संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १८४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १८४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १८४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं वृक्णदेवस्य पावनीम् ।भक्तस्य मे कथां पूर्वे जातां पापप्रणाशिनीम् ॥१॥ध्रुवालये तु नगरे जात्या शूद्रोऽतिधर्मवान् ।वृक्णदेवाभिधानोऽभूद् भृत्यः सन्देशहारकः ॥२॥भावशूराभिधानस्य नृपतेर्नास्तिकस्य वै ।वृक्णदेवो मम भक्तो भावशूरस्तु नास्तिकः ॥३॥द्वयोर्नित्यं मित्रयोस्तु विवादः परिजायते ।वृक्णदेवः सदा वक्ति भज राजन् प्रभुं हरिम् ॥४॥भावशूरः प्रतिवक्ति भज भाग्यं च कर्म च ।वृक्णदेवो व्रते प्राप्ते महोत्सवे नृपं मुहुः ॥५॥वक्ति दानं पूजनं च धर्मकार्यं विधेहि वै ।राजा सर्वं मन्यते वै मृषा दानं च पूजनम् ॥६॥न स्वर्गं नापि पुण्यं वा नास्ति धर्मादिकं तथा ।स्वभावाज्जायते सर्वं यथाक्षेत्रं तथोद्भवः ॥७॥येन केनापि बीजेन राज्ञ्या तु जनितः सुतः ।राजा प्रजायते तद्वद् वंशानुकारिणी स्थितिः ॥८॥राजबीजं दरिद्रायां जातं दीनः प्रजायते ।स्वभावो वा निजं कर्म भाग्यं सर्वत्र तिष्ठति ॥९॥अभाग्यस्य कृते नैव राज्यं समुपतिष्ठते ।राज्यभाग्यस्य दारिद्र्यं नैव क्वाप्युपतिष्ठति ॥१०॥सूर्यस्य किरणं वारौ प्रविष्टं शीतता व्रजेत् ।शीतं जलं महावह्नेः प्रसंगादुष्णतां व्रजेत् ॥११॥पृथ्वीजन्यं समस्तं वै पृथ्व्यां पृथ्वीत्वमेति हि ।एवं खनिप्रभावेण निसर्गेण महान् लघुः ॥१२॥जायते वै यथाक्लृप्त भक्तेस्तत्र न गौरवम् ।भाग्यस्य गौरवं यद्वा कर्मणश्चास्ति गौरवम् ॥१३॥कर्म निसर्गजन्यं वै स्वभाववत् प्रवर्तते ।द्विपदो द्वाभ्यां यात्येव चतुर्भिस्तु चतुष्पदः ॥१४॥शतपादः शतेनैव तथा क्लृप्तिः गतिस्तथा ।गजो भुंक्ते द्व्याननाभ्यां वृक्षः सहस्रमूलकैः ॥१५॥षडाननैः कार्तिकस्तु ब्रह्माचतुर्मुखैस्तथा ।यथा क्लृप्तिस्तथा ग्रासो वाडवाग्नेस्तु सागरः ॥१६॥देशे काले कृतं कर्म भाग्यरूपं प्रजायते ।तेन राज्यं सुखं स्वंर्ग पितृवंशागतं मिलेत् ॥१७॥भक्तेस्तत्र न हेतुत्वं वृक्णदेव निबोध तत् ।इत्येवं नृपतिर्नित्यं वृक्णदेवं निरस्यति ॥१८॥अथैवं पुष्कले काले याते नृपतिरेकदा ।पप्रच्छ वृक्णदेवं त्वं कथं वृक्णोऽसि मे वद ॥१९॥यदि भक्तिः कारणं वै सुखे स्वष्टे तदा भवान् ।कथं भक्तेः प्रतापेन वृक्णत्वं न जहाति वै ॥२०॥वृक्णदेवस्ततः प्राह भावशूरं नृपं प्रति ।वृक्णत्वं कर्मणा जातं भक्त्या मार्ष्टुं हि शक्यते ॥२१॥राजन्नारायणो विष्णुर्भक्तेच्छापूरकोऽस्ति हि ।भक्तश्चेच्छति साम्राज्यं ददात्येव हरिः प्रभुः ॥२२॥भक्तश्चेच्छति चारोग्यं ददात्येव नरायणः ।यान् यान् कामान् कामयते पूरयत्येव तान् हरिः ॥२३॥सकामस्य तु कामानां पूरकः परमेश्वरः ।अकामस्य महानन्दप्रदाता परमेश्वरः ॥२४॥सत्यं वै वर्तते सर्वं भक्त्या तुष्यति माधवः ।प्रतोषितो हरिः सर्वं ददात्येव न संशयः ॥२५॥भावशूरस्तदा प्राह सर्वं मृषा प्रभाषसे ।न वृक्णत्वं तिरोयाति स्वास्थ्यं नांऽके प्रतिष्ठते ॥२६॥भक्तौ मे नास्ति विश्वासो यथा कर्मणि वर्तते ।तथापि वृक्णदेवाऽत्र पणं किञ्चित्करोमि वै ॥२७॥अहं राजाऽस्म्यवृक्णस्त्वं भृत्यो वृक्णः प्रवर्तसे ।कर्मणा नियतं त्वेतन्नैतद् विपरिवर्तते ॥२८॥यदि भक्तिबलं हेतुर्भवेद् विपरिवर्तने ।अवृक्णवृक्णभावस्याऽऽवयोर्विनिमयोऽस्त्विह ॥२९॥तदा भक्तिबलं मत्वा करिष्ये भजनं हरेः ।अन्यथा ते वचः सत्यं नैव मन्ये कथंचन ॥३०॥इत्येवं नृपतेर्वाक्यं श्रुत्वा वृक्णोऽपि मां प्रभुम् ।सस्मार परया भक्त्या सन्निधौ नृपतेस्तदा ॥३१॥प्रकाशे सर्वलोकानां व्याजहार नृपो यथा ।तथा भवतु सर्वात्मन्नेवं प्राह पुनः पुनः ॥३२॥वृक्णदेवस्य भक्त्यैव स्नेहेन वशतां गतः ।अहं लक्ष्मि तदा गुप्तस्तिष्ठँस्तत्रैव वृक्णताम् ॥३३॥वृक्णदेवस्य चाकृष्य नृपहस्तद्वयेऽक्षिपम् ।राजा तूर्णं तदा वृक्णोऽभवत् प्रकोष्ठयोस्तथा ॥३४॥कफोणिकयोः कुब्जश्चाऽभवश्चाऽऽकृष्टनाडिकः ।शुष्ककाष्ठायितं हस्तद्वयं तानायितं द्रुतम् ॥३५॥सर्वेषां पश्यतां तत्र भूमिपतेर्व्यजायत ।वृक्णदेवस्य हस्तो तु वृक्णतावर्जितौ द्रुतम् ॥३६॥अभवतां यथाकार्यकरौ निर्बन्धनाडिकौ ।सुरक्ताढ्यौ पुष्टियुक्तौ यथेष्टकार्यकारिणौ ॥३७॥एतादृशं महाश्चर्यं वीक्ष्य सिष्मियिरे जनाः ।राजा मेनेऽतिवादस्य फलं नास्तिकतोद्भवम् ॥३८॥भक्तिं मेने तथा सत्यां कर्मणां परिवर्तिनीम् ।भक्तेर्बलं परं मेने नास्तिक्यं प्रमुमोच सः ॥३९॥एवं वै वृक्णतारोगो जन्मजोऽस्य मया रमे ।तदा भक्तेर्गौरवार्थं तद्द्वयोः परिवर्तितः ॥४०॥अथ राजाऽभवद्भक्तस्त्यक्त्वा गर्वं तु कर्मणः ।स्वभावस्य तथा गर्वं तत्याज वृक्णताबलात् ॥४१॥ऽअथ राज्ञी शीलधर्मानाम्नी शुशोच वै तदा।पुत्रपुत्र्यश्च भृत्याश्च प्रजाश्च शुशुचुर्ह्यति ॥४२॥वृक्णदेवोऽपि नृपतिं वीक्ष्य वृक्णं शुशोच ह ।प्रार्थयत् परमात्मानं राज्ञो रोगस्य नुत्तये ॥४३॥राजापि वृक्णदेवान्मे मन्त्रं जग्राह वै तदा ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥४४॥जजाप मालिकामात्रमष्टोत्तरशतं तदा ।तावदहं भक्तरक्षाकृत् प्रादुरभवं क्षणात् ॥४५॥शंखचक्रगदापद्मवैजयन्तीधरः प्रभुः ।श्रीलक्ष्मीसहितस्तूर्णं ब्रह्मतेजोऽन्तरेऽम्बरे ॥४६॥राजा ददर्श मां दिव्यं वृक्णदेवो ददर्श माम् ।प्रजाः सर्वास्तदा मां चालोकयामासुरीश्वरम् ॥४७॥जयकारं जगदुश्च नेमुस्तुष्टुवुरच्युतम् ।मेनिरे धन्यभाग्यं च दर्शनं यत्परात्मनः ॥४८॥एकभक्तस्य योगेन बहूनां दर्शनं ह्यभूत्॥मया दिव्यं तु मद्रूपं तिरोभाव्य शुभं वपुः ॥४९॥कृत्वा राज्ञः सन्निधौ च गत्वा स्पृष्टो नृपस्तदा ।नास्तिक्यं सहसा नष्टं राजा धर्मपरोऽभवत् ॥५०॥यथा भक्तस्तथा राजा धार्मिकौ तौ बभूवतुः ।राजा प्रजादयः सर्वे परं मोदं प्रपेदिरे ॥५१॥आनन्दमुत्सवं चक्रुर्मम दर्शनलाभतः ।नारायणं च मां सर्वे पूजयामासुरादरात् ॥५२॥अथ भृत्यो वृक्णदेवः पप्रच्छ मां ततः प्रभुम् ।कथं मे वृक्णता चासीत् कथं गता वदाऽत्र मे ॥५३॥तदाऽहं कमले सर्वं वृत्तान्तं पूर्वजन्मजम् ।श्रावयामास भक्तेभ्यो वृक्णतादायकं ह्यघम् ॥५४॥पूर्वमासीद् भवान् कीशभिक्षुकः कीशरक्षकः ।वानरान् खेलयित्वा च वसतौ च प्रजाजनात् ॥५५॥ग्रामीणेभ्योऽन्नवस्त्राद्यैर्लब्धैर्वृत्तिं समाचरत् ।भल्लुकौ द्वौ नकुलाश्च पञ्च सप्त तु वानराः ॥५६॥द्वौ सर्पौ वृश्चिका अष्टौ वशे ते ह्यभवंस्तदा ।तेषां खेलविशेषैस्त्वं कुटुम्बवृत्तिमाचरः ॥५७॥कुटुम्बिनस्ते सर्वेऽपि तत्तज्जन्तुप्रशिक्षकाः ।आसँस्तेऽपि च तान् जन्तून् खेलयित्वाऽम्बराऽन्नकम् ॥५८॥उपार्जयँस्तदा वृत्तिं जीविकां चाभ्यवर्तयन् ।एवं वै वर्तमानेषु ग्रामान्ते संस्थितेषु च ॥५९॥रात्रौ सुप्तेषु सर्वेषु वृकोऽरण्यात् समागतः ।तस्य गन्धं विदित्वैव वानरः प्रथम द्रुतम् ॥६०॥अप्लवत भयात्तस्याऽपतत्तव तु वक्षसि ।हस्तौ कीशस्य ते भाले नेत्रयोः पतितौ तदा ॥६१॥नखैश्चर्म ललाटस्य भिन्नाऽभवत्तदा तव ।त्वं सहसा निद्रितोऽपि भयं मत्वा परं पशुम् ॥६२॥अपश्यन् तं निजं कीशं लोहयष्ट्या ह्यताडयः ।भग्नौ त्वग्रपदौ तस्य तावत्तु भल्लुकोऽपि च ॥६३॥भयशब्दं सम्प्रचक्रे पशवोऽन्येऽपि चुक्रुशुः ।त्वयोत्थाथ भयं प्राप्य वीक्षितो भयकृद् वनी ॥६४॥वृकः क्रूरो वानरादो नातिदूरे ह्युपस्थितः ।आक्रोशं त्वं परं कृत्वा तीक्ष्णकुन्तेन तं वृकम् ॥६५॥प्रधाव्य भेदयामासिथैव त्वं हृदये तदा ।पपाताऽपि ममाराऽपि वृकस्त्वं निर्भयोऽभवः ॥६६॥भल्लुकाद्याः प्राणिनस्ते निर्भयाश्च तदाऽभवन् ।वानरस्य सदा नैजबन्धनस्थस्य वै तदा ॥६७॥विना विचारं सहसा पादौ भग्नौ रुषा त्वया ।वानरश्चाति वै कष्टं प्राप तत्र तवाऽऽश्रितः ॥६८॥शरणस्थाऽऽश्रितश्चापि जीविकासाधनं तथा ।पुत्रवत् पालितश्चापि लोहदण्डेन ताडितः ॥६९॥हस्तयोर्भञ्जितस्तस्य कष्टाक्रोशनकारिणः ।वस्त्रखण्डौषधाद्यैश्च पादप्रसेवनं कृतम् ॥७०॥मासान्ते चाग्रपादौ तौ नीरुजौ समजायताम् ।किन्तु भुग्नौ वृक्णरूपौ वक्रौ सदा ह्यतिष्ठताम् ॥७१॥तत्फलं तु त्वया लब्धं चात्र जन्मनि वृक्णताम् ।इदानीं यावदेवैतद् दुःखं ते तद् व्यजायत ॥७२॥अथापि त्वं वानरस्य भल्लुकस्य च खेलने ।पूर्वयुगोद्भवां गाथां जाम्बवतो हनूमतः ॥७३॥अगायथा युद्धरूपां द्रोणाद्र्युद्धरणान्विताम् ।मम सम्बन्धरूपां वै भक्तिभावसमन्विताम् ॥७४॥तेन कीर्तनपुण्येन वृक्णोऽपि त्वं सुसम्पदा ।युक्तो भवसि राज्ञोऽस्याश्रयेऽपि धनवानसि ॥७५॥भक्तिमान् वर्तसे चात्र भक्तिं कारयसि ध्रुवाम् ।भक्तिबलं तु ते जातं येनाऽहं ते वशेऽस्मि वै ॥७६॥आगतस्तव रक्षार्थं वृक्णता वारिता तव ।शृणु चायं नृपो योऽयं वृको मृतो व्यजायत ॥७७॥सोऽयं साकं त्वया चास्ते राजा नास्तिकभाववान् ।द्वेषवान् धर्मकार्यादौ वर्तते प्राक् स्वभावतः ॥७८॥वृकस्यैव निमित्तेन कीशस्य करभग्नता ।अभवत् तत्फलं चार्धं वृकस्यैव भवेदिति ॥७९॥राज्ञोऽस्य वृक्णता प्राप्ता तव पापं नृपे गतम् ।शृणु चापि वृकश्चायं कथं वै नृपतां गतः ॥८०॥तृतीये प्राग्भवे चायं क्रोधी विप्रोऽभवत्तदा ।नाम्ना प्राणधरश्चापि लोकाः प्राणहरं जगुः ॥८१॥उद्वेजनः क्लेशदश्च धर्मे कर्मणि चोत्सवे ।विवाहे वाचने दाने बलाद् गृह्णाति चाधिकम् ॥८२॥अतृप्तश्चातिवादेन हठेन कलिनाऽपि च ।धनं चान्नं वस्तुजातं प्रसह्याऽऽदत्त एव सः ॥८३॥तपस्व्यपि तपस्तस्य क्रोधेन निष्फलं यथा ।तथाऽभवत् सतृष्णस्य क्रोधितस्य वृथा तपः ॥८४॥तथापि देवपूजाद्यैर्लेशेन तपसाऽपि च ।तथैव पापपुञ्जेन मृतो यमालयं ययौ ॥८५॥चित्रगुप्तः शुभं चास्याऽशुभं न्यवेदयत्तदा ।पूर्वं किं ते प्रभोक्तव्यं यथेष्टं वद पारये ॥८६॥इत्येवं यमराजस्य श्रुत्वा वचोतिरोषवान् ।जगाद् प्रथमं पापं भोक्तव्यं तु मया यम ॥८७॥ततो याम्यानि दुःखानि भोक्तुं यमेन योजितः ।भुक्त्वा निरयदुःखानि शेषेण वृकतां गतः ॥८८॥तत्र तव करेणाऽस्य मरणं समजायत ।पुण्यैः पूर्वकृतैरस्य राज्यं स्वल्पं हि वर्तते ॥८९॥स्वभावाः प्राग्जन्मजातास्त्यज्यन्ते नैव केनचित् ।पूर्वस्वभावदोषेण कलहश्चास्य रोचते ॥९०॥तथापि वृक्णदेव त्वं निबोधयसि प्रत्यहम् ।भक्त्यर्थं शुभवाक्याद्यैस्तेनाऽस्य वर्धते शुभम् ॥९१॥शनैः फलं द्रुमादौ वै शनैर्घृतं पयस्यपि ।शनैः पुत्रफलं पत्न्यां शनैः संस्कारशोधनम् ॥९२॥शनैर्ज्ञानं शनैर्विद्या शनैर्द्रव्यार्जनादिकम् ।शनैः समागमै रंगो जायतेऽभ्यासवर्तिनाम् ॥९३॥एवं राज्ञोऽस्य कालेन पुण्यं चापि प्रवर्तते ।पापं वृक्णत्वमात्रं च वर्ततेऽद्य मनागपि ॥९४॥तथापि भक्तयोगेन भक्तियोगेन मे तथा ।मम योगेन सर्वं तत्पापं विनाशमेष्यति ॥९५॥श्वप्रातश्चास्य नृपतेर्वृक्णभावो गमिष्यति ।क्रौर्यं नास्तिकता चापि सर्वं नष्टं भविष्यति ॥९६॥ऐकान्तिको मम भक्तो भविष्यति यथा भवान् ।उभयोश्चापि मे धामवासोऽन्ते वै भविष्यति ॥९७॥वानराद्या इमे पुत्रा वृक्ण ते क्रूरभावनाः ।इदानीं मानवा जातास्तेऽपि यास्यन्ति मोक्षणम् ॥९८॥इत्येवं वरदानं वै दत्वाऽहं च तिरोऽभवम् ।श्वोजाते प्रातरेवाऽस्य राज्ञस्तु वृक्णता गता ॥९९॥भजनं मे चकाराति हरे कृष्णनरायण ।कालेन मे धाम दिव्यं भावशूरो नृपो ययौ ॥१००॥वृक्णदेवादयश्चापि मुक्तिं कालेन ते ययुः ।एवं लक्ष्मि प्रभक्तस्य रक्षां करोमि नित्यदा ॥१०१॥भक्तयोगेन जीवानां कल्याणं जायते ध्रुवम् ।भक्तयोगेन भक्तिः स्यान्मम योगस्तथा भवेत्। ॥१०२॥पापनाशो भवेच्चापि सत्संगः शेवधिर्नृणाम् ।स्वल्पः कृतोऽपि फलति श्रोतुर्वक्तुश्च मोक्षदः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वृक्णदेवाख्यभक्तस्य भक्त्या वृक्णतानाशो भक्तयोगेन भावशूरनृपतेर्मोक्षणं प्राग्जन्मवृत्तान्तादि चेतिनिरूपणनामा चतुरशीत्यधिकशततमोऽध्यायः ॥१८४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP