संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १४३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १४३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-परमेश कृपासिन्धो कृते धर्माः पृथग्विधाः ।त्रेतायां च ततोऽप्यन्ये भवता पूर्वमीरिताः ॥१॥द्वापरे कीदृशाः सन्ति यत्र लोकाश्च श्रद्धया ।प्रवर्तमाना धर्मार्थकाममोक्षान् प्रयन्ति वै ॥२॥मन्त्रान्नामानि भक्तिं च कुर्वाणास्ते कथंविधाः ।सत्यहीना अपि मुक्तिं व्रजिष्यन्ति दिवं च वा ॥३॥श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं सत्यधर्मास्तु मुक्तिदाः ।त्रेताधर्माः स्वभावात्त महैश्वर्यप्रदत्वतः ॥४॥प्रददत्यैश्वरान् लोकान् भौमवैराजवैष्णवान् ।द्वापरस्य वृषा लक्ष्मि निकृष्टा कल्मषस्पृशः ॥५॥तन्नाशार्थं कृष्णरूपो भवामि द्वापरे मुहुः ।मम योगेन पापा वै तरन्ति साधुसंगमात् ॥६॥शृणु द्वापरधर्माणि ह्रासं गतानि पूर्वतः ।यत्र भक्तिप्रधाना वै तरन्ति नेतरे जनाः ॥७॥त्रेतासिद्धयः सर्वास्तु नश्यन्ति द्वापरे युगे ।लोभौ धैर्यरहितत्वं वाणिज्यं कपटान्वितम् ॥८॥अतत्त्वनिश्चयश्चापि वर्णानां ध्वंस इत्यपि ।विपर्ययस्तु सर्वेषु कर्मणां स्वस्वयोगिनाम् ॥९॥यात्रा वधः परो दण्डो मानो दर्पो बलं क्षतिः ।अक्षमा च रजस्तमो भूयो द्वापरके युगे ॥१०॥आश्रमाश्चापि धर्मार्थाः संकीर्यन्ते वृषाऽवराः ।श्रुतिशास्त्रेषु वैमत्यं बहुतर्ककृतार्थता ॥११॥द्वैधमुत्पद्यते तेन निश्चयो नाधिगम्यते ।अनिर्णीतार्थयोगेन धर्मतत्त्वं हसत्यपि ॥१२॥वैमत्येन कृतो धर्मो व्याकूलश्चावसीदति ।वेदश्चतुर्धा कृष्णेन व्यासेन व्यस्यते ततः ॥१३॥ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः ।संहिता नूतनाश्चापि जायन्ते तु महर्षिभिः ॥१४॥द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः ।एवमाध्वर्यवं कर्म प्रस्थानैर्विविधैस्ततः ॥१५॥विकल्पैः संक्षयैश्चापि गौणैर्मुख्यैः प्रकाण्डकैः ।विभिन्नगुणकं तत्र तत्र देशे प्रवर्तते ॥१६॥एवं श्रद्धा च विश्वासो धारणा भावनाऽर्हणा ।नश्यन्ति कालयोगेन सत्यं चापि विनश्यति ॥१७॥नियाम्यत्वं स्थितिश्चात्र नीतिर्नश्यन्ति छद्मिनी ।कापट्यं चाप्यसत्यं च प्रतारित्वं विवर्धते ॥१८॥एवं विपर्ययोत्पन्ना कुदृष्टिर्द्वापरे भवेत् ।मरणं विघ्नजातानि जायन्ते च मुहुर्मुहुः ॥१९॥उपद्रवा व्याधयश्च चिन्ताश्चाकस्मिकोद्भवाः ।विषयाभिसन्धयश्च जायन्ते द्वापरेऽधिकाः ॥२०॥वृक्षगुल्मौषधयश्च प्रसह्य तु यथाबलम् ।स्वकीयाश्च प्रकुर्वन्ति प्रजास्तु द्वापरे तदा ॥२१॥ओषधयो विलोक्यैतत् प्रविष्टास्तु धरां प्रति ।फालकृष्टाः प्ररोहन्ति द्वापरे वै ततः परम् ॥२२॥मध्ये तु द्वापरे तत्र नारोहन्त्योषधीगणाः ।विना बीजं तदा बीजकृषिः समन्ततो भवेत् ॥२३॥बीजं मूलं च शाखां च कन्दं दण्डं च नालकम् ।फलं पत्रं मञ्जरीं च ग्रन्थिं तदंकुरं च वा ॥२४॥जटां त्वचं च काण्डं च रोपयन्ति तदा क्षितौ ।तद्वंशा ओषधयस्ता जायन्ते द्वापरे ततः ॥२५॥जीविका तदधीना च सर्वेषां जायते तदा ।व्यापाराश्चौषधीनां च जायन्ते द्वापरे ततः ॥२६॥अन्यथा जीवितं तासां नास्ति त्रेतायुगात्यये ।वार्तावृत्तिं कृषिं चापि वाणिज्यं चाश्रयन्ति ते ॥२७॥हस्तोद्भवा आपश्चापि भवन्ति भूखनेस्तदा ।कूपाश्च दीर्घिकाश्चापि प्रवर्तन्ते तदाऽभितः ॥२८॥स्वत्वयुक्ता बलिनश्च प्रजायन्तेऽधिपास्तदा ।दुर्बला जनहीनाश्च स्वत्वहीना भवन्ति च ॥२९॥लुट्यन्ते बलिभिर्वृक्षवल्लीप्रभृतिजीविकाः ।स्त्रियः क्षेत्राणि पुत्र्यश्च सुता धनानि धेनवः ॥३०॥मर्यादायाः प्रतिष्ठार्थं ब्रह्मा क्षत्रं महाबलम् ।क्षतात् त्रातुं प्रजामूर्ध्नि स्थापयत्येव भूभृतम् ॥३१॥वर्णाश्रमप्रतिष्ठां च करोति निर्भयां तदा ।अवृष्टिर्मरणं व्याधिः प्रवर्तन्तेऽभितस्तदा ॥३२॥धर्मसर्गो यथा चास्ते तथा चाऽधर्मसर्गकः ।समतुलो द्वापरे वै मानवेषु प्रवर्तते ॥३३॥अर्धद्वापरपर्यन्तं त्रेताधर्माः क्वचित् क्वचित् ।विद्यन्ते तेऽपि नश्यन्ति द्वापरार्धे गते सति ॥३४॥सत्यं चानृतसहितं चाऽस्तेयं स्तेयमिश्रितम् ।अहिंसा हिंसया मिश्रा शीलं दुःशीलयोजितम् ॥३५॥परिग्रहो लोभयुक्तो नीतिरन्यायसंस्पृशा ।शौचं चाऽशौचसंस्पृष्टं सन्तोषस्तृष्णिकान्वितः ॥३६॥तपः प्रशंसासंभिन्नं स्वाध्यायो धनकामनः ।ईशध्यानं कष्टनाशार्थकं भक्तिर्निजार्थिकी ॥३७॥सुतदारादिकं चार्धस्वार्थं चार्धवृषार्थकम् ।भृत्यास्तथाविधाश्चार्धस्वार्थाश्चार्धपरार्थकाः ॥३८॥राजानोऽपि निजस्याऽर्धस्वार्थाश्चार्धपरार्थकाः ।ऋषयोपि तथा चार्धस्वार्थतपःपरायणाः ॥३९॥द्वापरे सम्प्रजायन्ते सम्बन्धाश्चार्धनैजिकाः ।धर्मकार्याणि यज्ञाश्च स्वार्धार्थसाधकार्थकाः ॥४०॥वृष्ट्या चार्धं कूपजलैरर्धं भोज्यान्नमीयते ।द्वापरोत्तरभागे वै निश्चितायुर्न विद्यते ॥४१॥वृद्धे जीवति पुत्राद्या म्रियन्तेऽर्धानृता यतः ।वृक्षाश्चार्धाः फलन्त्येव वल्लिकाश्च स्त्रियस्तथा ॥४२॥पुरुषाश्चार्धधृतयो भवन्ति द्वापरार्धके ।अर्धविश्वासिनो लोका मिथो व्यवहरन्ति च ॥४३॥जायमाने शुभे कार्ये तदर्थं फलति ध्रुवम् ।नदीवेगास्तथार्धापः ऋतवश्चार्धसत्फलाः ॥४४॥त्रेतार्धायुष्यजनताः क्वचित् क्वचिद्भवन्ति च ।संकल्पात् सत्ययुगे वै सृष्टिरस्ति स्थले स्थले ॥४५॥त्रेतायां दर्शनाच्चापि सृष्टिरीतिः प्रवर्तते ।त्रेतान्ते स्पर्शनात् सृष्टिर्द्वापरे मिथुनादपि ॥४६॥द्वापरार्धे गते सृष्टिर्मिथुनाद् विफला क्वचित् ।एवं सर्वा हि खनयो बीजाधान्यो भवन्ति वै ॥४७॥पुरुषा मोघवीर्याश्च वासनार्धप्रवर्तनाः ।विषयार्धकृतस्नेहाः प्रवर्तन्तेऽर्धरागतः ॥४८॥अर्धरुग्णाः प्रजाश्चापि बलार्धवत्य इत्यथ ।अर्धह्रस्वाः पूर्वतश्च प्रवर्तन्ते द्वये युगे ॥४९॥मन्त्राश्चार्धं फलन्त्येव गुरवश्चार्धबोधिनः ।दानं व्रतं दया धर्मश्चार्धभावं भजन्ति वै ॥५०॥शिष्याश्चार्धनिदेशस्था वर्तन्तेऽर्धस्वमानिनः ।नार्यश्चार्धं पातिव्रत्यं समास्थाय वधूटिकाः ॥५१॥कुटुम्बं सर्वमेवाऽत्र द्वापरेऽर्धार्थसाधकम् ।आश्रमाश्चाऽर्धवृषिणो वर्णाश्चार्धनिजप्रथाः ॥५२॥देवाश्चार्धफलदाश्च स्वामिनोऽर्धसुरक्षिणः ।युद्धेषु चार्धविजयश्चार्धभटाः ऋतंजयाः ॥५३॥प्रधानाश्चार्धगौणाश्च राज्यं चार्धं प्रकाशते ।भाग्यं चार्धं फलत्येव निर्णयोऽर्धऋतंभरः ॥५४॥अर्धरसाः प्रजायन्ते पूर्णरसाढ्यमूलिनः ।द्वापरे शपथाश्चापि लक्ष्मि चार्धयथार्थकाः ॥५५॥वचनानि श्रेष्ठिनां च तथैवाऽर्धस्थिराणि च ।विश्वासो महतां चापि तथैवार्धकृतास्पदः ॥५६॥सत्यलोकाद्धि सिद्धनामर्धाः सर्वत्र गामिनः ।पितरश्चापि तद्वच्च भवन्ति चार्धगामिनः ॥५७॥सुराश्चापि तथा भूमौ समायान्त्यर्धसंख्यया ।पातालादिस्थिताश्चापि तथैवाऽर्धविहारिणः ॥५८॥अशक्ताः सर्वशस्तत्र द्वापरेऽर्धप्रजा रमे ।ओषधयश्चार्धबला भिषजोऽर्धपरीक्षकाः ॥५९॥दैवज्ञाश्चार्धबोद्धारश्चिकित्साऽर्धाश्चिकित्सकाः ।यन्त्रतन्त्राणि चार्धानि तथाऽर्धकार्यदानि वै ॥६०॥मध्ये भग्नानि जायन्तेऽन्तराले लम्बयन्ति च ।वार्धक्याऽदार्ढ्यभावेऽपि क्षीणदर्शनशक्तयः ॥६१॥क्षीणादानगतिप्रायाः क्षीणानन्दा भवन्ति च ।क्षीणश्रवणस्पर्शाद्याः क्षीणास्वादनगन्धिनः ॥६२॥क्षीणसत्त्वार्धबलिनो द्वापरे संभवन्ति च ।सत्यगृहं सुराऽऽवासा गुरुकुलानि धार्मिका ॥६३॥प्रायशोऽर्धं विनश्यन्ति द्वापरेऽर्धे गते क्षितौ ।यज्ञशाला उत्सवाश्च देवालयाश्च साधवः ॥६४॥सत्यमानसरत्नानि सत्यतीर्थानि यानि च ।अर्धं तानि विनश्यन्ति द्वापरेऽर्धे गते क्षितौ ॥६५॥पवित्रताऽर्धनाशा च स्पृश्याऽस्पृश्याऽर्धनाशनम् ।वन्द्याऽवन्द्यार्धनाशश्च पूज्यपूजार्धनाशनम् ॥६६॥भोग्यभोगार्धनाशश्च पेयपानार्धनाशनम् ।ध्येयध्यानार्धनाशश्च द्वापरेऽर्धे गते क्षितौ ॥६७॥पुरुषार्थाऽर्धनाशश्च कल्पितार्धविनाशनम् ।दार्ढ्यं चार्धास्तित्वफलं प्रारॆभाश्चार्धगोचराः ॥६८॥मेधा चार्धविचारा च यत्नश्चार्धफलावहः ।मित्राणि चार्धभावानि दास्यं चार्धं प्रवर्तते ॥६९॥पशवश्चार्धविश्वासाः पक्षिणश्चार्धसेविनः ।भाषाणामर्धविज्ञानं द्वापरेऽर्धे गते भवेत् ॥७०॥अर्धाकर्षणरूपाणि चार्धाकर्षणशक्तयः ।स्नेहास्पदादि चार्धानि द्वापरेर्धे गते क्षितौ ॥७१॥राज्यदण्डैर्नियमिताः प्रजास्तिष्ठन्ति नीतिगाः ।प्रकाशं चार्धमेवाऽपि कर्म तत्कर्म गण्यते ॥७२॥प्रच्छन्नं गण्यते नैव चार्धं द्वापरिभिर्जनैः ।दैवभयं प्रयात्येव द्वापरेऽर्धं प्रजासु वै ॥७३॥पापभयं तथा चार्धं गण्यते नैव तद्युगे ।द्रोहभयं तथा मिथ्याभयं चार्धं न गण्यते ॥७४॥असत्कर्मभयं नैव गण्यतेऽघं न मन्यते ।अर्धमेवं जायते वै द्वापरेऽर्धे हि पद्मजे ॥७५॥तं रश्चोत्तरकाले तु त्र्यंशं सत्यं प्रजीवति ।त्रिभागाश्चापि सत्यादेर्नश्यन्त्येव द्वयेऽन्तिमे ॥७६॥द्वापरेऽन्ते चतुर्थांऽशाऽऽयुष्यवन्तो हि देहिनः ।सहस्रार्धं समारंभे तदर्धं मध्यद्वापरे ॥७७॥तदर्धं त्र्यंशके याते चतुर्थांशे तदर्धकम् ।आयुर्वै ह्रासमापन्नं सर्वेषां देहिनां रमे ॥७८॥अष्टताला मानवा वै सत्ये भवन्ति चोच्छ्रिताः ।त्रेतायां ते षट्टालोर्ध्वा द्वापरं चतुरूर्ध्वकाः ॥७९॥द्वापरार्धे तदर्धाश्च ततोऽर्धा दशहस्तकाः ।वृक्षाश्चतुर्गुणोर्ध्वाश्च हस्तिनश्च द्रुमार्धकाः ॥८०॥हस्त्यर्धोर्ध्वा घोटकाश्च तदसमा गोवृषादयः ।द्वापरे ते भवन्त्येव बले त्र्यंशविवर्जिताः ॥८१॥द्वापरान्ते निर्बलाश्च प्रारंभाच्चतुरंशिनः ।सिद्धिमन्तस्तु ये सन्ति ते भवन्त्यूर्धदीर्घकाः ॥८२॥पुनर्ह्रस्वाः स्वल्पदेहास्ततोऽल्पपरीणाहकाः ।भोजनं तु दशमाणं पञ्चमाणं ततोऽर्धकम् ॥८३॥माणमात्रं तदर्धं च द्वापरान्ते भवेत्तदा ।दिवसे तु प्रवासो वै सत्ययुगेऽम्बरेऽस्ति च ॥८४॥चतुर्दशसु लोकेषु पृथ्व्यां द्वीपान्तरेऽपि च ।त्रेतायां तु प्रवासो वै विमानापेक्ष एव ह ॥८५॥दिवसे च तदा यान्ति मानवाः शतयोजनम् ।द्वापरे तु तदर्धं च द्वापरार्धे तदर्धकम् ॥८६॥द्वापरान्ते तदर्धं च ततोऽर्धं च ततः परम् ।एवं ह्रस्वशरीराणां पादक्रमो विकुञ्चितः ॥८७॥प्राणायामैर्विना तेषां व्योमगतिर्न विद्यते ।भ्वाधारा भूनिवासश्च भूक्रमा भूप्रभोजिनः ॥८८॥एवं भूमातरस्तत्र द्वापरान्ते प्रजा रमे ।क्षुधातृषातितापाढ्या द्वापरेऽन्ते जना रमे ॥८९॥असदाढ्याः शाठ्ययुक्ताः स्वार्थाऽहंकारसंभृताः ।कल्मषैर्बहुभिर्युक्ता जायन्ते द्वापरेऽन्तके ॥९०॥क्षुद्रचित्ता धैर्यहीना गाम्भीर्यवर्जितास्तथा ।जायन्ते मानवा लक्ष्मि द्वापरेऽन्ते समस्ततः ॥९१॥स्त्रियः श्रीवर्जिताश्चापि मर्यादाऽर्धविहन्त्रिकाः ।निजार्धस्वत्वममताऽहंकारगर्वितास्तथा ॥९२॥भवन्त्येव क्लेशदाश्च तथाऽर्धधर्मवर्जिताः ।श्रियस्ततो वर्जयन्ति लक्ष्म्यो वियन्ति तद्गृहात् ॥९३॥सम्पदश्चापसरन्ति ऋद्धयोऽपसरन्ति च ।शिष्टाश्च सम्पदाभासा भवन्ति वै कुसम्पदः ॥९४॥जनाः शिष्टाः स्वशिष्टत्वं त्यजन्ति द्वापरेऽर्धकम् ।द्वापरान्ते न शिष्टत्वं कल्मषैर्हन्यते हि तत् ॥९५॥कालश्चापि पुरा यः स क्लेशार्धात्मा प्रवर्तते ।कालदूता भवनेषु पराभवन्ति मानवान् ॥९६॥वह्नयो वामभागार्धं गत्वा यान्ति प्रदक्षिणम् ।द्वापरेऽन्तेऽर्पितं द्रव्यं पूजार्थं लीयतेऽर्धकम् ॥९७॥नैजं सर्वं भवेद् द्वेधा परं श्रेष्ठं परार्थकम् ।परभावेन सम्भिन्नं चित्तं नैजं हि द्वापरम् ॥९८॥एवं लक्ष्मि विविधान् वै धर्मान् श्रयन्ति मानवाः ।पापं चार्धं तथा चार्धं पुण्यं कुर्वन्ति तत्प्रजाः ॥९९॥अर्थं कामं चेहमानाः प्रजा ह्रासं व्रजन्त्यपि ।तत्र मन्त्रं जपेन्मे च गायत्र्याख्यं निरन्तरम् ॥१००॥'ओं भूर्भुवः स्वः, श्रीघनश्यामाय विद्महे ।नीलकण्ठाय धीमहि, तन्नो हरिः प्रचोदयात्' ॥१०१॥ 'ओं भूर्भुवः स्वः, श्रीबालकृष्णाय विद्महे ।अनादिकृष्णाय धीमहि, तन्नः कृष्णः प्रचोदयात्' ॥१०२॥ 'ओं भूर्भुवः स्वः, श्रीनाराणाय विद्महे ।वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयात्' ॥१०३॥ 'ओं श्रीब्रह्मप्रियावल्लभाय स्वाहा नमः' जपेत् ।'ओंश्रीहरिप्रियावल्लभाय नमः' जपेत् तथा ॥१०४॥षट्लक्षजपकर्ता वै तरत्येव भवार्णवात् ।द्वापरे मन्त्रमेनं वै ततो जपेत् प्रमुक्तये ॥१०५१॥'अनादिश्रीकृष्णनारायण कृष्ण श्रियःपते ।राधापते परब्रह्म गोपीपते जयापते ॥१०६॥ललिताश्रीपते प्रज्ञापते पद्मावतीपते ।सुखदाश्रीपते लक्ष्मीपते श्रीमाणिकीपते ॥१०७॥हंसगरुडवारणतुरगाधिपते प्रभो ।सतांपते सतीसाध्वीपते सर्वपते विभो ॥१०८॥भगवन् पुण्डरीकाक्ष तारयाऽस्मान् भवार्णवात् ।द्वापराद् घोररूपाद्वै चान्तिमसमयात्मकात्' ॥१०९॥इत्यर्थयेद् भगवन्तं परमेशं सनातनम् ।पूजयेन्मां धारयेच्च हृदये मयि चार्पयेत् ॥११०॥एवं मोक्षं द्वापरेऽन्ते चाप्नुयुर्मानवा रमे ।पठनाच्छ्रवणाच्चापि संहिताया ममापि च ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने द्वापरयुगधर्मकर्मस्वभावास्तथाविधमानवानां मोक्षार्थं मन्त्रादिभजनप्रदर्शनमितिनिरूपणनामा त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP