संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १९९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १९९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कारुण्यात् प्रवदामि यत् ।सर्वैर्जनैः सदा कार्यं सच्छास्त्राणां प्रसेवनम् ॥१॥लक्ष्मीनारायणसंहितायाश्चास्याः प्रसेवनम् ।नारीभिश्च नरैश्चापि कर्तव्यं सर्वदेहिभिः ॥२॥मम भक्तिप्रकाराश्च मोक्षस्य साधनान्यपि ।स्वर्गस्य हेतवश्चापि सृष्टीनां वर्तनानि च ॥३॥उक्तान्यत्र समस्तानि बहूनि कृपया मया ।ऐकान्तिका मम भक्ता उदिता हि मया शुभाः ॥४॥देहात्मबुद्धयश्चापि ब्रह्मात्मबुद्धयस्तथा ।स्वार्थपरास्तथा चोक्ताः परार्था दिव्यधर्मिणः ॥५॥दिव्यास्तु देहत्रितयाद् भिन्ने चात्मनि निष्ठिताः ।आत्मन्यतिप्रकाशे ते साक्षान्मां समुपासते ॥६॥ईक्षन्ते ते चातिप्रकाशाऽऽत्मरूपं सनातनम् ।आत्मरूपे बालकृष्णमीक्षन्ते मां परेश्वरम् ॥७॥अतितेजस्विनं साक्षाद् रमन्तं चात्मना सह ।त एते दिव्यदृग्वन्तश्चात्र लोके स्थिता अपि ॥८॥ब्रह्मपुरस्थिताः सन्ति यूयं ब्रह्मप्रिया यथा ।ब्रह्मभावस्तु भक्ताभिः साधनीयोऽतिसौख्यदः ॥९॥श्रीपतौ मयि यासां वा येषां मनुष्यभावना ।तेषां तासां विघ्नभयं विरहो मे भवेदिति ॥१०॥अप्राप्तिर्मम धाम्नश्च क्वचित् स्यान्मदभावतः ।अतो लोके मम भक्ता नैव कुर्वन्ति वै मयि ॥११॥मनुष्यभावनां क्वापि कुर्वन्ति दिव्यभावनाम् ।यथा तु भावना दिव्या मयि तथा निजेऽपि च ॥१२॥कर्तव्या भावना दिव्या न तु देहात्मभावना ।देहात्मभावना विघ्नप्रदा भवति देहिनाम् ॥१३॥ब्रह्मा मोहं गतो वीक्ष्य पार्वतीरूपमेव ह ।स्खलितश्च ततो जाता बालखिल्या महर्षयः ॥१४॥शंकरो मोहिनीं मां तु दृष्ट्वा मुग्धोऽभवत्तथा ।नारदो देहभावेन विवाहं समियेष च ॥१५॥एवमन्येऽपि बहवो मोहं मुक्ता गता अपि ।मोहात्मकं महद्विघ्नं जायते देहभाविनाम् ॥१६॥दिव्यभावयुतानां तु चात्मनिष्ठानिवासिनाम् ।शुकवद् ब्रह्मभावो वै जायते सनकादिवत् ॥१७॥सर्वा लीला मम दिव्या बोद्धव्या रतिरासजा ।मुक्तिदा सा भवत्येव मयि स्नेहेन योगिनी ॥१८॥स्नेहो गाढानुरागः श्रीकृष्णनारायणे मयि ।प्रेमातिरेकः सततं निजात्मनि स्थिरस्तु यः ॥१९॥स्नेहेनाऽऽनेन भक्तानां मायास्नेहो विलीयते ।मायास्नेह स्थितिं कर्तुं ददात्येव न चान्तरे ॥२०॥ध्यानं स्नेहेन सततं कर्तव्यं मम नित्यदा ।ध्यानवृत्तिः स्थिरा स्याच्च महासमाधिकारणम् ॥२१॥वृत्तिस्थैर्ये भवेदेकान्तिकता मयि केशवे ।शाश्वतानन्दसन्दोहे महासुखप्रदे प्रभौ ॥२२॥सर्वक्रियासु सततं मयि स्थैर्यं विधापयेत् ।एवमभ्यसने जाते चात्मा निरुद्ध्यते मयि ॥२३॥सेन्द्रियाऽन्तःकरणः संप्रलग्नो जायते मयि ।एवं चित्तनिरोधेन सर्वरोधे भवेन्मयि ॥२४॥प्रेमाऽतिरेकस्तत्राऽस्ति कारणं नेतरद् रमे ।भक्तानां मानसं स्नेहात् स्थिरं स्यान्मयि तत्तथा ॥२५॥तेषामात्मसु सहसा वासो मे च भवेद् रमे ।प्रेम्णा वासस्तु मूर्तेर्मे साक्षाद्वत् स्मारको भवेत् ॥२६॥महात्म्यज्ञानमेवापि प्रेम्णा नित्यं प्रवर्धते ।माहात्म्यज्ञानयुक्प्रेमा ब्रह्मात्मस्थितिमृच्छति ॥२७॥न स मायां प्रपश्येत् संपश्येन्मां ब्रह्म शाश्वतम् ।अक्षरं दिव्यरूपं च सच्चिदानन्दसंभृतम् ॥२८॥तत्र निजात्मरूपे वै चाक्षरे ब्रह्मशाश्वते ।सदैकरसचैतन्यप्रकाशे व्यापकेऽभितः ॥२९॥अनादिश्रीकृष्णनारायणं मां परमेश्वरम् ।दिव्यं कान्तं समीक्षेत नान्यमाकारमीक्षते ॥३०॥एषा ब्राह्मी स्थितिर्दिव्या पराविद्यास्थितिस्तथा ।दिव्यज्ञानस्थितिश्चापि ज्ञानप्रलयसंज्ञिका ॥३१॥साक्षात्कृष्णे परे देवे शाश्वतस्थिरतात्मिका ।अस्या नित्यं समारम्भं यः करोति तु देहभाक् ॥३२॥स याति परमां श्रेष्ठां स्थितिं लक्ष्मि यथा तव ।प्रत्यक्षस्य महिमा मे यावज् ज्ञातोऽस्ति येन वै ॥३३॥तस्य तावान् प्रकाशोऽपि हृदये कृपया भवेत् ।चिन्मयं तं प्रकाशं च वर्धमानवेक्षते ॥३४॥महिमानं वर्धमानं यावन्तं विन्दते तथा ।तावन्तं प्रणवं चापि तावद्रूपं च मे तथा ॥३५॥वर्धमानं ब्रह्मरूपे विन्दते कृपया मम ।क्रमात् सर्वत्र सम्पूर्णं प्रकाशं परिपश्यति ॥३६॥शृणोति मम नाम्नां वै नादानां मधुरान् ध्वनीन् ।ब्रह्मनादेषु मग्नस्य मग्नस्य स्वात्मनि ध्रुवे ॥३७॥अमायिकस्य मुक्तस्य ब्रह्मीभूतत्वमेव तत् ।मम माहात्म्यानुभवो यस्याऽऽधिक्येन यावता ॥३८॥तावता ब्रह्मभावस्य परात्मनो ममेक्षणम् ।परां काष्ठां प्रपन्नस्य मम माहात्म्यवेदिनः ॥३९॥कालमायानियन्तृत्वाद्यैश्वर्यं समजायते ।अनादिश्रीकृष्णनारायणोऽहं मत्समोऽपि सः ॥४०॥सर्वावतारधर्ताऽहं कालमायानियामकः ।गुणातीतो निर्विकारः सर्वेश्वरेश्वरेश्वरः ॥४१॥श्रेयोऽर्थं देहिनामत्र स्वेच्छया भामि मर्त्यवत्.।मर्त्यवच्च क्रियाः सर्वाः करोमि भक्तहेतवे ॥४२॥तत्र विमूढमतयश्चाल्पज्ञाश्चर्मचक्षुषः ।निजदृष्टान्तमासाद्य दोषान् प्रकल्पयन्ति ते ॥४३॥निर्दोषोऽहं सदा लक्ष्मि चिन्तामणिसमः सदा ।कल्पकेषु कल्प्यदोषाः प्रविशन्ति हि तेऽखिलाः ॥४४॥मन्यन्ते कामिनं मां ये कामिनस्ते भवन्ति वै ।क्रोधिनं मां कल्पयन्ति क्रोधिनस्ते भवन्ति च ॥४५॥मन्यन्ते मां लम्पटं ये भवन्ति लम्पटास्तु ते ।मायाविनं तु जानन्ति मायाविनो भवन्ति ते ॥४६॥अदिव्यं मां विजानन्ति ह्यासुराः क्षुद्रबुद्धयः ।दिव्यं चापि मनुष्यं मां दिव्यं जानन्ति ये तु वै ॥४७॥ते तु भवन्ति दिव्याश्च ह्यदिव्या अपि देवताः ।अपि न्राकृतिमीशं मां निर्दोषं मां विदन्ति ये ॥४८॥सदोषा अपि जायन्ते निर्दोषास्ते बलान्मम ।वशे यस्य समस्तानीन्द्रियाणि चान्तराणि च ॥४९॥संकल्पोऽपि वशे यस्य प्रत्यक्षकृष्णनिश्चयः ।स एव पूर्णो धन्यश्च कृतार्थश्च मतः सदा ॥५०॥यथा मुक्तस्तथा सोऽपि यथाऽक्षरे तथाऽत्र सः ।यथा दिव्यस्तथा चात्र सर्वैश्वर्यान्वितो भवेत् ॥५१॥मन्येत स निजं भाग्यं भाग्येन श्रीहरेः सह ।मिश्रितं न पृथक् लक्ष्मि धन्यं मन्येत वै निजम् ॥५२॥कामादिदावदग्धेऽत्र लोके धन्योऽस्मि यन्मम ।अनादिश्रीकृष्णनारायणः साक्षान्मिमेल ह ॥५३॥सन्तस्तस्य तु मिलिता मोक्षदा दोषनाशकाः ।यत्प्रसादेन जेष्यामि कामादीनान्तरानरीन् ॥५४॥ब्रह्मरूपेण च कृष्णोपासनां मोक्षदायिनीम् ।करिष्यामि भाग्ययोगैः कृपया श्रीहरेस्तथा ॥५५॥एतादृशा मम भक्ता भाग्यवन्तो रमे मताः ।प्राप्तपूर्णगुणास्ते वै चिन्तामणिप्रयोगिणः ॥५६॥नहि तेष्वस्त्यपूर्णत्वं परिपूर्णा ममाश्रयात् ।प्रत्यक्षोऽहं यदेतेषां मिलितो राधिकापतिः ॥५७॥पूर्वजन्मोत्थसुकृतं त्वेतेषां बहुलं यतः ।सत्संगस्य महायोगो जातोऽस्य मोक्षदो यतः ॥५८॥प्रपन्नस्य तु भक्तस्याऽपूर्णता चेद् भवेद् यदि ।अपनेयाऽऽत्मनिष्ठाऽऽढ्यमाहात्म्यज्ञानतस्तु सा ॥५९॥आत्मनिष्ठा निर्बला चेत् समाधावपि दुःखदा ।श्रूयन्ते तु यदा नादा ब्रह्माण्डभेदका इव ॥६०॥समाधौ तु तदा चात्मनिष्ठाहीनो बिभेति ह ।आत्मसत्तो निर्भयो वै ब्रह्मतादात्म्यमेति च ॥६१॥ब्रह्माण्डदाहकं तेजस्तत्रेक्षते समाधिमान् ।तदा बिभेत्यसावात्मनिष्ठाहीनो विनाऽऽश्रयम् ॥६२॥हरिर्वा तस्य तन्मार्गे सहायः प्रेमभावितः ।आत्मविद्वा भयं नैति हरेः सहायवाँश्च वा ॥६३॥आत्मविदः प्रत्रुट्यन्ति सर्वा विषयवासनाः ।निरोधं त्वेकवृत्तित्वाच्चित्तं कृष्णेऽस्य विन्दति ॥६४॥सर्वेन्द्रियप्रवाहाणां कृष्णे मयि विसर्जनम् ।कृत्वा स्थेयं मम भक्तैर्विघ्नं नाऽस्य प्रजायते ॥६५॥एकबलं चैकवृत्ति चित्तं भक्तस्य सुस्थिरम् ।मय्येव तु यदा जातं तदाक्रष्टुं न शक्यते ॥६६॥रम्यैश्चापि पदार्थैर्वै यतो निर्वासनं हि तत् ।निरुद्धं मम मूर्तौ तन्मदन्यचिन्तनोज्झितम् ॥६७॥एवं सतां मानसं वै मयि रुद्धं प्रजायते ।हित्वाऽन्यत् कृष्णपूर्णार्थाः कुर्वते मदुपासनम् ॥६८॥एवं लक्ष्मि कृपासाध्यो भवामि पूर्णकामदः ।महाभागवताः सन्तो भजन्ते नवधा हि माम् ॥६९॥ब्रह्मनिष्ठा आत्मविदो मम माहात्म्यवेदिनः ।भक्तिनिष्ठः सदा सेवानिष्ठस्तेषां प्रवर्धते ॥७०॥तथा तादात्म्यनिष्ठश्च सम्पद्यते मया सह ।सद्भिस्तथापि नोद्रिच्यं ह्युद्रेके दग्धबीजता ॥७१॥हरेः कृपा तादृशाच्च निवर्तते हि निष्फला ।तस्मान्मय्येव संस्थाप्यं सर्वं चाभ्युदयादिकम् ॥७२॥बुद्धिर्मनोऽप्यहंकारश्चित्तं चेन्द्रियवृत्तयः ।देहो देहगुणाश्चापि स्थापनीया मयीश्वरे ॥७३॥रसिकत्वं हरावेव बालकृष्णे मयि प्रभौ ।समर्पणीयं सततं श्रीलक्ष्मीराधिकापतौ ॥७४॥गायनस्य रसश्चापि समर्पणीय ईश्वरे ।कीर्तनं हावभावाश्चार्पणीया परमे मयि ॥७५॥मय्यर्पणं विना भावो रसोऽन्यत्र भवेद् यदि ॥तत्र स्यालग्नता तेन भ्रंशः स्याच्छ्रेयसां पथः ॥७६॥एकान्तिकस्य भक्तस्य रसिकस्य न संभवेत् ।रसः क्वापि मदन्येषु पदार्थेषु जगत्सु वै ॥७७॥मम लीलागुणभाजि शब्दे यस्य रसो मतः ।नाऽन्यत्र स एव मेऽस्ति शाब्दिको रसिकः प्रियः ॥७८॥ममांगयोगिसंस्पर्शे यद् भक्तस्य रतो मतः ।नाऽन्यत्र स्पार्शने क्वापि स्पर्शीयरसिकः स मे ॥७९॥ममैवेक्षा मामकानामीक्षा यस्य रसान्विता ।नान्या यस्याऽस्ति दिदृक्षा रूपीयरसिकः स मे ॥८०॥मदर्पितान्नताम्बूलप्रभृतिस्वादसद्रसः ।यस्याऽस्ति न त्वितरत्र रसीयरसिकः स मे ॥८१॥मदर्पितसुगन्धादेर्घ्राणने यस्य सद्रसः ।नान्यत्र सौरभादौ स गन्धीयरसिको मम ॥८२॥ग्रहणं मम दिव्यानां पदार्थानां तु हस्तयोः ।गमनं मन्दिराणां मे प्रदक्षिणं च पादयोः ॥८३॥कथनं मत्कथादीनां वाचो यस्य रसात्मकम् ।आनन्दाद्यं मम योगान्मद्रतौ यस्य सद्रसः ॥८४॥एवमाद्यानि सर्वाणि मदर्थे रसभाञ्जि वै ।मनो बुद्धिस्तथा चित्तमहंकारोऽपि मारुतः ॥८५॥सर्वे मद्रसभावा वै यस्य भक्तस्य सन्ति हि ।प्रमोदो यस्य मन्मूर्तौ मूर्तेश्च विषयेष्वपि ॥८६॥भागवतेषु दिव्येषु रसोत्कर्षो हि सर्वथा ।आत्यन्तिकी रुचिश्चापि मय्येव यस्य वर्तते ॥८७॥जाग्रतः स्वपतो वापि मूर्छितस्यापि सर्वथा!तुर्यास्थितस्य मय्येव यस्य सर्वो रसो मतः ॥८८॥तस्य भक्तस्य दिव्यस्य सत्या रसिकता मता ।एवंविधस्य भक्तस्य रसिकस्य सदा हृदि ॥८९॥भासेऽनादिकृष्णनारायणोऽहं दिव्यमूर्तिमान् ।पश्यतो मम मूर्तिं च हृदये द्रागलौकिकीम् ॥९०॥प्रकाशते ब्रह्मतेजो भासे तस्मिन्नहं प्रभुः ।तस्माद् भक्तैः प्रधार्यं मे रूपं गायनकीर्तनैः ॥९१॥मानसं च मम रूपे सात्म श्रद्धासमन्वितम् ।यत्र क्वापि प्रवेष्टुं न शक्येताऽन्येन वस्तुना ॥९२॥यतः समर्थो भगवान् मायिकानि समस्ततः ।दूरीकरोति विघ्नानि सर्वेश्वरेश्वरो हि सः ॥९३॥विधृता येन भूगोलास्तारा व्योम्नि तथा धृताः ।सूर्याचन्द्रमसोर्येनोदयास्तमने वै कृते ॥९४॥मेघाश्च निर्मिता येन वारिवाहा जलप्रदाः ।ऋतवो निर्मिता येन वृक्षवल्लीफलप्रदाः ॥९५॥अब्धयो निजवेला न जहत्यपि यदाज्ञया ।धातुबिन्दोः प्रजायन्ते साकाराऽपत्यमूर्तयः ॥९६॥जीवो येनेच्छया चात्मा ह्यगोचरः समर्थितः ।सोऽहं श्रीमान् कृष्णनारायणो मनुष्यविग्रहः ॥९७॥बहिश्च हृदये स्वामी धाम्नि चापि भवामि ह ।मिलितश्चेह भक्तानां परनिःश्रेयसे प्रभुः ॥९८॥एतादृशं मां विज्ञाय माहात्म्यज्ञानगोचरम् ।मम भक्तेन भक्तिर्मे कार्या भीतिविवर्जिता ॥९९॥एवंविधस्य विज्ञस्य ब्रह्मस्थितिर्भवेदिह ।हृदि तस्य प्रवेशं न कुर्वन्ति मायिकानि वै ॥१००॥दिव्या स्थितिर्भवत्येव सुखदुःखसमाऽस्य वै ।पूजने ताडने हस्त्यारोहणे खरवाहने ॥१०१॥शत्रौ मित्रे तथा स्वर्णे लौहे रूपे कुरूपके ।अवमाने च माने च समताऽस्य हि वर्तते ॥१०२॥एतादृशस्य हृदये वासो मे सर्वदाऽस्ति वै ।अस्य प्रपूजनं देवा ईश्वरा विदधत्यपि ॥१०३॥संसारिणां समुद्धर्ता भवत्ययं भवार्णवात् ।आधारो जगतां चायं सामर्थ्यवान् भवत्यपि ॥१०४॥असंख्यगुणकल्याणैर्युक्तो मोक्षं ददात्यपि ।अस्य मूर्तौ मम मूर्तिर्वसत्येव सदा रमे ॥१०५॥अस्येन्द्रियेषु सर्वाणीन्द्रियाणि मे वसन्त्यपि ।अस्याऽन्तःकरणे सर्वं मदन्तःकरणं रमे ॥१०६॥अतः स सर्वलोकानां नेत्रादीनां प्रकाशने ।समर्थो वर्तते मद्वन्मम तादात्म्ययोगतः ॥१०७॥तथापि साधुतास्थित्या सहते चावमानकम् ।क्षुद्रजीवकृतं चापि क्षमाधर्मो हि साधुता ॥१०८॥स एव तु महानात्मा क्षमा सामर्थ्यमुत्तमम् ।एतादृशस्य मे साधोः संगमाद् यावदर्पणात् ॥१०९॥सर्वाः सिद्ध्यन्ति वाञ्च्छाश्च स्वर्गं मोक्षं लभेत च ।पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं लभेद् रमे ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रीहरिणा स्वैकान्तिकभक्तानां ब्रह्मनिष्ठतैश्वर्यादीनि कथितानीत्यादिनिरूपणनामा नवनवत्यधिकशततमोऽध्यायः ॥१९९॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP