संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ६५

द्वापरयुगसन्तानः - अध्यायः ६५

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि माहात्म्यं परमेशितुः ।
अनादिश्रीकृष्णनारायणस्य गुरुरूपिणः ॥१॥
ममैव खलु माहात्म्यं यथावत् प्रवदामि ते ।
न च तृप्याम्यहं वक्तुं नारीदयावशंवदः ॥२॥
नित्यं सम्पूजयेत् साध्वी मोक्षसौभाग्यकांक्षिणी ।
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन माम् ॥३॥
पञ्चगव्येन सलिलैर्गन्धचन्दनवारिभिः ।
चन्दनेन सुगन्धेन कुंकुमेन गुलालकैः ॥४॥
अबीरेण तथा काश्मीरेण केसरवारिभिः ।
कर्पूरोशीरमिश्रेण लोपयेन्मां द्रवेण च ॥५॥
अर्चयेद् रुचिरैः पुष्पैर्गन्धधूपसमन्वितैः ।
गुग्गुलं गोघृताक्तं वै ददेन्मे सन्निधौ सती ॥६॥
दीपकं च दिवारात्रौ दद्याद् घृतेन सुन्दरी ।
नैवेद्यं दुग्धपानादि क्षीरान्नं परमर्पयेत् ॥७॥
एवमभ्यर्चयेन्मां च प्रणम्याऽभिप्रणम्य च ।
'ओं नमः कृष्णकान्ताय जपेदष्टोत्तरं शतम् ॥८॥
जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ।
तथैव नाम्ना मह्यं वै सर्वमुक्ताभितृप्तये ॥९॥
कमलैर्मम चरणौ पूजयेद् भक्तिवर्धिनी ।
बिल्वपत्रैर्जानुदेशं पूजयेन्मे विलासिनी ॥१०॥
जघनं मे पूजयेच्च राजचम्पकपुष्पकैः ।
वक्षो मे पूजयेत्साध्वी स्थलपद्मसुपद्मकैः ॥११॥,
मस्तकं पूजयेद् रामा मालत्या वृन्दया तथा ।
चन्दनेन समग्रं च शरीरं पूजयेन्मम ॥१२॥
देहबुद्धिं परित्यज्य हरिबुद्ध्या प्रपूजयेत् ।
सर्वविधां मम सेवां ब्रह्मचर्ययुताऽऽचरेत् ॥१३॥
पत्नीभिर्भर्तृवाक्येन कर्तव्यं पूजनं मम ।
विधवाभिर्मम वाक्यान्मोक्षसौख्यविवृद्धये ॥१४॥
सर्वकामसमृद्ध्यर्थं कन्याभिः पूजनं मम ।
सर्वस्मृद्धिप्रलाभार्थं नरैः कार्यं प्रपूजनम् ॥१५॥
एतादृशं पूजनं मे मोक्षदं स्मृद्धिदं प्रिये ।
नारीविक्रयपापस्य नाशकं पूजनं त्विदम् ॥१६॥
पूजा भक्तिः कथिता ते लक्ष्मि श्रेष्ठां च तां शृणु ।
मल्लीनचित्ता या भक्तिः सा भक्तिः परमा मता ॥१७॥
प्रेमप्रवाहमग्नाया मद्विरहाऽसहिष्णुता ।
मत्स्वरूपाकारचित्ता भक्तिः सा परमोत्तमा ॥१८॥
उत्तमा चात्मना भक्तिर्मध्यमा मनसा तु सा ।
कनिष्ठा वर्ष्मणा भक्तिस्त्रेधा भवति मोक्षदा ॥१९॥
मुक्तानामात्मना भक्तिर्योगिनां मानसी तथा ।
अज्ञानां देहजा भक्तिस्त्रेधाऽपि मोक्षदा मता ॥२०॥
आत्मभक्त्या सुखं श्रेष्ठं मनसा मध्यमं सुखम् ।
देहेन वै सुखं स्वल्पं त्रेधा विभिद्यते सुखम् ॥२१॥
आत्मना ब्रह्मरूपेण ह्यानन्दः शाश्वतो मम ।
मनसा दिव्यभावेन ह्यानन्दो योगसावधिः ॥२२॥
देहेन क्रिययाऽऽनन्दो देहक्षणाद्यपेक्षकः ।
स्वार्थानन्दपरा भक्तिस्तामसी मम सा मता ॥२३॥
उभयानन्दगर्भा सा राजसी भक्तिराच्युती ।
हर्यानन्दपरा भक्तिः सात्त्विकी स्वार्थवर्जिता ॥२४॥
गुरोर्भक्तिर्हरेर्भक्तिस्तादात्म्येन कृता यदि ।
शीघ्रं सा फलदा लक्ष्मि साक्षाद्गुरुर्हि वै हरिः ॥२५॥
भक्तिमत्याः स्त्रिया नित्यं शान्तिं कुर्वन्ति देवताः ।
क्षेमं कुर्वन्ति शंभ्वाद्याः स्वस्ति यच्छन्ति साधवः ॥२६॥
पुण्यं यच्छन्ति ऋषयश्चाशीर्वादपरायणाः ।
शुभं यान्ति ग्रहाश्चापि शुभं यान्ति पिशाचकाः ॥२७॥
राक्षसाश्च शुभं यान्ति प्रसन्ना मुनयोऽपि च ।
लक्ष्मीः स्थिरा गृहे तस्यातिष्ठत्येव सदा शुभा ॥२८॥
रसास्तिष्ठन्ति तस्या वै मधूनि मन्दिरे यथा ।
मिष्टामृतानि तिष्ठन्ति सुधा भक्तियुतागृहे ॥२९॥
पीयूषाणि समस्तानि तिष्ठन्ति च महोत्सवाः ।
सर्वविधानि स्वर्गाणि तिष्ठन्ति भक्तियुग्गृहे ॥३०॥
भक्तिमती सदा नारी राधा लक्ष्मीर्मता मम ।
शारदा कमला कान्ता श्रीः पद्मा सा मता मम ॥३१॥
या कापि जातिसम्पन्ना भजते मामनन्यगा ।
सा ममैव प्रिया भक्ता मोक्षे मुक्तानिका भवेत् ॥३२॥
यस्या दर्शनमात्रेण ब्रह्महा अपि शुद्ध्यति ।
तद्गृहं सर्वतीर्थानां वासरूपं वरं मतम् ॥३३॥
यत्र भक्तैतादृशी स्यान्नारी नारायणी शुभा ।
इयं सा कमलामूर्तिर्भक्ता वै पापहारिणी ॥३४॥
कैवल्यफलदा सा वै यथा गंगा रमा यमी ।
तिष्ठत्येतादृशी भक्ता यत्स्थाने यत्र मन्दिरे ॥३५॥
यत्कुले भूतले वापि सर्वं मोक्षप्रदं हि तत् ।
किमत्र बहुनोक्तेन भक्ता रमा रमा हि सा ॥३६॥
रमां मत्वा मम भक्तां या नमिष्यन्ति सत्स्त्रियः ।
तासां दर्शनमात्रेण ब्रह्मघ्नी शुद्ध्यति ह्यपि ॥३७॥
दासी भावेन या तस्याः सेवनं कुरुतेऽबला ।
तस्याः पुण्यं न जानाति ब्रह्माऽपि खलु पद्मजे ॥३८॥
शंखचक्रान्वितां भक्तां पूजयेद् या तु वैष्णवी ।
पूजितं तेन वै सर्वं जगत्स्थावरजंगमम् ॥३९॥
स एव दिवसो धन्यो धन्या माताऽपि तत्कुलम् ।
पिता धन्यस्तथा साध्व्या यया भक्ता प्रपूजिता ॥४०॥
सर्वा धन्यतमा साध्व्यो मम भक्तिपरायणाः ।
तासां दर्शनमात्रेण महापापं विलीयते ॥४१॥
उपपापानि सर्वाणि प्रकीर्णकानि तानि वै ।
सर्वाण्येव विनश्यन्ति वैष्णवीनां हि दर्शनात् ॥४२॥
पावका इव पावन्यो विष्णुभक्ताः स्त्रियः सदा ।
आर्द्रं शुष्कं लघु स्थूलं नाशयन्ति हि कल्मषम् ॥४३॥
प्रामादिकं हि यत्पापं ज्ञानाऽज्ञानकृतं तथा ।
संसर्गजं च पापं च नश्यति द्रुतमेव ह ॥४४॥
सतीनां दर्शनाल्लक्ष्मि साधूनां सेवनात्तथा ।
स्वर्गं प्रयान्ति निष्पापाः पापिष्ठा यान्ति शुद्धताम् ॥४५॥
संसारकर्मपाशानां मोक्षणे वै विशारदी ।
पावनी पावनानां च मम भक्ता सदा शुभा ॥४६॥
प्रत्यह मम भक्ता या मां प्रस्मरत्यहर्निशम् ।
सा तु मद्रूपिणी बोध्या हरिणी सा न संशयः ॥४७॥
भ्राजत्कर्पूरशुभ्रं मां पद्मपत्रायतेक्षणम् ।
शंखचक्रगदापद्ममीनध्वजधनुर्धरम् ॥४८॥
पीताम्बरं विराजन्तं कौस्तुभेन समुज्ज्वलम् ।
श्रीवत्सवक्षसं पुष्टं वनमालादिभूषितम् ॥४९॥
स्वर्णकुण्डलभाव्याप्तकपोलवदनं हरिम् ।
वलयांऽगदनूपुरकिरीटरशनान्वितम् ॥५०॥
प्रसन्नवदनं कृष्णनारायणं प्रभुं विभुम् ।
वामसक्थिस्थपाण्डुरश्रीचिह्नप्रविराजितम् ॥५१॥
सपादपञ्चषष्ट्यंगुलोर्ध्वमान पुमुत्तमम् ।
चतुर्बाहुं चन्द्रशुभ्राननं भ्रूशरराजितम् ॥५२॥
मामनादिकृष्णनारायणं ध्यायति या सती ।
सा भक्ता वैष्णवीरूपा श्रीरूपा मत्स्वरूपिणी ॥५३॥
तस्यास्तु दर्शनेनापि भक्त्या वा भोजनेन च ।
पूजनेन कमले वै मुक्तिगा जायते सखी ॥५४॥
तृषातुरा यथा वारि तद्वन्मां सा स्मरत्यपि ।
हिमाकुला यथाग्निं च तद्वन्मां सा स्मरत्यपि ॥५५॥
यथा पतिं पतिधर्मा तद्वन्मां सा स्मरत्यपि ।
भीता यथा स्वगोप्तारं तद्वन्मां सा स्मरत्यपि ॥५६॥
लोभवती यथा द्रव्यं तद्वन्मां सा स्मरत्यपि ।
पुत्रकामा यथा पुत्रं तद्वन्मां सा स्मरत्यपि ॥५७॥
विवासिता यथा गेहं तद्वन्मां सा स्मरत्यपि ।
चातकी च यथा मेघं तद्वन्मां सा स्मरत्यपि ॥५८॥
ब्रह्मवेत्त्री यथा ब्रह्म तद्वन्मां सा स्मरत्यपि ।
पितरश्च यथा पिण्डं देवा हव्यं यथाऽध्वरे ॥५९॥
ऋषयश्च यथा मन्त्रान् मानवाः सम्पदो यथा ।
हंसाश्च मानसं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६०॥
कामुकी कामिनं यद्वद् भक्ता भजन्तमेव यम् ।
माताऽपत्यं यथा तद्वन्मां सा स्मरति साध्विका ॥६१॥
भक्तिमन्तो यथा कृष्णं भक्तिं च वैष्णवा यथा ।
पशवश्च तृणं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६२॥
सन्तो धर्मं साधवश्च क्षमां श्रेष्ठी समर्हणाम् ।
प्राणी प्राणान् वधुश्चात्मा तद्वन्मां सा स्मरत्यपि ॥६३॥
जीवाश्चायुर्भ्रमराश्च पुष्पं सूर्यं तु चाटिका ।
वल्लभा वल्लभं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६४॥
रात्रिस्थाश्च यथा ज्योतिः श्रमार्ताः श्रान्तिमेव च ।
निद्रां जागरिणो यद्वत् तद्वन्मां सा स्मरत्यपि ॥६५॥
अनालसा यथा सिद्धिं करिणोऽरण्यभूमिकाम् ।
सिंहा गाढवनं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६६॥
सूर्यकिरणमासाद्य सूर्यकान्तेऽनलो यथा ।
एवं साध्वीसुसत्संगाद्धरौ प्रेमवती भवेत् ॥६७॥
चन्द्रकिरणयोगेन चन्द्रकान्तः स्रवेत्सुधाम् ।
एवं वै वैष्णवीयोगाद्धरौ भक्तिस्तवो भवेत् ॥६८॥
कौमुदीं प्राप्य च यथा कुमुदं संविकासते ।
गुर्वीं भक्तां तथा प्राप्य हृत्पद्मं संविकाशते ॥६९॥
यथा कीटी भ्रमरीं च स्मृत्वा भ्रमरी जायते ।
योगस्मृत्या तथा साध्वी स्मृत्वा मां मत्समायते ॥७०॥
वध्वश्च कामबुद्ध्यैव कृष्णरूपं परं गताः ।
तथा गोपी च मां स्मृत्वा कृष्णनारायणायते ॥७१॥
काचिद्धास्यायते मां च काचित् स्नेहायते च माम् ।
काचित् स्पृहायते मां च काचित् स्वाम्यायते सती ॥७२॥
प्रेमायते च काचिच्च कृष्णायते च भामिनी ।
एवं मां भक्तियोगेन समीपे विन्दते क्षणात् ॥७३॥
सान्निध्येऽपि स्थितश्चाऽहं दूरे भक्तिं विना सदा ।
भक्तियोगेन दृश्येय भक्ताभिः परमेश्वरः ॥७४॥
देवाद्यैरमृतं प्राप्तं तथापि दुःखिनो हि ते ।
भक्तिमेवाऽमृतं प्राप्य दुःखं सर्वं विनश्यति ॥७५॥
भक्त्या वैकुण्ठमासाद्य मोदते विष्णुसन्निधौ ।
अन्यत्सर्वं परित्यज्य मम भक्तिं समाश्रयेत् ॥७६॥
प्राप्य देहं विना भक्तिं क्रियते यद् वृथा हि तत् ।
विष्णुभक्तिं विना नैव संसाराब्धितरिर्भवेत् ॥७७॥
दुःखदावानलदग्धं मम भक्तिः प्रशाम्यति ।
जन्मान्तरेऽपि भक्तिर्मे मामकीं विदधाति वै ॥७८॥
भूत्वा च मामकी दासी लक्ष्मीः प्रजायते ततः ।
रेणुमात्रमपि भक्तेर्मम धाम ददाति वै ॥७९॥
शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते ।
लक्षैश्च भज्यते तत्र भक्ता काचिद् रमा भवेत् ॥८०॥
बुद्धिदा बहवो लोके भजमानस्तु कश्चन ।
तत्रापि च तदात्मत्वं प्राप्तः कोटिगणेऽद्वयः ॥८१॥
पूजया हस्यते भक्तिर्जपैर्हासयते तथा ।
भक्त्या भक्तिः शंस्यते च मया भक्तिः प्रगृह्यते ॥८२॥
मूले सिक्तस्य वृक्षस्य शाखादलफलोद्भवः ।
तथा सिक्तो हरिर्भक्त्या भक्तानन्दफलोद्भवः ॥८३॥
यस्या वृत्तिर्यादृशी सा तथा भक्तिं करोति वै ।
भजनादेव मे लक्ष्मि फलमग्रे ह्यवाप्यते ॥८४॥
पानीयहारिणी यद्वद् घटे तीरे प्रकर्षणे ।
चित्तं ददाति तद्वच्चेन्मयि ददाति मुच्यते ॥८५॥
यथा लोके स्थितं व्योम भूतैर्नैव हि लिप्यते ।
तथा लोके स्थिता भक्ता कर्मभिर्नहि लिप्यते ॥८६॥
दिवारात्रौ हि मे भक्ता ममानन्दोपजीविनः ।
तेऽत्रस्था अपि धामस्था दिव्या मुक्ता हि ते मताः ॥८७॥
सर्वमेधादियज्ञानां फलं स्वर्गं प्रपातवत् ।
मम भक्त्यध्वरफलं पुनरागमवर्जितम् ॥८८॥
दृष्टमानन्त्यमेवाऽस्या भक्तेर्मे मत्प्रसादतः ।
पाषाणो जलमध्यस्थो जलेन लिप्यते न सः ॥८९॥
भक्तो मायान्तरस्थोऽपि मायया लिप्यते न सः ।
मे भक्तस्यान्तरे शैत्यं विना जलेन मद्वशात् ॥९०॥
दर्दुरो वसति नीरे गन्धं वेत्ति न पद्मजम् ।
भ्रमरोऽरण्यवासोऽब्जगन्धं प्रवेत्ति वै स तु ॥९१॥
अहं वसामि हृदये बहिर्वृत्तिर्न वेत्ति माम् ।
प्रेमभक्तियुतो दूरस्थोऽपि वेत्ति हृदि स्थितम् ॥९२॥
गंगातटे वसन्त्येके वसन्त्यन्येऽर्बुदाचले ।
माहात्म्यवित् फलं त्वत्ति तथा भक्तियुतो जनः ॥९३॥
गर्दभश्चन्दनभारं वहते गन्धमेति न ।
बहिःस्थश्चान्तरस्थं मां न वेत्ति नैति मत्सुखम् ॥९४॥
मृगा जिघ्रन्ति रस्यानि कस्तूरीगन्धवेदिनः ।
स्वनाभिस्थं न जानन्ति तथा मां वै बहिर्मुखाः ॥९५॥
मूर्खाणां ज्ञानशून्यानामुपदेशो निरर्थकः ।
तथा मद्भक्तिशून्यानामानन्दोऽपि निरर्थकः ॥९६॥
सर्पपीतं पयः क्ष्वेडं शठभक्तिस्तथाविधा ।
अन्धो दीपं वीक्षते न तथा मां वै बहिर्मुखः ॥९७॥
वेषेण च यथा चर्मं चर्मणा वर्ष्म संवृतम् ।
वर्ष्मणेन्द्रियकं यद्वत्तथेन्द्रियैर्हि वासना ॥९८॥
तयाऽऽवृतश्च जीवात्मा तेनाऽहं वै समावृतः ।
अणोरणीयान् चान्तःस्थो वसाम्यात्मा न चैति माम् ॥९९॥
दुग्धे घृतं तिले तैलं विद्यतेऽहं तथा विधः ।
विद्ये सर्वत्र मां नैव जानन्ति बहिरिच्छवः ॥१००॥
एकसूत्रे यदा प्रोता मणयो मयि तत्तथा ।
सृष्टयः सर्वथा प्रोताश्चात्मानो न विदन्ति माम् ॥१०१॥
यथा काष्ठादिगो वह्निर्मथनाद् दृश्यते बहिः ।
तथा त्वात्मस्थितश्चाऽहं दृश्ये भक्तिप्रमन्थनात् ॥१०२॥
यथा दीपात् प्रभवन्ति दीपाश्चान्ये ह्यपेक्षिताः ।
तथा गुरोः प्रजायन्ते सर्वज्ञा भक्तिमुक्तिगाः ॥१०३॥
यथाऽर्कस्योदये ज्योतिः सर्वत्रैव प्रकाशते ।
तथा भाग्योदये स्वामी गुरुः स्वयं प्रकाशते ॥१०४॥
यथा वायुः सर्वगश्च सर्वगन्धवहस्तथा ।
गुरुर्हरिः सर्वगश्च कर्मभक्तिफलावहः ॥१०५॥
नीरं यादृग्रसाढ्यं वै तादृग्रसो मुखे भवेत् ।
आत्मा यादृक्प्रेमपूर्णस्तथाऽनन्दरसो निजे ॥१०६॥
पृथ्वी नैकरसैर्युक्ता नानासस्यस्वरूपिणी ।
आत्मा नैकसुखाढ्यश्च नानाब्रह्मसुखान्वितः ॥१०७॥
सच्चिदानन्दरूपोऽयं ह्यात्मा भक्तोऽतिमोदवान् ।
ममाऽऽनन्देन संयुक्तो महानन्दी प्रजायते ॥१०८॥
ममाऽऽनन्दं मम भक्तिं लक्ष्मि या वेत्ति वै हृदि ।
सा भक्ता कमलातुल्या मम धामाऽभियायिनी ॥१०९॥
अहं वसामि सर्वत्र लोका जानन्ति नैव माम् ।
अविद्यया न जानन्ति चाऽभक्त्या न विदन्ति माम् ॥११०॥
सर्वकर्माणि चेत् कुर्युर्विष्णुदैवतकानि वै ।
तैरेव निर्गुणैर्योगैश्चाप्नुवन्ति पुरःस्थितम् ॥१११॥
एवमुक्तं मया लक्ष्मि मम सान्निध्यमद्भुतम् ।
विचार्य प्राप्य विज्ञाय भजित्वा मामवाप्नुयात् ॥११२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां भगवदुक्तभक्तिमाहात्म्योत्कर्षनिरूपणनामा पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP