संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-उक्तं मायोद्भवं सर्गं जानँल्लक्ष्मि न मुह्यति ।सर्वतः पाणिपादो यः सर्वतोऽक्षिशिरोमुखः ॥१॥सर्वतः श्रुतिमान् यश्च तं जानन् वै प्रमुच्यते ।महाप्रभावः पुरुषोत्तमः सर्वहृदि स्थितः ॥२॥सर्वेशानः सर्वज्योतिष्प्रदोऽच्युतः पुमुत्तमः ।प्रसन्नः श्रीहरिश्चाऽहं मां ज्ञात्वा संप्रमुच्यते ॥३॥विष्णुरेवाऽऽदिसर्गेऽहं स्वयंभूः शंकरोऽपि च ।भवामिति च मां ज्ञात्वा मुच्यन्ते ब्रह्मभाविनः ॥४॥अध्यात्मज्ञानतृप्तानां मुनीनां भावितात्मनाम् ।स्वाध्यायक्रतुसिद्धानां मम लोकः सनातनः ॥५॥मम स्मरणमन्ता ये धीरा ब्रह्मपरा जनाः ।क्रियाकरणनिर्लेपास्तेषां लोकः सनातनः ॥६॥इन्द्रियाणि वशे यस्य विषयो रागवर्जितः ।विशुद्धं च मनो यस्य बुद्धिरव्यभिचारिणी ॥७॥ज्ञानं भक्तिर्यस्य पार्श्वे सेवा यस्मिन् सदा स्थिता ।स तद्ब्रह्म शुभं याति ततो भूयो न जायते ॥८॥दह्यं ग्रामं जयेत् पूर्वं ततो ब्रह्म प्रकाशते ।सर्वं मया कृतं चैवं विदित्वा सन्त्यजेत् ततः ॥९॥श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चापि पञ्चमी ।पादौ पायुरुपस्थश्च हस्तौ वाग् दशमी तथा ॥१०॥मन एकादशं चित्तमहं बुद्धिश्चतुर्दशी ।आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ॥११॥अधिभूतं तत्र शब्दो दिशस्तत्राधिदैवतम् ।पवनो द्वितीयभूतं त्वगध्यात्मं तु तत्र च ॥१२॥स्प्रष्टव्यमधिभूतं च विद्युत् तत्राधिदैवतम् ।तेजस्तृतीयं भूतं च चक्षुरध्यात्ममुच्यते ॥१३॥रूपं तत्राऽधिभूतं च रविस्तत्राधिदैवतम् ।जलं चतुर्थं भूतं च रसनाऽध्यात्ममुच्यते ॥१४॥रसोऽधिभूतं तत्राऽथ चन्द्रमाश्चाधिदैवतम् ।क्षितिर्भूतं पञ्चमं च घ्राणश्चाध्यात्ममुच्यते ॥१५॥गन्धोऽधिभूतं तत्रैव वायुस्तत्राधिदैवतम् ।पादावध्यात्ममित्येव गन्तव्यमधिभूतकम् ॥१६॥अधिदैवतमेवात्र विष्णुरेव सनातनः ।अर्वाग्गतिमदपानी पायुरध्यात्ममुच्यते ॥१७॥विसर्गोऽधिभूतमेव मित्रस्तत्राऽधिदैवतम् ।प्रजनः सर्वलोकानामुपस्थोऽध्यात्ममुच्यते ॥१८॥शुक्रं रजोऽधिभूतं च दैवतं तु प्रजापतिः ।हस्तावध्यात्ममेवाऽत्राऽधिभूतं कर्म चैव हि ॥१९॥शक्रोऽधिदैवतं तत्र बोध्यमादानकारकम् ।वैश्वदेवी च या पूर्वा वाक् साऽध्यात्ममिहोच्यते ॥२०॥वक्तव्यमधिभूतं च वह्निस्तत्राऽधिदैवतम् ।अध्यात्मं मन एवापि संकल्पश्चाधिभूतकम् ॥२१॥चन्द्रमाश्चाधिदेवश्च मनोराज्यं हि तन्मतम् ।अहंकारस्तथाऽध्यात्मं सर्वसंसारकारकः ॥२२॥अभिमानोऽधिभूतं च रुद्रस्तत्राऽधिदैवतम् ।चित्तमध्यात्ममित्येव वासुदेवोऽधिदैवतम् ॥२३॥चिन्तनं चाधिभूतं च चिन्ता वै प्रलयंकरी ।बुद्धिरध्यात्ममेवापि सर्वेषां महती प्रसूः ॥२४॥अधिभूतं तु बोद्धव्यं ब्रह्मा तत्राऽधिदैवतम् ।चतुर्थं दैवतानां च दैवतं परमेश्वरः ॥२५॥सोऽहं सर्वनिवासोऽस्मि सर्वदेवाधिदैवतम् ।एतज्ज्ञात्वा त्रयं त्यक्त्वा चतुर्थं तोषयेत् त्रिभिः ॥२६॥चेतनस्तत्र फलभाङ् मुच्यते मत्प्रतोषणात् ।गुणादिषु ह्यनासंगो ब्रह्मचर्या मदर्पणम् ॥२७॥एतद् ब्रह्ममयं व्रतं चैकपदं सुखं परम् ।तत्र स्थितश्चेतनोऽयं सर्वतो मुक्त एव सः ॥२८॥कामानात्मनि संयम्य क्षीणतृष्णो मदर्पणः ।सर्वभूतात्मदर्शी च ब्रह्मभूयाय कल्पते ॥२९॥सर्वेन्द्रियनिरोधेन ह्यध्यात्माऽग्निः समिध्यते ।प्रकाशते चिदात्मा च प्रसन्नात्मा प्रवर्धते ॥३०॥स्वयंज्योतिः परज्योतिः सर्वतेजांस्यतीत्य सः ।मायाचक्रं कालचक्रं कर्मचक्रं व्यतीत्य च ॥३१॥जगत् सर्वमतिक्रम्य त्यक्त्वा दुस्त्यजपूरुषम् ।ब्रह्म व्योम चिदाकाशं प्राप्नोति स्थानमूर्धगम् ॥३२॥सर्वमायाविनिर्मुक्तस्ततो मुक्तेषु संस्थितः ।ब्रह्मह्रदे कृतस्नानो दिव्यसजातिशोभनः ॥३२॥सर्वज्ञ इव संशोभन् त्वेकधा बहुधा भवन् ।मोदते चाक्षरे धाम्नि रमते स्वामिनि ध्रुवे ॥३४॥तं मुक्ता विप्रसंघाश्चेश्वरा देवा महर्षयः ।पितरो मानवा भूताः सदा स्तुवन्ति मुक्तये ॥३५॥अहं ब्रह्मपरः स्वामी मत्तः परो न विद्यते ।राजाधिराज सर्वेषां युक्तानां परमो हरिः ॥३६॥साधवो रक्षिता येन मुक्ता भक्ताश्च रक्षिताः ।तेऽस्मिंल्लोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते ॥३७॥सन्न्यासी ज्ञानिभक्तो वै प्राप्नोति परमां गतिम् ।निर्द्वन्द्वो भक्तिमान् स्नेही मयि मामेव गच्छति ॥३८॥विमुक्तः सर्वसंस्कारैः सर्वद्वन्द्वविवर्जितः ।विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥३९॥चत्वार आश्रमाः सन्ति सर्वे गार्हस्थ्यजीविनः ।गार्हस्थ्यान्तगमन वै श्रेयस्तत्र प्रतिष्ठतः ॥४०॥सपत्नीकस्य तु पञ्चमहायज्ञा विमुक्तये ।देवताऽतिथिशिष्टाऽशी विघसाशी न लिप्यते ॥४१॥वैष्णवीं धारयेन्मालां दीक्षां भिक्षां मतिं स्त्रियम् ।अधीत्य मां स्वकर्माणि कुर्वन्नपि विमुच्यते ॥४२॥गृहस्थो वा निवृत्तौ वा य इच्छेन्मोक्षमात्मनः ।अभयं सर्वभूतेभ्यो दत्वा नैष्कर्म्यमाचरेत् ॥४३॥सर्वभूतसुखो मैत्रः सर्वेन्द्रिययतो मुनिः ।हर्यर्पितस्वव्यापारः प्रयाति परमां गतिम् ॥४४॥लाभेन यो न वै हृष्येन्नाऽलाभे विमना भवेत् ।अभिपूजितलाभाद् यो जुगुप्सां याति मानसे ॥४५॥असंरोधेन भूतानां प्रवर्तेत निरन्तरम् ।प्रतिश्रयार्थं सेवेत निर्विघ्नां पार्वतीं गुहाम् ॥४६॥पूताभिर्बुद्धिभिः कृष्णं नैजं कुर्वीत मोक्षवित् ।विश्वास्यः श्रीहरेश्चाऽयं जायेत मोक्षमर्जयेत् ॥४७॥गृहधर्माश्रितश्चापि विज्ञानिचरितं चरेत् ।अमूढो मूढरूपेण चरेद् भक्तिं ममोत्तमाम् ॥४८॥य एव व्रतसम्पन्नो मुच्यते सर्वबन्धनैः ।ध्यायेन्मां कान्तमास्थाय मुच्यते नाऽत्र संशयः ॥४९॥यो न कामयते किञ्चिन्न किञ्चिदवमन्यते ।इह लोकस्य एवापि ब्रह्मभूयाय कल्पते ॥५०॥त्यक्त्वा गुणमयं सर्वं कर्म श्रीपरमात्मनि ।स्नेहेन मयि संसक्तो मुच्यते नात्र संशयः ॥५१॥उच्छ्वासमात्रमपि यो ह्यन्तकाले स्मरेद्धरिम् ।स मां तदोपसंगम्य ह्यमृतत्वाय कल्पते ॥५२॥निमेषमात्रमपि चेत् संयम्यात्मानमात्मनि ।भजते मां मया दृष्टो ह्यमृतत्वाय कल्पते ॥५३॥इह लोके जनाः केचिदिच्छन्ति धर्ममेव ह ।केचिज्ज्ञानं च विज्ञानं केचिद्विरागमेव ह ॥५४॥केचिद् देशं च वा कालं केचिद् दैवं वदन्त्यपि ।केचित् स्नानं त्रिषवणं केचिदस्नानमित्यपि ॥५५॥अन्ये त्वाहारमेवापि परे चानशनं तथा ।कर्मण्येव रताश्चान्ये शान्तो रतास्तथाऽपरे ॥५६॥केचिन्मुक्तिं प्रशंसन्ति केचिद् भोगान् पृथग्विधान् ।केचिदर्थान् स्वर्णरूप्यान् केचित्तु निष्परिग्रहृम् ॥५७॥उपासनं परे चापि केचिद् यज्ञपरायणाः ।केचिद्धिंसामहिंसां वा पुण्यं व्रतं तथा परे ॥५८॥तीर्थं चान्ये परे सेवामुपकारं तथेतरे ।सद्भावं चापरे ध्यानं केचित्तपः प्रकुर्वते ॥५९॥स्वाध्यायं पूजनं दानं चान्ये सत्यं वदन्त्यपि ।सन्न्यासमपरे चापि भृगोः पातं तथाऽपरे ॥६०॥त्यागं चान्ये विरक्तिं च गार्हस्थ्यं चाऽपरे तथा ।अन्ये निर्द्वन्द्ववासं च तथाऽन्ये यावदर्पणम् ॥६१॥सर्वे धर्मविशेषास्ते लक्ष्मि श्रेयःप्रदाः शुभाः ।मम सम्बन्धयुक्ताश्चेन्मोक्षदाः सर्व एव ते ॥६२॥मम योगेन हीनास्तु संसारकर्दमाऽर्पकाः ।शुभं वाऽप्यशुभं मिश्रं यदर्ज्यते तु तैः कृतैः ॥६३॥भोक्तव्यं चेह वाऽन्यत्र नाऽभुक्तं तद् विनश्यति ।भोगार्थं देहसम्बन्धः संसारस्तेन वै ध्रुवः ॥६४॥तेष्वेतेषु तु विज्ञानं निःश्रेय इति सर्वथा ।भक्तिश्च मोक्षदा कृष्णे शाश्वती सुखकारिणी ॥६५॥आशीर्युक्तानि कर्माणि चान्यानि कुर्वते तु ये ।तेऽत्र लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥६६॥फलं त्यक्त्वा हरौ ये कुर्वते ते साधुदर्शिनः ।उपभुंक्ते समस्तं सः किन्तु पुष्करपत्रवत् ॥६७॥सवैर्भोगैः सुसम्पन्नो ह्यपि विद्वान्न लिप्यते ।जलबिन्दुर्यथाऽसंगी पत्रस्थोऽपि न लिप्यते ॥६८॥एवं चायं चिदात्माऽपि मय्यर्पितो न बध्यते ।सर्वार्पणयुतो भक्तः प्रलिप्तोऽपि न लिप्यते ॥६९॥सहस्रणापि दुर्मेधा न बोधमधिगच्छति ।चतुर्थेनाप्यथांऽशेन बुद्धिमान् सुखमेधते ॥७०॥उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ।यावद् रथपथस्तावद् गन्तव्यं रथवर्ष्मणा ॥७१॥क्षीणे रथपदे चाग्रे गन्तव्यं रथिनाऽऽत्मना ।पदसृतौ च लीनायां गन्तव्यं हंसगामिना ॥७२॥गरुडगामिना हस्तिगामिना व्योमगामिना ।सर्वत्र गामिना चापि गन्तव्यं गुरुशार्ङ्गिणा ॥७३॥यावज्जलं तु बाहुभ्यां नावा वाऽग्रे सरेद्ध्रदे ।पारं प्राप्य ततो नावमुत्सृज्य यानतः सरेत् ॥७४॥भूतलं सर्वमुल्लङ्घ्य विमानेनाऽग्रतः सरेत् ।विमानस्याऽविषये तु विष्णुना सह सञ्चरेत् ॥७५॥विष्णोरप्यविषये तु मुक्तैः सहाऽग्रतः सरेत् ।मायामयं समुत्सृज्य मुक्तो गच्छेत्परां गतिम् ॥७६॥तप ओषधमुत्कृष्टं विद्या मात्रा तथोत्तमा ।भक्तिरसः पुष्टिकृच्च तैः पुष्टो याति मत्पदम् ॥७७॥यद्दुरापं च दुर्दृश्यं दुराधर्षं दुरन्वयम् ।तत्सर्वं तपसा साध्यं सेवया कृपया च मे ॥७८॥ध्यानयोगेन शुद्धेन भक्त्या प्रेमाढ्यया तथा ।आप्नुवन्ति महात्मानो मदीयं लोकमुत्तमम् ॥७९॥मम ध्यानं ध्रुवं कृत्वा प्रसन्नमतयो जनाः ।शाश्वतानन्दसम्पूर्णं मां प्रयान्त्यात्मदर्शिनः ॥८०॥कर्म वै मरणं प्रोक्तं नैष्कर्म्यममृतं मतम् ।य एवममृतं नित्यं शाश्वतं चाऽक्षरं सुखम् ॥८१॥वश्यमात्मस्थमास्वाद्य मां वेद न मृतो भवेत् ।अमृताशनमासाद्याऽमृतो भवति मुक्तराट् ॥८२॥व्यतीत्य सर्वसंस्कारान् संयम्यात्मानमात्मनि ।परब्रह्म विदित्वाऽत्र परत्र तत्पदं व्रजेत् ॥८३॥प्रसादे खलु सत्त्वस्य साधुसेवारतिर्भवेत् ।प्रसादं प्राप्य साधूनां साधुपतिं लभेद्धरिम् ॥८४॥विज्ञानपरिनिष्ठानां मुक्तानां गतिरीदृशी ।विरक्तानां च भक्तानां गतिरेषा सनातनी ॥८५॥भक्तिमतां गृहस्थानां सैव गतिः सनातनी ।इत्येवं लक्ष्मि ऋषिराट् सद्विद्यायननामकः ॥८६॥श्रुतिफलां बहुकथां कथयामास मुक्तये ।श्रुतिफला तु पप्रच्छ कथं बन्धे प्रतिष्ठसे ॥८७॥विद्यायनस्ततः प्राह धर्मो ह्येष युगार्थिनः ।अपि कीटपतंगानां मृगाणां पक्षिणामपि ॥८८॥सरीसृपाणां धर्मोऽयं पत्न्यास्तु भरणं प्रिये ।स्त्रियो रक्ष्याश्च पोष्याश्च न त्याज्या ग्रहणोत्तरम् ॥८९॥प्रपतेद् यशसो दीप्ताद्धर्मात् स्त्रीत्यागवान् प्रिये ।धर्मकामार्थकार्याणि शुश्रूषा कुलसन्ततिः ॥९०॥सर्वं पत्न्यधीनकं तद् गृहस्थस्य सदा प्रिये ।अतोऽहं तव बन्धेऽस्मि विवाहिता यतो ह्यसि ॥९१॥न वेत्ति भार्याधर्मं यः स्वधर्मं दम्पतीभवम् ।अयशो महदाप्नोति नरकाँश्चैव गच्छति ॥९२॥एवमेव च नारीणां पतिर्धर्मः परो मतः ।भर्तुः प्रसादान्नारीणां रतिपुत्रफलं सदा ॥९३॥पालनाद्धि पतिः प्रोक्तो भर्ता च भरणादपि ।पुत्रदानाद् वरदश्च पतिर्धर्मः परो मतः ॥९४॥इत्येवं सुकृतं मन्ये तस्माद् बन्धे भवाम्यहम् ।भवती परिपाल्या मे सर्वदैव प्रयत्नतः ॥९५॥सतां नित्यं कांक्षितं यन्नैजानां परिपालनम् ।उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत् सदा ॥९६॥सा त्वं पुत्रवती भूत्वा ऋणान्मां परिमोचय ।इत्युक्ता ज्ञाननिरता नैष्कर्म्यमपि बोधिता ॥९७॥दिव्यतां प्रति गमिता कल्पयामास सत्सुतम् ।मानसस्तत्र वै द्राक् च पुत्रस्तस्या व्यजायत ॥९८॥निर्वाणाख्यः शाश्वतो वै दीक्षितः सहसा तया ।पित्रा चाप्युपनीतश्च ववृधे बोधदायकः ॥९९॥निर्मोहिनीं शुभां कन्यां वैखानससुतां शुभाम् ।परिणेमे ततो लक्ष्मि श्रुतिफलायुतः पतिः ॥१००॥सद्विद्यायनऋषिराट् कृत्वा समाधिमुत्तमम् ।ययौ ब्रह्मपदं दिव्यं मम धाम परं सुखम् ॥१०१॥पठनाच्छ्रवणाच्चास्य मननाद्धारणादपि ।निर्बन्धो जीववान्मुक्तो भवत्येव न संशयः ॥१०२॥सहस्रशो जनान्नारीः स्वकीयशरणागतान् ।भुक्तान् कर्तुं समर्थः स्यान्मुक्तिधर्मादरो हि यः ॥१०३॥भोगान् भुक्त्वापि सततं ज्ञानवैराग्यवान् भवेत् ।मायाशिरसि चरणौ दत्वा यात्यक्षरं मम ॥१०४॥इष्टलाभान् प्रलब्ध्वैव परं मोक्षप्रदं व्रजेत् ।नार्यपि मुक्तिधर्माढ्या दिव्या नारायणी भवेत् ॥१०५॥जीवन्मुक्ता भवेदत्र सर्वभोगवती ह्यपि ।देहान्ते परमं धाम गन्त्री मे कृपया भवेत् ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽध्यात्माऽधिभूताऽधिदैवाधिदैवतादिनिरूपणनामा सप्तसप्तत्यधिकशततमोऽध्यायः ॥१७७॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP