संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं स्तेनस्य मोक्षणं शुभम् ।आसीत् शंकुधराख्यो वै स्तेनो मालव्यपत्तने ॥१॥स्तेनावासे कृतावासः स्तेनमण्डलपुष्टिकृत् ।स्तैन्ययात्रापरश्चास्ते रात्रौ शस्त्रादिधारकः ॥२॥भिन्नवेषधरश्चापि भिन्नकर्मा भवत्यपि ।भेदं ज्ञात्वा प्रवेशस्य यथा यत्नेन सर्वथा ॥३॥रात्रौ कृत्वा च संकेतं धनचौर्यं करोति हि ।क्वचिदश्वे क्वचिदुष्ट्रे क्वचित्तु दीर्घगर्दभे ॥४॥धनभारं निधायैव दूरं याति द्रवन् हि सः ।एवं देशान्तरे गत्वा चोरयित्वा धनानि वै ॥५॥आनाय्य स्वगृहं चौरैर्विभज्य स्वं प्ररक्षति ।उत्सवं कुरुते चापि भुंक्ते खादति मोदते ॥६॥चौर्यं तु सर्वथा कार्यं चान्यत् कार्यं न विद्यते ।स्तैन्योद्यमः स्तैन्यचिन्तः स्तैन्यध्यानपरोऽस्ति सः ॥७॥स्तैन्योदरभरश्चास्ते कुटुम्बोदरपूरकः ।कदाचिद् यत्र देवानामुत्सवो वा महान् भवेत् ॥८॥पारेसहस्रं जनता मिलन्ति यत्र तीर्थके ।चैत्ये वा मन्दिरे चाद्रौ ग्रामान्ते वा नदीतटे ॥९॥देवालये च वा तत्र यात्ययं चौरमण्डलः ।मार्गयत्येव सर्वत्र द्रव्याणि कुत्र सन्ति हि ॥१०॥निर्जनं वा कदा कुत्र जायते धनिनो गृहम् ।क्व मार्गो वा प्रवेशस्य निःसृतिर्वा क्व वा कथम् ॥११॥कथं लब्धिः कथं स्वस्य रक्षा प्रच्छन्नता कथम् ।एवं स्वध्याननिरतः ससार्थः शंकुधारकः ॥१२॥अन्यान्यपत्तने चौर्यं कृत्वा चाहरते धनम् ।एवंविधस्य तस्यैवैकदा स्वप्नं निशोत्तरे ॥१३॥अभवत् स्वर्णरत्नानां लब्ध्यात्मकमसीमकम् ।अरण्ये पूर्वमेवाऽऽसीद् राजधानीत्यलोकयत् ॥१४॥स्वप्ने तत्र वने दूरे निर्जने कोषमुत्तमम् ।सुवर्णरत्नखचितं पुरा राज्यप्ररक्षितम् ॥१५॥गुप्तं कोषं न जानाति कश्चिदन्यो यथा तथा ।प्रातरुत्थाय भुक्त्वाऽयं विहारव्याजतो ययौ ॥१६॥स्वप्ने यथा ददर्शाऽयं वनं मार्गं पुराणकम् ।वृक्षघटां च पाषाणान् पृथ्वीं प्राच्यस्तरान्विताम् ॥१७॥प्राचीनवसतिं तत्र दर्शयित्रीं पुराऽङ्कनैः ।तथा सर्वं ददर्शाऽयं स्तेनो विश्वासमाप्तवान् ॥१८॥पूर्वजन्मनि ये चोप्ताः संस्काराश्चिरकालिनः ।अंकुरयन्ति कमले जन्मान्तरे न संशयः ॥१९॥चौरोऽयं पूर्वकाले तु सहस्रवर्षपूर्वगे ।राज्ञः कोषाध्यक्ष आसीत् सुहोत्रस्य तु भूभृतः ॥२०॥सुहोत्रस्य तदा तत्र नगरी पितृनामतः ।कांचनेन जनकेन कृताऽऽसीत् काञ्चनी पुरी ॥२१॥चन्द्रवंशीयराज्ञः सा कोषरक्षामयी ह्यभूत् ।अथ कालान्तरे कोषा निष्कासिताः स्थलान्तरे ॥२२॥नीताश्च निहिताः सर्वे तथापि कपटेन वै ।अपजापकनाम्ना वै कोषाध्यक्षेण सर्वथा ॥२३॥अन्ये यथा न जानीयुस्तथा कोषस्तु वै मनाक् ।सुवर्णानां च रत्नानां पृथक्त्वस्य निगर्तितः ॥२४॥तत्रैव शेषितो नैजस्वार्थार्थं कपटेन ह ।अथ कालान्तरे याते चिरं काले गतेऽपि वै ॥२५॥अपजापो न वै नेतुं शशाक गुप्तकोषकम् ।एवमेव मृतस्तत्र मालव्यपत्तने नवे ॥२६॥चौर्यदोषेण याम्यां वै नगरीं प्रापितो यमैः ।लोहदण्डैस्ताडितः स दुःखायितश्च कुण्डके ॥२७॥पाशैश्च मुद्गरैर्दण्डैर्दण्डायितो मुहुर्मुहुः ।पापभोगोत्तरं मुक्तो वने तत्र हि निर्जने ॥२८॥प्रेतरूपोऽभवन्नान्यं गन्तुं ददाति तत्स्थलम् ।अरण्ये रमते नित्यं कोषं पश्यति केवलम् ॥२९॥भुंक्ते वन्यं समस्तं च कोषद्रुमे वसत्यपि ।एवं त्वष्टशतान्यस्य वर्षाणां विगतानि वै ॥३०॥प्रेतस्य निर्जने तत्र तदा प्राचीनभूतले ।तपस्तप्तुं समायतो विप्रो नाम्ना सुमन्तुकः ॥३१॥वने विज्ञाय रमणीं तपोयोग्यां शुभस्थलीम् ।निर्विघ्नां वृक्षवल्ल्यादिस्तम्बाढ्यां सुजलापगाम् ॥३२॥नातिदूरे वटवृक्षच्छायामाश्रित्य तापसः ।तपश्चक्रे भजन् कृष्णं श्रीपतिं पुरुषोत्तमम् ॥३३॥अथ सम्वत्सरे याते प्रेतोऽयं पुण्यशालिनम् ।मत्वा चोद्धारकर्त्तारं निजस्येति तु तापसम् ॥३४॥किरातरूपमास्थाय वटच्छायां तु तत्पुरः ।ययौ नमन् प्रशंसँश्च तपस्तस्य महात्मनः ॥३५॥सुमन्तुस्तपसा त्वेनं जानाति प्रेतरूपिणम् ।तथापि तं स्वागतं वै चक्रे वटगृहागतम् ॥३६॥वनिनं कृष्णवर्णं च कृशं च दुःखिनं तु तम् ।पप्रच्छ मुनिराड् देहिन् कुशलं ते वनिन् त्विह ॥३७॥प्रेतो जगाद कुशलं तापसस्य प्रतापतः ।मुनिः पप्रच्छ वासं च ग्रामं धर्मं च कर्म च ॥३८॥प्रेतो निष्कपटो भूत्वा वृत्तान्तमाह चादितः ।पूर्वमासं त्विह कोषाध्यक्षः कपटपापवान् ॥३९॥मृत्वा याप्यपुरीं गत्वा भुक्त्वा दुःखानि यातनाः ।प्रतारणफलं किंचिदवशिष्टं प्रलभ्य च ॥४०॥जातोऽस्म्यत्र वने प्रेतो दयया मां विमोचय ।एवं स उपवाँस्तस्मै कोषं नाऽदर्शयत्तदा ॥४१॥दयालुः स ऋषिस्तस्मै गायत्रीं प्रजपन् जलम् ।ददौ प्रेतस्य मुक्त्यर्थं प्रेतता विगताऽस्य च ॥४२॥किन्तु चौर्यस्वभावेन कापट्येन तु मानवे ।मालव्यपत्तने चाऽयं चौरः शंकुधरोऽभवत् ॥४३॥पूर्वसंस्कारसहितश्चौर्यनिष्णात एव सः ।एवं स्तैन्यपरस्याऽस्य लक्ष्मि संस्कारसद्बलात् ॥४४॥स्वप्नेऽस्य स्मरणं जातं कोषस्य पूर्वजन्मनः ।तं कोषं वै ततो द्रष्टुं ययौ तु निर्जने वने ॥४५॥सर्वं विलोकयामास सचिह्नं स्वप्नभालितम् ।प्रसन्नोऽभूत्तदा चाऽसौ मानवो लोभपुष्कलः ॥४६॥वटं ददर्श तत्रैव तापसस्य पुरा स्थलम् ।तपस्वी तत्र नास्त्येव वटस्तु विद्यते शुभः ॥४७॥सुमन्तुकस्तु तपसा दिव्यदेहो यतोऽभवत् ।वटे तिरोभवन्नास्ते तपस्वी दिव्यविग्रहः ॥४८॥शंकुधरस्ततो नैव ददर्श तं तपस्विनम् ।वटमात्रं ददर्शैव नेमे वटं पुरा स्मरन् ॥४९॥ययौ स्थलं तु कोषस्य तृप्तिं मत्वा सुवर्णजाम् ।आययौ सुप्रसन्नश्च स्वगृहं सायमेव ह ॥५०॥अथैकलः स्वहृदये चिन्तयामास वै मुहुः ।कथंकारं धनं तस्मादानेयमत्र वै मया ॥५१॥यथा चान्ये न जानीयुस्तथा चाहार्यमेव तत् ।वने तत्र निवासं वै कृत्वा शनैः शनैरिह ॥५२॥मया त्वेकाकिना चानेतव्यं वै छद्मना सदा ।इत्येवं सम्विचार्यैव चौर्यमिषेण चैकलः ॥२३॥उक्त्वा गृहजनान् शस्त्राण्यादाय तद्वनं ययौ ।यावत् खनति चौर्यैण शनैः शनैस्तमस्यपि ॥५४॥आप्रातः खननं कृत्वा वटस्याऽधो ययौ क्षणम् ।विश्रामार्थं पुनस्तत्राऽऽगत्याऽखनच्छनैः शनैः ॥५५॥निर्भयो वनमध्ये वै ह्येकाकी चाऽविशंकितः ।तावद्वटात्तत्र शब्दश्चायातो मानवो यथा ॥५६॥श्रुत्वा पश्यत्यभितः स शंकितश्च द्रुतं तदानाऽपश्यन्मानवं कंचित् पुनः पुनः सुशंकितः ॥५७॥खनयामास शनकैस्तावत्पाषाणभारिता ।शिला तत्रागता त्वेका तामुत्थाप्य शिलातले ॥५८॥व्यलोकयत्ताम्रपात्राण्यष्ट भूतानि सर्वथा ।सुवर्णं रजतं भूषा मुद्रा रत्नानि हीरकान् ॥५९॥स्वप्नदृष्टान् समस्ताँश्च विशेषान् द्रव्यसंज्ञितान् ।विलोक्य सर्वथा सर्वान् शान्तिं जगाम चोत्तमाम् ॥६०॥अथैतानि तु पात्राणि पिधाय च यथायथम् ।तृणपत्रादिपुञ्जं चोपरि न्यस्यत्ततः स च ॥६१॥कण्टकद्रुमशाखाश्च चिक्षेप चोपरि द्रुतम् ।अथ वटं पुनर्गत्वा विश्रान्तिमाप वै क्षणम् ॥६२॥स्मरन् रात्रौ प्रकर्तव्यं द्रव्यस्य हरणं यथा ।चिन्तयन् क्लृप्तनां सर्वां सुष्वाप क्षणमेव सः ॥६३॥उत्थितः स घटिकान्ते तावत्तु पुरतोऽभवत् ।योगिराट् मूर्तिमान् साक्षात् सुमन्तुको हसन् मुहुः ॥६४॥स्तब्धो भूत्वा क्षणं मत्वा महर्षिं तापसं तु तम् ।पुरा दृष्टं द्रुतं प्रत्यभिज्ञाय प्रणनाम तम् ॥६५॥प्रसन्नवदनो भूत्वोद्धारकं तं मुनीश्वरम् ।जातिस्मरो द्रुतं प्राह प्रेतोऽभवं गुरो पुरा ॥६६॥अत्राऽहं भवता चाप्युद्धृतोऽहं मानवोऽस्मि च ।शंकुधराख्यश्चौरोऽहं चौर्यकर्मपरायणः ॥६७॥चौर्येण कृतनिर्वाहो विचरामि तु पापवान् ।उद्धारं कुरु विप्रेन्द्र पूर्वगुरो दयानिधे ॥६८॥यथा मे स्यादभ्युदयो मोक्षणं च तथा कुरु ।श्रुत्वैवं शरणस्थस्य पुराभक्तस्य वै मुनिः ॥६९॥सुमन्तुर्दयया प्राह तदुद्धारं विचिन्तयन् ।करिष्ये तव परमं श्रेयो नास्त्यत्र संशयः ॥७०॥प्रवदामि यथा शिष्य तथा विधेहि सादरम् ।शृणु स्वल्पमुपदेशं तव योग्यं वदामि ते ॥७१॥चन्द्रवंशो भवानासीन्महाकोषपतिः पुरा ।ततो याम्यपुरे गत्वा भुक्त्वा च यातनास्ततः ॥७२॥प्रेतो जातस्ततो मेऽपि कृपया मानवोऽसि वै ।तथापि चौरभावस्ते न नष्टोऽत्र वदामि ते ॥७३॥त्वया यत् खनितं खातं द्रव्यं तत्र च यद् भवेत् ।तेन यज्ञं कुरु त्वत्र सुमन्तुहस्तकारितम् ॥७४॥सुमन्तुश्चाहमेवात्र वटाऽधस्ताद् वसामि तु ।सर्वे जानन्ति लोका मां तापसं सिद्धयोगिनम् ॥७५॥सुमन्तुना मखश्चापि क्रियते वद चेत्यपि ।प्रजासु त्वं समस्तासु विश्वासं सम्प्रदापय ॥७६॥आगमिष्यन्ति ऋषयो मुनयो देवतास्तथा ।भूसुरा मानवाः सन्तः साध्व्यश्चात्र मखे ततः ॥७७॥द्रव्यव्ययं करिष्येऽहं करिष्ये मखमुत्तमम् ।एवं कृते तव पुण्यं परं श्रेयो भविष्यति ॥७८॥गृहाण मन्त्रं कृष्णस्य पावनं पंक्तिपावनम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७९॥'हरेकृष्ण हरेविष्णो बालकृष्ण श्रियःपते ।परमेश कृपासिन्धो लक्ष्मीपते रमापते' ॥८०॥एवं संकीर्तनं चापि कुरु रात्रिन्दिवं सदा ।तव पापानि सर्वाणि नाशमेष्यन्ति सर्वथा ॥८१॥यज्ञपुण्यं तवैव स्यान्ममाशीर्वादतः प्रिय ।आत्मशुद्धिस्तथा ते स्याद् भक्तिश्च श्रीहरौ मयि ॥८२॥भविष्यतीति मे वाचः फलिष्यन्ति न संशयः ।भुक्तिर्मुक्तिश्च ते कुटुम्बिनां चापि भविष्यतः ॥८३॥इत्युक्त्वा तन्मनो ज्ञात्वा ऋषिर्मन्त्रं ददौ ततः ।प्रेषयामास ऋषिराट् सुमन्तुकस्तमाश्रमान् ॥८४॥विप्राश्रमान् मुन्याश्रमान् साधून् सतीः प्रति द्रुतम् ।विद्वांसः सुसमाकर्ण्य यज्ञं तत्र समाययुः ॥८५॥लक्ष्मि सुमन्तुमुनिराट् तदा संकल्पमात्रतः ।चक्रे समग्रवस्तूनां सञ्चयान् पर्वतान् नदीः ॥८६॥ब्रह्माद्या देवतास्तत्र प्रत्यक्षं त्वाययुस्तदा ।महर्षयः पितरश्च सन्तः साध्व्यः समाययुः ॥८७॥विष्णुयागस्तु ऋषिणा सप्ताहेन कृतस्तदा ।सुमन्तोर्वाञ्च्छया विष्णुस्तत्र साक्षात् स्थितोऽभवत् ॥८८॥अग्नयस्तु तदा साक्षाद् जगृहुर्हव्यभोजनम् ।पूर्णाहुतौ सुमन्तुकः सस्मार मां परेश्वरम् ॥८९॥भक्तकल्याणकार्यार्थं तदाऽहं प्रगतोऽभवम् ।बुभुजे हव्यमेवापि सुमन्त्वाद्यैः सुसत्कृतः ॥९०॥अथ खातजद्रव्याणां दानानि तु सुमन्तुकः ।अदापयच्छंकुधरहस्तेन स्वर्णकोटिकम् ॥९१॥रूप्यकाणां कोटिकाश्च रत्नानां कोटिकास्तथा ।हीरकाणां कोटिकाश्च चमत्कारैरदापयत् ॥९२॥धनं कस्मात् समायातं विविदुर्नैव केचन ।चमत्कारं हि मन्यन्ते सुमन्तोः सर्वमेव ते ॥९३॥जयकारो महान् जातो दानैश्च दक्षिणादिभिः ।तृप्ता देवाश्च पितरो मानवाः ऋषयः परे ॥९४॥देहिनोऽपि समस्ताश्च तृप्तास्तत्र महाध्वरे ।अवभृथे सुमन्तुश्च स्नापयामास शिष्यकम् ॥९५॥प्रार्थयामास मां तत्र दातुं भक्तस्य दर्शनम् ।अहं शंकुधरायाऽपि कुटुम्बसहिताय वै ॥९६॥शंखचक्रगदापद्मधरं स्वं दर्शनं ददौ ।पावयामास सर्वांस्तान् सुमन्तोर्वचनात् खलु ॥९७॥सर्वपापानि भक्तस्य विधूय पुण्यशेवधिम् ।दत्वा तस्मै स्वर्गयाने चाधिगृह्य दिवि ध्रुवे ॥९८॥तारके तु महत् स्वर्गं प्रददौ शंकुधारिणे ।सकुटुम्बः शंकुधरो ययौ वै पश्यतां सताम् ॥९९॥दिव्यदेहः प्रभूत्वैव द्रुत ध्रुवालयं ययौ ।वैष्णवस्य हि यागस्य फलं भुक्त्वा ध्रुवालये ॥१००॥ततो यास्यति वैकुण्ठं कुटुम्बसहितो हि सः ।एवं लक्ष्मि सुमन्तोर्वै प्रतापेन तु भक्तराट् ॥१०१॥चौरोऽपि स्तैन्यरहितो भूत्वा कृत्वा मखं शुभम् ।साधोस्तु कृपया मे च प्रसादेन सुरोत्तमः ॥१०२॥सर्वलोकैर्वन्दितः सन् ख्यातो ध्रुवपदं ययौ ।एवं साधोः प्रसंगेन पापिनोऽपि खला अपि ॥१०३॥पापहीनाः प्रजायन्ते यान्ति वै परमं पदम् ।पठनाछ्रवणाच्चास्य भुक्तिं मुक्तिं व्रजेदपि ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शंकुधरनाम्नश्चौरस्य सुमन्तुकर्षेर्योगेन पापनाशो यज्ञकरणं मोक्षश्चेत्यादिनिरूपणनामाऽष्टाशीत्यधिकशततमोऽध्यायः ॥१८८॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP