संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां भक्तस्य चाऽपराम् ।पुष्कसो नामतो यज्ञराधो विराधखेटगः ॥१॥आनर्तेष्वभवद्भक्तः समुद्रखाडिकातटे ।नौकानां वस्तुपूर्णानामागमो विगमस्तथा ॥२॥यत्र प्रजायते नित्यं तत्र मार्जनकर्मणि ।नियुक्तः स महानौकाध्यक्षेण जीविकाऽवितः ॥२॥नौकानां तटभूमीनां कच्चराणां प्रमार्जनम् ।करोति नित्यमेवाऽयं पत्न्या साकं स्थले स्थले ॥४॥नौकाधीशास्तथा चान्ये श्रेष्ठिनः कर्मचारिणः ।शेषान्नभोजनं चास्मै ददत्यपि कृपालवः ॥५॥शाकं पत्रादिकं चापि रोटकं च पयोऽपि च ।भर्जितान्नं च पक्वान्नं वस्त्रादिकं ददत्यपि ॥६॥एवं प्राप्तेन भक्तोऽयं तथा सद्वेतनेन च ।निर्वहत्येव नित्यं वै स्वकार्यकुशलः सदा ॥७॥यद्यत् संप्राप्यते तत्र जलप्रोक्षणमुत्तमम् ।कृत्वा धृत्वा च तुलसीदलं स्मृत्वा च मां तदा ॥८॥समर्प्य मह्यं मनसा भुंक्ते पाति न चान्यथा ।प्रातर्नित्यं पिप्पलस्य वृक्षमूले हरिं च माम् ॥९॥पूजयत्येव संस्मृत्वा जलान्नफलपत्रकैः ।मध्याह्नेऽपि तथा सायं मां स्मृत्वा स भुनक्ति ह ॥१०॥रात्रौ कृत्वा मिलित्वैव कीर्तनं मां स्मरँस्तथा ।मालामावर्तयन् भक्तो निद्राति स्त्री सुतः सुता ॥११॥एवंविधस्य भक्तस्य नित्यं वै विघसाशिनः ।दत्वा शुने गवे काकेभ्यश्च पुष्कसजातये ॥१२॥पिपीलिकाभ्यो दत्वा च दत्वाऽम्बरे सुराय च ।भुंक्तेऽयं विघसाशी वै दत्वा मत्स्येभ्य इत्यपि ॥१३॥पश्यत्येव हरिं सर्वप्राणिषु पुष्कसोऽपि सः ।सर्वव्रह्मात्मविज्ञानो भक्तराज्ज्ञानवाँस्तथा ॥१४॥पुष्कसं तु शरीरं वै सदा मलस्य भाजनम् ।सर्वदेहास्तथा सन्ति मलपात्राणि सर्वथा ॥१५॥यदि शुद्धा न मनसि समानाः पुष्कसा यतः ।मनः शुद्धं यस्य तस्य पुष्कसत्वं विलीयते ॥१६॥गर्भे बालो न शुद्धोऽस्ति चाऽशुद्धद्वारसेवनः ।अशुद्धाश्च तथा जन्म जन्मोत्तरमशुद्धिमान् ॥१७॥शौचहीनस्तथा नित्यमशुद्धः कल्मषान्वितः ।मनोमालिन्ययुक्तश्च कामक्रोधादिकल्मषः ॥१८॥स्वार्थकापट्यभावश्च वासनावासितो मली ।अशुद्ध एव देहाढ्यो मानेर्ष्यामत्सरान्वितः ॥१९॥अहन्ताममतायुक्तः प्रमादमोहकर्षितः ।अशुद्ध एव स्त्रीपुत्रपरिवारनिबन्धनः ॥२०॥अविद्यारागसंसक्त्यभिनिवेशादिकल्मषः ।अस्मितादिभृतश्चापि भोगविलासपापवान् ॥२१॥रोगव्याधिजरामृत्युमहाकष्टानुयोगवान् ।देहोऽयं पुष्कसः प्रोक्तश्चिदात्माऽहं न पुष्कसः ॥२२॥सर्वे देहाः पुष्कसा वै नाऽऽत्मा पुष्कसः कर्हिचित् ।ब्रह्मात्मा निर्मलः शान्तः शुद्धो भक्तः समुज्ज्वलः ॥२३॥परमेशप्रतापेन सच्चिदानन्दबोधवान् ।मुक्तो बन्धनहीनश्च सदाऽहं मोक्षभागिह ॥२४॥एवं लक्ष्मि प्रजानाति पुष्कसोऽपि निजं सदा ।मुक्तवत् वर्तते नित्यं मम ध्यानपरायणः ॥२५॥भगवन्निष्ठ एवाऽयं तथाऽऽत्मनिष्ठ उत्तमः ।न स्वार्थोऽस्य न वै व्याधिर्मानसोऽपि मनागपि ॥२६॥एतादृशस्य भक्तस्य वद लक्ष्मि कथं न वै ।करोमि रक्षणं चित्ताह्लादनं चेष्टपूरणम् ॥२७॥मम लक्ष्मि सदा तुल्या जीवा देवास्तथेश्वराः ।सर्वे पुत्रा ममैवाऽत्र मायायां सन्ति देहिनः ॥२८॥विप्रो नृपो दीनजनः पुष्कसः स्त्री नपुंसकः ।पशुः पक्षी कीट आर्तो वृक्षो वल्ली च वै तृणम् ॥२९॥सर्वं पुत्रात्मकं मेऽस्ति यादः पतंग इत्यपि ।भजन्ते मां तु ये सेवामग्नास्तेषां विशेषतः ॥३०॥पिताऽस्मि रक्षको धाता पाता नेता परं पदम् ।अन्येषां तु कृतस्यैव फलदः साक्षिरूपवान् ॥३१॥अथैकदा तु भक्तस्य संकल्पोऽपि व्यजायत ।नारायणः कथं साक्षाद् भवेन्नेत्रस्य गोचरः ॥३२॥श्रुतं तेन ततः साधोर्मुखात् साधौ हरिः स्वयम् ।वर्तते सत्पुरुषस्य सेवया गोचरो भवेत् ॥३३॥अथाऽयं यज्ञराधो वै मार्गयत्येव सेवनम् ।यत्र साधुः श्रूयते च तत्स्थले स प्रयाति वै ॥३४॥चमत्कारपुरे श्रुत्वा साधुँ नागमतीतटे ।ययौ तीर्थस्य मिषवान् सस्नौ नद्यां तु भावतः ॥३५॥नागनाथस्य तीर्थे वै साधुं ददर्श तापसम् ।त्र्यवस्थापारगं दिव्यं ब्रह्मनिष्ठं हरिप्रियम् ॥३६॥नाम्ना ब्रह्मायनं शान्तं महर्षिं त्यागिनं मुनिम् ।आसने ध्यानमग्नं च ब्रह्मणि ध्यानिनं तदा ॥३७॥गत्वा पुरो ननामाऽसौ दण्डवत् प्रचकार ह ।घटीमात्रं पुरस्तस्थौ कृताञ्जलिश्च निश्चलः ॥३८॥घटिकाःऽन्ते साधुवर्यो ध्यानाद् बहिरुपाययौ ।ददर्श पुरतो भक्तं पुष्कसं यज्ञराधकम् ॥३९॥यज्ञराधः प्रणम्यैव तस्थौ कृताञ्जलिस्तथा ।साधुना 'कुशलं तेऽस्तु' प्रोच्य निषद्य बोधितः ॥४०॥सोऽपि भावेन बहुना निषसाद पुरः सतः ।पप्रच्छ गुणवृद्ध्यर्थं सत्संगत्यर्थमित्यपि ॥४१॥परमेशस्य लाभार्थं साक्षाद्वै साधनानि हि ।ब्रह्मायनो मुनिः श्रुत्वा मुमोदात्मपरात्मवान् ॥४२॥स्मृत्वा नारायणं मां च जगादोपादिदेश तम् ।शृणु भक्त सतां गुणान् गृह्णन्ति ये जनास्त्विह ॥४३॥गुणवन्तो भवन्त्येते सन्तो हि गुणसागराः ।सतां दोषान् प्रगृह्णन्ति दुष्टास्ते तु भवन्ति वै ॥४४॥सतां समागमे नित्यं गुणा आयान्ति भाविनः ।सतां गुणानां ग्रहणे माहात्म्यवेदनेऽनिशम् ॥४५॥वर्धन्ते स्वगुणा रम्याः सिद्धदशाप्रदाः शुभाः ।नैव ग्राह्याः सतां देहदोषाः क्वाचित्कसंभवाः ॥४६॥दोषाग्राहा भवन्त्येव गुणिनोऽपि तु दोषिणः ।अचिरेण महापापाद् गुणा नश्यन्ति मूलतः ॥४७॥अतः सतां सद्गुणा वै ग्राह्या न त्वगुणाः क्वचित् ।स्वल्पदुर्गुणग्रहणे विनष्टिर्महती भवेत् ॥४८॥सतां समागमेनैव वर्धन्ते गुणकोटयः ।भागवतास्तथा धर्मा वर्धन्ते सत्समागमात् ॥४९॥सतामेकान्तिकानां वै सेवनाद् दिव्यता भवेत् ।सतां संगतिः स्नेहेन जायते देहिनामिह ॥५०॥साधवो मोक्षदाः सन्ति सर्वपापविनाशकाः ।इष्टदाः सन्ति सन्तश्चेत्यवगत्य सतां पुरः ॥५१॥दासवद् वर्तते नित्यं तस्य सत्संगतिर्भवेत् ।ऐकान्तिकाः सर्वधर्माः पुष्यन्ति सत्समागमात् ॥५२॥वैराग्यं जायते चात्मपरात्मनोश्च वेदनम् ।माहात्म्यज्ञानसहिता भक्तिर्हरौ भवेत्ततः ॥५३॥आश्रयोऽपि दृढः स्याच्च कृष्णार्थाः सकलक्रियाः ।बाह्यान्तःकरणानां च व्यापारा भगवन्मयाः ॥५४॥भवन्त्येव हि भक्तस्य मोक्षद्वारमपावृतम् ।जायते धामदं श्रेष्ठं महामार्गगतिप्रदम् ॥५५॥स्त्रीधनादौ महासंगो देहिनो दुर्जरोऽस्ति यः ।सत्सु तथैव च कृतो मोक्षं ददाति देहिने ॥५६॥स्नेहः सत्सु सदा कार्यः स्त्रीपुत्राद्यधिकः खलु ।स्नेहेन सत्सु लग्नानां मुक्तिर्भवति शाश्वती ॥५७॥सत्सेवायां महाश्रद्धा कार्या नार्या नरेण च ।सर्वात्मना कृता सेवा तारयत्येव मायिनम् ॥५८॥सर्वार्पणकृता सेवा कृतार्थं कुरुते जनम् ।सन्तः प्रसन्ना दद्युर्वै धामाऽक्षरं च दिव्यताम् ॥५९॥देशः कालः शुभौ सेव्यौ संगः सेव्यः शुभस्तथा ।क्रिया कार्या शुभा नित्यं मन्त्रो धार्यः शुभोत्तमः ॥६०॥ध्यानं कार्यं हरेर्नित्यं सन्तो धार्या सदा हृदि ।दीक्षा ग्राह्या भागवती शरणं च हरेः सदा ॥६१॥एवं वै वर्तमानस्य साक्षान्नारायणो भवेत् ।असद्देशादिसंयोगे नष्टा भ्रष्टा मतिर्भवेत् ॥६२॥सद्देशादिसमायोगे श्रेष्ठा शुद्धा मतिर्भवेत् ।बलिष्ठपुण्ययोगेन सद्देशादि लभेज्जनः ॥६३॥सत्संगो जायते तस्य दिव्यता जायते ततः ।निर्मला यस्य बुद्धिर्न देशाद्या दोषिणस्तथा ॥६४॥यस्य भवन्ति तस्याऽत्र पापं पूर्वकृतं महत् ।उपस्थितं हि मन्तव्यं येन पापे प्रवर्तते ॥६५॥यद्वाऽत्र महतां तेन सतां द्रोहः कृतोऽस्ति यत् ।तत्फलं पापबुद्धिर्वै जाता पातकदायिनी ॥६६॥तां विनाशयितुं सेवां कुर्यान्निश्छद्मभावतः ।सतां प्रसन्नतां चापि प्राप्नुयात् सेवनं हरेः ॥६७॥अथ यः पापवानस्ति स तु द्रोहं करोति हि ।वदत्येव च नास्तिक्यभावेन निम्नगं वचः ॥६८॥साधूनां किं भवेदत्र समागमेन वै भुवि ।धूर्ता हि साधवः सन्ति मा कुर्वन्तु समागमम् ॥६९॥एवं वदन्ति दुष्टा वै त्याज्यास्ते दूरतः सदा ।तस्मात् संगः सतां कार्यः सतां संगो हि भेषजम् ॥७०॥पापिसंगो न वै कार्यः पापिसंगो विषं परम् ।दुःखी भजते श्रीनाथं दुःखहान्यर्थमेव तु ॥७१॥अर्थार्थी त्वर्थसिद्ध्यर्थं ह्यैश्वर्यार्थी स वै भवेत् ।आप्मनिष्ठोऽपि भजते कैवल्यार्थं हरिं सदा ॥७२॥ज्ञानी तु भगवन्निष्ठः सेवते परमेश्वरम् ।आत्मनिवेदी भगवन्निष्ठो हरेः प्रियो भवेत् ॥७३॥साक्षात्कारो भवेत्तस्य हरिनिष्ठस्य भूतले ।अस्य माहात्म्यविज्ञानं हरेर्भवति सर्वथा ॥७४॥हरेः स्नेहोऽस्य बहुधा सर्वथा वर्ततेऽनिशम् ।कृष्णेतराः समस्ता वासना नष्टा हि तस्य वै ॥७५॥एकान्तिकानां सेवाभिर्नष्टाः समस्तवासनाः ।भवन्त्येव ततो ज्ञानी भूत्वा सत्संगमाचरेत् ॥७६॥अक्षराधिपतेः कृष्णनारायणस्य वेदनम् ।माहात्म्यसहितं कुर्यात् सतां प्रसंगतः सदा ॥७७॥मानं निर्मूलनीयं च सतां समागमात् सदा ।मानिनो न प्रवर्धन्ते दिव्या गुणाः कदाचन ॥७८॥मानी सेवां न कुरुते सतां वै निम्नकोटिगाम् ।सदग्रे प्राञ्जलिर्न स्यान्न प्रशंसेद्गिरा सतः ॥७९॥रंकवद्वर्तमानं च सन्तं न मानवान्नमेत् ।मानो दोषो महानस्ति मानस्तम्भो हि नाशकृत् ॥८०॥भक्तिज्ञानविरागाद्या वर्धन्ते नैव मानिनः ।भक्तो गलितमानस्तु वर्धमानमहागुणः ॥८१॥जायते तस्य हृदये साक्षान्नारायणो वसेत् ।सतां हरेश्च नित्यं वै सेवया परिचर्यया ॥८२॥मानो विलीयते तीव्रवैराग्याढ्यस्य वै द्रुतम् ।ब्रह्मात्मभावनाभक्त्या हरिस्तस्मै प्रसीदति ॥८३॥प्रसन्नस्य हरेर्मूर्तिः प्रसन्नाऽस्य हि दृश्यते ।मधुरा हृदये मूर्तिर्बहिश्चापि हि दृश्यते ॥८४॥निर्मानो भक्तराट् श्रेष्ठो भगवद्बलवान् मतः ।भजते श्रीहरिं मानं हित्वाऽऽत्मब्रह्मनिष्ठितः ॥८५॥आत्मनिष्ठा च भगवन्निष्ठा पक्वाऽस्ति यस्य वै ।मायिकः सकलो व्याधिस्तस्याऽत्रैव विलीयते ॥८६॥कथायाः श्रवणेनापि सतां प्रसेवया तथा ।भक्त्या नारायणस्यापि तथोपासनया हरेः ॥८७॥सिद्धदशामाप्नुवन्ति सार्वज्ञ्यं चेशतां तथा ।उपासनाबलं स्वेष्टदेवस्य यस्य यादृशम् ॥८८॥तादृशं जायते तस्य महद्दिव्यं सुखं परम् ।मायिकं दुःखमत्यन्तं नाशमेति न संशयः ॥८९॥व्रजांगनासमा प्रीतिर्येषां स्वामिनि माधवे ।जायते सीमवज्यैंषां कर्तव्यं नाऽवशिष्यते ॥९०॥सतां प्रसेवया कृष्णमाहात्म्यदृढता भवेत् ।उपासनायाः सिद्धिश्च दृढा द्रागभितो भवेत् ॥९१॥अक्षरे परमे धाम्नि योऽस्ति गोलोकधामनि ।वैकुण्ठे श्रीपुरे चाऽव्याकृतेऽमृते च धामनि ॥९२॥ब्रह्मपतिर्हरी राधापतिश्च कमलापतिः ।ललिताश्रीपतिः रमापतिः श्रीपतिरीश्वरः ॥९३॥अन्तर्यामी वल्लभश्च स एव भगवान् स्वयम् ।समाधौ दृश्यते भक्त्या ततो बहिस्तु सेवया ॥९४॥मिलत्येव हरिर्नारायणो मानवविग्रहः ।प्राकृतेन जनेनापि समो भवति मानवे ॥९५॥यत्तेजसाऽक्षरं ब्रह्म मुक्ता ईश्वरकोटयः ।सूर्यचन्द्रादयस्तेजस्विनो भान्ति स एव सः ॥९६॥धृतमानवरूपो वै प्रदीपेन विलोक्यते ।सूर्यचन्द्रप्रभायां स दृश्यो भवति मानवैः ॥९७॥देहान्तेऽपि महापापी यन्नामस्मरणाद् द्रुतम् ।शुद्धो भवति निष्पापो मोक्षमार्गाय कल्पते ॥९८॥स एव निश्छद्मभक्तभक्त्या भवति गोचरः ।भज तं परमात्मानं श्रीशं कृष्णनरायणम् ॥९९॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।जप मन्त्रं तथा ध्याहि हृदये बालकृष्णकम् ॥१००॥जलं प्रासादिकं नित्यं पिब खाद निवेदितम् ।स्मर ब्रह्मप्रियानाथं प्रभुं मोक्षमवाप्स्यसि ॥१०१॥इत्युक्तः कमले तेन ब्रह्मायनेन पुष्कसः ।ज्ञानं लब्ध्वा प्रपूज्यैनं गृहं निजं ययौ ततः ॥१०२॥यथोक्तरीत्या भजते ध्यायति सेवते तथा ।सतां सेवां करोत्येव पश्यति स्मरति प्रभुम् ॥१०३॥यज्ञराधस्त्वेकदा तु पिप्पलस्य समीपतः ।ददर्श साधुं रूपाढ्यं ब्रह्मायनसमं शुभम् ॥१०४॥सहसा तं वीक्ष्य चक्रे दण्डवत् स्वागतादिकम् ।कुशलं चापि पप्रच्छ साधुस्तं स्नेहमावहन् ॥१०५॥भक्तः प्राह कुशलोऽस्मि साधुलाभाद् विशेषतः ।आज्ञां कुरु यथा साधो सेवेऽहं सकुटुम्बकः ॥१०६॥साधुः प्राह मया चाऽस्मात्स्थलाद् गन्तव्यमस्ति हि ।अश्वपट्टसरस्तीर्थं यत्र कृष्णनरायणः ॥१०७॥सहसार्थो भवान् भूत्वा समागच्छतु वै मया ।तथाऽस्त्विति पुष्कसः स स्वीकृत्य निर्ययौ सह ॥१०८॥कुटुम्बेन समस्तेन सहितोऽपत्यबालकैः ।तावत्तूर्णं विमानं चागतं दिव्यं तदाम्बरात् ॥१०९॥अहं लक्ष्मि स्वयं चाऽऽसं मोक्षदोऽस्मै कृपावशः ।आदाय तान् विमाने वै दिव्यान् कृत्वा हि पार्षदान् ॥११०॥भौतिकदेहान् त्याजयित्वाऽहं निन्ये निजाऽक्षरम् ।शाश्वतं ते पदं प्राप्ता भक्ता मे दिव्यमूर्तयः ॥१११॥इत्येवं कृतवाँस्तेषां कल्याणं सत्समागमात् ।सर्वे जीवा भजन्ते मां ये ते भवन्ति तादृशाः ॥११२॥पठनाच्छ्रवणादस्य स्मरणाच्छ्रावणादपि ।भुक्तिर्मुक्तिर्भवत्येव दिव्यगतिश्च सम्पदः ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने यज्ञराधनामकपुष्कसस्य सकुटुम्बस्य ब्रह्मायनर्षिसाधोः समागमेन श्रीहरिभक्त्या मोक्षप्राप्तिरित्यादिनिरूपणनामा दशाधिकद्विशततमोऽध्यायः ॥२१०॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP