संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १११ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १११ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १११ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं जलं तु जीवनं सदा ।जलदानं जीवदानं कीर्तितं चामृतात्मकम् ॥१॥शीतलं मधुरं वारि मिष्टं कृत्वा सुगन्धयुक् ।शार्करं पाययेत् साधून् विप्रानन्याँस्तृषान्विताम् ॥२॥प्रपाः कुर्यात् कारयेच्च पाययेत् सुजलानि वै ।कूपान् वापीतडागाँश्च कारयेल्लोकतृप्तिदान् ॥३॥जलदानं रसदानं परे लोके प्रपद्यते ।अर्धं पापस्य हरति जलं दत्तं सुतृप्तिदम् ॥४॥जलं साक्षिस्वरूपं च वरुणात्म प्रदीव्यति ।चेतनं ब्रह्म वार्यास्ते देयं पुण्यतमं जलम् ॥५॥गावो विप्राः साधवश्च साध्व्योऽन्ये देहिनोऽपि च ।यस्य खाते पिबन्त्यंभस्तारयन्ति कुलानि ते ॥६॥यथा वारि तथा पुण्यं घृतं दद्यात् प्रभक्षणे ।साधुद्विजातिथिभ्योऽपि रूपवान् रसवान् भवेत् ॥७॥फलं पुष्टिं यशः स्नेहं चामृतं लभते दिवि ।बलं गाश्च महिषीश्च लभते घृतदानकृत् ॥८॥दद्याद् दाने पायसं च सर्पिर्दद्याद् विशेषतः ।घृतदातुर्गृहं रक्षोयमाद्या धर्षयन्ति न ॥९॥पिपासया न म्रियते करकावारिदानकृत् ।शकटस्य प्रदातुश्च भवन्ति वाहनानि वै ॥१०॥स्वर्गयानानि रम्याणि विमानानि शुभानि च ।उपानत्संप्रदातुश्च नश्यन्ति कण्टकाः सदा ॥११॥शकटं दम्यसंयुक्तं दत्तं भवति तस्य वै ।तिलदानं प्रकर्तव्यं पितृभोज्याः शुभास्तिलाः ॥१२॥सर्वसत्रैर्यजते स यस्तिलान् सम्प्रयच्छति ।पौष्टिकान् रूपदाँश्चापि तथा पापविनाशकान् ॥१३॥यत्र घृतं व्रीहिर्नास्ति नास्ति फलानि पायसम् ।तत्र तिलैः प्रहोतव्यं तृप्यन्ति पितरः सुराः ॥१४॥तिलदस्याऽमृतं स्वर्गं चोपतिष्ठति सर्वदा ।तिलदाताऽन्नदः प्रोक्तः फलदश्चापि कथ्यते ॥१५॥एवं लक्ष्मि! भूमिदाता यज्ञषष्ठांशमृच्छति ।न सीदति स कृच्छ्रेषु न च दुर्गाणि गच्छति ॥१६॥शीतवातातपसहां गृहभूमिं सुशोभिताम् ।यो दत्ते मोदते स्वर्गे पुण्यान्तेऽपि न चाल्यते ॥१७॥प्रतिश्रयप्रदाता वै स्वर्गे याति प्रमोदते ।धर्मशालाविधाता च स्वर्गलोके प्रमोदते ॥१८॥यस्य सौधे पाठशाला साधुशाला गवां कुलम् ।स दाता स्वश्च वैराजं प्राधानिकं गृहं लभेत् ॥१९॥आशतानि कुलान्येव तारयत्याश्रयप्रदः ।क्षेत्रदः सततां लक्ष्मीं रत्नदो वंशविस्तरम् ॥२०॥उद्यानदः फलरसान् तीर्थदो मोक्षमुत्तमम् ।गोदो याति तु गोलोकं विप्रदो ब्रह्म चाक्षरम् ॥२१॥कुमारदो भूमलोकं कन्यादः श्रीस्थलीं शुभाम् ।दासीप्रदोऽप्सरोलोकं दीपदः सूर्यसन्निधिम् ॥२२॥घृतदः सोमलोकं च दुग्धदोऽमृतधाम च ।रत्नदोऽव्याकृतं धाम स्त्रीदो विष्णुपदं परम् ॥२३॥गृहदः सत्यलोकं च ऋद्धिदः प्राकृतं स्थलम् ।भूषादो वैष्णवं धाम प्रयाति शाश्वतीः समाः ॥२४॥गोदः प्राणप्रदः प्रोक्तः शरण्यस्य प्रदस्तथा ।गोसहस्राणि दश यो ददातीन्द्रत्वमृच्छति ॥२५॥स्वायंभुवं महत्स्थानं कणदः समगच्छति ।लोमशश्च गुरुः प्राह प्राणदानं परं मतम् ॥२६॥येन प्राणाः प्ररक्ष्यन्ते प्राणदानं हि तन्मतम् ।अन्नेनापि जलेनापि तथौषधादिभिः क्वचित् ॥२७॥शरणेनाऽभयेनाऽप्याश्रयेण प्राणरक्षणम् ।तानि दानानि कमले प्राणदानानि सर्वदा ॥२८॥दातव्यानि चिरायुष्ट्वफलानि स्वर्गदानि च ।जलं सुराणाममृतं जायते दत्तमत्र यत् ॥२९॥नागानां तत् सुधारूपं पितॄणां च स्वधात्मकम् ।वत्सानां चापि बालानां जलं दुग्धात्मकं भवेत् ॥३०॥जलदानं सदा दद्याद् यदीच्छेद् भूतिमात्मनः ।दानान्येतानि धन्यानि चायुष्याणि सुखानि च ॥३१॥सर्वकामप्रदान्येव प्रेत्यानन्दप्रदानि च ।एतद्दानानि दत्वाऽत्र भोगान् भुक्त्वा त्रिविष्टपे ॥३२॥उषित्वा चिरकल्पाँश्चाऽक्षरं स्तोत्रात् प्रयाति च ।पुरुषोत्तमसाम्नश्च फलं त्वक्षरधाम वै ॥३३॥निजदानं प्रदातव्यं गृहिणा त्यागिने शुभम् ।सर्वं त्यक्त्वा साधवे स्वार्पणकर्ताऽक्षरे पदे ॥३४॥मोदते ब्रह्मविद्भक्तो मुक्तो भूत्वा निरन्तकः ।पूर्वे नृपास्तथा विप्राः स्वार्पणं त्यागिने रमे ॥३५॥गुरवे चार्पणं चक्रुर्नैजं त्यागाश्रमाय ह ।भूत्वा वनी ततो न्यासी गच्छेद्वै परमं पदम् ॥३६॥पुरुषोत्तमसाम्ना वै लभेताऽक्षरधाम च ।शृणु लक्ष्मि कथां दीर्घशीलस्य ब्राह्मणस्य वै ॥३७॥शत्रुंजयायाः सरितस्तटे ग्रामे विरामणे ।दीर्घशीलोऽभवद्विप्रो वसन्त्येऽपि भूसुराः ॥३८॥अथ प्राह यमः कंचिद् दूतं भयंकरं निजम् ।याहि विरामणं दीर्घशीलं समानय ॥३९॥भारद्वाजं गोत्रतश्च स्नानपूजाविवर्जितम् ।नास्तिकं निन्दकं शास्त्रमृषावादिनमेव तम् ॥४०॥मा चाऽन्यमानयेथास्त्वं नाम्ना गोत्रेण सदृशम् ।दानशीलं दीर्घशीलं वसन्तं वै विरामणे ॥४१॥स गत्वा त्वानयद् दूतो निषिद्धं दानशीलिनम् ।ग्रामे कोलाहलो जातो मृतो वै दीर्घशीलवान् ॥४२॥सम्बन्धिनः सुहृदश्चाययुस्तदुभयोर्गृहम् ।भ्रान्ता न्यवर्तयँश्चापि दृष्ट्वा जीवन्तमेककम् ॥४३॥केचिदाहुर्यमदूतोऽस्माभिर्दृष्टो भयंकरः ।दीर्घशीलं सुनीत्वैव गच्छन् व्योमगतिस्त्वरन् ॥४४॥श्रुत्वा त्रासं जगामापि नास्तिको मरणं निजम् ।अन्तिके त्वागतं किन्तु दूतो विस्मृत्य मां परम् ॥४५॥आस्तिकं हृतवानेव ततो दानं करोमि च ।दत्तवान् द्रुतमेवाऽयं गोतिलाम्बरभूषणम् ॥४६॥गृहं घृतं सुभोज्यान्नं जजाप च पुनः पुनः ।पुरुषोत्तमसामाऽपि भीयुक्तो मरणस्य सः ॥४७॥तत्पुण्यं बहुधा जातं सर्वपापविनाशकम् ।प्रतीक्षते यमदूतं त्वायास्यन्तं मुहुर्दिशम् ॥४८॥अथ संयमिनीपुर्यां गतश्चास्तिकभूसुरः ।दृष्टो यमेन धर्मेण नतश्चोत्थाय पूजितः ॥४९॥मधुपर्कादिभिः सम्यक् सत्कृतो वन्दितस्तथा ।भोजितश्चामृतान्नैश्च क्षमां प्रति ततोऽर्थितः ॥५०॥अथ धर्मनृपो दूतं प्राह नाऽयं स दण्डभाक् ।पूजितो नीयतामेषः सोऽन्य आनीयतामिति ॥५१॥एवमुक्ते तु वचने त्वास्तिकः प्राह धर्मजम् ।निर्विण्णोऽहं शेषकालं वसेयमिति सर्वदा ॥५२॥नाऽहमिच्छामि दुःखाढ्ये देहे निवसितुं यम ।धर्मान् श्रावय भद्रं ते यान् प्रपाल्याऽप्यते सुखम् ॥५३॥धर्मराजस्ततः प्राह शृणु तत्त्वं हि भूसुर ।भूमिदानं सर्वदानसमं सर्वसुखप्रदम् ॥५४॥गृहदानं सर्वसाध्यसाधनैश्चोपबृंहितम् ।सुखदं पुण्यदं स्वर्गप्रदं विप्र परं मतम् ॥५५॥उद्यानवाटिकादानं रसदानं परं मतम् ।सर्वरसानवाप्नोति फलपुष्पादनानि च ॥५६॥तटाकसरितां दानं श्रेष्ठं तृप्तिप्रदं मतम् ।गोदानं परमं विप्र स्वर्गमोक्षप्रदं मतम् ॥५७॥वैतरणीतारकं च मायाबन्धननाशकम् ।भवाब्धितारकं पापक्षालकं हि गवार्पणम् ॥५८॥स्वर्गदानं भूषणादिसमर्पणं परं मतम् ।शृंगाराम्बरदानं च स्मृद्धिदं परमं मतम् ॥५९॥कन्यादानं च दाम्पत्यप्रदं श्रेष्ठं दिवम्प्रदम् ।दासदासीप्रदानं च धनदानं तथा शुभम् ॥६०॥सर्वगार्हस्थ्यभोगानां सम्पादकं तु नाणकम् ।तिलदानं घृतदानं दीपदानं परं तथा ॥६१॥शर्करागूडदानं च यवगोधूमदानकम्।छत्रोपानत्प्रदानं च स्वर्गराज्यप्रदं मतम् ॥६२॥तानि सर्वाणि देयानि देयं चाभयदानकम् ।मोक्षदानं परतमं सर्वेभ्यो वै विशिष्यते ॥६३॥विप्र त्वया प्रदत्तानि बहूनीमानि सर्वथा ।पुण्यवानसि सम्यक् त्वं कुरु श्रेयो हि देहिनाम् ॥६४॥पुरुषोत्तमसामाख्यं स्तोत्रं जप पुनर्मुहुः ।मोक्षदं शाश्वतानन्दप्रदं मोक्षप्रमोददम् ॥६५॥नित्यसुखप्रदं पापध्वंसकं चाक्षरप्रदम् ।पुरुषोत्तमसाम्नस्तु पाठकं पूर्वपापिनम् ॥६६॥दण्डं नाऽहं ददाम्यत्र पावनः स तु कीर्त्यते ।अदण्ड्यो मे भवेद् विप्र महापाप्यपि पाठकः ॥६७॥याहि विप्र सुखेनैव क्षन्तव्यश्चापि धर्मराट् ।इत्युक्तो दीर्घशीलश्च दूतेन सह सत्वरम् ॥६८॥नत्वा धर्मं चाययौ वै निजं देहं विनेश ह ।प्रसन्ना बान्धवा जाता विप्रो दानानि वै ददौ ॥६९॥ययौ धामाऽक्षरं चान्ते जप्त्वा स्तोत्रं मम प्रियम् ।पुरुषोत्तमसामाख्यं सर्वबाधानिवर्तकम् ॥७०॥यमदूतो नास्तिकं तं नीत्वाऽऽययौ यमं प्रति ।दण्डायाऽऽवेदयामास चित्रगुप्तं तु धर्मराट् ॥७१॥दृष्ट्वाऽऽह चित्रगुप्तोऽपि पुण्यं विवर्धतेऽस्य वै ।पापान्यद्यानि सर्वाणि दुरीतानि कृतानि तु ॥७२॥विलीनानि समग्राणि पुरुषोत्तमसामतः ।पुण्यपुञ्जाः प्रवर्धन्ते सर्वदानादिभिस्त्विह ॥७३॥ततो दण्ड्योऽस्ति नाऽयं वै पूजनीयोऽस्ति सर्वथा ।श्रुत्वा श्रीधर्मराजोऽपि पुपूज दीर्घशीलिनम् ॥७४॥भयेन पुण्यकर्तारं जप्तारं स्तवनस्य च ।अर्घ्यं चाऽऽचमनं पादप्रक्षालनजलं ददौ ॥७५॥स्वागतं चाऽर्हणं भोज्यं मधुपर्कादिकं ददौ ।.कृत्वा च संविदं तेन विससर्ज तदा हि सः ॥७६॥पप्रच्छ धर्मराजं तं कृतं नष्टं कथं मम ।नास्तिकोऽहं निन्दकश्चाऽघर्मी पापी भवामि च ॥७७॥तथापि नैव दण्डो मे महाश्चर्यमिदं मम ।वद मे धर्मराज त्वं कथं दण्डो न वै मम ॥७८॥श्रुत्वाऽऽह धर्मराजस्तं कृतं तु भुज्यते सदा ।नियमोऽस्ति सदा लोके प्रज्वलितं न भुज्यते ॥७९॥अन्नं वस्त्रं गृहं यानं शयनं पापकं वृषः ।प्रज्वलिता न भुज्यन्ते ते पापं ज्वलितं द्विज ॥८०॥पुरुषोत्तमसामाख्यस्तोत्रपाठेन सर्वथा ।दानानां परमं पुण्यं चोद्भूतं तव भूसुर ॥८१॥भुंक्ष्व पुण्यं क्षितौ दीर्घमुषित्वा स्वस्ततः परम् ।ततः सत्यं च वैराजं वैकुण्ठं च ततः परम् ॥८२॥ततोऽक्षरं शाश्वतं च याहि भुंक्ष्व महासुखम् ।पुरुषोत्तमभक्तानामशुभं विद्यते न वै ॥८३॥कालमायापापकर्मभया नश्यन्ति सर्वथा ।पुरुषोत्तमभक्तेषु नाऽधिकारोऽस्ति मेऽपि च ॥८४॥पूर्वनास्तिकविप्रोऽसौ पप्रच्छ च ततो यमम् ।गत्वा तत्र मया यद्यत् कर्तव्यं तद् वदाऽत्र मे ॥८५॥यथाशक्ति करिष्यामि कारयिष्यामि शोभनम् ।श्रुत्वाऽऽह यमराजोऽपि विप्रं धर्ममयं वृषम् ॥८६॥शृणु विप्र प्रकर्तव्यं मन्दिरं परमात्मनः ।स्थापनीयोऽनादिकृष्णनारायणः श्रिया सह ॥८७॥सेवाः सर्वविधाश्चास्य करणीया यथाक्षणम् ।भोजनीयाः साधवश्च सेवनीया निरन्तरम् ॥८८॥पादसंवाहनाद्यैश्च दानैश्च सर्ववस्तुभिः ।दोषणीयाः सदा सन्तो मोक्षदा भवतारकाः ॥८९॥मन्दिरे दीपदानं च जलप्रस्रवणार्पणम् ।न वेदनार्पणं चापि पूजाद्रव्यार्पणं तथा ॥९०॥यानवाहनदानं च वाटिकोद्यानकार्पणम् ।ध्वजार्पणं कलशानामर्पणं पात्रकार्पणम् ॥९१॥शय्यार्पणं रसानामर्पणं गन्धार्पणं तथा ।स्वर्णभूषार्पणं दिव्याम्बराद्यर्पणमित्यपि ॥९२॥शाकपत्रार्पणं चापि ताम्बूलकादिकार्पणम् ।व्यजनाद्यर्पणं चापि कम्बलाद्यर्पणं तथा ॥९३॥पूजाप्रवाहवस्तूनां द्रव्याणामर्पणं तथा ।वादित्राणां शुभं दानं वेषाणामर्पण तथा ॥९४॥महास्थाल्यादिदानं च गर्गरीदानमित्यपि ।पर्यंकादिप्रदानं च महासनसमर्पणम् ॥९५॥गोवाजिगजदानं च वृषभार्पणमित्यपि ।मणिरत्नादिदानं च कर्तव्यं मन्दिरे सदा ॥९६॥दातव्यं गुरवे सर्वं चेष्टदेवार्हणाय वै ।दासीदासप्रदानं च सभाशालाप्रदानकम् ॥९७॥कूपवापीतडागादिदानं कार्यं तु मन्दिरे ।छत्रचामरदानं तु सिंहासनादिकार्पणम् ॥९८॥पुस्तकार्पणमेवापि पेटिकाद्यर्पणं तथा ।कणानामर्पनं चापि गोधूमतण्डुलार्पणम् ॥९९॥एवंविधानि दानानि जलान्नसहितानि वै ।दातव्यानि विशेषेण गृहिणा भूसुरेण ह ॥१००॥स्नानं सन्ध्याजपं भक्तिं स्तोत्रपाठं समाचरेत् ।मोक्षदं चात्मविज्ञानं ब्रह्मविद्यां पठेत्तथा ॥१०१॥पित्रोः प्रसेवनं कुर्यात् परोपकारमित्यपि ।ब्रह्मशीलो भवेच्चापि भक्तिशीलो भवेत्तथा ॥१०२॥रागहीनो भवेच्चापि दोषान् प्रवर्जयेत् सदा ।विष्णुपूजां प्रकुर्याच्च मोक्षशास्त्ररतो भवेत् ॥१०३॥कीर्तयेत् सततं कृष्णनारायणं परेश्वरम् ।ध्यायेत्तं श्रीपतिं लक्ष्मीपतिं मुक्तपतिं हरिम् ॥१०४॥वन्देत श्रीपरमेशं पुरुषोत्तमसामगः ।एवं कृत्वा सुकर्माणि पुण्यानि मोक्षदानि च ॥१०५॥जित्वा मायां तथा कालं मृत्युं जित्वाऽक्षरं व्रजेत् ।इत्येवं विप्र गत्वा त्वं कुरु देवार्चनं सदा ॥१०६॥पित्रर्चनं सतां पूजां विधेहि स्वात्मवत् सदा ।विजयस्ते सदा भावी स्वर्गे सत्ये तथाऽक्षरे ॥१०७॥इत्युक्तः पद्मजे! विप्रो ययौ गृहं चकार तत् ।अन्ते स्वर्गाण्यनेकानि भुक्त्वा धामाऽक्षरं ययौ ॥१०८॥श्रुत्वा स्मृत्वा पठित्वाऽपि कृत्वा देवार्चनं तथा ।भूत्वा ममाश्रितः प्राणी लभते मेऽक्षरं रमे! ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने जलदानभूदानविविधदानकर्तुः पुरुषोत्तमसामजापकस्य दीर्घशीलस्याऽऽस्तिकस्य दीर्घशीलस्य नास्तिकस्याऽपियमद्वारोपदेशो मोक्षणं चेत्यादिनिरूपणनामैकदशाधिकशततमोऽध्यायः ॥१११॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP