संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं जालकारकथां तथा ।जालकारः कमलाख्यासरित्तीरे विहारकृत् ॥१॥विहारे चाऽभवन्मत्स्यपाशजालविधायकः ।पक्षिणां बन्धनं पादे पशूनां शृंगपादयोः ॥२॥मत्स्यादीनां यथा देहे भवेत् तादृशजालिकाः ।करोति सूत्ररज्जूनां विक्रीणाति समन्ततः ॥३॥तदुत्पाद्यधनाद्यैश्च निर्वहत्येव भोजनम् ।नाम्ना संगरयादस्को निर्मातृनगरे स्थितः ॥४॥पाशवन्तः समक्रीत्वा जालान्यस्मात्तु संगरात् ।बध्नन्ति जलजान् वृक्षवासान् वनजान् देहिनः ॥५॥एकदा संगरयादः कृत्वा स्कन्धे तु जालकान् ।क्रेतुं ययौ तु नगरे क्रीणन्तु जालकानिति ॥६॥उच्चैर्वदति श्रावार्थं कुक्षौ पोटलिकां वहन् ।अथाऽस्य समयो जातो मध्याह्नश्च क्षुधाऽभवत् ॥७॥क्रीत्वा भक्ष्यं चापणाद्वै नगराद् बहिराययौ ।कमलायास्तटे गत्वा प्रभुंजन् स जलं पपौ ॥८॥तावद् दृष्ट्वा भिक्षुको वै भिक्षेच्छया ह्युपागतः ।नाम्ना शुक्लायनः साधुर्दधन् मालां करे गले ॥९॥रटन्नाम हरेकृष्ण मुखे कृष्णं हृदि स्मरन् ।धारयन्नहिंसाधर्मं विवेकं तु विचिन्तयन् ॥१०॥यात्रामात्रं वहमानो निर्द्वन्द्वस्तं ह्युपाययौ ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥११॥अश्रावयत् पुरा पश्चान्निषसाद तदन्तिके ।वाससा वर्ष्मणा चापि मलिनोऽपि हृदोज्ज्वलः ॥१२॥आकर्षयन्मनस्तस्य सौम्यदृष्ट्या व्यलोकयत् ।अथेच्छन्निव वाञ्छन् वै मौनं धृत्वा स्थिरोऽभवत् ॥१३॥धैर्यभृतं सुविश्वास्यं वीक्ष्य विरक्तयोगिनम् ।अप्रेरितोऽपि दैवेन प्रेरितः प्राह जालकृत् ॥१४॥नमस्ते साधवे साधो कुतः कथं किमिच्छसि ।साधुः प्राह नमश्चान्तर्यामिणे कुशलं तव ॥१५॥इच्छामि भोजनं किञ्चिज्जलपानसहायदम् ।जालकारः प्रसन्नात्मा ददौ भर्जिततन्दुलान् ॥१६॥चणकान् भर्जिताँश्चापि मनाक् लवणयोजितान् ।शुभं ते स्यात्तथा नित्यं निरामयं सुखोदकम् ॥१७॥सुखनिद्रा भवतात्ते मे तन्दुलचणार्पणात् ।इत्युक्त्वा श्रीहरिं स्मृत्वा निवेद्य चान्तरात्मने ॥१८॥बुभुजे तन्दुलादींश्च पीत्वा तृप्तिं ययौ ततः ।पप्रच्छ व्यवसायं च जालकारस्य वै तदा ॥१९॥जालकारोऽवदज्जालव्यवसायं यथातथम् ।श्रुत्वा साधुः क्षणं कृष्णं ध्यात्वोपदेशमाचरत् ॥२०॥शृणु संगरयादस्क हितं ते वच्मि सर्वथा ।चतुरशीतिखनयो भवन्ति देहिनामिह ॥११॥तत्र मानुषदेहो वै मोक्षाय कल्पितः परः ।बहूनां जन्मनामन्ते पुण्यपुञ्जैर्हि मानुषम् ॥२२॥देहं लभते देहीति ततः पुण्येन वै दिवम् ।भक्त्या मोक्षं स्वधर्मेण स्मृद्धिं सौख्यं विवेकतः ॥२३॥धर्मार्थकाममोक्षांश्च साधयेन्मानवः सदा ।पशुप्रायं जीवनं तु हिंसकं परिवर्जयेत् ॥२४॥हिंसया लभ्यते याम्यं दुःखं च नरकालयः ।पाप द्रोहोऽप्यनिष्टं च हिंसया जायते तथा ॥२५॥सांकर्यं जायते चापि दारिद्र्यं जनसंक्षयः ।हिंसकानां जायतेऽधोगतिर्निरयगामिता ॥२६॥हिंसकानां पाशदस्य हिंसापापं प्रजायते ।जालकृतोऽपि प्राणिनां हिंसापापं प्रजायते ॥२७॥मारकः खादकश्चाऽप्यनुमोदकः सहायकः ।शस्त्रदः पाशदश्चापि जालदः समभाग् भवेत् ॥२८॥जालकृतस्त्ववश्यं ते हिंसापापं प्रजायते ।जालबद्धा देहिनस्त्वां निःश्वसन्तीव जालकम् ॥२९॥जालधरं जालकृतं शपन्ति सन्तु दुःखिनः ।तस्मात् साधुरहं तेऽत्रोपदिशामि सुखाय ते ॥३०॥प्राणत्राणफलं पुण्यं तत्फलं सुखमुत्तमम् ।प्राणिहिंसाफलं पापं तत्फलं दुःखमुल्बणम् ॥३१॥जालकार्यं जालकर्म त्यक्त्वा वस्त्राणि संकुरु ।वस्त्रैश्चावरणयोग्यैः पापं नोद्भवति क्वचित् ॥३२॥आत्मसाधनमासाद्य कुरु कल्याणमात्मनः ।स्नानं ध्यानं हरेः पूजां परोपकृतिमर्पणम् ॥३३॥साधूनां सेवनं कृत्वा लब्ध्वा पुण्यं दिवं व्रज ।अनादिश्रीकृष्णनारायणं संपूज्य भावतः ॥३४॥व्रतोत्सवाँश्च दानानि कृत्वा स्वर्गं परं व्रज ।मा हिंसाकारकं जालं संविरचय पापदम् ॥३५॥मानुषजीवनं सार्थं कुरु मोक्षाद्युपार्जनात् ।शास्त्रकथां सदा श्रुत्वा नारायणं समर्जय ॥३६॥नारायणं विदित्वैव परं पदं प्रयाहि च ।स्मर नारायणं कृष्णं श्रीपतिं कमलापतिम् ॥३७॥अक्षरेशं माणिकीशं राधेशं पुरुषोत्तमम् ।स एव भगवानत्र मानवे भूतलेऽपि च ॥३८॥दिव्यधामेश्वरः साक्षाज्जायते मानवाकृतिः ।तस्य सर्वचरित्राणि शुभाऽशुभानि यानि च ॥३९॥दिव्यान्येव भवन्त्येव चिन्तनीयानि तानि वै ।मोक्षदानि महाशान्तिप्रदानि शुभदानि च ॥४०॥कामः क्रोधो भयं शोकः प्रीतिर्जयः पराजयः ।क्षुधा तृषा कृतिर्निद्रा तत्सर्वं तस्य मंगलम् ॥४१॥निन्द्यं वाच्यं निकृष्टं च नृशंस्यं तस्य कर्म यत् ।सर्वं कल्याणदं बोध्यं न दोषो विद्यते हरौ ॥४२॥हरेर्निर्गुणभावत्वाद् दिव्यत्वात्तस्य साधुषु ।हरेः सम्बन्धमाप्तेषु निर्गुणत्वं च दिव्यता ॥४३॥वर्तते चेति विज्ञाय सेवनीया हि साधवः ।साधुषु स्नेहमासाद्य हरौ स्नेहं विधाय च ॥४४॥अन्यरागं विहायैव स्थैर्यं लभेत् परेश्वरे ।एवं नित्यं समभ्यासात् संस्कारो बलवान् भवेत् ॥४५॥तेन स्नेहातिशयिता कृष्णे प्रजायते मुहुः ।तथा सत्येव भक्तस्य जाग्रत्स्वप्नसुषुप्तिषु ॥४६॥श्रीहरेर्दिव्यमूर्तेस्तु दर्शनं सम्प्रजायते ।अतिस्नेहेन साध्वीनां तथा वीक्षा हरेर्भवेत् ॥४७॥अतिकामेन पत्नीनां गोपीनां हरिवीक्षणम् ।अतिद्वेषेण शत्रूणां दैत्यानां हरिवीक्षणम् ॥४८॥अतिस्वार्थेन देवानां मुहुर्वै विष्णुदर्शनम् ।अतितादात्म्ययोगेन योगिनां ब्रह्मदर्शनम् ॥४९॥अतिज्ञानेन विदुषां सर्वथा ब्रह्मदर्शनम् ।एवं दास्येन भवति सेवया कृष्णदर्शनम् ॥५०॥अत्यनुवृत्तिधर्मेण हरेः प्रसन्नता भवेत् ।कृपया जायते वीक्षा सर्वदा श्रीहरेस्तथा ॥५१॥सतामाशीर्वचोभिश्च नैर्मल्ये सति सर्वथा ।भक्तानां हृदये बाह्ये सर्वत्र हरिदर्शनम् ॥५२॥हरौ च कृष्णभक्तेषु पक्षपातोऽस्ति यस्य वै ।कुटुम्बिषु यथा तद्वत् तत्सत्संगो हि शाश्वतः ॥५३॥एवंविधस्य भक्तस्य नश्यन्ति दोषकोटयः ।वासनाश्च विनश्यन्ति प्रोद्भवन्ति सतां गुणाः ॥५४॥विना स्नेहं हरौ सत्सु सत्संगो नष्टमूलकः ।यस्तु स्यान्मानहीनश्च मुमुक्षुर्दिव्यदृष्टिमान् ॥५५॥महिमानं विदन् हरेः साधूनां भक्तयोषिताम् ।तस्य बोध्यस्तु सत्संगः सदैव दृढमूलकः ॥५६॥एतादृशानां भक्तानां विरहं चाऽसहन् प्रभुः ।अक्षरस्थोऽगोचरोऽपि श्रेयसे कृपया त्विह ॥५७॥स्वेच्छयैव नराकारं गृह्णन् चरति भूस्तरे ।तस्याऽनुवृत्तिमाश्रित्य वर्तितव्यं निरन्तरम् ॥५८॥अनुवृत्तिरसन्देहा हरिप्रसादराधनम् ।हरेः प्रसादो यस्याऽस्ति तस्य सतां प्रसन्नता ॥५९॥प्रसन्नताया लब्ध्यर्थं नैष्टव्यं वर्ष्मणः सुखम् ।सत्संगो वपुषा तन्वा पोष्टव्यो मनसाऽपि च ॥६०॥अयं साक्षात्प्रभुः कृष्णनारायणो जगद्गुरुः ।अवतारी परब्रह्म श्रीमद्गोपालनन्दनः ॥६१॥इमे सन्तो हरेर्भक्ता अक्षरव्योमवासिनः ।मुक्ताः सर्वेऽत्र सन्त्येव योषितोऽपि रमासमाः ॥६२॥इयं भूश्चाऽक्षरं धाम बालकृष्णस्य योगतः ।वयं सर्वे दिव्यमुक्ता नारायणप्रसंगतः ॥६३॥यत्र कृष्णस्तत्र धाम मुक्ता मुक्तानिकास्तथा ।महद्भाग्यमिदं नश्च यद् दिव्यानां समागमः ॥६४॥एभिः समं निवासो नः सर्वं दिव्यं यतो मम ।सेवनीयो हरिश्चापि सेवनीया हि साधवः ॥६५॥आज्ञास्तेषां पालनीयास्ततो दिव्यत्वमाप्यते ।साधुगुणाः समायान्ति साध्वाज्ञा पालनात् खलु ॥६६॥साधून् सेवेत सततं देववत् कृष्णवत्तथा ।कृष्णध्यानं परं कार्यं कार्या भक्तिरनेकधा ॥६७॥दुःस्वभावास्तथा पापं त्याज्यं सतां प्रसेवया ।श्रेयःशक्तिर्वर्धनीया जेतव्याश्चान्तराऽरयः ॥६८॥प्रत्यक्षे वा परोक्षे वा कृष्णो बोध्यो निजान्तिके ।प्रत्यक्षद्रष्टा सर्वत्र व्यापको नैकरूपधृक् ॥३९॥अन्तरात्मा परमात्मा लक्ष्मीश्रीमाणिकीपतिः ।प्रत्यक्षं चेक्षते सर्वं सर्वत्राऽस्ति परः प्रभुः ॥७०॥स्थावरे जंगमे चास्ति स्थूले सूक्ष्मे तथेतरे ।न तद्वाञ्च्छा विना पत्रचालने सबलोऽनिलः ॥७१॥सर्वकर्मफलदाता सर्वं धृत्वा स तिष्ठति ।पृथ्व्यां धारणशक्तिर्वै तस्यैवाऽस्ति तथा जले ॥७२॥तृप्तिशक्तिस्तस्य चास्ति गगने विधृतिस्तथा ।चन्द्राऽर्काऽग्निप्रकाशानां दाता स परमेश्वरः ॥७३॥एतादृशः समर्थोऽयं वर्तते मानवोऽत्र वै ।दत्ते स्वदर्शनं कृष्णः कंभराश्रीसुतो हरिः ॥७४॥एवं निरन्तरं चित्ते चिन्तनीयो हरिः प्रभुः ।स एव स्वाश्रितानां तु दुःखान्यपाकरोति हि ॥७५॥परित्राणे समर्थोऽस्ति वर्तते दिव्यभाववान् ।क्वचिन्मानवभावैस्तु सहते कष्टमित्यपि ॥७६॥भयमेति कामयते क्षमते रौति वै क्वचित् ।सर्वाः क्रिया हरेरत्र कल्याणदा हि पाविकाः ॥७७॥तस्य प्रभोः साधवोऽपि सन्ति स्वात्मेव तत्प्रियाः ।अहोऽयं भगवान् भक्तवशोऽत्र वर्ततेऽपि च ॥७८॥तत्प्रतापात्तस्य भक्ताः सन्ति कल्याणकारिणः ।साधवो मोक्षदा नश्चेत्येवं माहात्म्यमर्जयेत् ॥७९॥अलौकिकी यस्य बुद्धिर्हरौ सत्सु सदा यथा ।सा वर्धनीया सततं न कुबुद्धिं प्रसंगजाम् ॥८०॥स्वभावदोषं पश्येन्न दिव्यं परिचयं चरेत् ।तेनाऽसद्वासनादोषो हृदयादपसर्पति ॥८१॥भक्तिं विवर्धयेत् सच्च देहेन्द्रियमनःकृताम् ।सर्वस्वार्पणरूपां तां महामोक्षपदायिनीम् ॥८२॥मोक्षस्य साधनं मुख्यं सतां दास्यं मतं पदम् ।आपत्कालेऽपि सततं सेवनीया हि साधवः ॥८३॥साधुकथां हरेर्वार्तां शृणुयात् पापनुत्तये ।मोक्षाय चार्पयेत् सर्वं देहं गेहं धनादिकम् ॥८४॥अनादिश्रीकृष्णनारायणं श्रीमाणिकीपतिम् ।जानीयात् परमात्मानं श्रीपतिं राधिकापतिम् ॥८५॥वासुदेवादयो व्यूहाः केशवाद्याश्च मूर्तयः ।मत्स्याद्या अवताराश्च बालकृष्णस्य सन्ति वै ॥८६॥एवं माहात्म्यमासाद्य सतीव संश्रयेत् पतिम् ।भुक्तिं मुक्तिं लभेत् कृष्णात् पत्नीव शरणी जनः ॥८७॥एवं संगरयादस्क! त्यक्त्वा जालक्रियां भवान् ।समाचरतु वस्त्राणां वयनं च कटादिकम् ॥८८॥भज कृष्णं परब्रह्म लभ मुक्तिं परं पदम् ।याहि धामाऽक्षरं दिव्यं शाश्वतं त्वं सुभक्तिमान् ॥८९॥इति शुक्लायनः साधुरुपविश्य नदीतटे ।आशीर्दत्वा च तं कृत्वा वैष्णवं भक्तिसेविनम् ॥९०॥तिरोभवद्धि सहसा संगरो निजजालकम् ।गृहे गत्वा विभिद्येव रज्जनां दीर्घनाडकम् ॥९१॥कृत्वा ररक्ष च गृहे तत्याज जालकारिताम् ।भेजे मां सकुटुम्बः स बहुभक्तान् व्यधापयत् ॥९२॥भजनं मे पूजनं च लक्ष्मि मोक्षप्रदं यथा ।तदाऽऽरभ्याऽद्रोहधर्मं पालयामास सर्वथा ॥९३॥मूर्तौ मां गोचरं चक्रे दास्यस्नेहादिभिः स च ।अथ काले समायाते रथेन सह माधवः ॥९४॥प्रययौ तद्गृहं चाऽहं नेतुं धामाऽक्षरं मम ।रूपावतीं तु तत्पत्नीं संगरं च रथे त्वहम् ॥९५॥निषाद्य दिव्यदेहं च कृत्वा धामाऽक्षरं ययौ ।अन्येऽपि भक्तसंघा मे मया नीता ययुः परम् ॥९६॥सर्वपापसमूहास्तु मया प्रज्वालिता रमे ।भक्तानां साधुभक्तानां नैर्मल्यं कृपयाऽऽदधे ॥९७॥अपि पापाः पापसंगा अज्ञा विषयिणोऽपि च ।सतां योगेन जायन्ते पावना ब्रह्मभोगिनः ॥९८॥स्त्रियो वा पशवश्चापि जडा वा मलिना अपि ।आसाद्य साधुसेवां संजायन्ते पंक्तिपावनाः ॥९९॥न विप्रा न सुरा गावो व्रतानि नियमा यमाः ।न तीर्थानि तथा श्रेष्ठाः सन्तः श्रेष्ठतमा यथा ॥१००॥सन्मूर्तिरानखशिखं सर्वा दिव्या हि पावनी ।यथा नारायणः साक्षाल्लक्ष्मीर्नारायणी यथा ॥१०१॥सतां प्रसादो दिव्योऽस्ति सतां स्पर्शस्तथोत्तमः ।सतां सेवा हि सुखदा दुःखहन्त्री हरिप्रदा ॥१०२॥पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।पापनाशः पुण्यलाभो भुक्तिर्मुक्तिर्भवेत्तथा ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने संगरयादस्कभक्तस्य जालकार्यं त्याजयित्वा शुक्लायनसाधुना भगवत्प्राप्तिः कारितेत्यादिनिरूपणनामा द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP