संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-सूर्यदेवो बलस्याऽसृक्समिधं प्राप्य बीजकम् ।ययावाकाशमार्गेण लंकाधिपो रुरोध तम् ॥१॥समुद्रे चापि रावणगंगायां बीजकानि वै ।निपेतुस्तज्जरत्नानि जातानि दीप्तिमन्ति ह ॥२॥उज्ज्वलाश्चारुरागास्ते पद्यरागा हि तोयजाः ।सौगन्धिकोत्था गुणिनः कुरुविन्दोद्भवास्तथा ॥३॥स्फाटिकजाः प्रभावन्तो बहुवर्णास्तथाऽपरे ।जाता बन्धूकगुञ्जेन्द्रगोपजपाऽसृक्सन्निभाः ॥४॥दाडिमकिंशुकपुष्पसिन्दूरोत्पलसन्निभाः ।पद्मकुंकुमलाक्षाजरसवर्णाः प्रभायुताः ॥५॥रागे सान्द्राः स्वप्रभया भान्ति ये स्फुटमध्यिनः ।स्फाटिकजाः सूर्यभाभिः पार्श्वानि रञ्जयन्ति ते ॥६॥कुसुंभनीलमिश्राभा उग्ररक्ताम्बुजप्रभाः ।अन्ये पुष्करपुष्पाभा हिंगुलवत्त्विषोऽपरे ॥७॥चकोरपीकसारसनेत्रभाश्चापरेऽपि च ।कोकनदोत्तमपुष्पत्विषश्चान्ये भवन्त्यपि ॥८॥प्रभावकाठिन्यगुरुत्वकैः प्रायः समा इमे ।स्फाटिकजाः पद्मरागाः नीलरक्तप्रभायुताः ॥९॥एते सौगन्धिकोत्थास्तु मणयः प्रायशः समाः ।एतेभ्यो रंगतो न्यूना मणयः कुरुविन्दजाः ॥१०॥निरर्चिषोऽन्तर्बहुला नाऽतिप्रभावशालिनः ।तत्सदृशा आन्ध्रदेशे तुम्बुरुदेशके तथा ॥११॥सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते मताः ।रंगाधिक्यं गुरुरेवं च स्निग्धता समताच्छता ॥१२॥अर्चिष्मत्ता महत्ता च मणीनां श्रैष्ठ्यबोधकाः ।ये तु कर्करसदृशाश्छिद्रमलादियोगिनः ॥१३॥प्रभाहीनाः सपरुषा विवर्णास्ते न चोत्तमाः ।सदोषं मणिमाबद्ध्य शोकचिन्ताऽऽमयाँस्तथा ॥१४॥मृत्युं दुःखं वित्तनाशं लभते नात्र संशयः।पद्मरागसमा विजातीया भवन्ति पञ्च च ॥१५॥कलसपुरजाश्चापि तुम्बुरुदेशजास्तथा ।मुक्तपाणीयजाताश्च सिंहलोत्थाः श्रीपूर्णका ॥१६॥कलसोत्थास्तुषयोगा भवन्ति मणयो हि ते ।ताम्रवर्णास्तुम्बुरुत्था कृष्णाः सिंहलदेशजाः ॥१७॥मुक्ता नमःस्वभावाश्च श्रीपूर्णा दीप्तिवर्जिताः ।तुषयोगे ताम्रवर्णा भवन्ति स्नेहिनोऽपि च ॥१८॥ये प्रघृष्टा वर्जयन्ति दीप्तिं ते निम्नजातिकाः ।अंगुल्याक्रान्तमूर्धा यो बिभर्ति पार्श्वकृष्णताम् ॥१९॥अन्यस्य सन्निधिस्थस्य गुणान् यश्च बिभर्त्यपि ।निकृष्टमूल्यवान् स स्यान्मुक्तामणिः समोऽपि वै ॥२०॥जाते कृत्रिमसन्देहे शाणे तं परिलेखयेत् ।स्वजातकसमुत्थेन विलिखेच्च परस्परम् ॥२१॥वज्रं वा कुरुविन्दं वा विमुच्याऽन्येन केनचित् ।न शक्यं लेखनं कर्तुं पद्मरागेन्द्रनीलयोः ॥२॥यत्र लेखः स निम्नो वै मणिर्नोत्तम उच्यते ।यद्वा कृत्रिम एवापि रेखायुक्तो भवेद् यदि ॥२३॥कृत्रिमो दोषवाँश्चापि धार्यो नैव मणिः क्वचित् ।सत्येन मणिना साकं कौस्तुभेन समं च वा ॥२४॥चण्डालस्त्वेक एवापि द्विजातीँस्तु बहूनपि ।दूषयत्येव तद्वच्च दुष्टो हन्ति गुणानपि ॥२५॥सत्यपद्मरागधर्ता सपत्नेषु वसन्नपि ।नाऽऽपद्भिरभिभूयेत न विघ्नैरभिभूयते ॥२६॥नोपद्रवैर्नोपसर्गैर्न दोषैरभिभूयते ।वर्णदीप्तियुतं श्रेष्ठं तद्धीनं हीनमेव तत् ॥२७॥श्रेष्ठं रत्नं सदा धार्यं न कनिष्ठं कदाचन ।मूल्यहीनस्य धर्तारं मूल्यहीनं करोति तत् ॥२८॥अथ ब्रह्मप्रिया! वोऽत्र मरकतान् वदामि तु ।बलपित्तसमिद्बीजं गृह्णन् वासुकिरम्बरे ॥२९॥प्रदुद्राव यदा तत्र गरुडस्तमरोधयत् ।बीजानि न्यपतँश्चापि माणिक्यपर्वतस्थले ॥३०॥तुरुष्कपादपेष्वेवं नलिकावनवल्लिषु ।श्वेतसागरतीरे च मरकतास्ततोऽभवन् ॥३४१॥गरुडस्य चञ्चुरन्ध्राद् बीजानि पतितान्यपि ।तेभ्यो जाताः शुककण्ठशिरीषपुष्परङ्गिणः ॥३२॥खद्योतपृष्ठसदृशाः शैवलशाद्बलप्रभाः ।कल्हारशष्पतुल्याश्च भुजंगभुजसतप्रभाः ॥३३॥पत्ररंगास्तथा पित्तजातास्ते मणयो मताः ।भुजङ्गभोगबीजोत्थैर्विषं सर्व प्रशाम्यति ॥३४॥सर्वौषधिमन्त्रगणैर्यन्न शक्यं चिकित्सितुम् ।महाऽहिदंष्ट्राप्रभवं विषं त्वेतैः प्रशाम्यति ॥३५॥अत्यन्तं तु हरिद्वर्णं कोमलं सप्रभं तथा ।काञ्चनचूर्णमध्याभं रत्नं तदुत्तमं मतम् ॥३६॥सर्वसंस्थानगुणवत् समानरूपवत्तथा ।गुरु सूर्यकरस्पर्शात् प्रदीपयति चाश्रमम् ॥३७॥विदुत्प्रभाया योगाद् यच्चान्तर्दीप्तियुतं भवेत् ।भवेच्च शाद्वलनिभं हरितं श्रेष्ठमेव तत् ॥३८॥वर्णा यत्र तु बहुला मध्ये स्वच्छकराश्रयम् ।साभ्रं स्निग्धं विशुद्धं च बर्हिप्रभं समन्ततः ॥३९॥तन्न्यूनं पूर्वतो बोध्यं किञ्चिच्छ्रेष्ठं हिं गण्यते ।शबलं रूक्षं मलिनं कठोरं कर्करं यथा ॥४०॥मिश्रं शिलोत्थजतुना मरकतं न तूत्तमम् ।मारकतैः कणैः क्लृप्तं सन्धितं वा तथाविधम् ॥४१॥श्रेयस्कामैर्न तद्धार्यं जेतव्यं तन्न वै क्वचित् ।भल्लातकस्य पवनैर्वैषम्यं यान्ति यत्प्रभाः ॥४२॥कृत्रिमास्ते मरकता नैव धार्याः कदाचन ।वज्रतुल्यास्तथा मुक्तास्तुल्या मरकता अपि ॥४३॥येषां प्रभा चोर्ध्वगा वै ऋज्वी वा वक्रगामिनी ।तिर्यगालोच्यमानानां सद्यो वा सा प्रणश्यति ॥४४॥एते विजातयो बोध्या मरकताः शुभावहाः ।स्नानाऽऽचमनजप्येषु रक्षामन्त्रक्रियाविधौ ॥४५॥गोहिरण्यादिदानेषु साधनेऽनुष्ठितेऽपि च ।दैवपैत्र्यातिथेयेषु गुरुसंपूजनेषु च ॥४६॥बाध्यमानेषु विविधैर्दोषजातैर्विषोद्भवैः ।दोषहीनं गुणवच्च काञ्चनप्रतियोजितम् ॥४७॥संग्रामे जयकार्ये च धार्यं मरकतं सदा ।पद्मरागाधिकं मूल्यं मारकतं प्रकीर्तितम् ॥४८॥दोषाधिक्ये मूल्यहानिर्मारकतेऽपि जायते ।एवं मारकताः प्रोक्ता नीलमणीन् वदामि वः ॥४९॥नेत्रयुग्मसमिद्बीजं बलस्य यत्पपात ह ।सिंहले कच्छदेशे च सा भूमिर्बहुषाऽभितः ॥५०॥इन्द्रनीलवती जाता नीलास्ते नैकजातयः ।नीलाब्जभृंगशार्ङ्गाभा हरकण्ठसमा अपि ॥५१॥गिरिशृंगनिभा वार्धिजलाभाः शिखिरङ्गिणः ।नीलीरंगा पीककण्ठसमाभास्ते महागुणाः ॥५२॥मृत्पाषाणशिलारन्ध्राः कर्करास्त्रुटिसंयुताः ।अभ्रिकापटलच्छाया वर्णदुष्टा भवन्त्यपि ॥५३॥पद्मरागगुणान् सर्वानाप्नोति चेन्द्रनीलधृक् ।पद्मरागे परीक्षा या सैवेन्द्रनीलवेऽपि च ॥५४॥वह्नौ क्षिप्तः पद्मरागो वह्निं क्रमेत यावता ।ततोऽधिकश्चेन्द्रनीलः क्षिप्तः क्रमेत चानले ॥५९॥परीक्षा सैव बोद्धव्या यथार्थस्य मणेः शुभा ।तथापि न परीक्षार्थं गुणानां नाशकारके ॥॥५६॥वह्नौ मणिर्निधातव्यो यतो दुष्टो भवेद्धि सः ।सोऽनर्थाय भवेद् भर्तुः कर्तुः कारयितुस्तथा ॥५७॥काचोत्पलकरवीरवैदूर्यस्फटिकादयः ।इन्द्रनीलसमास्त्वेते मणयोऽपि भवन्ति हि ॥५८॥काठिन्यगुरुताऽऽधिक्ये श्रैष्ठ्यमेषां प्रजायते ।इन्द्रनीलस्ताम्रवर्णः करवीरोत्पलप्रभः ॥५५॥यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा ।तमिन्द्रनीलमित्याहुर्महार्हं बहुदुर्लभम् ॥६०॥यस्य वर्णस्य भूयस्त्वात् श्रीरे शतगुणे स्थितः ।नीलतां तन्नयेत् सर्वं महानीलः स उच्यते ॥६१॥पद्मरागस्य यन्मूल्यं माषमात्रस्य धार्यते ।तन्मूल्यं चेन्द्रनीलस्य धार्यते गुणभामतः ॥६२॥अथ लक्ष्म्यः! प्रवक्ष्यामि वैदूर्यस्योद्भवादिकम् ।बलासुरस्य नादात्मसमिद्बीजोद्भवा हि ते ॥६३॥अनेकवर्णा शोभाभिरामकान्तियुताः खलु ।विदूरे पर्वते कामरूपकामाक्षिकीक्षितौ ॥६४॥वैदूर्यास्ते मणयश्च प्रावृड्घनावभासिनः ।विस्फुल्लिंगसमा जातास्तेजस्विनोऽपि वै शुभाः ॥६९॥श्रेष्ठा मयूरकण्ठाभा वेणुदलनिभास्तथा ।चापपक्षनिभास्तेऽपि प्रशस्ता वरभाग्यदाः ॥६६॥गिरिकाचाः शिशुपालाः काचाश्च स्फटिकास्तथा ।धूम्राश्चेति च वैदूर्यजातयोऽपि समा यथा ॥६७॥लिख्याभावात् काचसंज्ञः शिशुपालो लघुत्वतः ।गिरिकाचस्त्वदीप्तित्वात् स्फटिकश्चोज्ज्वलत्वतः ॥६८॥पलद्वयगुरोर्मूल्यमिन्द्रनीलसमं मतम् ।नामाभागुणभेदैर्हि भेदो मूल्ये प्रजायते ॥६९॥स्नेहलघुतामृदुता भेदे लिङ्गानि सर्वदा ।मणिबन्धे धृता लाभप्रदाश्चेन्मूल्यषड्गुणाः ॥७०॥एतन्मूल्यं त्वाकरेषु भूदेशे बहुलं भवेत् ।सुवर्णः षोडशमाषस्तत्सप्तांशस्तु संज्ञकः ॥७१॥शाणश्चतुर्माषमाणो माषकः पञ्चकृष्णलः ।पलस्य दशमो भागो धरणः परिकीर्तितः ॥७२॥धरणेऽधिकतां प्राप्ते मूल्यमधिकं गौरवात् ।अथ लक्ष्म्यः पुष्परागान्मणीन् वदामि बोधतः ॥७३॥बलासुरस्य त्वक्समिद्बीजानि हिमपर्वते ।पतितानि ततो जाताः पुष्परागा महागुणाः ॥७४॥आपीतपाण्डराः पद्मरागाः पाषाणजातयः ।आपीतलोहितास्ते तु कौरुण्डकाभिधानकाः ॥७९॥स्वच्छलोहितपीतास्तु काषायकाभिधानकाः ।आनीलशुक्लस्निग्धास्ते सोमानकाभिधानकाः ॥७६॥अत्यन्तलोहितास्ते ये पद्मरागा हि ते मताः ।सुनीलास्ते पुष्परागा इन्द्रनीलाभिधानकाः ॥७७॥मूल्य वैदूर्यसदृशं धारणाद् योषितां सदा ।पुत्ररूपं फलं शुद्धः प्रयच्छति न संशयः ॥७८॥अथ लक्ष्म्यः प्रवक्ष्यामि कर्केतनान् मणीनिह ।वायुर्बलस्य तु नखसमिद्बीजमुपागमत् ॥७९॥पद्मवनेषु चिक्षेप कर्केतनास्ततोऽभवन् ।मधुसोमरुधिराभास्ताम्रपीतानलोपमाः ॥८०॥नीलश्वेतपरुषाश्च व्याध्यादिदोषहारकाः ।स्निग्धाः शुद्धाः समवर्णाः पीताश्चित्रा गुरुत्विनः ॥८१॥रेखाव्रणदोषहीनाः कर्केतनास्ते पावनाः ।स्वर्णपत्रेण वेष्टयित्वा तापयेदनलेन च ॥८२॥प्रकाशमेति चेत् कर्केतनः स रोगनाशकृत् ।क्लेशनाशकश्चाप्यायुष्प्रदश्च सुखवंशदः ॥८३॥अलंकृतौ धृतश्चाऽयं धन धान्यं ददाति च ।पूजां च बान्धवाँश्चापि ददात्युज्ज्वलतामपि ॥८४॥एके नीलाश्च विकृता म्लानाः कलुषिणस्तथा ।तेजोदीप्तिहीनवर्णा भवन्ति कर्कसदृशाः ॥८५॥अगुणास्ते दुःखदा वै न धार्या हि कदाचन ।सूर्यकिरणमासाद्य तेजः परिधियोगिनः ॥८६॥जायन्ते ये तेऽग्रमूल्याः कर्केतना भवन्ति वै ।अथ ब्रह्मप्रिया! वोऽत्र भीष्मरत्नानि वच्म्यहम् ॥८७॥बलासुरस्य वै वीर्यसमिद्बीजं हिमालये ।तदुत्तरे प्रदेशे चाऽपतद् भीष्माणि वै ततः ॥८८।शंखाऽब्जाभानि भावन्ति स्योनाकसन्निभानि च ।जातानि कण्ठधृत्या तु सम्पत्प्रदानि तानि वै ॥८९॥भीष्ममणिधरं दृष्ट्वा पलायन्ते तु दूरतः ।वृका द्वीपिनः शरभा व्याघ्रशार्दूलकुंजराः ॥९०॥भीष्ममणिश्चाऽङ्गुलीयो गुणयुक्तो धृतो यदि ।पितृतर्पणकार्ये च बहुतृप्तिप्रदो हि सः ॥९१॥सर्पाऽण्डजाऽऽखुवृश्चिकविषाणि यान्ति शं तथा ।जलाग्निचौरवैरिभीर्नश्यत्येवाऽस्य धारणात्। ॥९२॥मेघशैवलरङ्गं च परुषं पीतमप्रभम् ।विवर्णं मलिनं दूराद् वर्जयेद्धानिदो यतः ॥९३॥मूल्यं यथागुणं कल्प्यं देशकालादिशोभनम् ।अथ वै पुलकान् वच्मि मणीन् ब्रह्मप्रिया! हि वः ॥९४॥बलासुरस्य नखरसमिद्बीजं भुजङ्गमाः ।चिक्षिपुः पर्वतेषूर्ध्वं निम्नगात्वपि चोत्तरे ॥९५॥देशे ततो हि मणयः पुलकास्तु विजज्ञिरे ।दाशार्णे वागदे मेलकके कालगकेऽपि च ॥९६॥गुञ्जाऽञ्जनक्षौद्रवर्णा मृणालाभास्तथाऽभवन् ।गन्धर्पवह्निकदलीभासाः श्रेष्ठास्तथाऽभवन् ॥९७॥शंखाऽब्जभृंगार्कतुल्यचित्रभंगा अरेखकाः ।मङ्गलास्ते वृद्धिदा वै पुलकाः परिकीर्तिताः ॥९८॥काकश्वरासभजम्बूकवृकोग्रस्वरूपिणः ।समांसगृध्रमुखभा मृत्युदास्ते धृता यदि ॥९९॥मूल्यमेषां पलभारे शतानि पञ्च मुद्रिकाः ।अथ लक्ष्म्यो! रुधिराख्यं रत्नं वः कथयाम्यहम् ॥१००॥बलासुरस्य रूपाख्यसमिद्बीजं हुताशनः ।निन्ये चिक्षेप रेवायां निम्नक्षितावपि ध्रुवम् ॥१०१॥इन्द्रगोपनिभाश्चापि शुकचञ्चुनिभास्तथा ।पुष्टा रुधिरवर्णास्ते रुधिराश्चाऽभवन् हि ते ॥१०२॥मध्ये चन्द्रपाण्डुरास्ते शुद्धवर्णास्तुलाभिनः ।इन्द्रनीलसमाश्चापि भृत्यैश्वर्यप्रदा हि ते ॥१०३॥पक्वास्ते सुरवज्राख्या लाभदा सम्पदां प्रदाः ।अथ लक्ष्म्यः स्फटिकाख्यान मणीन् वच्मि शुभावहान् ॥१०४॥कावेरीविन्ध्ययवनचीननेपालभूमिषु ।बलासुरस्य मेदाख्यसमिद्बीजं तु लाङ्गली ॥१०५॥चिक्षेपाऽऽकाशमार्गेऽपि तैलं तत् स्फटिकं ह्यभूत् ।मृणालशंखधवलाः किञ्चिद्वर्णान्तरान्विताः ॥१०६॥पापनाशकरा योग्यगुणमूल्या हि तेऽभवन् ।अथ शेषो बलाऽऽन्त्रान् वै समिद्बीजस्वरूपिणः ॥ १०७॥केरलादौ प्रचिक्षेप विद्रुमास्ते ततोऽभवन् ।शशलोहितवर्णाश्च गुञ्जाजपानिभा अपि ॥१०८॥सुनीला देवकरोमा जाता भिन्ना हि ते तथा ।प्रसन्नं कोमलं स्निग्धं सुरांगं विद्रुमं हितम् ॥ १०९॥धनधान्यंकरं लोके विषार्तिभयनाशनम् ।एवं जातानि रत्नानि जायन्ते बीजवंशतः ॥११०॥खनिजाश्च प्रजायन्ते वाह्नेया मणयोऽपि च ।ब्रह्मप्रियाः समस्ता वो मणयः कथिता मया ॥ १११॥बलस्य मम भक्तस्य निर्मित्तेन समुद्भवाः ।धारणाद्वाचनाच्चापि मम स्मरणकारकाः ॥ ११२॥बलस्ततो विमानेन ययौ धाम ममैव सः ।जयाद्याश्च भवत्योऽत्र वर्तन्ते योषितो मम ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पद्मराग मरकतेन्द्रनील वैदूर्य पुष्पराग कर्केतन भीष्म पुलक- रुधिर स्फटिक विद्रुममणीनामुद्भवगुणादिनिरूपणनामा त्रिषष्ट्यधिकशततमोऽध्यायः ॥१६३॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP