संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-अहं ब्रह्म परं ज्योतिर्विष्णुरेवेति चिन्तयन् ।नारायणि भवेदत्र जीवन्मुक्तो हि मानवः ॥१॥आराधना बलं जीवे सञ्चितं वै प्रमोददम् ।आराधनायुतश्चायं याति मुक्तिं न संशयः ॥२॥विष्णौ सक्तं मनो यस्य विष्णुमेवाऽनुपश्यति ।विष्णुं ध्यायेस्त्यजेत् प्राणान् याति तत्परमं पदम् ॥३॥आराधनेन नार्यश्च कृत्वा पापानि भस्मसात् ।हरौ मग्ना ब्रह्मकान्ता लभन्ते परमां गतिम् ॥४॥मन्थनाद् दृश्यते ह्यग्निस्तद्वद् वै मननाद्धरिः ।दृश्यते गोचरस्याऽग्रे मुक्तिश्चात्रैव सा मता ॥५॥वेदात्र तं पुरुषं यं चिद्रूपं तमसः परम् ।अस्याऽहमितिमोक्षाय नान्यः पन्था विमुक्तये ॥६॥यदा सर्वे निजा भावाश्चार्प्यन्ते परमेश्वरे ।तदाऽमृतत्वमाप्नोति जीवन्नेवाऽक्षरस्थितः ॥७॥अहं ब्रह्म परं ज्योतिर्मायापारेऽस्मि सर्वथा ।मत्वैवं परमात्मानं त्वाश्रयेन्मुक्तिभाग् भवेत् ॥८॥स्मरणं पूजनं चैव प्रणामो भक्तिपूर्वकम् ।प्रत्येकमश्वमेधस्य फलाधिकफलप्रदम् ॥९॥पुरा विप्रः कौशिको वै मम भक्तिपरायणः ।सामगानरतो नित्यं करतालसमन्वितः ॥१०॥भोजनासनशय्यासु व्यवहारे विनोदने ।ममैव चरितं शश्वद्गायमानोऽभवन्मुहुः ॥११॥देवालयं समासाद्य परमेश्वरसन्निधौ ।अगायत हरिं तत्र तालवर्णलयान्वितम् ॥१२॥मूर्छनास्वरयोगेन श्रुतिभेदेन भेदितम् ।तत्रैनं गायमानं च दृष्ट्वा पद्माख्यभूसुरः ॥१३॥ददावन्नं हि भिक्षार्थं गायन्नास्ते च कौशिकः ।शृण्वन्नास्ते स पद्माख्यो नित्यं भिक्षां ददाति च ॥१४॥कौशिकस्य ततः शिष्या अभवन् बहवः खलु ।सर्वे गायन्ति वै विष्णोश्चालये कौशिकान्विताः ॥१५॥मन्दिरे मालवो नाम वैश्यस्तत्रैव भक्तिमान् ।दीपमालां हरेर्नित्यं करोति भार्यया युतः ॥१६॥गोमयेन समालिप्य हरेः क्षेत्रं समन्ततः ।भर्त्रा सहास्ते सुप्रीता शृण्वती गानमुत्तमम् ॥१७॥एवं पतिव्रता पूजाकरी भजति माधवम् ।अन्ये गायनकुशला ब्राह्मणाश्च कुशस्थलात् ॥१८॥पञ्चाशद्वै समापन्ना गानार्थं हरिमन्दिरम् ।कौशिकस्येव गानस्य पुष्टिं कुर्वन्ति तेऽपि च ॥१९॥गानविद्यार्थतत्त्वज्ञाः शृण्वन्तो ह्यवसँस्तु ते ।एवं गायनतत्त्वज्ञाः समवेता हि मन्दिरे ॥२०॥ख्यातमासीत् तत्र तस्य गानं वै कौशिकस्य तत् ।श्रुत्वा राजा कलिंगोऽपि कीर्तिं गीतिविदां तदा ॥२१॥समाययौ नमस्कारं चक्रे प्राह ततः परम् ।मम सौधे समायान्तु सर्वे वै गीतिकोविदाः ॥२२॥कौशिकोऽपि समायातु ममैव महदालयै ।मम गीतिं प्रकुर्वन्तु कौशिकाद्या ममालये ॥२३॥शृण्वन्तु का प्रजाश्चापि मम सर्वाः सुगीतिकाः ।पारितोषिकवर्याणि दास्यामि वेतनान्यपि ॥२४॥स्वर्णहीरकरौप्याणि पञ्चगुणानि वोऽधिकम् ।तच्छ्रुत्वा कौशिकः प्राह कलिङ्गं भूभृतं शनैः ॥२५॥न जिह्वा मे महाराज वाणी मेऽपि न मे मनः ।हरेरन्यदपीन्द्रं वा स्तौति नैव च वक्ष्यति ॥२६॥अन्ये च कौशिकस्यापि शिष्याः सर्वे तथाऽवदन् ।वशिष्ठो गौतमश्चापि हरिः सारस्वतस्तथा ॥२७॥चित्रश्च चित्रमाल्यश्च शिशुश्चोचुस्तथैव ते ।न वयं भगवद्भिन्नं नरं वा देवतादिकम् ॥२८॥गायामो नापि गास्यामो वयमेकान्तिनो हरेः ।अथ ये श्रावकाश्चासन् वैष्णवास्तेऽपि वै तथा ॥२९॥पार्थिवं जगदुस्तत्र राजन् वयं हि वैष्णवाः ।देहेन्द्रियमनोबुद्ध्यहंकारात्मगुणा हि नः ॥३०॥विष्णुपरा नान्यपरा वैष्णवस्यापि सेविनः ।अवैष्णवस्य संगं न कुर्वन्ति विभ्रमादपि ॥३१॥विष्णोर्वैष्णवभक्तस्य शृण्वन्ति चरितानि वै ।श्रोत्राणीमानि राजेन्द्र! तदन्यस्य न कर्हिचित् ॥३२॥गानकीर्तिं वयं हरेः शृणुमोऽन्यां न च स्तुतिम् ।अन्यैः सह व्यवहारमात्रं वच्म इव त्वया ॥३३॥न स्पृशामो वैष्णवाऽन्यं जलं स्थलं जडं चितम् ।न वदामो वैष्णवाऽन्यं पश्यामो नाप्यवैष्णवम् ॥३४॥जलान्नादि न गृह्णीमो वैष्णवाऽन्यस्य वै क्वचित् ।यदि प्राप्तं भवेत् स्यात्तद् भुञ्जामो वैष्णवाऽर्पितम् ॥३५॥तच्छ्रुत्वा पार्थिवो रुष्टस्त्वेते ममाऽवमानकाः ।प्रसह्य गापनीया वै गायन्तामिति चाऽब्रवीत् ॥३६॥मम भृत्यान् मम कीर्ति श्रावयन्तु हि कोविदाः ।इत्याज्ञां वै समाकर्ण्य वैष्णवास्ते दृढव्रताः ॥३७॥नैव जगुस्तदा राजा भृत्यानाज्ञापयन्निजान् ।गातुं निजयशो भृत्या आरेभिरे नृपाज्ञया ॥३८॥नृपश्चैव यशो गातुं तदा ते वैष्णवादयः ।अङ्गुल्यादिभिरेव द्राक् श्रोत्राणि पिदधुस्तदा ॥३९॥ततो राजा सुसंक्रुद्धः स्वदेशात् तान् विवासयत् ।गायकास्तं परित्यज्य ययुर्वै दिशमुत्तराम् ॥४०॥गायन्तः श्रीहरेर्नाम शृण्वन्तः परमेश्वरम् ।श्रावयन्तश्च ते नारायणं कृष्णं हि मानुषान् ॥४१॥हिमालयं ययुः शैत्ये कालधर्मं ततो गताः ।विष्णुः प्राह समागत्य समागच्छन्तु मामनु ॥४२॥भवन्तो मम भक्ता हि मदर्थं त्यक्तजीवनाः ।इत्युक्त्वा भगवान् विष्णुरनयत्तान् दिवं परम् ॥४३॥देवाद्यैः पूजितास्ते च. पितृभिश्चाभिवन्दिताः ।ब्रह्मलोकं गताः शीघ्रं मुहूर्तेनैव ते द्विजाः ॥४४॥कौशिकादींस्ततो दृष्ट्वा ब्रह्मा लोकपितामहः ।प्रत्युद्गम्य यथायोग्यं स्वागतेनाऽभ्यपूजयत् ॥४५॥ततो विष्णुर्हि भगवान् समादाय निजाश्रितान् ।विष्णुलोकं ययौ शीघ्रं वासुदेवः परः प्रभुः ॥४६॥वैकुण्ठे तत्र वै विष्णुर्नारायणः परेश्वरः ।मुक्तैः सिद्धैर्विष्णुभक्तैः पार्षदैः परिसेवितः ॥४७॥नारायणसमैर्दिव्यैश्चतुर्बाहुधरैः शुभैः ।विष्णुचिह्नसमापन्नैर्दीप्यमानैरकल्मषैः ॥४८॥सनकाद्यैर्नारदाद्यैर्दिव्यस्त्रीभिः समन्ततः ।विराजते सेव्यमानः सहस्रद्वारसंवृते ॥४९॥सहस्रयोजनायामे दिव्ये मणिमये शुभे ।विमाने विमले चित्रे गजपीठासने हरिः ॥५०॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।कौशिकादीन् विलोक्याऽथ हरिर्नारायणः प्रभुः ॥५१॥एकरूपो ह्यभवच्च दिव्यगजासनस्थितः ।कौशिकेत्याह सम्प्रीत्या स्वागतं कृतवाँस्तथा ॥५२॥जयघोषो हि भक्तानां तदासीद् धामगर्जनः ।भगवानाह भक्ता मे वैकुण्ठे संवसन्त्विति ॥५३॥मत्कीर्तिश्रवणे युक्ता गीतितत्त्वार्थकोविदाः ।लक्ष्मीनारायणसंहितार्थकीर्तनगायिनः ॥५४॥अनन्यदेवता भक्ता मत्समीपे वसन्त्विति ।मम धाम्नि भवन्त्वत्र पार्षदा मम शाश्वताः ॥५५॥कौशिको मालवश्चापि मालवी पद्मनेत्रकः ।तथाऽन्ये गायकाः सर्वे मम गायनसेविनः ॥५६॥मयैव सह नित्यं वै गायन्तु च वसन्तु च ।कौशिको गायनं मे वै करोतु वाद्यसंयुतम् ॥५७॥मालवोऽयं दीपमालां करोतु सह भार्यया ।पद्माक्षोऽयं धनेशो मे भवत्वेवाऽन्नसम्प्रदः ॥५८॥मम सान्निध्यमाप्ता वै सर्वे वै लोकपूजिताः ।अथैवं वदति विष्णौ क्षणे तत्र समागताः ॥५९॥विपञ्चीगुणतत्त्वज्ञा वाद्यविद्याविशारदा ।मन्दं मन्दस्मिता देवी मधुराक्षरपेशला ॥६०॥शृंगारिता गायमाना लक्ष्मीर्विष्णुपरिग्रहा ।वृता सहस्रकोटिस्वांगनाभिर्वै समन्ततः ॥६१॥तत्र स्मृता महासाध्वी सरस्वती तु शार्ङ्गिणा ।समायाता सवाद्या च सर्वशृंगारशोभना ॥६२॥राधा रमा च कमला माणिकी श्रीः सती तथा ।पद्मावती च हंसी च मंजुली सद्गुणा तथा ॥६३॥आययुस्तत्र वै देव्यो गंगा दुर्गा सवाद्यकाः ।सावित्री विरजा चाप्सरसो नारायणस्मृताः ॥६४॥उर्वश्याद्यास्तदा गीतिनृत्यलीलाविशारदाः ।मेनका सहजन्या च पर्णिनी पुञ्जिकस्थली ॥६५॥कृतस्थली घृताची च विश्वाची पूर्वचित्तिका ।अनुम्लोचा च प्रम्लोचा मनुवंती सुकेशिका ॥६६॥अरूपा सुभगा भासी हंसा सूता सरोवती ।कामली ह्यभया हंसपादी च सुमुखी दया ॥६७॥अनपायाऽरुणा वरांबरा च विमनुष्यिका ।असिपर्णा मिश्रकेशी शुचिकाऽलम्बुषा रमा ॥६८॥मारीचिश्चाद्रिका विद्युत्पर्णा तिलोत्तमा जया ।क्षेमा रंभा लक्ष्मणा चाऽसिता मनोभवाऽम्बिका ॥६९॥सुबाह्वी सुप्रिया पुण्डरीका च सुरसा प्रभा ।अजगन्धा सुदती च सुभुजा शान्तिका हिमा ॥७०॥मुक्ता देवी च हैमी च पुष्पा चम्पा सवित्रिका ।आययुश्चापि गन्धर्वाः स्मृता नारायणेन वै ।नारदः पर्वतश्चापि विश्वावसुर्वरेण्यकः ॥७१॥वसुरुचिः सुरुचिश्च वरुथश्चापि दारुणः ।हंसो ज्योतिष्टमो मध्य आचारस्तुम्बुरुस्तथा ॥७२॥सुबाहुश्च हहा हूहूः पर्जन्यश्च कलिस्तथा ।शालिशिराश्चित्ररथो भीमश्च प्रयुतस्तथा ॥७३॥अर्कपर्णः पर्णवान् सूर्यवर्चा धृतराष्ट्रकः ।गोमान् सुपर्णो वरुणश्चोग्रसेनश्च भीमकः ॥७४॥एते चान्येऽपि वाद्याद्यैरन्वितास्तत्र चाययुः ।तुम्बुरुस्तत्र गन्धर्वश्चाज्ञप्तो मम सन्निधौ ॥७५॥लक्ष्मि! त्वां गायिकां पश्यन् नेमे त्वां मां ततः परम् ।तत्रासीनो यथायोगं नानामूर्छासमन्वितम् ॥७६॥जगौ कलपदं हृष्टो विपञ्चीं चाभ्यवादयत् ।श्रेष्ठं गानं प्रगायैव प्रसादितः परेश्वरः ॥७७॥ददौ रत्नानि दिव्यान्याभरणान्यम्बराणि च ।तुम्बुरवे ह्यमूल्यानि हृष्टश्च तुम्बुरुस्ततः ॥७८॥॥प्रशंसितः स हरिणा तुम्बुरुस्तत्र चाग्रगः ।अन्ये जगुश्च गन्धर्वा बहवस्तद्यथाबलम् ॥७९॥यथाज्ञानं यथाऽभ्यासं जगुर्वाद्यस्वरादिभिः ।लेभिरे तेऽपि वै तत्र पारितोषिकमुत्तमम् ॥८०॥तथापि तुम्बुरुतुल्यं न तद्वै पारितोषिकम् ।अप्सरसस्ततः सर्वाः प्रजगुर्वाद्यसाधनाः ॥८१॥लक्ष्मीर्जगौ तथादेवी सरस्वती जगौ ततः ।उत्तमं ते लब्धवत्यौ पारितोषिकमित्यपि ॥८२॥उर्वशी प्रजगौ रम्यं सर्वरञ्जनकारकम् ।अन्याश्चापि यथाशक्ति जगुर्नृत्यसमन्विताः ॥८३॥भगवान् श्रीहरिश्चाहं प्रसन्नश्चाऽभवं तदा ।दत्तवान् हीरकरत्नाम्बरभूषासुमालिकाः ॥८४॥सर्वे सर्वाश्च सन्तुष्टास्ततो वै नारदो जगौ ।दत्तवाँश्चोत्तमं तस्मै पारितोषिकमित्यपि ॥८५॥मनाङ्न्यूनं तुम्बुरोस्तु तेन तुष्टो न नारदः ।गायनेऽपि न सम्पूर्णो यतस्तापमवाप्तवान् ॥८६॥चिन्तामापेदिवाँस्तत्र शोकाकुलान्तरोऽभवत् ।कदाऽहं गायनं कृत्वा सर्वोत्तमोत्तमोत्तमम् ॥८७॥लप्स्ये हरेः सकाशाद्वै पारितोषिकमुत्तमम् ।श्रेष्ठं तुम्बुरुणा प्राप्तं धिङ्मां मूढं विचेतसम् ॥८८॥इति सञ्चिन्तयन् विप्रस्तप आस्थितवान् मुनिः ।दिव्यं वर्षसहस्रं तु नारदः श्रीहरिं स्मरन् ॥८९॥ततो गीतिं कलां सर्वां तुम्बुरोरप्यवागमत् ।ज्ञात्वा सर्वं तुम्बुरोश्च जगौ नारायणं प्रति ॥९०॥बहुमन्वन्तरे काले प्रसन्नः पुरुषोत्तमः ।हरिर्नारायणो देवस्तस्मै सर्वं ददौ शुभम् ॥९१॥पारितोषिकमुत्कृष्टं समं चक्रे च तुम्बुरोः ।एवं श्रीभगवद्दासी वधूर्नारायणस्य वै ॥९२॥लक्ष्मीर्यथा हरेरर्थे सर्वार्पणं चकार ह ।यथा च तुम्बुरुश्चापि नारदश्च यथापि च ॥९३॥यथा च कौशिको विप्रो यथा पद्माक्षको द्विजः ।यथा च मालवी पत्नी मालवश्च पतिस्तथा ॥९४॥यथाऽन्ये गायका विप्राः कृतवन्तोऽर्पणं हरौ ।तथा सर्वार्पणं कार्यं परमेशे जनार्दने ॥९५॥इंद्रियाणां वृत्तयश्च व्यापाराश्च क्रियास्तथा ।मदर्थमेव कर्तव्यास्तेन तुष्यामि सर्वदा ॥९६॥दर्शनं श्रवणं चापि स्पर्शनं गायनादिकम् ।नृत्यं हास्यं मदर्थं वै भक्त्या कर्तव्यमेव ह ॥९७॥मद्भक्तेभ्यः प्रदातव्यं भोजनं वारि चाम्बरम् ।गृहं शय्यासनं यानं वाहनं वाटिका स्थलम् ॥९८॥यथाशक्ति प्रदातव्यं जायते तोषणाय मे ।भुक्तिमुक्तिफलं तच्च भवत्येव न संशयः ॥९९॥'लक्ष्मि संश्रवणाच्चापि मननाच्छ्रावणादपि ।फलं नारदतुल्यं वै प्राप्येत नात्र संशयः ॥१००॥लक्ष्मीतुल्यं फलं नारी वधूः सरस्वतीसमम् ।जना गायकतुल्यं च विन्देयुर्नात्र संशयः ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां कौशिकादिगायकदृष्टान्तेन वैष्णवोत्तमत्वनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP