजस्य भानहीनाऽकरोदिदम् ॥१६॥अनभीष्टं हि तज्जातं कन्यया नेष्यते खलु ।यद्वा कन्या न जानाति मालेयं वरमालिका ॥१७॥साधारणीं समालक्ष्य दरिद्राय समर्पिता ।वरमाला हरिकाणां द्वितीया वा भविष्यति ॥१८॥इयं तु विप्रपूजार्थं मता वा कन्यका न्विति ।तस्मात् कन्या दरिद्राय न देया सत्सु राजसु ॥१९॥यद्वा राजा ददत्यस्मै हरिष्यामो वयं तु ताम् ।स्वयंवरेऽपि सम्पन्ने युद्धाधीना हि कन्यका ॥२०॥योधयित्वा सती रत्नं प्राप्स्यामो नाऽत्र संशयः ।इत्येवं बहुधा तत्र वदन्ति स्म नृपादयः ॥२१॥कन्याया जनकश्चापि क्षणं शोकं जगाम ह ।वीक्ष्य कन्या दरिद्राय गतेति ज्वरमाप ह ॥२२॥नोवाचापि तदा किञ्चिद् भाग्यं मत्वा सुताकृते ।राजा तु विधिवद् दातुं समिच्छति वराय वै ॥२३॥तावद् राज्ञी गुरुश्चापि वृद्धा न्यषेधयन्नृपम् ।राजन् मा क्षिप्रकार्यत्र भवान् भवतु मण्डपे ॥२४॥अयोग्यं चेदमापन्नं कन्या भ्रान्ता यतोऽस्ति वै ।यद्वा विचित्तभावाऽस्ति मानसस्थैर्यवर्जिता ॥२५॥तस्मान्माला पुनर्देया स्वयंवरार्थमेव ह ।राजा वाक्यं समादृत्य तथाऽस्त्विति जगाद तान् ॥२६॥अथ राजन्यवर्गोऽपि मेने योग्यं तु तत्तथा ।कन्या पृष्टा मुहुश्चैतद्विषये जनकादिभिः ॥२७॥नोवाच सा तदा किञ्चिद् रमेशेङ्गितवेदिनी ।विप्रं राजा तदा गत्वा कृत्वा दूरं च कन्यकाम् ॥२८॥नीत्वाऽऽययौ मण्डपं च दत्वा मालां परां पुनः ।कन्या विहृत्य सर्वत्र मण्डपे करमालिका ॥२९॥एवमेव समास्ते सा कस्मैचिन्नार्पयत्यपि ।न सा वक्ति न वाऽन्यं सा पश्यति नापि चेच्छति ॥३०॥आसुराणां विनाशस्य मिषं चिन्तयतीव सा ।अथाऽह तु तदा लक्ष्मि! गोपुरं त्वां समागताम् ॥३१॥समालां मामकीं मत्वा करे गृहीतवान् बलात् ।त्वां नीत्वा वाटमालम्ब्य यावत्प्रयामि चैकलः ॥३२॥तावद् दूता भृत्यवर्गा योद्धारो मामुपागताः ।अताडयँश्च ते मां वै जगृहुस्त्वां वियोजिताम् ॥३३॥तदा कोलाहलो जातः समाजः क्षुभितोऽभवत् ।बललभ्या खलु कन्या भृत्यैर्वै नीयते सती ॥३४॥मारयन्तु योधयन्तु चाहरन्तु च कन्यकाम् ।इत्येवं रणमूलं वै तदारब्धं क्षणादभूत् ॥३५॥अहं तेषां पश्यतां वै शीघ्रं स्कन्धे निधाय च ।त्वां गृहीत्वा प्रदुद्राव शरवर्षा तदाऽभवत् ॥३६॥मया स्मृतं विमानं स्वं चाऽक्षराख्यं महोज्ज्वलम् ।दीप्यमानं समन्ताद्वै महातेजोभिरुत्तमम् ॥३७॥पार्षदैर्मुक्तसंघैश्च श्वेतगजैर्विराजितम् ।सर्वशस्त्रभृतं लक्ष्मि दिव्यमुक्तानिकाऽन्वितम् ॥३८॥तन्मध्ये स्थापयित्वा त्वां युद्धार्थं दानवैः सह ।सन्नद्धश्चाऽभवँस्त्वेको विप्रोऽहं क्षात्ररूपधृक् ॥३९॥आजगत्कलनं नैजं धनुर्धृत्वा महत्तमम् ।छेदयामास सर्वान् वै शरान् शरैः शिलीमुखैः ॥४०॥मेदयामास कवचान् योद्धॄणां कानकान्यपि ।परिवार्य समस्ताश्च राजानो दैत्यपुंगवाः ॥४१॥आसुरा दानवाश्चापि निजघ्नुर्मां समन्ततः ।मया तेषां प्रसंहारः कर्तव्येश्चेति वै तदा ॥४२॥शक्त्या केचिद्धतास्तत्र भूशुण्ड्या च हताः परे ।अन्ये च तौमरैश्चान्द्रैर्बाणैश्च विनिपातिताः ॥४३॥परे तु गदया भग्ना भेदिताश्च परेऽसिभिः ।दण्डेनाऽन्ये मारिताश्च परश्वधेन भेदिताः ॥४४॥खण्डिता वज्रवेगैश्चाऽपरे प्रासैर्विभेदिताः ।शूलैश्च व्यसवश्चान्ये कृतास्तत्र रणांगणे ॥४५॥खड्गैर्निषूदिताश्चान्ये गोलकैः कच्चरीकृताः ।चूर्णीकृतानि वर्ष्माणि मुद्गलैर्योधिनां तदा ॥४६॥एवं लक्ष्मि मया तत्रैकलेन कोटिशोऽसुराः ।प्राणैर्वियुज्य नाकं वा प्रापिता वा यमक्षयम् ॥४७॥आक्षरं स्थानमेवाऽपि वैकुण्ठं चामृतं तथा ।अभ्याकृतं च गोलोकं प्रापिता बलिनः खलु ॥४८॥अथ सहस्रहस्तो वै राजा कपालहेतुकः ।सुतलस्याऽऽययौ योद्धुं मया सार्धं तदा मया ॥४९॥सुदर्शनेन चक्रेण कर्तिताः सर्वबाहवः ।नत्वा भूत्वा मम भक्तो जगाम स रणाद् बहिः ॥५०॥मया तस्मै प्रदत्तौ वै हस्तौ द्वौ नाधिकौ तदा ।उद्गतौ स्कन्धदेशेऽस्य क्षमां वृत्त्वा ययौ गृहम् ॥५१॥अथ राजा शतमूर्द्धो वितलस्य मया सह ।युयुधेऽर्धचन्द्रबाणैर्नाम्ना सारङ्गवाहनः ॥५२॥सोऽपि सूर्याभबाणैर्वै मया कण्ठेषु कृन्तितः ।पतितोऽस्य कबन्धो वै भूतले प्रममार सः ॥५३॥अतलस्य तदा राजा सामरायोधनाभिधः ।सहस्रपाद् योधनार्थम मत्समीपमुपाययौ ॥५४॥मया निकृन्तिताः पादास्तस्य चक्रेण वै तदा ।कबन्धस्तस्य च तदा पपात च ममार च ॥५५॥अथ राजा भुवस्तत्र नवखण्डेश्वरो महान् ।महेन्द्रभीषणो नाम्ना योद्धुं मां प्रति चाययौ ॥५६॥शूलान् चिक्षेप बहुशः कण्ठं मे कर्तितुं हि सः ।मया शूलेन दक्षोऽस्य बाहुः स्कन्धाद् विदारितः ॥५७॥एकहस्तस्तदा शूरश्चादाय खड्गमुत्तमम् ।दुद्राव मां तदाचाऽहं जहार तच्छिरोऽसिना ॥५८॥अथ स्वर्गे च ये दैत्या राज्याधिकारयोजिताः ।आययुर्व्योममार्गेण योद्धुं मया विहायसि ॥५९॥मया रूपसहस्रैश्च योधिता विविधायुधैः ।सुदर्शनेन चक्रेण नैकचक्रैर्विदारिताः ॥६०॥एवं तत्राऽर्बुदाः शूरा मम हस्तैस्तथाऽयुधैः ।गमिताः प्रेतभावं वै मोचिता अपि बन्धनात् ॥६१॥थुरानन्दः सार्वभौमो जीवग्राहेण वै मया ।पाशैश्च रश्मिभिस्तत्र रणे बद्धो वशीकृतः ॥६२॥अरुदस्त्वं तदा लक्ष्मि! पितृस्नेहवशंगता ।मा मेवं चेत्यवोचाश्च मया राजा प्रमोचितः ॥६३॥ननाम मम चरणे शरणं प्राप्य भूपतिः ।मयाऽभयप्रदानेन योजितोऽचलभक्तराट् ॥६४॥अथाऽन्यानि दानवानां सैन्यानि दुद्रुवुस्तदा ।तलादिषु गतानेव त्यक्त्वा भुवं दिवं भुवः ॥६५॥एवं निष्कण्टकं कृत्वा भूतलं स्वर्गमित्यपि ।विरराम ततो युद्धादहं मे श्वशुरगृहे ॥६६॥राजा मां स्वालयं निन्ये मध्ये विवाहमण्डपे ।विधिना दत्तवान् पुत्रीं ज्योत्स्नाश्रीं त्वां च मे तदा ॥६७॥यौतकं प्रददौ राजा ह्यसंख्यस्वर्णरत्नकम् ।विमानानि च यानानि गजवाजिवृषादिकान् ॥६८॥दासान् दासीर्नगराणि कल्पवल्लीः सुधाह्रदान् ।रथान् स्वर्णान् नरयानान् नीत्वा त्वां च ततस्त्वहम् ॥६९॥कारयित्वा मृतानां च क्रियास्ततो निजं गृहम् ।आजगाम त्वया साकं सम्प्रज्ञानद्विजालयम् ॥७०॥ततो मया पृथिव्यां वै राजानो ब्राह्मणाः कृताः ।विप्राऽधीनाऽऽभवत् पृध्वी दैवपैत्र्यक्रियावती ॥७१॥भुवः स्वर्गं जनाद्यं च तत्तद् धिष्ण्यं यथाभवत् ।पुरा तथैव तत्तेभ्यो दत्तवान् विधिना पुनः ॥७२॥एवं मया तदा लक्ष्मि! खलैर्मोचायितं जगत् ।अनादिश्रीकृष्णनारायणेन परमात्मना ॥७३॥पुरुषोत्तमकृष्णेन सर्वेषामवतारिणा ।अनादिश्रीप्राज्ञनारायणोऽहं वै तदाऽभवम् ॥७४॥आकल्पान्तं स्थितवांश्च खण्डे भामन्तके तदा ।थुरानन्दस्ते जनको भक्तो मे त्वात्मवेदनः ॥७५॥आयुषोऽन्ते ययौ धामाऽक्षरं मे शुद्धभक्तिमान् ।स्मर ज्योत्स्नां श्रियं स्वां त्वं सर्वं मे गोचरं हितत् ॥७६॥एवमन्येऽप्यवतारा असंख्या मे ततोऽभवन् ।अथ चान्यच्च मे प्राकट्यं वदामि शृणु प्रिये ॥७७॥वेधसो वत्सरे प्रत्याहाराख्ये दशकोत्तरे ।नवमे कल्पके चापि मनौ चापि द्वितीयके ॥७८॥पूर्वकालबलाल्लोके नास्तिक्यं सर्वतो ह्यभूत् ।तिष्ययुगप्रभावेण नष्टा चोपासना मम ॥७९॥मन्दिराणि विनष्टान्यायतनानि गतानि च ।प्रतिमाश्च लयं यातास्तीर्थानि नाशितानि च ॥८०॥मानवेषु तदा व्याप्तोऽभवद् वै पाशवो वृषः ।मां व्यस्मरन् चाल्पविदः स्वल्पायुषो जनास्तदा ॥८१॥गर्तवासा विवस्त्राश्च सस्यधान्यादिजीविनः ।स्वल्पमानाः स्वल्पजीवास्तिष्यनास्तिक्यसंभृताः ॥८२॥वेदा मे विलयं प्राप्ताः कर्मकाण्डो लयं गतः ।पूजनं रटनं मेऽपि कीर्तनाद्यं लयंगतम् ॥८३॥अभूतमिव संजातं तदाऽहं ब्रह्मणाऽर्थितः ।धर्मभक्तिस्थापनार्थं कृपया गोचरोऽभवम् ॥८४॥वीरशरभनृपतेर्गृहे चतुर्भुजः प्रभुः ।प्राविरासं महाशीलव्रती साधुवृषान्वितः ॥८५॥मम प्रादुर्भावकाले देवाः पुष्पादिवर्षणम् ।चक्रुर्दुन्दुभयश्चापि देवानां व्यनदँस्तदा ॥८६॥तस्य राज्ञी सौरभेयी शय्यायां मां ददर्श ह ।अगर्भजं सर्वदिव्यगुणोपेतं सुवाञ्छितम् ॥८७॥न्यवेदयद्धि सा राज्ञे पश्य बाल ममाऽन्तिके ।राजा प्राह मया देवि! संकल्पितोऽयमर्भकः ॥८८॥अयोनिजस्तव पुत्रो वर्तते तं प्रपालय ।तावत्पुत्रो जातमात्रो युवा तत्र व्यदृश्यत ॥८९॥सर्वविद्यागुणयुक्तः सर्वविज्ञानशेवधिः ।योगसिद्धिसुसंसिद्धः सर्वभाषाप्रपारगः ॥९०॥सर्वकलाप्रपूर्णश्च भक्तिमार्गाऽवबोधकः ।यज्ञोपवीतयुक्तश्च ब्रह्मचारिवृषान्वितः ॥९१॥उपादिदेश सद्धर्मान् मानवेभ्योऽतिहर्षतः ।ब्रह्मचर्यमहिंसां च सत्यमस्तेनवर्तनम् ॥९२॥शौचं सन्तोषमेवापि परेशाराधनं सदा ।व्रतं सन्तोषमेवापि क्षमां वैराग्यमित्यपि ॥९३॥वृद्धसेवां सतां सेवां परात्मसुखवर्तनम् ।दानं दयां च हवनं सत्कारं पूजनं हरेः ॥९४॥तपश्चेन्द्रियवेगानां निग्रहो मोहवर्जनम् ।सर्वात्मदर्शनं स्नेहं परमेशे परात्मनि ॥९५॥श्रवणं कीर्तनं कृष्णस्मरणं वन्दनं तथा ।आत्मनिवेदनं कृष्णे हरेः सम्बन्धमुत्तमम् ॥९६॥इत्येवं मोक्षधर्माश्चाप्युपादिदेश वै तदा ।वृत्तिं पारमहंसी च जग्राह जीवनाऽन्तिकाम् ॥९७॥त्वं च लक्ष्मि! मयाऽऽदिष्टा शार्दूलर्षेस्तु कन्यका ।मानसी तत्र संभूता जातमात्रा च वाग्मिनी ॥९८॥युवती ब्रह्मरूपा च सवैश्वर्यसमन्विता ।ब्रह्मचर्यपरा साध्वी सतीधर्माऽवबोधिका ॥९९॥साध्वीधर्ममाश्रिता च मम व्रतपरायणा ।नित्यपूजापरा भक्तिमती मोक्षकरी तथा ॥१००॥पित्रा मात्राऽर्पिता मह्यं साध्वीदीक्षार्थमेव ह ।मया दीक्षा प्रदत्ता ते त्वं सदा ब्रह्मचारिणी ॥१०१॥गुर्वी सर्वसतीनां चाऽभवः शिक्षणदायिनी ।तव शास्त्रं तदा साध्वीधर्मात्मकं ह्यभूत् प्रिये ॥१०२॥शार्दूलिकाश्रीसंहितात्मकं कल्पान्तगं तदा ।आवाभ्यां च तदा सर्वलोकेभ्यो भूतले खलु ॥१०३॥उपदिष्टा नैष्ठिकानां धर्मा भक्तिर्हरेस्तथा ।असंख्यास्तारिता जीवा अक्षरं प्रति चापिताः ॥१०४॥एतत् स्मर तदा लक्ष्मि! शार्दूलिकाश्रियं निजाम् ।स्वां तथा मामनादिश्रीवीरनारायणं हरिम् ॥१०५॥एवमन्येऽवतारा मे तदाऽभवन्नसंख्यकाः ।सर्वानहं प्रजानामि स्मरणान्मोक्षदा हि ते ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ज्योत्स्नाश्रीसमर्पिताऽनादिप्राज्ञनारायणकण्ठे वरमाला, ततो राज्ञां युद्धम्, दैत्यदानवाऽसुगणां सुदर्शनादिभिर्हरिणा कृतो विनाशः, थुरानन्दस्य मोक्षणम्, पृष्वीस्वर्गादिराज्यानां मानवेषु देवादिषु चार्पणम्, वेधसश्चैकादशे वत्सरे नैष्ठिकसाधुधर्मस्थापनार्थम् अनादिवीरनारायणस्यप्राकट्यमितिनिरूपणनामाऽष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP