संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ११५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ११५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११५ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-अहं जाता बहुवारं सृष्टौ वै भवता सह ।लक्ष्मीर्नारायणी श्रीश्च भार्गवी माधवी रमा ॥१॥वृन्दा च तुलसी शिवराज्ञीश्रीः कमला प्रमा ।पद्मा विद्यापरा पद्मावती शतसहस्रशः ॥२॥मम रूपाणि लोकेऽत्र विद्यन्ते श्रीहरे प्रभो ।जिज्ञासा मे समुत्पन्ना महालक्ष्मीः कदा कथम् ॥३॥समुत्पन्ना च किन्नाम्नी पृथ्व्यां कृष्णनरायण ।यद्यप्यहं विजानामि श्वश्रूं मे जननीं तव ॥४॥महालक्ष्मीं चाऽथ गजाननां सुराष्ट्रकेऽपराम् ।चमत्कारपुरे जातां क्षीरोदसागरोद्भवाम् ॥५॥द्वितीयां तां विजानामि तथा महाहिरण्मयीम् ।तृतीयां तां विजानामि तदन्या यदि भूस्थिता ॥६॥महाकार्यकरी चाऽऽस्ते चेत् तां मह्यं प्रकीर्तय ।यां श्रुत्वा सम्प्रहर्षामि यद्बलं च चमत्कृतिम् ॥७॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि कथयामि वर्तमानां तु भूतले ।चमत्कारकरीं पूज्यां महालक्ष्मीं तु दक्षिणे ॥८॥काञ्चन्यां तु नगर्या सा माता वै राजते सती ।पुरा शंभोर्मोहनार्थं कामदेवः समाययौ ॥९॥कैलासे दैवकार्यार्थं शंकरेण स भस्मितः ।चित्रकर्मा गणो भस्म किञ्चिद् धृत्वा तु पुत्तलम् ॥१०॥रचयामास तत्रैवाऽऽवेशयामास जीवनम् ।बालकश्चेतनः सोऽपि सञ्जातो रोषवानति ॥११॥शतरुद्रीयपाठी च पपाठ शंकरान्तिके ।शंभुर्भूत्वा प्रसन्नस्तं वरार्थं प्राह वै तदा ॥१२॥वरं वव्रे स मे राज्यं त्रैलोक्ये स्यादकण्टकम् ।प्रतियोद्ध्रस्त्रशस्त्राणि वृथा भवन्तु सर्वथा ॥१३॥ममाऽस्त्रशस्त्रमन्त्राश्च मा भवन्तु वृथा क्वचित् ।तथेत्याह तदा शंभुः राज्यमस्मै तथा ददौ ॥१४॥षष्टिवर्षसहस्राणि राज्यं भवत्वकण्टकम् ।तदा वीक्ष्य स्वयं ब्रह्मा भण्डासुरेतिनामतः ॥१५॥भण्डास्फोटो ह्ययं जात इति मत्वा जगाद ह ।अथाऽयं रुद्रभालस्य क्रोधानलात् प्रभर्जितः ॥१६॥भस्मोत्पन्नः पुनस्तस्माद् रुद्रजो दानवोऽभवत् ।ववृधे शीघ्रमेवाऽसौ शुक्रं समाह्वयत् गुरुम् ॥१७॥मयं समाह्वयत् पूजां चक्रे तयोस्ततः पुनः ।मयं तं शिल्पिनं प्राह पुरातनी पुरी तु या ॥१८॥दैत्येश्वराणां चास्ते तां भग्नां पुनर्नवां कुरु ।तच्छ्रुत्वा तु मयो गत्वा चक्रे नवं पुरं हि तत् ॥१९॥यत्र स्थित्वा तु दैत्येन त्रैलोक्यं शासितं पुरा ।तत्राऽभिषिक्तः शुक्रेण दैतेयैः स महाबलैः ॥२०॥शुशुभे परया स्मृद्ध्या तेजोभिश्च बलादिभिः ।हिरण्यकशिपुर्यं वै किरीटं प्राक् दधार ह ॥२१॥किरीटं तं सजीवं चाऽविनाश्यं शुक्रधारितम् ।दधौ भण्डश्चामरे द्वे सजीवे शक्तिशोभिते ॥२२॥न रोगो न च दुःखानि जायन्ते यन्निषेवणात् ।आतपत्रं दधौ यस्य छायास्थान् नाऽस्त्रकोटयः ॥२३॥बाधन्ते न विनाशो न पराजयो न जायते ।विजयाख्यं धनुः शंखं रिपुघ्नं भूषणानि च ॥२४॥सिंहासनं तैजसं चाऽक्षयशौर्यं ददौ कविः ।एवं राजा समावृत्तस्तस्याऽष्टौ तु महाबलाः ॥२५॥प्रधानाः सैन्यपूज्याश्चाऽभवन् त्रिलोकिगामिनः ।इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः ॥२६॥उग्रकर्मोग्रधन्वा च विजयः श्रुतिपारगः ।सर्वे वै वेदशास्त्रज्ञाः कर्मकाण्डपरायणाः ॥२७॥युद्धविशारदा मायाविशारदाः प्रतापिनः ।अथ दैत्यं विशुक्रं स दक्षांसेन ससर्ज ह ॥२८॥वामांसेन विषांगं स ससर्ज दुष्टशेखरम् ।धूमिनीं भगिनीं चापि कण्ठात् ससर्ज भण्डकः ॥२९॥सुमोहिनी कुमुद्वती चित्रांगी सुन्दरी तथा ।चतस्रो वनितास्तस्य दैत्यपुत्र्योऽर्पितास्तदा ॥३०॥स्यन्दनास्तुरगा नागा विमानानि सहस्रशः ।सम्बभूवुर्जितलोकाः शुक्राचार्यमतानुगाः ॥३१॥भण्डो बभूव भक्तोऽसौ शंकरस्य सदैत्यकः ।गृहे गृहे रुद्रयज्ञास्तदा चासन् समन्ततः ॥३२॥ऋचो यजूँषि सामानि तन्त्राणि च प्रतिग्रहम् ।प्रवर्तन्ते स्म दैत्यानां समूहेऽपि तथाऽध्वरे ॥३३॥तदा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः ।भ्रातृभ्यामुग्रवीर्याभ्यां प्रधानैश्च बलैस्तथा ॥३४॥दिशो जिगाय सर्वाश्च रेजे महेन्द्रवत्तदा ।ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः ॥३५॥बहुवारं देवताद्या निर्जिता रणमूर्धनि ।ब्रह्मविष्णुमहेशाद्यास्तं दृष्ट्वा दीप्ततेजसम् ॥३६॥पलायनपराः सर्वे स्वे स्वे धाम्नि सदाऽवसन् ।केचित्पातालगर्भेषु केचिदम्बुधिवारिषु ॥३७॥केचिद् दिगन्तकोणेषु केचित् कुञ्जेषु भूभृताम् ।विलीना भृशवित्रस्ता विचेरुश्छन्नवेषिणः ॥३८॥पितॄन् सिद्धान्साध्यदेवान् नागान् यज्ञान् दिगीश्वरान् ।ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमित्यपि ॥३९॥मत्वा तृणायितान् सर्वान् लोकान् भण्डः शशास ह ।एवं राज्यं कृतवतो भण्डस्य जितकाशिनः ॥४०॥षष्टिवर्षसहस्राणि व्यतीतानि ततः परम् ।हीयमानबलान् देवान् सम्प्रेक्ष्य कमलापतिः ॥४१॥उग्रं भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् ।ससर्ज सहसा मायां स्वात्मरूपां विमोहिनीम् ॥४२॥निजरूपा ललिता सा बभूव परदेवता ।महालक्ष्मीः स्वयं याऽस्ति कंभरा जननी मम ॥४३॥पाशांकुशधनुर्बाणपरिष्कृतचतुर्भुजा ।सा माता परमा शक्तिः परब्रह्मस्वरूपिणी ॥४४॥या महावैष्णवी दैत्यव्रातविलयकारिणी ।तामुवाच हरिर्मायां भण्डं दैत्यं निषूदय ॥४५॥एवमाज्ञां समासाद्य सा ययाचेऽप्सरोगणम् ।हरिर्ददावप्सरसः सापि विश्वाचिकादिभिः ॥४६॥ययौ या हिमगिरिं यत्रास्ते भण्डकासुरः ।तत्र सा तु महालक्ष्मीर्मूले चम्पकशाखिनः ॥४७॥निवासमकरोद् रम्यं गायन्तीं मधुरस्वरम् ।श्रुत्वा दैत्यश्चागतस्तां ययाचे मदनातुरः ॥४८॥सापि हावाँस्तथा भावान् चेष्टा वार्ताश्च मञ्जुलाः ।कृत्वाऽहरद्धि दैत्यानां मनांसि भण्डकस्य च ॥४९॥विसस्मरुस्तदा भण्डो दैत्याः सायं श्रीशंकरम् ।सन्ध्यां स्तोत्रं पूजनं च वृद्धानां सेवनादिकम् ॥५०॥विजहुस्ते यज्ञकार्यं तथा सर्वं शुभावहम् ।एवं शुक्रं निजाचार्यं विसस्मश्च पूजनम् ॥५१॥इयं देवी मोहयित्वा रुरोध दैत्यपुंगवान् ।अवमानहतः शुक्रः कोपितोऽभूत्तदा मुहुः ॥५२॥दैत्यानाह न वै योग्या भवन्तो राज्यऋद्धये ।पतन्तु परराज्याद्वै मदो वो यातु संक्षयम् ॥५३॥जडीभूतानसुराँश्च मायाकृतान् विलोक्य तु ।इन्द्राद्याः कृतसन्नाहास्तपोऽर्थं यमुनां ययुः ॥५४॥मखमारंभयामासुर्वैष्णवं बलदं शुभम् ।नारायण्या महालक्ष्म्याः पूजां चक्रुर्हि देवताः ॥५५॥उग्रे तपसि संस्थाना जपध्यानपरायणा ।अनन्यमानसा लक्ष्मीः सावधाना बभूव सा ॥५६॥बह्वब्देषु व्यतीतेषु स्वयं शुक्रः पुरोहितः ।दैत्यानाह भवतां वै विनाशार्थं सुरादयः ॥५७॥यज्ञं ध्यानं तपश्चापि कुर्वन्त यमुनातटे ।जातिमात्रं हि भवतां हनिष्यति सुरादयः ॥५८॥हरिः सर्वान् भवत्पक्षान् हनिष्यत्यचिरात् खलु ।तेनैव निर्मिता माया महालक्ष्मीस्वरूपिणी ॥५९॥तस्यां मुग्धान् भवतश्च वीक्ष्येन्द्राद्यास्तपन्ति वै ।गत्वा शीघ्रं तत्र विघ्नं समाचरत वै द्रुतम् ॥६०॥श्रुत्वा भण्डासुरयुक्ता दैत्या युद्धविशारदाः ।यमुनातटमासाद्य विघ्नं चक्रुर्महारणम् ॥६१॥तपोविघ्नकरान् दैत्यान् वीक्ष्य भक्तार्थकारिणी ।महालक्ष्मीरकरोद्वै महाप्राकारमुज्ज्वलम् ॥६२॥अलंघ्यं दानवैदैत्यैरिन्द्रप्रस्थाभिधं दृढम् ।तं दृष्ट्वा भण्डकश्चापि विषण्णः स्वपुरं ययौ ॥६३॥श्रुतवर्मा सखा भण्डं प्राह राजन् वचः शृणु ।षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम् ॥६४॥ततोऽन्तस्तव राज्यस्य कालोऽयं शिवनोदितः ।अशक्यप्रतिकार्योऽयं तस्मात् कालं प्रयापय ॥६५॥काले तु भोगः कर्तव्यः काले निवृत्तिरुत्तमा ।इत्युपदेशं संश्रुत्वा विरेमे भण्डकासुरः ॥६६॥देवता इन्द्रप्रस्थे वै विशाले वनविस्तरे ।कुण्डं सुयोग्यविस्तारं कृत्वा वह्निं निधाय च ॥६७॥कृत्वा दृढां प्रतिज्ञां वै महालक्ष्मीं प्रपूज्य च ।परितो हवनं चक्रुः प्रीत्यर्थं तु श्रिया हरेः ॥६८॥ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम् ।इत्येवं हवनं चक्रुस्तावत् प्रादुर्बभूव ह ॥६९॥चक्राकारं महत्तेजस्तन्मध्ये पारमेश्वरी ।जगन्माता जीवदात्री नारायणी परेश्वरी ॥७०॥व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।पाशांकुशेक्षुकोदण्डपद्ममाला लसत्करा ॥७१॥दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं प्रसूम् ॥७२॥जय लक्ष्मि जगन्मातर्जय लक्ष्मि परात्परे ।जय कल्याणनिलये जय सर्वकलात्मिके ॥७३॥जय ब्राह्मि महालक्ष्मि ब्रह्मात्मिके परात्मिके ।जय नारायणि शान्ते जय श्रीललिते रमे ॥७४॥जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।नमः सहस्रशीर्षायै सहस्राननलोचने ॥७५॥नमः सहस्रहस्ताब्जपादपंकजशोभिते ।अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥७६॥अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥७७॥हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।दृशश्चन्द्रार्कदहना दिशः कर्णा भुजाः सुराः ॥७८॥मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।क्रीडा ते लोकरचना सखा ते परमेश्वरः ॥७९॥आहारस्ते सदानन्दो वासस्ते हृदये हरेः ।दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥८०॥शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥८१॥यमाश्च नियमाश्चापि करपादनखास्तव ।स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥८२॥प्राणायामस्तव श्वासो रसना ते सरस्वती ।महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥८३॥आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।हृत्स्था त्वं व्यापिनी लक्ष्मीर्मोहिनी त्वं तथा परा ॥८४॥इदानीं दृश्यसे ब्राह्मी नारायणी प्रियंकरी ।नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥८५॥सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः ।या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥८६॥रुद्रं तथा सुराग्र्याँश्च तस्यै लक्ष्म्यै नमो नमः ।त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥८७॥यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥८८॥कंभरायै सर्वविद्याभरायै ते नमो नमः ।जयाललितापाञ्चालीरमातन्वै नमो नमः ॥८९॥पद्मावतीरमाहंसीसुगुणाऽऽज्ञाश्रियै नमः ।नमः स्तुता प्रसन्नैवं छन्दयामास सद्वरैः ॥९०॥देवाः प्राहुश्च तुष्टा चेद् भण्डासुरं विनाशय ।दुर्धरं जीवितं सौख्यं देहि ते शरणार्थिनः ॥९१॥महालक्ष्मीः समुवाच मुदिताः सन्तु निर्भयाः ।भण्डासुरं नाशयिष्ये ललिताऽहं महासती ॥९२॥स्तावका मे भविष्यन्ति श्रीयशोधर्मसंभृताः ।विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥९३॥पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।इतिलब्धवरा देवाः सत्रं चक्रुः प्रपूर्णकम् ॥९४॥अथ सा ललिता लक्ष्मीर्वरमालां करोत्थिताम् ।अनादिश्रीमहाविष्णुस्वरूपाय परात्मने ॥९५॥तत्रैव पश्यतां सर्वसुराणां चार्पयद् गले ।देवदुन्दुभयो नेदुर्जयशब्दास्तदाऽभवन् ॥९६॥गीतयश्चाऽभवंस्तत्राऽप्सरसां सुरयोषिताम् ।ननृतुश्चाप्सरसश्च जगुर्गान्धर्वसत्तमाः ॥९७॥ऋषयः स्तवनं चक्रुराशीर्वादपरायणाः ।साधवो नमनं चक्रुः सेवां चक्रुश्च पार्षदाः ॥९८॥लक्ष्म्याद्याः पूजनं चक्रुर्दम्पत्योश्चेन्द्रप्रस्थके ।यौतकानि ददुश्चापि भूषणानि धनानि च ॥९९॥रत्नानि विविधान्येव दम्पतीभ्यां सुरादयः ।भोजनानि व्यधुस्तत्र विवाहान्ते सुरादयः ॥१००॥अथ ब्रह्मा प्रजगाद भण्डासुरक्षयाय तु ।महालक्ष्मीं ललिताख्यां परब्रह्महरिं तथा ॥१०१॥धर्मस्य रक्षणार्थाय देवानां रक्षणाय च ।तदा तूर्णं महालक्ष्मीर्नारायणाज्ञया तदा ॥१०२॥सस्मार दिव्यहेतींश्च चक्रादीन् दिव्यविग्रहान् ।आययुर्मूर्तिमन्तस्ते तस्थुश्च पुरतो हरेः ॥१०३॥जग्राह तान् महालक्ष्मीः सर्वकामाक्षिणी सती ।सर्वकामप्रदस्य श्रीनारायणस्य चाज्ञया ॥१०४॥सर्वदेवान् सहायाँश्चाऽदृश्यनारायणान्वितान् ।नीत्वा दैत्यान्नाशयितुं प्रतस्थे जयवर्धिता ॥१०५॥सैन्यानि पार्षदानां च गणानां द्युसदां तथा ।देवीनां चापि सिद्धानां निर्ययुः सज्जहेतयः ॥१०६॥सहस्रशो गवाश्वाश्च सिंहाः शार्दूलकाः खगाः ।वृषभाः शरभाश्चापि हंसाश्च गरुडास्तथा ॥१०७॥विमानानि सहस्राणि यानानि च रथास्तथा ।सायुधाः कल्पजाश्चेन्द्रप्रस्थाद् विनिर्ययुस्तदा ॥१०८॥महालक्ष्मीमहासैन्यं श्रीलक्ष्मीकमलान्वितम् ।दुर्गासतीमहाचण्डीदेवीकोटिसमन्वितम् ॥१०९॥दिव्यं चाऽव्याहतगति निर्ययौ त्वम्बरेण तत् ।दिव्याऽस्त्रशस्त्रमन्त्राद्यैर्वर्धितं रक्षितं तथा ॥११०॥गगनं सत्यलोकान्तं शब्दितं सैन्यगर्जंनैः ।सर्वे नारायणाश्चेशाः श्रुत्वा तूर्णं समाययुः ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कामदेवभस्मत उत्पन्नस्य भण्डासुरस्य नाशार्थमिन्द्रप्रस्थाऽऽगतदेवानां मखे प्रादुर्भूतललितामहालक्ष्मीसैन्यसन्नाहादिनिरूपणनामा पञ्चदशाधिकशततमोऽध्यायः ॥११५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP