संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां चान्यां वदाम्यहम् ।हर्षधर्माभिधो भक्तो नापितः पार्वतीपुरे ॥१॥न्यवसत् सकुटुम्बो वै राजभृत्यत्वकर्मवान् ।राजा नाम्नाऽभवत्तत्र स्वर्णधन्वेतिशासकः ॥२॥तस्य सेवां करोत्येषो नापितः सकुटुम्बकः ।नापितस्याऽभवद्भार्या नाम्ना निगमिका सती ॥३॥पातिव्रत्यपरा विष्णुभक्तिपरा सुधार्मिकी ।व्रतदानजपसेवापरा नारायणे रता ॥४॥साधुसेवातत्परा च दिव्यभाववती सदा ।पुत्राः पञ्चाऽभवँस्तस्याः पञ्चपुत्र्यश्च शोभनाः ॥५॥सर्वे ते भगवद्भक्ता वैष्णवा भक्तिशालिनः ।रटन्ति मां हरिकृष्णं गोपिपतिं श्रियः पतिम् ॥६॥भजन्ते सततं चापि गृहेऽर्चननिवेदनैः ।षोडशोपचारकैश्च नित्यं मामर्चयन्ति ते ॥७॥मूर्तौ स्थित्वा सदा तेषां पूजां गृह्णामि प्रीतिमान् ।नापितोऽपि सदा स्नात्वा पूजां कृत्वा च मे ततः ॥८॥नैवेद्यं मे समर्प्यैव भुक्त्वा याति नृपालयम् ।नृपं संसेवते सर्वात्मना भृत्यो हि नापित ॥९॥नापितस्य तथा पुत्राः पुत्र्यो राजकुटुम्बिनः ।सेवन्ते च यथायोग्यं कृत्वा मत्पूजनादिकम् ॥१०॥प्रत्यहं नापितभार्या प्रातर्निगमिका तु सा ।प्रथमं वै समुत्थाय स्नात्वा गृहादिशोधनम् ॥११॥कृत्वा मत्वा जलं चोष्णं कृत्वा संस्नाप्य केशवम् ।शालग्रामं तु मां चापि प्रपूज्य सर्ववस्तुभिः ॥१२॥फलं चान्नं च मिष्टान्नं रोटकं दधि दुग्धकम् ।शुभं चोष्णं विधायैव पिच्छलं मेऽर्पयत्यपि ॥१३॥ततो निराजनं कृत्वा परिहारं करोति च ।पतिमुत्थाप्य संस्नाप्य पतिपादोदकं तथा ॥१४॥कृष्णपादोदकं पीत्वा पतिं सम्पूजयत्यपि ।समर्पयति पश्चाच्च पतीष्टं यदपेक्षितम् ॥१-९॥ततोऽतिथये साधुभ्योऽनाथेभ्योऽपि प्रयच्छति ।अन्नं जलं यथायोग्यं समर्प्य च गवेऽपि च ॥१६॥सूर्याय च जलं दत्वा विष्णवेऽर्घ्यं समर्प्य च ।दत्वा पिष्टं पिपीलिकाकुलाय च ततः परम् ॥१७॥पितृभ्यश्चापि दत्वैव यत्सर्वं शुद्धिमत् पुनः ।पतये भोजनाद्यं च जलं समर्प्य वै ततः ॥१८॥पुत्र्यादिभ्यः समर्प्यैव भोजनं च जलं फलम् ।स्वयं भुंक्ते निगमिका प्रसादं त्ववशेषितम् ॥१९॥कवले कवले कृष्णनारायणाय चार्पये ।इति स्मृत्वा प्रभुंक्ते सा जलं पिबति वै तथा ॥२०॥मध्ये श्वा नकुलः कीशः शुकश्चटका गौर्वृषः ।मार्जारिकाऽपि चागच्छेद् दत्वा तेभ्योऽत्ति नान्यथा ॥२१॥एवंविधा तु भक्ता सा श्रीकृष्णस्येव दासिका ।गृहकार्याणि सम्पाद्य प्रातरेव सुवेगिनी ॥२२॥राज्ञ्यालयं प्रयात्येव निगमिकाऽतिधार्मिकी ।राज्ञीं नाम्ना पञ्चदेवीं सुप्तां शयनगां शनै ॥२३॥सम्मर्दयति चांगेषु संवाहयति पादयोः ।राज्ञ्याः कृते जलं चोष्णं सम्पादयति सत्वरम् ॥२४॥दन्तधावनचूर्णं च जलगण्डूषकादिकम् ।शौचाद्यं निर्वर्तयति संस्नापयति वारिभिः ॥२५॥सुगन्धमर्दनं चापि देहशोधनमित्यपि ।केशसंस्करणं चापि केशवेषादिशोभनम् ॥२६॥शृंगारवेषभूषादिधारणं कज्जलाञ्जनम् ।अलक्तकप्रदानं च नखोष्ठादिप्ररञ्जनम् ॥२७॥सर्वं यथावद् दत्वैव पूजयित्वा श्रियं यथा ।व्यजनेन महाराज्ञीं प्रसन्नयति वायुदा ॥२८॥गृहकार्यं समस्तं च निष्पादयति शोभनम् ।माध्याह्निकं तथा सायंतनीयं सेवनादिकम् ॥२९॥राज्ञ्यास्ताम्बूलदानान्तं सम्पादयति नापिती ।शय्यां कुसुमगन्धाढ्यां समास्तृणाति नित्यशः ॥३०॥राज्ञी स्वपिति सुखिनी सम्वाहयति नापिती ।राज्ञी निद्रां करोत्येव गाढां प्रयाति नापिती ॥३१॥गृहे गत्वा पतिसेवां पादसम्वाहनात्मिकाम् ।करोत्यपि च नित्यं वै ततः स्वपिति नापिती ॥३२॥कृतभूपसुसेवश्च पतिस्त्वर्धनिशाऽत्यये ।नित्यं गृहं समायाति सेवते नापिती ततः ॥३३॥धन्या श्रद्धा सेवकानां तत्रापि दाससेविनाम् ।तत्रापि योषितां लक्ष्मि पातिव्रत्याऽन्वितात्मनाम् ॥३४॥कर्मबन्धनलोकोऽयं कर्माधीनः करोति हि ।निष्कामभाववशगः कश्चित् करोति भक्तराट् ॥३५॥नापिती नापितश्चोभौ जानीतः कर्मबन्धनम् ।राजसेवा कर्मबन्धं उद्यमोऽयं धनाप्तये ॥३६॥उपार्जनं विना देहयात्रा नैव हि सिद्ध्यति ।अन्नं धनं च वस्त्रं च लभ्यते राजसेवया ॥३७॥तथापि भक्तिमन्तौ तौ मृषासेवाद्यपेक्षया ।मम सेवां हि कुरुतः शाश्वतानन्दवाञ्च्छया ॥३८॥देहेन्द्रियार्थं कर्तव्यं कर्मवशेन देहिना ।आत्मार्थं तु प्रकर्तव्यं ज्ञानेन तु मुमुक्षुणा ॥३९॥श्रीहर्यर्थं तु कर्तव्यं सर्वार्पणेन भाविना ।एवं मत्वा तु कुरुतः सेवनं मम तौ सदा ॥४०॥राजगृहेऽपि कुरुतो भजनं मम तौ सदा ।कीर्तनं कुरुतो मेऽपि गोपीगीतं पुनः पुनः ॥४१॥रासलीलां च वदतः कथां च कुरुतो मम ।राज्ञी राजा तु तच्छ्रुत्वा निद्रितः कृष्णमानसौ ॥४२॥एवं भजेते चान्याँश्च भक्तिं कारयतोऽपि च ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥४३॥जपतो जापयतश्च कृष्ण कृष्ण मुहुर्मुहुः ।एवं भक्तिमतोर्नित्यं नियमो राजसेवने ॥४४॥वर्तते त्वेकदा सायं नापिते निर्गते गृहात् ।राज्ञस्तस्यैव सेवायामुपस्थिते गृहे ह्यनु ॥४५॥नापितान्यास्तु वै निर्गमस्य क्षणे हि साधवः ।साध्व्यश्चापि दशसंख्या महीमानाः समाययुः ॥४६॥महाभाग्येन पुण्येन महताऽऽयान्ति साधवः ।साधूनां स्वागतार्थं वै सर्वं कर्तव्यमादरात् ॥४७॥शतकार्याणि सन्त्यज्य साधुसेवां समाचरेत् ।आतिथेयः परो धर्मो गृहस्थानां सदा मतः ॥४८॥तत्रापि च सतां साध्वीनां कृते चोत्तमो वृषः ।सर्वं विहाय सेवायां वर्तितव्यमिति ध्रुवः ॥४९॥मोक्षार्थं मानवो देहो मोक्षार्थं साधवो भुवि ।तेषां योगे तु सर्वस्वं चार्पणीयं द्रुतं जनैः ॥५०॥अन्यथा मानवे देहे को लाभः सेवनं विना ।यद्गृहेऽतिथयो यान्ति तुष्यन्ति स्वागतादिभिः ॥५१॥तद्गृहं पावनं लक्ष्मीनिवासार्हं सदा भवेत् ।यद्गृहेऽतिथयो भग्नमानसा वै भवन्ति चेत् ॥५२॥असत्कृता असन्तुष्टास्तद्गृहं दग्धवत् स्मृतम् ।पुण्यहीनं भवत्येव लक्ष्मीसम्पद्विवर्जितम् ॥५३॥यद्गृहं साधुसन्यासियतियोगिकृताश्रयम् ।तद्गृहं देववसतिर्दिव्यं तीर्थोत्तमं सदा ॥५४॥यद्गृहे साधवो नैव नैवातिथिप्रसेवनम् ।श्मशानं तद्गृहं प्रोक्तं सूतकं तत्र वै सदा ॥५५॥यद्गृहे साधवः सन्ति तद्गृहे सन्ति देवताः ।विघ्नाः सर्वे निवर्तन्ते वसन्ति तत्र सिद्धयः ॥५६॥तीर्थानि तत्र चायान्ति साधूनां पादवाञ्च्छया ।अनादिश्रीकृष्णनारायणस्तत्र विराजते ॥५७॥यत्र नारायणस्तत्र राधिका कमला रमा ।मुक्तास्तत्र वसन्त्येव दिव्यदेहा हरिप्रियाः ॥५८॥यत्कुटुम्बे कृपा साधोस्तत्कुटुम्बं विदेहवत् ।मुक्ततां भजमानं वै दिव्यं पापहरं मतम् ॥५९॥वैष्णवं च वरिष्ठं च मोक्षदं तत्कुटुम्बकम् ।यद्गृहे साधवो धीरा भुञ्जते च पिबन्ति च ॥६०॥स्वपन्ति कीर्तयन्तीशेश्वरनाम नरायणम् ।पुत्राः पुत्र्यः स्त्रियश्चापि सेवन्ते यान्ति दिव्यताम् ॥६१॥सर्वे मुक्ता भवन्त्येव साधुसत्संगलाभतः ।साधुसेवा ह्यक्षयोऽस्ति कोशस्त्वन्यस्तु सक्षयः ॥६२॥तस्मात् साधून् सेवयित्वा भोजयित्वा तथा पुनः ।शाययित्वा तदाज्ञां संलब्ध्वा यास्यामि वै ततः ॥६३॥राज्ञ्याः सेवार्थमेवाऽहं चेति निश्चित्य नापिती ।चक्रे सतां स्वागतं च मधुपर्कं ददौ मुदा ॥६४॥आसनानि ददौ चापि समिधश्च ददौ जलम् ।फलं तथा च मिष्टान्नमुष्णं कृत्वा ददौ मुदा ॥६५॥भोजयामास सर्वाश्च साधून् साध्वीस्ततश्च सा ।देहसंवाहनं चापि साध्वीनां च सतामपि ॥६६॥चक्रे धैर्येण निरता कीर्तयन्त्यपि साधवः ।सत्यः साध्व्यः कीर्तयन्ति रात्र्यर्धं विगतं ततः ॥६७॥सर्वे सुप्ताः साधवश्च साध्व्यश्चाऽथ तु नापिती ।चिन्तां चक्रे मनाग् राज्ञ्याः सेवां कर्तुं सुसत्वरा ॥६८॥नत्वा चाज्ञां गृहीत्वा च ययौ राज्ञीं प्रति द्रुतम् ।अथ राज्ञ्यपि समये विगतेऽपि तु नापिती ॥६९॥नाऽऽगतेति महाक्रुद्धा दण्डं दातुं समिच्छति ।श्वः सर्वस्वं हरेयं वै नापितान्या मयाऽर्पितम् ॥७०॥निष्कासयिष्ये ग्रामाद्वा करिष्ये निगडे स्थिताम् ।एवं क्रुद्धा ह्यभवत्सा जानातीदं स्वयं प्रभुः ॥७१॥लक्ष्मि तदाऽहं भगवान् निशाद्यप्रहरे द्रुतम् ।भक्ताया नापितान्या वै रूपं धृत्वा सुशोभनाम् ॥७२॥क्रुद्धाराज्ञ्याः प्रशान्त्यर्थं सेवार्थं प्रमदाऽगमम् ।विचार्येत्थं मम भक्ता साधून् साध्वीः प्रसेवते ॥७३॥भक्ताया जीविकानाशं राज्ञी क्रुद्धा करिष्यति ।तन्मा भून्मम भक्तायाः सेविकायाः सतां तथा ॥७४॥मया रक्षयितव्येयं भक्ता मे धर्मशालिनी ।कुटुम्बं च समस्तं तद् रक्षणीयं हि भक्तिमत् ॥७५॥विचार्येत्थं भक्तरक्षाकरश्चाऽहं तु नापिती ।भूत्वा निशाद्यप्रहरे ययौ राज्ञीगृहं द्रुतम् ॥७६॥राज्ञ्याः समस्तसेवास्तु कुशलिन्या मया कृता ।नारीरूपेण रात्र्यां वै शृंगारो भोजनादिकम् ॥७७॥पात्राणां शुद्धिकरणं पानं भक्ष्यं सुगन्धि च ।शय्याविधानं रम्यं च ताम्बुलाद्यर्पणं तथा ॥७८॥राज्ञ्या देहस्य सम्यग् वै संवाहनं सुमर्दनम् ।व्यजनेन पवनस्याऽर्पणं वार्ताप्रलापनम् ॥७९॥उपदेशादिकं सर्वं कृतं मया तदा निशि ।शृणु लक्ष्मि चोपदेशं कृतवानहमेव यम् ॥८०॥शास्त्रकथा श्रवणीया गुरुः पूज्यो हि सर्वथा ।दानं देयं तथा राज्ञ्या श्रद्धया धर्मयोषिता ॥८१॥अनादिश्रीकृष्णनारायणः सेव्यः सदा धिया ।अहन्ताममते त्याज्ये गर्वः कार्यो न सर्वथा ॥८२॥दीनानां रक्षणं कार्यं क्रोधः कार्यो न भृत्यके ।दासीषु च कृपा कार्या न हर्तव्यं क्षतावपि ॥८३॥अन्नं धनं गृहं वापि सेवाक्षतावपि क्वचित् ।भजनीयः परमात्मा राज्ञ्या तस्यां कृपा हरेः ॥८४॥भवत्येव सदा तेन मोक्षोऽक्षरे प्रजायते ।निरञ्जना महामुक्ता जायते कृष्णसदृशी ॥८५॥न बद्ध्यते रमावत् सा कर्मभिश्च शुभाऽशुभैः ।अतिस्नेहेन लक्ष्मीवत् प्राप्नोत्यैक्यं हरौ तु सा ॥८६॥यद्वा प्रसेवते भक्त्या पत्नी भूत्वा पृथक् स्थिता ।हरेः कृपया कार्येषु स्वतन्त्रा जायते सदा ॥८७॥ब्रह्मनिष्ठा ब्रह्मशीला मुक्तिमाप्नोति चाऽक्षरे ।या तु भोगपरा राज्ञी कृष्णसेवाविवर्जिता ॥८८॥सा तु मृत्वा दिवं गत्वा भुक्त्वा मर्त्येऽत्र जायते ।मानुष्येवं बहुजन्मसिद्धा भक्त्या तु मोक्ष्यते ॥८९॥साधोर्गुरोः कृपया च यास्यत्यन्तेऽक्षरं पदम् ।कृपया श्रीहरेरत्र क्षयं यान्ति हि वासनाः ॥९०॥कृत्वा सत्संगमेवाऽत्र भजित्वा परमेश्वरम् ।मानुष्यं सार्थकं कुर्यान्मोक्षात्मनित्यराज्यदम् ॥९१॥आत्माऽयं ब्रह्मरूपोऽस्ति कृष्णं पश्येद्धि तत्र च ।एवं लक्ष्मि तूपदिश्य तां राज्ञीं संप्रसेव्य च ॥९२॥जाग्रद्वन्निद्रितां कृत्वा निरगमं तदालयात् ।तावत्तत्र समायाता नापितानी निशार्धके ॥९३॥सेवितुं तां महाराज्ञीं कम्पमाना भयान्विता ।शय्यास्थले ह्युपस्थित्वा क्षमामयाचताऽऽनता ॥९४॥महीमानप्रसंगेन कालो मे विगतो बहुः ।महाराज्ञ्या क्षमा कार्या सेवायां नाहमागता ॥९५॥श्रुत्वाऽऽश्चर्यं परं प्राप्ता राज्ञी सन्देहमागता ।या सेवित्वा गता भृत्या सेयं पुनः कथं ननु ॥९६॥समायाता याचते च क्षमां विनाऽपराधनम् ।विचार्येत्थं जगादैनां नापिति त्वं कथं पुनः ॥९७॥समायाता क्षमायाञ्चां कुरुषे च कथं वद ।इदानीं त्वं समस्तं मे नैशिकं सेवनादिकम् ॥९८॥कृत्वा यासि निजं गेहं कथं वै याचसे क्षमाम् ।नापिती प्राह नाहं वै त्वागता सेवनेऽद्य वै ॥९९॥अस्मिन् क्षणे समायामि किं भ्रान्ता वदसीव माम् ।पूज्ये मा कुरु नर्मैवं नाहमत्र स्थिताऽभवम् ॥१००॥अन्यया तु कयाचित्ते कृता सेवा हि सा भवेत् ।श्रुत्वैवं भ्रान्तिमगमद् राज्ञी क्षणं ततः सुखम् ॥१०१॥विसृज्य नापितीं निद्रां जगाम सा प्रजेश्वरी ।अथ सा नापिती नैजं गेहं याति तु यावता ॥१०२॥तावता स्वगृहे नारीं ददर्श बहुरूपिणीम् ।रूपेण वयसा वेषेणापि स्वसदृशीं तदा ॥१०३॥क्षणमाश्चर्यमापन्ना पप्रच्छ स्मेरशोभनाम् ।का त्वं कथं कुतश्चात्र मद्गृहे कमलासमा ॥१०४॥अहं लक्ष्मि तदा नैजं रूपं व्यावृत्त्य सुन्दरम् ।अनादिश्रीकृष्णनारायणं विष्णुमदर्शयम् ॥१०५॥तवार्थे नापितीरूपे भूत्वाहं तामसेवयम् ।त्वया तु सेविताः सन्तो राज्ञी क्रुद्धाऽभवत्तदा ॥१०६॥असेवया तव सर्वं हर्तव्यं निश्चिकाय सा ।मया धृत्वा तव रूपं सेविता सा प्रजेश्वरी ॥१०७॥भक्तेऽहं भगवानस्मि श्रेयोऽर्थः तव चागतः ।त्वं पतिपुत्रपुत्र्याद्यैः सहिताऽसि सदा मम ॥१०८॥नित्यं ध्यानं ममैवं त्वं समाचर हि गोचरम् ।नेष्यामि मत्परं धाम कुटुम्बं तव गोचरम् ॥१०९॥इत्युक्त्वाऽहं तया रुद्धः शय्यायामभवं क्षणम् ।ममाऽऽनन्दं परं दत्वा तिरोऽभवं क्षणान्तरे ॥११०॥स्वप्ने तु नापितः पुत्राः पुत्र्यश्च साधवोऽपि च ।सर्वे मां ते व्यपश्यन् वै प्रातर्जजागरुश्च ते ॥१११॥परस्परं हरेर्मूर्तेर्वर्णनं दर्शनात्मकम् ।चक्रुस्ते मेनिरे भाग्यं श्रेष्ठं यद् ब्रह्मदर्शनम् ॥११२॥अथ प्रातः पुनः स्नात्वा भुक्त्वा ते साधवो ययुः ।ग्रामान्तरं च सा नापितानी दिव्यकुटुम्बिनी ॥११३॥भजते मां नापितोऽपि भजते तत्कुटुम्बकम् ।अथ कालान्तरे सर्वाननयं सद्विमानकैः ॥११४॥धामाऽक्षरं परं मे वै लक्ष्मि कृपावशो हरिः ।राजा राज्ञ्यादयश्चापि मेनिरे चरितं मम ॥११५॥दिव्यं तदिति निश्चित्य भेजुर्मां सप्रजा हि तम् ।तेऽपि कालान्तरे धामाऽक्षरं ययुर्ममोत्तमम् ॥११६॥एवं लक्ष्मि मया भक्ता उद्धारिताः कृपालुना ।साधोः कल्याणधाम्नाख्यस्यापि सेवामिषेण ह ॥११७॥पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत्तथा ।यथेष्टकामनापूर्तिर्भवेन्मे कृपया रमे ॥११८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्वर्णधन्वनृपतेः सेवकस्य हर्षधर्मनामकनापितस्य पत्न्या निगमिकानाम्न्या भक्त्या कल्याणधामादिसाधुसाध्वीसेवायां स्थितायाः सेवया सम्प्रसन्नो भगवान् निगमिकारूपो भूत्वा राज्ञीसेवामकरोत्, नापितकुटुम्बस्य रक्षणं मोक्षणं चाऽकरोदित्यादिनिरूपणनामाऽष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥२२८॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP