संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १२०

द्वापरयुगसन्तानः - अध्यायः १२०

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि! महालक्ष्म्या मन्त्रान्तरं वदामि ते ।
यदाराधनतो भूयात् साधको भुक्तिमुक्तिमान् ॥१॥
ओं महालक्ष्मीमहामायामहानारायण्यै कमलवासिन्यै
महाविष्णुप्रियायै नमः, ओं श्रीं ह्रीं क्लीं णीं म्लीं
ष्णीं महामात्रे पुरुषार्थवर्षिण्यै स्वाहा॥२॥
पञ्चाशदक्षरं दिव्यं महामन्त्रं जपेत् सदा ।
ऋषिर्नारायणश्चाऽहं महालक्ष्मीर्हि देवता ॥३॥
स्वर्णचम्पकरूपाभां सर्वभूषणभूषिताम् ।
कृपाहास्यप्रसन्नास्यां भक्तानुग्रहतत्पराम् ॥४॥
सर्वैश्वर्यादिसम्पूर्णां सर्वाम्बरविराजिताम् ।
कोटिसूर्येन्दुकान्तां च रत्नहारादि बिभ्रतीम् ॥५॥
कम्भराश्रीमहालक्ष्मीं श्रीमद्गोपालरूपिणीम् ।
महाविष्णुमहाशक्तिं ध्यायेच्छ्रीमातरं रमाम् ॥६॥
जपेन्मन्त्रायुतं मन्त्रलक्षं वाऽथ दशांशतः ।
पायसेन हवनं च कुर्याच्छ्रीचन्दनार्चनम् ॥७॥
स्थापनं पूजनं कुर्यादारार्त्रिकं निवेदनम् ।
जलं ताम्बूलकं दद्यात् क्षमापनं विसर्जनम् ॥८॥
नवशक्तीः पूजयेच्च महालक्ष्म्याः स्वरूपिणी ।
विभूतिमुन्नतिं कान्तिं सृष्टिं कीर्ति च सन्नतिम् ॥९॥
व्युष्टिमुत्कृष्टिमृद्धिं च दक्षिणे तु गजाननम् ।
वामे कुसुमधन्वानं पूजयेच्चन्दनादिभिः ॥१०॥
उमां श्रीं भारतीं दुर्गां धरणिं वेदमातरम् ।
देवीमुषां चाष्टदिक्षु गंगां यमीं च पूजयेत ॥११॥
पादपद्मक्षालनायाऽऽनीता अपः प्रपूजयेत् ।
शंखपद्मनिधी चाऽर्चेत् पार्श्वयोर्धृतचामरौ ॥१२॥
धृतातपत्रं वरुणं पूजयेत् पश्चिमे तथा ।
राशीन्नवग्रहाँश्चापि दिग्गजानर्चयेत्तथा ॥१३॥
लोकपालाँस्तदस्त्राणि पूजयेत्त्वनले तथा ।
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ॥१४॥
गुडूचीमाज्यसंसिक्तां जुहुयात् सप्तवासरान् ।
अष्टोत्तरसहस्रं यः स जीवेत् पूर्णमेव ह ॥१५॥
हुत्वा तिलान् घृताभ्यक्तान् दीर्घमायुष्यमाप्नुयात् ।
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ॥१६॥
अचिरादेव महती लक्ष्मीः सञ्जायते ध्रुवा ।
नारीकेलघृताद्यैर्जुहुयात् कुबेरवद् भवेत् ॥१७॥
गुडघृताभ्यां हवनादन्नवान् सम्प्रजायते ।
एवं यो भजते लक्ष्मीं कंभरां ललितां श्रियम् ॥१८॥
सम्पदस्तस्य जानन्ते महालक्ष्मीः प्रसीदति ।
देहान्ते वैष्णवं धाम लभते पारमेश्वरम् ॥१९॥
श्रीपुरे दिव्यलोके सा माता लक्ष्मीः परेश्वरी ।
विविधान् स्वावतारान् हि त्रैलोक्यां कुरुते सदा ॥२०॥
महालक्ष्मीर्महामाया मूलप्रकृतिरीश्वरी ।
पारब्राह्मी चाऽक्षरी च परेशी पुरुषोत्तमी ॥२१॥
राधालक्ष्मीश्च गंगा च विरजा च सरस्वती ।
सावित्री चाथ गायत्री कमला पद्मिनी रमा ॥२२॥
तुलसी माधवी पद्मा चेत्येवं ख्यायते हि सा ।
विष्णुकाञ्च्या महालक्ष्मीर्ललिता वर्तते सती ॥२३॥
शिवकाञ्च्यां सैव देवी कामेश्वरी शिवप्रिया ।
वर्तते परमा पूज्या नैकरूपा हि कंभरा ॥२४॥
श्रीनारायणीश्रीरुवाच-
काञ्चीपुर्याः सुकल्याणी द्वेधा या वर्तते स्वयम् ।
महालक्ष्मीः परा शक्तिस्तां द्वेधां दिश मे प्रभो ॥२५॥
श्रीपुरुषोत्तम उवाच-
काञ्चीक्षेत्रे पुरा ब्रह्मा मालक्ष्मीदर्शनाय ह ।
आत्मैकध्यानयुक्तश्च तपस्तेपेऽतिदुःसहम् ॥२६॥
पुरस्तस्य प्रादुरासीन्महालक्ष्मीः कराब्जिका ।
पद्मासने राजमाना विष्णुना महता सह ॥२७॥
सर्वशृंगारवेषाढ्यां सर्वाभरणभूषिताम् ।
आदिलक्ष्मीं प्रवीक्ष्यैव ब्रह्मविष्ण्वीशमातरम् ॥२८॥
कामाक्षीं तां दिव्यदेवीमस्तौषीद् विश्वसृट् स्वयम् ।
अनादिश्रीकृष्णनारायणस्य जननीं भुवि ॥२९॥
ब्रह्मोवाच-
जय लक्ष्मि महालक्ष्मि जगन्मातः परेश्वरि ।
जय श्रीनाथसहजे जय श्रीसर्वमंगले ॥३०॥
जयश्रीकरुणाराशे जय वैष्णववन्दिते ।
जय लोकप्रपूज्ये त्वं लोककर्त्र्यै च ते नमः ॥३१॥
अनन्यभावनाभक्तैर्वेद्यायै ते नमो नमः ।
आम्नायमुनिसंघातैर्ज्ञातोक्ता या परेश्वरी ॥३२॥
परब्रह्मस्वरूपायै मात्रे ते वै नमो नमः ।
हृदयस्थे नमस्तुभ्यं साम्राज्यसम्पदीश्वरि ।
वेदा निःश्वसितं ते वै तस्यै मात्रे नमो नमः ॥३३॥
सहस्रशीर्षा देवोऽपि धत्ते यदाज्ञया क्षितिम् ।
सूर्यचन्द्राग्नयो भान्ति यदंशतेजसा सदा ॥३४॥
पञ्चविंशतिरूपायै मात्रे लक्ष्म्यै नमो नमः ।
ईश्वरा अपि यस्यास्ते प्राप्यैश्वर्याणि चेश्वराः ॥३५॥
सर्वात्मनामन्तरस्थां परमानन्दरूपिणीम् ।
श्रीविद्यां श्रीमहालक्ष्मीं त्वां नमामि पुनः पुनः ॥३६॥
सर्वज्ञानात्मिका यूपात्मिका स्वर्णात्मिकाऽसि च ।
तत्त्वोपदेशरूपा च स्मृद्ध्यात्मा शान्तिवर्षिणी ॥३७॥
देशकालपदार्थात्मा मणिमन्त्रौषधात्मिका ।
धातुतैजसरूपा च तस्यै मात्रै नमो नमः ॥३८॥
कल्याणगुणसम्पन्ना कम्भराभूतिशालिनी ।
कुंकुमवापिकामाता बालकृष्णप्रसूः रमा ॥३९॥
अनादिश्रीकृष्णनारायणांकशोभिताऽव्यया ।
वारंवारं सुराष्ट्रे त्वं समायासि नमोऽस्तु ते ॥४०॥
इतिस्तुता च सा माता सन्तुष्टा वीक्ष्य वेधसम् ।
वृणीष्वेति तदा प्राह ब्रह्माऽपि चार्थयद् वरम् ॥४१॥
मातस्ते दर्शनादद्य कृतकृत्योऽस्मि सर्वथा ।
तथापि लोकरक्षार्थं कामये तत् प्रदेहि मे ॥४२॥
कर्मभूमौ जना मूढाः संसारवासनावृताः ।
तेषां मोक्षार्थमेवात्र भूमौ निवासमाचर ॥४३॥
श्रुत्वाऽऽह वेधसं माता तथाऽस्त्विति तदा रमे ।
ब्रह्माऽपि मन्दिरं शीघ्रं कारयामास सौभगम् ॥४४॥
महालक्ष्म्या समं स्थातुं सस्मार परमेश्वरम् ।
पुण्डरीकाक्षमीशेशेश्वरेश्वरेश्वरेश्वरम् ॥४५॥
सोऽपि साक्षात् समायातः प्रार्थितो ब्रह्मणा तथा ।
निवासार्थं सह लक्ष्म्या तथास्त्विति जगाद सः ॥४६॥
एवं काञ्चनतुल्यायां स्थल्यां शुभे हि मन्दिरे ।
महाविष्णुयुता माता महालक्ष्मीः स्थिताऽभवत् ॥४७॥
अथ ब्रह्मा पुनः प्राह मातः पितः सदाऽत्र वै ।
वैष्णवाद्यो भवद्भक्तः शंकरोऽपि वसत्विह ॥४८॥
वैष्णव्या निजशक्त्याऽऽढ्यश्चेति पूरय कामनाम् ।
तथाऽस्त्विति हरिः प्राह शिवरूपोऽभवद्धरिः ॥४९॥
महालक्ष्मीश्चाऽभवच्च महागौरी महोज्ज्वला ।
सर्वशृंगारशोभाढ्या महालावण्यशेवधिः ॥५०॥
शिवं गौरीं तदा ब्रह्मा नारायणश्च देवताः ।
पुपूजुः परया भक्त्या स्थापयामासुरीश्वरी ॥५१॥
मनसा निर्मितं धात्रा मध्ये नगरमुत्तमम् ।
मन्दिरं च तयोरर्थे शिवकांचीतिसुन्दरम् ॥५२॥
महालक्ष्म्या वायुभागे स्थितवान् शंकरस्तदा ।
अग्निभागे विष्णुरेव ब्रह्माऽव्यक्तो व्यराजत ॥५३॥
आदिर्लक्ष्मीर्महालक्ष्मीर्माता सा श्रीपरेश्वरी ।
का नाम वाणी मा नाम कमला ते ह्युभे ततः ॥५४॥
कामा साऽक्ष्णा तु वामेन पश्यत्येव हरिं प्रभुम् ।
शंकरं दक्षिणेनाऽक्ष्णा पश्यत्येव च वेधसम् ॥५५॥
कामाक्षीति ततः साऽभूत् कथिता देवपुंगवैः ।
तदा गंगायमुनाद्याः सर्वतीर्थाधिदेवताः ॥५६॥
तिस्रः कोट्योऽर्धकोटी च सेवार्थं समुपाययुः ।
तदाऽऽदाय करयोस्तु चामरे श्रीः सरस्वती ॥५७॥
महालक्ष्मीं विजयन्त्यौ स्थिते वै पार्श्वयोः सुखे ।
आदिश्रीनयनोत्पन्ने सर्वशृंगारशोभिते ॥५८॥
एवं स्वमातरं पृष्ठे स्थिता सन्तोषिणी सुता ।
छत्रं स्वर्णमयं धृत्वा राजते दिव्यरूपिणी ॥५९॥
महालक्ष्म्याश्चाज्ञयाऽथ सरस्वती स्वयंप्रभा ।
पश्यतां सर्वदेवानां विधातुर्देहमाविशत् ॥६०॥
इन्दिराश्रीराविशच्च विष्णुदेहे तदाज्ञया ।
एवं गौरी शंकरस्य तदा वर्ष्म समाविशत् ॥६१॥
सन्तुष्टा चाविशन्मातृदेहं ब्रह्मव्रता सदा ।
एवं ता देवतास्तत्र काञ्च्यां वसन्ति पद्मजे ॥६२॥
ब्रह्मा ततः सुरानाह प्रतिवर्षमिहालये ।
विवाहः सम्प्रकर्तव्यो महागौरीमहेशयोः ॥६३॥
तथा कार्यो विवाहो वै महालक्ष्म्यामहाप्रभोः ।
महोत्सवः प्रकर्तव्यो राजोपचारकैरिह ॥६४॥
विवाहोत्सवकर्तॄणां सौभाग्यं शाश्वतं भवेत् ।
काञ्च्यां कुंकुमवाप्यां वा महोत्सवफलं समम् ॥६५॥
मया कुंकुमवाप्याख्ये क्षेत्रे सौवर्णमन्दिरे ।
स्थापिता मे प्रसूर्माता महालक्ष्मीः परेश्वरी ॥६६॥
सहगोपालकृष्णेन महानारायणेन वै ।
तत्पूजां ये करिष्यन्ति ते यास्यन्ति महत्फलम् ॥६७॥
नैवेद्यं ये धरिष्यन्ति ते यास्यन्ति दिवं सुखम् ।
भक्तिं तयोः करिष्यन्ति ते यास्यन्त्यमृतं पदम् ॥६८॥
श्रीपुरं चैश्वरं धाम महाविष्णोर्महात्मनः ।
इयमेव महालक्ष्मीः श्रीमती परमेश्वरी ॥६९॥
त्रियुगलं ससर्जाऽपि लक्ष्मीविष्णुमयं तथा ।
सावित्रीविश्वसृङ्रूपं शिवाशिवस्वरूपकम् ॥७०॥
जया च विजया विद्या सेवन्ते परमेश्वरीम् ।
सम्पत्करी महादेवी सेवते श्रीमतीं सदा ॥७१॥
मन्त्रं जपेत्पूजयेच्च श्रीचक्रं सर्ववस्तुभिः ।
धारितं मनसा सिद्ध्येत् श्रीचक्रस्य प्रपूजनात् ॥७२॥
श्रीचक्रं वै महालक्ष्मीमूर्तिर्गुप्ता न संशयः ।
भक्तो भूत्वाऽखिलं भारमैहिकामुष्मिकात्मकम् ॥७३॥
श्रीदेवतायां निक्षिप्य भवेच्छरणवर्तनः ।
अनुकूलो महालक्ष्म्याः प्रातिकूल्यविवर्जितः ॥७४॥
रक्ष मामिति विश्वस्तः सेवां तु वृणुयात् सदा ।
दीनाधीनो भवेच्चापि भुक्तिं मुक्तिं स विन्दति ॥७५॥
अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम् ।
सद्गुरूपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥७६॥
इन्द्रियार्थेषु वैराग्यमहंकारविवर्जितः ।
जन्ममृत्युजराव्याधिदुःखदोषानुचिन्तनम् ॥७७॥
असक्तिरनभिष्वंगो मायिकेषु तु वस्तुषु ।
समता तु सुखे दुःखे भक्तिः श्रीललितेश्वरे ॥७८॥
एकान्तशीलता चान्यसंसद्रागविहीनता ।
आध्यात्मिकपरत्वं च परज्ञानाभिमग्नता ॥७९॥
एवं च वर्तयन् भक्त्या महालक्ष्म्याः प्रपत्तिमान् ।
विन्दते परमं मोक्षं भुक्तिं स्वर्गमनुत्तमम् ॥८०॥
श्रीलक्ष्मीदर्शने दीक्षां वदामि शृणु पद्मजे ।
हस्ते श्रीनगरं ध्यात्वा धाम यत्परमं परम् ॥८१॥
महालक्ष्म्या महाविष्णोर्हिरण्मयं सुशोभनम् ।
महालक्ष्म्या जपन्मन्त्रं गुरुः शिष्यतनुं स्पृशेत् ॥८२॥
स्पर्शदीक्षा सर्वपापनाशिनीं पुण्यदायिनीम् ।
दत्वा निमील्य नयने ध्यात्वा श्रीपरमेश्वरीम् ॥८३॥
गुरुः शिष्यं प्रपश्येत् सा दृग्दीक्षा पावनी शुभा ।
गुरोर्दृष्ट्याः स्पर्शनेन भाषणेन च सेवया ॥८४॥
पापनाशो भवेज्ज्ञानं दिव्यदेहो भवेदपि ।
गुरोः प्रसादमासाद्य शिष्यस्तद्रूपवान् भवेत् ॥८५॥
चिरं शुश्रूषता तुष्टो दद्यादाशीर्गुरुर्हि सा ।
दीक्षा तु मानसी प्रोक्ता सर्वार्पणा तदुत्तमा ॥८६॥
शुक्लपक्षे शुभे काले स्नात्वा सन्ध्यामुपास्य च ।
गुरुं नत्वा पवित्रं च मन्दिरं प्रति संव्रजेत् ॥८७॥
आचमनं ततः कृत्वा महालक्ष्मीं प्रपूजयेत् ।
आवाहनासने पाद्यमर्घ्यमाचमनं क्रियात् ॥८८॥
स्नानं पञ्चामृतमयं शुद्धाऽद्भिरभिषेचनम् ।
वस्त्रं विभूषणं गन्धं पुष्पं धूपं च दीपकम् ।
नैवेद्यं सलिलं ताम्बूलकं प्रदक्षिणं स्तुतिम् ॥८९॥
ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमो महालक्ष्म्यै
कम्भरायै कामाक्ष्यै ललितायै श्रीचक्रायै महानारायण्यै
महापरमेश्वर्यै पूर्णब्रह्ममहाविष्णुपत्न्यै श्रीगोपाल-
कृष्णांगनायै सर्वसम्पत्प्रपूरिण्यै चाऽष्टोत्तरद्विशतमहा-
सामर्थ्यमय्यै ते नमः क एं ईल ह्रीं हस कहल ह्रीं
सकल ह्रीं ऐं क्लीं सौः सौः क्लीं ऐं श्रीं स्वाहा ॥९०॥
इतिपुष्पांजलिं दद्यात्ततो गोमयलेपिते ।
भूतले तण्डुलपीठे वारिकुंभं सरत्नकम् ॥९१॥
पञ्चपल्लवसंयुक्तं नारिकेलफलान्वितम् ।
अभ्यर्च्य गन्धपुष्पाद्यैस्ततो मन्त्रं जपेन्मुहुः ॥९२॥
अष्टोत्तरशतं जप्त्वा दीपं प्रदर्श्य वै गुरुः ।
शिष्यं च कारयित्वैव साष्टांगं कुसुमाञ्जलिम् ॥९३॥
प्रार्थनां कारयेत् तत्र मुहुः सर्वेष्टलब्धये ।
परंधाम परंब्रह्म मम त्वं स्वेष्टदेवता ॥९४॥
रक्ष मां सकुटुम्बं त्वं रक्ष मोक्षार्थमेव माम् ।
गुरोश्चरणयोर्न्यस्य मस्तकं भक्तिसंयुतः ॥९५॥
हस्तौ प्रक्षाल्य च ततो नैवेद्यं मिष्टमुत्तमम् ।
विविधान्नं फलं दुग्धसारं लक्ष्म्यै समादिशेत् ॥९६॥
शिष्यकर्णे मनुं दत्वाऽभिषिञ्चेत् कुंभवारिणा ।
ततः शुद्धो महालक्ष्म्याः सपर्या सर्वदाऽऽचरेत् ॥९७॥
लक्ष्मीशेषं प्रभुञ्ज्याच्च दक्षिणां गुरवेऽर्पयेत् ।
भोजयेद् वैष्णवान् साधून् साध्वीर्बालाँश्च कन्यकाः ॥९८॥
शरीरमर्थं प्राणं च तस्मै श्रीगुरवे दिशेत् ।
तदधीनश्चरेन्नित्यं तद्वाक्यं नैव लंघयेत् ॥९९॥
प्रसादभोजी शिष्यः स्यात् पंक्तिपावनपावनः ।
यः प्रसन्नः क्षणार्धेन मोक्षलक्ष्मीं प्रयच्छति ॥१००॥
दुर्लभं तं विजानीयाद् गुरुं संसारतारकम् ।
आददीत ततो ज्ञानं सेवेत सततं च तम् ॥१०१॥
गुरुभक्तिर्भवेच्छिष्यस्तद्द्रोहः पातकं परम् ।
तत्पादसेवनं मुक्तितुल्यं मुक्तिप्रदं मतम् ॥१०२॥
गुरुशासनवर्तित्वाच्छिष्यसंज्ञा प्रतन्यते ।
जपं ध्यानं जपं ध्यानं कुर्याच्छ्रान्तत्वहानये ॥१०३॥
ध्यानात् कीटो भ्रमरः स्यात्तथा शिष्यो हरिर्भवेत् ।
आत्मैक्यभाविनो ब्रह्मीभूतता दर्शनं फलम् ॥१०४॥
अहंभावे गते ज्ञाते चात्मनि परमात्मनि ।
यत्र यत्र मनो याति सर्वे ते हि समाधयः ॥१०५॥
सर्वब्रह्मात्मलब्धेस्तु ब्रह्मरूपस्य योगिनः ।
न तस्य किञ्चिदाप्तव्यं ज्ञातव्यं चाऽवशिष्यते ॥१०६॥
पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः ।
जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥१०७॥
देहो देवालयः प्रोक्तो जीवोऽयं सेवकः स्मृतः ।
सेवयाऽन्तर्गतं कृष्णं तोषयेत् सर्वदानकैः ॥१०८॥
कोटिदानव्रतयज्ञेभ्यो वरं गुरुसेवनम् ।
निर्गतं यद्गुरोर्वक्त्रात् तत्सर्वं शास्त्रमस्य वै ॥१०९॥
निषिद्धमपि तत्कुर्याद् गुर्वाज्ञां नैव लंघयेत् ।
जातिविद्याधनाढ्योऽपि गुरुं दण्डवदाचरेत् ॥११०॥
रिक्तपाणिस्तु नोपेयाद् राजानं देवतां गुरुम् ।
फलपुष्पाम्बरादीनि यथाशक्ति समर्पयेत् ॥१११॥
सद्भक्तरक्षणायैव दिव्यदेवोऽपि माधवः ।
कृपानिधिर्गुरुर्भूत्वा संसारीव स चेष्टते ॥११२॥
नास्ति गुर्वधिकं तत्त्वं नास्ति ज्ञानाधिकं सुखम् ।
नास्ति भक्त्यधिका पूजा नास्ति मोक्षाधिकं फलम् ॥११३॥
स्मरणात्पूजनाच्चापि श्रवणात्पठनादपि ।
भुक्तिमुक्तिप्रदं दिव्यं फलं चाऽस्य प्रजायते ॥११४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महालक्ष्म्या मन्त्रान्तरं काञ्चीपुर्योर्महालक्ष्म्या द्वेधारूपता ब्रह्मविष्णुमहेशानां तत्र निवासो दीक्षाविधानं चेत्यादिनिरूपणनामा विंशाऽधिकशततमोऽध्यायः ॥१२०॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP