संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि प्रवक्ष्यामि नरनारायणीकथाम् ।पुरुषोत्तमबोधाढ्यां ममाऽपारोक्ष्यबोधिनीम् ॥१॥एकदा तु विशालायां दर्शनार्थं महर्षयः ।ययुर्मम स्वरूपस्य नरनारायणस्य ते ॥२॥तत्र श्रीशंकरश्चापि समायातः सतीयुतः ।सनत्कुमारः सनकः सनन्दनः समाययौ ॥३॥अंगिराद्या महर्षिसत्तमाः स्वतःप्रकाशकाः ।पत्नीव्रतो द्विजश्चान्ये लोमशाद्याः पुरातनाः ॥४॥तपःसत्रं चिकीर्षन्तोऽपश्यन् धर्मसुतं शुचिम् ।नारायणं नरं चापि मत्तनुं तापसीं शुभाम् ॥५॥प्रपूज्य विधिवत् सर्वे स्तोत्रैः संस्तूय वैदिकैः ।प्रणेमुर्दण्डवत् भक्तिसंयुता योगवित्तमाः ॥६॥जगदुस्ते हृष्टहृदो नारायणं परं गुरुम् ।भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥७॥नारायणं स्वयं साक्षात् पुराणं परमेश्वरम् ।श्रेष्ठं तपो भवद्योगो भवज्ज्ञानं तपः परम् ॥८॥मुक्तिदं तत् तपः श्रेष्ठं यत्र चाऽऽराध्यते भवान् ।तन्नो ब्रूहि हरे कस्मादिदं प्रवर्तते जगत् ॥९॥क आत्मा का च मुक्तिर्वै संसारः कोऽस्ति वै कृतः ।किं तत्परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥१०॥इति पृच्छन्तो मुनयः प्रापश्यन् तं नरायणम् ।विहाय तापसं वेषं परब्रह्म सनातनम् ॥११॥भ्राजमानं च तेजोभिर्मुक्तमण्डलसेवितम् ।अक्षरब्रह्मधामस्थं सश्रीवत्सं श्रिया वृतम् ॥१२॥अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ।त्वया साकं हसन्तं स्वसर्वायुधसमन्वितम् ॥१३॥दृष्ट्वा शंभ्वादयः सर्वे लक्ष्मि! क्षणं प्रमुग्धताम् ।अत्यानन्देन मग्नास्ते प्रापुः श्रीपरमेश्वरे ॥१४॥अथ कृत्वा तिरोभावं दिव्यभावस्य मे तदा ।नारायणस्तापसोऽभूद् यथा बद्रीतलेऽभवत् ॥१५॥ततः स्वस्थान् मुनीन् सर्वानाह तत्र नरायणः ।अदृश्यं मम रूपं तत् परमेश्वरसंज्ञकम् ॥१६॥यस्मान्मयि राजतेऽत्र प्रकाशितो नरायणः ।यं न देवा विजानन्ति यतन्तोऽपि विना कृपाम् ॥१७॥कृपया दर्शनं प्राप्य ब्राह्मीभूता महत्तमाः ।न संसारं प्रपद्यन्ते ब्रह्मगा ब्रह्मवादिनः ॥१८॥वक्ष्ये भक्तिमतामद्य तज्ज्ञानं ब्रह्मवादिनाम् ।आत्माऽयं देहिनां स्वच्छः शुद्धः सूक्ष्मः सनातनः ॥१९॥तत्र सर्वान्तरः श्रीमद्ब्रह्मनारायणः प्रभुः ।वर्तते स प्राणरूपः सोऽन्तर्यामी पुमुत्तमः ॥२०॥अस्मादक्षरवासाद्वै विश्वानि च भवन्ति हि ।स मायया नैजतनूः करोति विविधाः सृजौ ॥२१॥कर्मबद्धा हि जीवाद्याः संसरन्ति पुनः पुनः ।अकर्मबद्धमुक्ताश्च प्रयान्ति तत्परं पदम् ॥२२॥यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।तथा संसारहर्योश्च सम्बन्धो नोपपद्यते ॥२३॥छायातपौ यथा भिन्नौ तथा संसारशार्ङ्गिणौ ।एवमात्मा देहिनां च भिन्नः संसाररूपतः ॥२४॥अहं कर्ता सुखी दुःखी कृशः स्थूलस्तु या मतिः ।सा चाऽहंकारकर्तृत्वादात्मन्यारोपिता जनैः ॥२५॥तस्मादज्ञानमूलो हि संसारः कर्मबन्धनः ।अहंकाराऽविवेकेन कर्मबन्धं करोत्ययम् ॥२६॥पश्यन्ति ऋषयो भक्ताः परमोपासका जनाः ।शुद्धात्मनि निजे देवं श्रीपतिं परमेश्वरम् ॥२७॥प्रकृतिं पुरुषं कालं बुद्ध्वाऽऽत्मानं निजं तथा ।हरिणा संगतो यश्च शाश्वतानन्दभाग् हि सः ॥२८॥स्वात्मानमक्षरं ब्रह्म नाऽवबुद्ध्यति चेद् यदि ।अनात्मन्यात्मविज्ञानं दुःखसंसारदायकम् ॥२९॥रागद्वेषादयो दोषाः सर्वे त्वज्ञानमाश्रिताः ।कारयन्ति हि कर्माणि पुण्याऽपुण्यानि देहिनाम् ॥३०॥तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।तस्माद् भाव्यं ब्रह्मणा वै स्वेनाऽऽत्मना तु साधुभिः ॥३१॥परेशेन समं नैजं त्वैक्यं व्याप्यं सुबुद्धिभिः ।यथा तु भूमसम्पर्कान्नाकाशो मलिनो भवेत्। ॥३२॥तथा त्वन्तःकरणोत्थैर्भावैरात्मा न लिप्यते ।यथा स्वप्रभया सूर्यः प्रकाशते समन्ततः ॥३३॥तथा ज्ञानमयश्चात्मा तद्युक्तः सम्प्रकाशते ।ज्ञानरूपस्ततश्चाऽयं चिद्रूपो भववर्जितः ॥३४॥यथा रञ्जनसान्निध्ये स्फटिको रञ्जनो जनैः ।लक्ष्यते च तथा चायं भावसन्निधिसद्गुणः ॥३५॥सोऽहमात्माऽक्षरः शुद्धो नित्यो भक्तो मयाऽनिशम् ।उपासितव्यो मन्तव्यः श्रोतव्यः परमेश्वरः ॥३६॥एवं ज्ञाने तु सर्वत्र यदा भात्यस्य माधवः ।भक्तस्य श्रद्दधानस्य हरिः सम्पद्यते तदा ॥३७॥स्वस्मिन् सर्वात्मकं ब्रह्मपरं भात्यस्य वै यदा ।तदा प्रत्यक्षरूपं तं स्वात्मन्येवाऽभिपश्यति ॥३८॥यदा सर्वेषु भूतेषु परेशं तं प्रपश्यति ।तदा सर्वत्र भक्तस्य परब्रह्म विकासते ॥३९॥यदाऽऽत्मस्थो नेतरद्वै स्वयं किमपि पश्यति ।तदा परेण सम्बद्धः परमेशं प्रपश्यति ॥४०॥यदा हृदयकामा वै विलीयन्ते न सन्ति तु ।तदाऽसावमृतीभूतः परमेशं प्रपश्यति ॥४१॥यदा सर्वस्थितं कृष्णनारायणं प्रपश्यति ।तदा तद्योगमापन्नस्तत्स्वरूपाय कल्पते ॥४२॥यदा पश्यति देवेशं परमं पुरुषं प्रभुम् ।मायामात्रं गतं तस्य नाऽस्य ब्रह्मातिरेकिता ॥४३॥यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।स्वज्ञानं ब्रह्मविज्ञानं वर्ततेऽसौ तदा शिवः ॥४४॥यथा नदीनदाः सर्वे समुद्रे यान्ति विस्तृते ।तथा भक्ता अक्षरे ब्रह्मणि यान्ति ह्युपास्तिभिः ॥४५॥अज्ञानमुग्धा विज्ञानं नार्जयन्ति तु यावता ।अज्ञानतिमिराकृष्टा न यान्ति परमं पदम् ॥४६॥आत्मज्ञानं विधातव्यं योगो नारायणस्य च ।उभाभ्यां श्रीहरिश्चाऽस्य परमात्मा प्रकाशते ॥४७॥हरेर्योगात्समग्राण्यैश्वर्याण्यस्य भवन्ति च ।देहेऽत्रैवाऽथवा देहान्तेऽपि हरेः स्वनुग्रहात् ॥४८॥यत्तत् सर्वमतं दिव्यमैश्वर्यं तदवाप्नुयात् ।तदैश्वर्यप्रदाता सः सर्वेषां परमेश्वरः ॥४९॥सर्वभूतेषु सर्वात्मा सर्वस्थः सर्वतोमुखः ।सर्वरूपः सर्वरसः सर्वगन्धोऽजरोऽमरः ॥५०॥सर्वतः पाणिपादः सोऽन्तर्यामी श्रीसनातनः ।अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ॥५१॥अचक्षुरपि द्रष्टा सः चाऽकर्णश्च शृणोत्यपि ।वेत्त्ययं सर्वमेवेदं न तं जानाति कश्चन ॥५२॥परमेशं महानाथं वदन्ति विमलाशयाः ।पश्यन्ति ऋषयो हेतुं यदैश्वर्यमनुत्तमम् ॥५३॥विदित्वा तस्य सायुज्यं लभन्ते तत्र वेशिताः ।ये तन्मायामतिक्रान्ता या चास्ते बन्धरूपिणी ॥५४॥ते लभन्ते परंधाम निर्वाणं हरिणा सह ।प्रसादात्तस्य ते यान्ति पुनरावृत्तिमेव न ॥५५॥एतज्ज्ञानं पुत्रशिष्ययोगिभ्यो देयमेव ह ।मोक्षदं परमं शान्तिप्रदं वै ब्रह्मवित्तमाः! ॥५६॥अन्यच्चापि प्रशृणुत परमेशात्ततोऽभवत् ।कालाख्यः पुरुषश्चापि पौरुषी प्रकृतिस्तथा ॥५७॥ताभ्यां प्रधाना पुरुषस्ताभ्यां हिरण्मयोऽप्यजा ।हिरण्मयी च ताभ्यां तु विराड् वैराजिकेति च ॥५८॥ताभ्यां त्रिदेवताश्चातो नरनारीमयं जगत् ।एवं हरेः सर्वमिदं तस्माद् ब्रह्ममयं जगत् ॥५९॥हरिस्त्वात्माऽस्ति भूतानां ज्ञाताऽऽत्मा परमेश्वरः ।द्विजाः शृणुत चाथापि हरेरिच्छा ह्यभूत्पुरा ॥६०॥माया सा दिव्यरूपाऽपि जीवकर्मान्विता सती ।सत्त्वकर्मात्मिका सत्त्वा रजःकर्मा तु राजसी ॥६१॥तमःकर्मयुता सा च तामसी कर्मरूपिणी ।जीवानां कर्मणां यादृग् रूपं सा तादृशी जनैः ॥६२॥गीयते रक्तकाचाढ्य तेजो रक्तं यथेतिवत् ।वस्तुतः शुद्धरूपा सा किन्तु जीवानुवेशिता ॥६३॥कर्मानुसारफलदा सा माया त्रिप्रकारिणी ।मूला शुद्धाऽथ विषमा कर्मानुसारयायिनी ॥६४॥महत्तत्त्वं च बुद्ध्याख्यं प्रकाशयति वै ततः ।महत्तत्त्वादहं बुद्धिश्चाभिमानात्मिका ततः ॥६५॥ततः षोडशको गणस्तन्मात्रेन्द्रियमानसः ।तन्मात्रेभ्यश्च भूतानि स्थूलानि गुणवन्ति च ॥६६॥स्थूलेभ्यस्तु जायन्ते तज्जगत् खलु ।जडात्मकं ह्यपि व्याप्तं चेतनैः कुरुते क्रियाः ॥६७॥कर्मानुगुणं सरणं संसारो वासनामयः ।साऽपि कालस्य वशगा ह्यविवेकसमुद्भवा ॥६८॥मनःसाहाय्यमासाद्य प्रवर्तयति देहिनः ।तस्मान्मनो नियम्यैव वासनां क्षपयेद् बुधः ॥६९॥कालमायाऽतीतरूपो भूत्वा भजेत माधवम् ।नास्ति तस्मात्परं किंचित् तं भजित्वा विमुच्यते ॥७०॥नाऽयं तपोभिर्विविधैर्न दानेन न चेज्यया ।शक्यो हि मानवैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥७१॥स वै समग्रभूतानामन्तस्तिष्ठति सर्वतः ।तं सर्वसाक्षिणं ज्ञात्वा मुच्यते सर्वबन्धनात् ॥७२॥तस्याऽन्तरे सर्वमिदं स तु सर्वान्तकः परः ।तमेव गृणन्ति शास्त्राणि सत्येकं परमेश्वरम् ॥७३॥यजन्ति विविधैर्यज्ञैर्ब्राह्मणाः सत्रकोटिभिः ।ध्यायन्ति तं योगिजना भजन्ते साधवोऽमलाः ॥७४॥सर्वदेवतनुः सोऽयं धार्मिकास्तमुपासते ।तेभ्यो ददाति तत्स्थानमानन्दं परमं पदम् ॥७५॥नरा नार्योऽपि कर्मस्था भक्तिमन्तो ह्यकल्मषाः ।पूजयन्ति च तं भक्त्या ते प्रयान्ति परां गतिम् ॥७६॥इत्येवमृषयो बुद्ध्वा तं परेशं प्रभुं हरिम् ।सर्वान्तर्यामिणं ध्यात्वा प्रयान्तु परमं पदम् ॥७७॥इत्युक्त्वा बदरीनाथः शिवराजि ऋषीश्वरान् ।पुनश्च दर्शयामास तापसे वर्ष्मणि प्रभुम् ॥७८॥कोटिकन्दर्पशोभाढ्यं श्रीसमेतं परात्परम् ।अनेकैश्वर्यसञ्जुष्टं राजाधिराजशोभिनम् ॥७९॥अनादिश्रीकृष्णनारायणात्मकं सुसुन्दरम् ।सर्वकान्तं सर्वदिव्यलावण्यमधुतान्वितम् ॥८०॥अनन्तमुक्तमुक्तानीसेवितं पारमेश्वरम् ।अवतारादिभिश्चापि व्यूहैर्नुतं स्तुतं तथा ॥८१॥परब्रह्मात्मकं दिव्यं सर्वेश्वरादिसेवितम् ।सर्वश्रीसंभृतं धामेश्वरं श्रीपुरुषोत्तमम् ॥८२॥ऋषयस्ते हरेः रूपं दृष्ट्वा तृप्ताः सुखान्विताः ।यावत्तपःफलं प्राप्ता मुदितास्तुष्टुवुः पुनः ॥८३॥त्वं प्रभुस्त्वं परब्रह्म त्वं कृष्णस्त्वं नरायणः ।नारायणः परज्योतिर्भवानक्षरधामवान् ॥८४॥त्वं हिरण्मयरूपश्च विष्णुस्त्वं व्यापको भवान् ।सर्वदेवमयस्त्वं च तापसस्त्वं परेश्वर ॥८५॥त्वा दृष्ट्वा कृतकृत्याः स्मस्त्वां प्राप्य पुरुषोत्तमम् ।मायापारं गताः स्मोऽद्य कृपा तेऽसीममुक्तिदा ॥८६॥यदिच्छया समायाताश्चात्र पूर्णो मनोरथः ।नेतरच्छिष्यते कार्यं कर्तव्यं दर्शनात्परम् ॥८७॥अलौकिकं परं रूपं सदैवं भातु नः प्रति ।इत्येवमेव वाञ्च्छामो वरं देहि वरं हि नः ॥८८॥इत्येवं शिवराज्ञीश्रि! स्तुत्वा मौनं च तस्थिरे ।ततो दिव्यं परब्रह्मरूपं तत्र तिरोऽभवत् ॥८९॥अहं वै तापसो जातः सद्यो नारायणात्मकः ।बदर्यधःस्थितस्ते च पुपूजुर्मां तथाविधम् ॥९०॥आज्ञामादाय च ययुर्भजन्तो मां निजालयान् ।त्वं विजानाहि तद्रूपं मम नारायणात्मकम् ॥९१॥तापसं लोकरक्षार्थं धर्मरक्षाकरं सदा ।नरनारायणात्मानं चान्तर्यामिणमेव माम् ॥९२॥पुरुषोत्तमसंज्ञं च विजानाहि पतिं तव ।एतज्ज्ञानं समगृह्य शंकराद्यास्ततो भुवि ॥९३॥उपादिदिशुः ऋषयो मुक्तिं ददुश्च सर्वतः ।देहिभ्यो ब्रह्मधान्येव ममोपासनकारिणः ॥९४॥पठनाच्छ्रवणाच्चैतत्स्मरणादपि मुक्तिदम् ।सर्वानन्दप्रदं लक्ष्मि! ज्ञातव्यं न यतः परम् ॥९५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने बदर्यां तपोऽर्थं प्राप्तानां महर्षीणां नरनारायणे परब्रह्मरूपदर्शनात् तृप्तानां मानवेभ्यश्चोपदेशनमित्यािनिरूपणनामा नवत्रिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP