संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ६६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ६६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवराज्ञीश्रि! चैकोऽहं बहुधाऽपि च ।नामरूपविभेदेन युगभेदेन वै तथा ॥१॥भक्तभेदेन च कार्यभेदेन संभवामि वै ।प्रत्यात्मनियतश्चाऽस्मि सर्वजन्तुषु सर्वदा ॥२॥मदिच्छा हि महामाया मूलप्रकृतिरेव सा ।राधा लक्ष्मीर्मम शक्तिद्वयं मदात्मकं हि तत् ॥३॥प्रधानं त्रिगुणं चापि मया तादृग्विधं कृतम् ।तत्र जीवा अनन्ता वै चेतना निवसन्ति हि ॥४॥प्रधानात् प्रभवन्त्येव भूतानि देहहेतवः ।देहास्तस्मात्प्रजायन्ते जीवादीनां गृहाणि वै ॥५॥सत्त्वमायामयो विष्णुश्चाहं भवामि पद्मजे ।रजोमायामयो ब्रह्मा चाहं भवामि पद्मजः ॥६॥तमोमायामयः शंभुश्चाहं भवामि भालजः ।तत्र सर्वत्र वै चाहं परमेशो वसामि च ॥७॥अतः सर्वगतश्चाहं त्रिदेवसृष्टिमण्डले ।अविद्यया न जानन्ति गूढं लोका गुहाशयम् ॥८॥विद्यया वै प्रजानन्ति साधवो यतिसत्तमाः ।ब्रह्मज्ञानं हि सा विद्यापरा यत्र ममाश्रयः ॥९॥वेदावसानमेवैतद् यत्राऽहं वर्णितः प्रिये ।आत्मना चाप्यते ब्रह्म परं विभु सनातनम् ॥१०॥मनसा चिन्त्यते ब्रह्म चक्षुषा दृश्यते तथा ।देहेनाऽऽश्लिष्यते ब्रह्म कृपया प्राप्यते हरिः ॥११॥शुद्धेन मनसा युक्तात्मना संसेव्यते हरिः ।मनसा बन्धुना ग्राह्यं परब्रह्म सनातनम् ॥१२॥मनसा बन्धुना त्याज्यं मायायाः पटलं खलु ।मनसा बन्धुना जीवास्तीर्यन्ते ब्रह्मयोगिना ॥१३॥मनसा शत्रुणा जीवाः पात्यन्ते विषयार्थिना ।दिव्येन मनसा ध्यात्वा श्रीपतिं मां परेश्वरम् ॥१४॥दिव्यां क्रियां प्रकुर्वन् वै कुर्वन्नपि न लिप्यते ।पद्मपत्रं यथा नीरगतं वार्भिर्न लिप्यते ॥१५॥मनो मायागतं चापि मद्योगि लिप्यते न वै ।यदा ब्रह्मरसं वेत्ति तदाऽन्यल्लवणायते ॥१६॥यदा भक्तिरसं वेत्ति तदान्यद् गरलायते ।यदा सेवारसं वेत्ति राज्यं तस्य मलायते ॥१७॥यदा प्रेमरसं वेत्ति सर्वमन्यद् घृणायते ।यदा मूल्यं मम वेत्ति सर्वं वै कच्चरायते ॥१८॥यदाऽऽनन्दाशनं वेत्ति मुक्त्याद्यस्य न रोचते ।ममाऽऽनन्दप्रवाहस्थं चान्यद्वेत्ति न वै यदा ॥१९॥तदा प्रवाहभावेन द्रवतामेति मानसम् ।द्रवभक्त्या प्राप्य मां तादात्म्ययोगमृच्छति ॥२०॥गुरोर्योगाच्छास्त्रयोगाज्ज्ञानं दिव्यमवाप्यते ।विज्ञानं चाप्यतेऽभ्यासैस्ततो ज्ञेयमवाप्यते ॥२१॥ज्ञेयोऽहं परमात्मा च श्रीपतिः पुरुषोत्तमः ।यदा प्राप्तस्तदा शून्यं मायामयं प्रजायते ॥२२॥भावशुद्धिश्चाग्रपदा मनःशुद्धिस्ततः परा ।आत्मशुद्धिश्चोर्ध्वपदा ताभिश्चावाप्यते हरिः ॥२३॥नार्यो बहुविधाः सन्ति ह्याश्लिष्यन्ति च नैकधा ।यथा भावश्च सम्बन्धस्तथा फलं क्रियादिकम् ॥२४॥आलिङ्ग्यते निजा कान्ता यथा भावस्तथा फलम् ।आलिङ्ग्यते हरिर्जीवैर्यथा भावस्तथा फलम् ॥२५॥सम्प्राप्यते यया बुद्ध्या तथा चावाप्यते फलम् ।यथा बुद्ध्या हि मामेति तथा ददामि वै फलम् ॥२६॥श्रेष्ठं चात्मानन्दफलं प्राप्तव्यं सेवया सदा ।प्रसन्नताप्रयोज्यो वै महानन्दा मयाऽर्प्यते ॥२७॥प्रसन्नताऽनुकूल्येन प्रातिकूल्यविवर्जनात् ।अशंकसेवया भक्त्या प्रसन्नता प्रजायते ॥२८॥न सा क्रयेण लभ्या वा न वा क्षणादिबुद्धिभिः ।न वा तात्कालिकी प्राप्या स्वार्थवृत्त्या न लभ्यते ॥२९॥न मानेन न वै चातुर्येण नैपुण्यकेन न ।न सा स्वेष्टमनोवृत्त्या किन्तु सर्वार्पणे न सा ॥३०॥सर्वाज्ञापालनेनैव दैन्यभावेन लभ्यते ।कैंकर्येण च दास्येन तदीयत्वेन लभ्यते ॥३१॥सोऽहं मत्वा मदीय तं तां च वै तादृशीं सतीम् ।मत्वा प्रसन्नतां कुर्वे प्राप्तो भवामि वै ततः ॥३२॥येनाऽहमस्मि प्राप्तव्यस्तेन भाव्यं निवेदिना ।स्वोपानद्धारणे यद्वत् पृथ्वी निष्कण्टका तथा ॥३३॥स्वस्मिन् दास्येऽर्जिते माया निर्बन्धा दिव्यताप्रदा ।स्वस्मिन् भृत्येऽर्जिते माया स्वामिताविरहाऽस्य वै ॥३४॥स्वस्मिन् दैन्येऽर्जिते माया सत्ताशून्याऽस्य सर्वथा ।स्वस्मिन् सर्वार्पिते प्राप्ते माया निराशतां व्रजेत् ॥३५॥बुद्धिर्ब्रह्मविधा स्याच्चेन्मायाकार्यं विलीयते ।मायामयी तु या बुद्धिः सा जगज्जन्मदायिनी ॥३६॥विषवल्ली दुग्धसिक्ता विषभावं न मुञ्चति ।बुद्धिरासुरभावा चेदासुरतां न मुञ्चति ॥३७॥शर्करारसपानोऽपि निम्बः कटुतरो भवेत् ।तथाऽऽसुरस्वभावो वै मां न कदापि रोचते ॥३८॥तादृशानां जगज्जानां शास्त्रव्रातो निरर्थकः ।नैव स्वभावं त्यजति सत्संगं न करोत्यपि ॥३९॥भक्तिर्न रोचते यस्य स्नेहो नैसर्गिको न च ।मुमुक्षुता न यस्याऽस्ति नास्तिकत्वं प्रमोदते ॥४०॥तस्य शाश्वतमोदाशा व्योमपुष्पायते सदा ।छित्वा चाम्रद्रुमं कस्मात् फलं पुष्पं समीयते ॥४१॥भित्त्वा भक्तिं च सेवां च कथं सुखमवाप्यते ।इन्द्रियाणां सुखार्थित्वे वृथा जन्म हि देहिनः ॥४२॥छित्वा कर्पूरखण्डानि कुतृणानि प्ररक्षति ।रसपुष्पादिहीनानि वृथा यत्नोऽस्य तत्र वै ॥४३॥सतां सेवां विनिन्द्यैव दुष्टसेवां करोति च ।पुण्यकर्मविहीनां वै वृथा यत्नोऽस्य सर्वथा ॥४४॥स्वर्णस्थाल्यां वृषलेन पच्यते सरमामिषम् ।नरदेहे तु पापेन पच्यते यमयातना ॥४५॥जन्मरोगी वृथाजन्मा मायारोगी वृथामनुः ।वृथाश्रमोऽगृहकोशी वृथामृत्युर्हरिं विना ॥४६॥वृथा वाचो महामूर्खे चाऽसंयमे वृथौषधम् ।हरिं विना वृथा यात्रा विड्वाहि जन्म वै वृथा ॥४७॥सर्वनाथं हरिं त्यक्त्वा वानरं सेवते तु यः ।तत्तुल्यो देहमात्रस्य पोषको मोक्षवर्जितः ॥४८॥विना भक्तिं बहुविद्यागमस्यापि फलं नु किम् ।येनाऽऽत्मशान्तिर्नैवास्ति तस्माच्छान्तिप्रदं भजेत् ॥४९॥किं तेन लक्ष्मि देहेन चन्दनादिप्रसेविना ।येन सेवाहरेर्नैव नैव सतां न मोक्षणम् ॥५०॥श्वपचोऽपि यदि भक्तियुतो जन्माऽस्य सार्थकम् ।विप्रदेहोऽपि निर्भक्तो जन्माऽस्य निरयप्रदम् ॥५१॥मणिकंकणमाबद्ध्वा दर्पणं निष्फलं यथा ।सतां सत्संगमासाद्य वृथा तदन्यसाधनम् ॥५२॥दृढाश्रिता न गृह्णन्ति दत्तैश्वर्यं सुरादिभिः ।दृढभक्ता न गृह्णन्ति दत्तैश्वर्यं हरेरपि ॥५३॥अनिच्छुकस्य भक्तस्य जयश्चास्ते पदे पदे ।न तं प्रलोभितुं शक्तः स्वयं नारायणोऽपि वै ॥५४॥इच्छया बध्यते देही तृष्णया तु विनश्यति ।द्वाभ्यामूर्ध्वस्थितायाऽत्र दातुं नाऽलं ह्यपि प्रभुः ॥५५॥नित्यतृप्तस्य शान्तस्य धैर्यं त्याजयितुं ह्यलम् ।निर्भयस्यापि भक्तस्य कश्चिन्नास्ति जगत्त्रये ॥५६॥भक्तं चैतादृशं नैजं रञ्जयितुं नरायणः ।भवाम्यहं दृश्यवच्च येन ध्यातो भवामि च ॥५७॥अनादिश्रीकृष्णनारायणं ध्यात्वा च मां जनाः ।साकारं दिव्यरूपं वै शाश्वतं धामगं हि माम् ॥५८॥असंख्यदेहिनो भक्ता गता मे परमाऽक्षरम् ।पूजां भक्तिं दिव्यसेवां विधाय भृत्यतां तथा ॥५९॥दासतां सविधायाऽपि पातिव्रत्यं विधाय च ।विधाय मम दासीतां गता नार्यो ममाऽक्षरम् ॥६०॥शून्ये भक्तिर्न भवति भक्तिर्भवति साकृतौ ।आधाररूपे नाथे श्रीपतौ मयि परेश्वरे ॥६१॥विधाय प्रेमभक्तिं वै श्रीवन्मां स्वामिनं पतिम् ।प्रापुः पूर्वतरा नार्यो जारभावमुपाश्रिताः ॥६२॥किं पुनर्निजयोषाश्च सर्वस्वार्पणसंश्रिताः ।तस्माल्लक्ष्मि स्वयं स्वामी साकारोऽहं प्रभुः पतिः ॥६३॥सुखदः शाश्वतानन्दप्रदो भूत्वा नयाम्यपि ।कासाञ्चिद्दर्शने स्नेहः कासाञ्चित्स्पर्शनेऽधिकः ॥६४॥कासाञ्चिद्रमणे स्नेहः कासाञ्चित् स्वपनेऽपि च ।कासाञ्चित्कामसंभोगे कासाञ्चिद्रासकर्मणि ॥६५॥कासाञ्चिद् भोजने स्नेहः कासाञ्चित् स्नानकेलिषु ।कासाञ्चिच्चूम्बनादौ च कासाञ्चित्तु महोत्सवे ॥६६॥कासाञ्चित्सहवासे च कासाञ्चित् त्ववियोजने ।कासाञ्चिन्निजशय्यायां कासाञ्चिन्नर्मकर्मसु ॥६७॥कासाञ्चित्तु रहस्ये वै स्नेहो मयि विभाव्यते ।तासां सम्पूर्य कामाँश्च नमामि धाम मेऽक्षरम् ॥६८॥गुणी तां गुणवद्भार्यां मुक्तानिकां विधाय वै ।नयामि कान्तरूपोऽहं शाश्वतानन्दधाम मे ॥६९॥सेवारसो हि साकारे लभ्यते सुन्दरीगणैः ।भक्तैः सेवारसः पूर्णः प्राप्यते मयि धामनि ॥७०॥ममैव हि प्रसादेन रोमाञ्चितशरीरिणी ।नयनानन्दसलिला मुक्तिदासी वधूर्भवेत् ॥७१॥वाण्या गायति मां दासी मनसा मां स्मरत्यपि ।कर्मणा मां हर्षयति कटिदानार्पणादिभिः ॥७२॥पूजाजपार्चनसेवापादसम्मर्दनादिभिः ॥रहस्याऽर्पणभावैश्च लभते शाश्वतं सुखम् ॥७३॥साकारे मयि भक्ता मे देहभावैः प्रसेवया ।सर्वेन्द्रियैर्महासौख्यं लभते लोकवत् सखी ॥७४॥वधूर्भूत्वा वरं कान्तं सेवते मां पतिं प्रभुम् ।सर्वान् कामान् पूरयामि कामद्वारा हि योषितः ॥७५॥न मे कामो रतिर्नैव न मे कामसुखं प्रिये ।पूर्णकामस्य मे रत्या किं कामेन प्रयोजनम् ॥७६॥सर्वानन्दपरिपूर्णमूर्तेर्मे नास्त्यपूर्णता ।नेन्द्रियाऽधीनता चापि किं कामेन प्रयोजनम् ॥७७॥कामो मया कृतः पूर्वः कर्मिणां सुखलब्धये ।मायामयो हि कामो वै रतिर्मायामयी तथा ॥७८॥तया तेन न मे कार्यं प्रयोजनं हि मायिकम् ।किन्तु देहवशा लोका नरा नार्यो निजानिव ॥७९॥कामान् भावान् कल्पयन्ति मयि पूर्णे सनातने ।तैस्तैर्भावैस्तथा ताँस्ताः संगृह्य कामभाविताः ॥८०॥कामद्वाराऽपि मे योगं दत्वा नयामि धाम मे ।मोक्षपदं प्रापयामि कामिनामपि सुन्दरीः ॥८१॥कृपा मे तादृशी बोध्या संसारो हि तथाविधः ।ऐन्द्रियिका हि मे भक्ताः संमताः सन्ति भूतले ॥८२॥वैषयिकास्तथा भक्ताः स्थले स्थले वसन्ति वै ।आत्मिका ब्रह्मभावास्तु क्वचित्सन्ति हि पण्डिताः ॥८३॥अतो ये मां यथा यान्ति तथा तान् प्राप्य तद्विधः ।मोक्षयोगं प्रदत्वैवं नयामि धाम मेऽक्षरम् ॥८४॥प्रायशो योषितां सिद्धिं कर्तुं भवामि कामवान् ।तासां कामप्रसक्तानां कथमुद्धरणं भवेत् ॥८५॥तस्माद् दयावशो भूत्वा सेवे कामीव ताः सदा ।दिव्यरूपा विधायैव नयामि मोक्षमुत्तमम् ॥८६॥वधूः कन्या युवतीश्च वृद्धा वापि पतिव्रताः ।नपुंसकी च विधवा सधवा ब्रह्मचारिणी ॥८७॥यतिनी योगिनी साध्वी सती चार्या विरागिणी ।सन्यासिनी विचित्ता च तापसी वानप्रस्थिनी ॥८८॥त्यागिनी सांख्ययोगस्था शक्तिर्वा गणिकाऽपि वा ।पुंश्चली स्वैरिणी चापि कामिनी कामवर्जिता ॥८९॥रण्डा षण्ढा रतिशून्या रजःस्था चाऽरजोऽन्विता ।गौरी वा रोहिणी चापि कुमारिका शवात्मिका ॥९०॥संस्कृता चाऽसंस्कृता वा शुद्धाऽशुद्धा च वर्जिता ।त्यक्ता मन्त्रवती चापि दीक्षिता वा च न्यक्कृता ॥९१॥विवासिता वनहारिस्त्री यद्वा श्वपची खसी ।प्रमदा वा निर्मदा वा व्यभिचारपरायणा ॥९२॥मुण्डा वा केशिनी वापि दुर्भाग्या सुभगाऽथवा ।कुब्जा ह्रस्वा सेन्द्रिया वा निरिन्द्रिया ह्युदासिनी ॥९३॥यादृशी तादृशी वापि सूतिका पाशवी च वा ।गोधर्मा वा मृगीधर्मा या वा का वा भवत्यपि ॥९४॥काषाम्बरा वा रक्ता वा विरक्ता हरिदम्बरा ।ध्वजाम्बरा वा देवी वा दैत्यानी राक्षसी च वा ॥९५॥दानवी नागिनी नग्ना पक्षिणी जान्तवी च वा ।वार्क्षी वा वल्लिकाभावा शरभी सिंहिकाऽपि वा ॥९६॥श्वापदी वा बहुपदी पृष्ठपदी पिशाचिका ।आर्षी ब्राह्मी पैतृकी वा माता वा क्षेत्ररक्षिका ॥९७॥पक्षिणी किन्नरी वापि गान्धर्वी नर्तकी च वा ।वेश्या वापि व्यवायस्था सहस्रलिंगिनी च वा ॥९८॥ईश्वरी वा मानवी वा भूती प्रेती च डाकिनी ।निकृष्टा पापकर्त्री वा या काचिन्मामुपागता ॥९९॥यथा भावेन तां लब्ध्वा पावयित्वा नृपीमपि ।अशुद्धां संस्कृतां कृत्वा नयामि धाम मेऽक्षरम् ॥१००॥तदर्थं पुंस्वरूपोऽहं भवामि मानवो हरिः ।समुद्धर्तुं योषितां वै गणाम् कोटिसहस्रशः ॥१०१॥रहस्यं कथितं तेऽत्र लक्ष्मि कामगुणो वृषः ।मामासाद्य हि धर्मात्मा कामो भवति मोक्षकृत् ॥१०२॥नारीणां योनिसम्बन्धश्चोत्कृष्टस्नेहकारकः ।तथा कृत्वा नयाम्येव नारीः सर्वा परेऽक्षरे ॥१०३॥श्रुत्वा चापि पठित्वेदं रहस्यं दिव्यताप्रदम् ।नारायणीयं मोक्षाढ्यं धाम यास्यन्ति मत्पदम् ॥१०४॥संशयं त्वत्र या नार्यो नरा वा यान्ति तास्तु ते ।पुण्यं पूर्वं कृतं हित्वा ह्यधो यास्यन्ति दोषिणः ॥१०५॥अपात्राणां संशया वै भवन्ति लोकवादिनाम् ।मत्पात्राणां संशया नो भवन्ति दिव्यवेदिनाम् ॥१०६॥वधूगीतारहस्यं वै यच्चास्ते हृदये मम ।वधूमोक्षप्रदं तेऽत्र निःसंकोचेन बोधितम् ॥१०७॥वधूमूल्यं ममाऽऽवासादाकृष्टिः प्रियताऽपि च ।बोद्धव्यं शिष्यते नैवाऽधिकं लोके हि योषिताम् ॥१०८॥कामभावेन युक्तानां मोक्षदोऽहं न संशयः ।निजधर्मं प्रथमं वै पुरस्कृत्य भजेद्धरिम् ॥१०९॥नारीधर्मो हि रत्याऽस्ति कामधर्मः पुरस्कृतः ।मद्योगे ब्रह्मचर्यं तत् कामो नार्यां व्रतं परम् ॥११०॥स्वधर्मे मरणं श्रेयः हरेर्धर्मो हि मोक्षदः ।स्वधर्मे मोक्षणं स्याद्वै हरेयोगान्न संशयः ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां वधूभक्तिरहस्यनिरूपणनामा षट्षष्टितमोऽध्यायः ॥६६॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP