संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५१ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-परमेश कृपासिन्धोऽवतारी त्वं स्वयं हरिः ।जातोऽसि जगतामुद्धारार्थं जानामि सर्वथा ॥१॥तव योगं न ये प्राप्तास्तादृशा भाग्यवर्जिताः ।तेषां पञ्चमहापापपापिनामुद्धृतिः कथम् ॥२॥ब्रह्महत्या सुरापानं स्वर्णस्तेयं सतीरतिः ।तत्प्रसंगी कथं कृष्णोद्धरेयुस्ते वदाऽत्र मे ॥३॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि प्रवदामि तेषामुद्धारसाधनम् ।कृपा मे पापिपापानां प्रज्वालिकेति निश्चितम् ॥४॥मया वै कृपया लोके तीर्थानि सुकृतानि हि ।सजीवानि तथा निर्जीवानि चमत्कराणि ह ॥५॥यत्स्पर्शाद् दर्शनाच्चापि पापानि प्रज्वलन्ति वै ।अश्वपट्टसरस्तीर्थं सर्वपापप्रणाशनम् ॥६॥नार्मदं शुक्लतीर्थं वै भगुक्षेत्रं तथा परम् ।ओंकारं च महत् तीर्थं सर्वपापप्रणाशनम् ॥७॥सोमनाथं द्वारिका च गोमती स्वर्णलेखिका ।नारायणह्रदस्तीर्थं सर्वपापप्रणाशकम् ॥८॥भद्रावती साभ्रमती गोदावरी सरस्वती ।कावेरी ताम्रपर्णी च गंगा च यमुना तथा ॥९॥गोकर्णं माधुरं क्षेत्रं कपालमोचनं तथा ।हरिद्वारं विशाला च कौरवं पुष्करं तथा ॥१०॥संभलं ब्रह्मपुत्रा च गण्डकी काञ्चनी सरित् ।गागरा सिन्धुरेवापि तथा पम्पासरोवरम् ॥११॥सेतुबन्धो जगन्नाथः कापिलं तीर्थमुत्तमम् ।मानसाख्यसरश्चापि सर्वपापप्रणाशनम् ॥१२॥केदारं च पतत्कायं चेरावती महानदी ।मेनकांगी च शिक्षांगी बालकृष्णसरोवरम् ॥१३॥कृष्णानदी च कौबेरं सरो मन्नामिकानदी ।चांगशिक्षांगिका शालवीना त्र्यंगिसरोवरम् ॥१४॥नारायणसरश्चापि श्रीस्तनाख्यसरोवरम् ।द्विकलाख्यसरश्चापि लीना यानाक्षिणी नदी ॥ १५॥ओबी चोरलकाखातो यूरला नीपरा नदी ।नारायणी महादीर्घा सर्वपातकनाशिनी ॥१६॥वोल्गा शावनरी चापि अहमम्बरिका नदी ।द्वीनदी रानना चापि प्रलयायसरोवरम् ॥१७॥नायझरानदी श्रेष्ठा तथा चण्डसरोवरम् ।कङ्गूनदी चामझाना परीमा च सरित्तथा ॥१८॥सुपारवर्यकसरो मेकांझी च महानदी ।विनिपादसरश्चापि सुलवाख्यसरोवरम् ॥१९॥एवमादीनि तीर्थानि मया कृतानि पद्मजे ।महापापादिपापानां नाशनाय भुवस्तले ॥२०॥सर्वखण्डेषु देशेषु कृपयोद्धरणाय वै ।तत्र स्नाता जना यान्ति शुद्धिं मुक्तिं परां मम ॥२१॥यत्र यत्राऽवतारा मे यत्राऽवतारभूमयः ।तत्र तीर्थकृतो लोका मुच्यन्ते सर्वपातकैः ॥२२॥यत्र मूर्तेः प्रतिष्ठा मे यत्र यज्ञा भवन्ति च ।स्नानं चाऽवभथं यत्र मुच्यन्ते तत्र पातकैः ॥२३॥यत्र देवा विचरन्ति सन्तश्च पंक्तिपावनाः ।सत्यो यत्र निवसन्ति मुच्यन्ते तत्र पातकैः ॥२४॥ब्रह्मचारिजना यत्र यतयो यत्र सन्ति च ।साधवो ब्रह्मशीलाश्च मुच्यन्ते तत्र पातकैः ॥२५॥ब्रह्मप्रसादो यत्राऽऽस्ते यत्र वै ब्रह्मभोजनम् ।वैश्वदेवा भुंजते च मुच्यन्ते तत्र पातकैः ॥२६॥पितृतीर्थं परं तीर्थं मातृतीर्थं ततोऽधिकम् ।गुरुतीर्थं ततः श्रेष्ठं मुच्यन्ते तत्र पातकैः ॥२७॥पतिव्रता परं तीर्थं तीर्थं पत्नीव्रतः पतिः ।गुरुसेवि शिष्यतीर्थं मुच्यन्ते तत्र पातकैः ॥२८॥विदेहाः साधवो यत्र ब्रह्मनिष्ठाश्च देहिनः ।कीर्तनं मन्दिरं यत्र मुच्यन्ते तत्र पातकैः ॥२९॥तपो ध्यानं जपो होमः स्वाध्यायो यत्र सन्ति च ।गावो यत्र प्रपूज्यन्ते मुच्यन्ते सर्वपातकैः ॥३०॥ब्राह्मणार्थे गवार्थे वा साध्वर्थेऽसून् परित्यजेत् ।देवार्थे चापि पित्रर्थे मात्रर्थेऽसून् परित्यजेत् ॥३१॥स्वाम्यर्थे चापि पत्यर्थे सत्यर्थेऽसून् परित्यजेत् ।धर्मार्थे चापि यज्ञार्थे मोक्षार्थेऽसून् परित्यजेत् ॥३२॥तदा सर्वाणि पापानि नश्यन्त्येव न संशयः ।कुर्यादनशनं वापि भृगोः पतनमित्यपि ॥३३॥ज्वलन्तं वा विशेदग्निं जलं तीर्थे विशेच्च वा ।तदा सर्वाणि पापानि विनश्यन्ति न संशयः ॥३४॥दत्वा चाऽन्नं तु विदुषे यश्चाऽऽजीवनमेव ह ।तस्य पापानि नश्यन्ति ब्रह्महत्या व्यपोहति ॥३५॥यज्ञानामवभृथके स्नात्वा मुच्येत पातकैः ।सर्वस्वं विदुषे दद्यात् साधवे हरिमूर्तये ॥३६॥तस्य पापानि नश्यन्ति दानात् सतां प्रसेवनात् ।त्रिवेण्यां स्नानमात्रेण नश्यन्त्यघानि सर्वशः ॥३७॥सदा त्रिषवणः स्नाति नमति सर्वदेवताः ।एकभुक्तो वर्ततेऽस्य नश्यन्त्यघानि सर्वशः ॥३८॥हरेः पादोदके स्नात्वा मुच्यते ब्रह्महत्यया ।पञ्चगव्यं वर्षमात्रं पीत्वा मुच्येत मद्यपः ॥३९॥स्वर्णस्तेयी मुशलेन हतो नृपैः प्रमुच्यते ।अगम्यागमनः कुर्याच्चान्द्रायणानि पञ्चषाः ॥४०॥पतितेषु प्रसंगी च कुर्याद् व्रतानि तानि वै ।तप्तकृच्छ्रं चरेद्वा तु संवत्सरमतन्द्रितः ॥४१॥सर्वस्वदानं वा दद्यात् सर्वपापप्रशोधकम् ।पुण्यक्षेत्रे गयादौ च गमनं पापनाशकम् ॥४२॥अमावास्यातिथिं प्राप्य पूजयेद् यो हरिं तु माम् ।साधून् विप्रान् भोजयित्वा मुच्यते सर्वपातकैः ॥४३॥उपोषितश्चतुर्दश्यां कृष्णपक्षे तु शार्ङ्गिणे ।वैवस्वताय कालाय सर्वभूतक्षयाय च ॥४४॥यमाय धर्मराजाय मृत्यवे चान्तकाय च ।प्रत्येकं तिलसंयुक्तान् दद्यादष्ट जलाञ्जलीन् ॥४५॥पूजयेद्धर्मदेवं च सर्वपापैः प्रमुच्यते ।ब्रह्मचर्यमधःशय्यामुपवासं सतोऽर्चनम् ॥४६॥प्रकुर्वीत स्मरेत् कृष्णं मुच्यते सर्वपातकैः ।षष्ठ्यामुपोषितः शुक्ले सप्तम्यां सूर्यमर्चयेत् ॥४७॥सतः संभोजयेच्चापि मुच्यते सर्वपातकैः ।एकादश्यां निराहारः समभ्यर्च्य हरिं तु माम् ॥४८॥द्वादश्यां भोजयेत् साधून्मुच्यते सर्वपातकैः ।नित्यं जपेत्तीर्थसेवां देवसाधुप्रपूजनम् ॥४९॥कुर्याद्वै श्रद्धया नित्यं मुच्यते सर्वपातकैः ।ग्रहणादौ ग्रहणान्ते दद्याद् दानानि चापि यः ॥५०॥हीरकरत्नधान्यानां द्रव्याणां च भुवामपि ।गृहाणां भोजनानां च मुच्यते सर्वपातकैः ॥५१॥यो महापापयुक्तोऽपि पुण्यतीर्थेषु भावितः ।नियमेन त्यजेत् प्राणान्मुच्यते सर्वपातकैः ॥५२॥ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।भर्तारं चोद्धरेन्नारी पतिव्रता सती शुभा ॥५३॥पतिव्रता तु या नारी भर्तुः शुश्रूषणोत्सुका ।न तस्या विद्यते पापमिह लोके परत्र च ॥५४॥परब्रह्मपरः साधुः साध्वी लक्ष्मीपरायणा ।शिष्यो गुरुब्रह्मसेवी मुच्यते सर्वपातकैः ॥५५॥फल्गुतीर्थादिषु स्नातः सर्वपुण्यफलं लभेत् ।ममाऽऽज्ञायां तु यः स्नातो महापापान् समुद्धरेत् ॥५६॥सर्वस्वं साधवे दद्याद् दद्याच्छ्रीहरये तु मे ।दद्याल्लक्ष्म्यै महालक्ष्म्यै मुच्यते सर्वपातकैः ॥५७॥सम्पदो निधिरूपाश्च दद्याद् देवाय विष्णवे ।यज्ञार्थं चापि दद्याच्च मुच्यते सर्वपातकैः ॥५८॥ब्रह्मगृहाद् बहिर्नैव गन्तव्यं यस्य वै क्वचित् ।यदृच्छालाभसन्तोषी स्पृश्यते नहि पातकैः ॥५९॥स्वयं दुःखानि संवाह्य परान् सुखान् करोति यः ।सर्वाशीर्वादपात्रं स स्पृश्यते पातकैर्न वै ॥६०॥विघसाशी भवेद् यस्तु गुरुप्रसादभोजकः ।भिक्षाभोजनसन्तुष्टः पातकं नाऽस्य विद्यते ॥६१॥साधुवृत्तिस्तथा चैवायाऽचितवृत्तिको भवेत् ।यदृच्छालाभसन्तुष्टः स्पृश्यते नैव पातकैः ॥६२॥सदा कृष्णकथामग्नो ब्रह्मज्ञानप्रदो जनः ।सत्संगबोधमिष्टान्नो मुच्यते सर्वपातकैः ॥६३॥ब्रह्मात्मा ब्रह्मवित्सेवी ब्रह्मिष्ठसेवितस्तथा ।आत्मविवेकवान् यः स स्पृश्यते नैव पातकैः ॥६४॥यथाऽपेक्षाग्रहश्चापि यथात्यागविडम्बनः ।यथाध्यानरतश्चापि स्पृश्यते नैव पातकैः ॥६५॥इष्टानिष्टे तृषाशून्यो लाभालाभे क्षुधाक्षयः ।ग्राह्याग्राह्ये क्रियाशून्यः स्पृश्यते नहि पातकैः ॥६६॥दीनो वा निर्धनो वापि धनाढ्यो नृपतिश्च वा ।यथाशक्ति प्रसेवेत सतः पापैः प्रमुच्यते ॥६७॥नवनिधीन् प्रदद्याद्वै यज्ञे पापैः प्रमुच्यते ।पद्मं चापि महापद्मं मकरं कच्छपं दिशेत् ॥६८॥मुकुन्दं चापि नन्दं च नीलं शंखं तथाऽर्पयेत् ।महाशंखं प्रदद्याच्च मुच्यते सर्वबन्धनात् ॥६९॥न संख्यया निधिर्बोध्यः किन्तु दानेन कर्मणा ।दीनोऽपि दत्वा देवाय पद्मानिधिपतिर्मंतः ॥७०॥महाशंखधनी वाप्यदाता कदर्य उच्यते ।शृणु लक्ष्मि कथयामि दातारं तु निधीश्वरम् ॥७१॥स्वल्पवित्तोऽपि यो दद्यात् प्रयत्नेन निजं धनम् ।देवार्थे च मखार्थे च सत्यर्थे यतये सते ॥७२॥विष्णुभक्ताय पुण्यार्थे ब्रह्मनिष्ठाय साधवे ।तद् द्रव्यं पद्मसंज्ञं वै पद्मनिधिपतिर्हि सः ॥७३॥स्वल्पं वा बहुलं द्रव्यं सर्वस्वं वै निजं धनम् ।यात्रानिर्वाहमात्रं तु विहाय यः समर्पयेत्। ॥७४॥देवादिभ्यो धनं तस्य महापद्मनिधिर्मतम् ।सात्त्विकं तद्धनं प्रोक्तं दाताऽपि सात्त्विको हि सः ॥७५॥असंख्यं परलोकेऽस्य धनं लक्ष्मीः करोति वै ।मद्भक्तार्थं प्रसन्नात्वं सर्वं तस्मै ददासि हि ॥७६॥तस्माद् वै देवभक्तानां निर्लोभानाममू निधी ।अक्षयौ दिव्यनामानौ पद्माकृपाप्रपूरितौ ॥७७॥शृणु वै मकरं वच्मि द्रव्यं क्लेशैरुपार्जितम् ।स्वयं स्वार्थपरो भुंक्ते दाने ददाति नैव हि ॥७८॥दद्याद् विवृद्धये वर्षे कुसीदार्थं प्रलोभवान् ।नवां नवां च मैत्रीं वै कृत्वा जीर्णां विहाय तु ॥७९॥एवं द्रव्यस्य नाशो वै पूर्वपूर्वैः प्रजायते ।खड्गबाणादिशस्त्राणां संग्रहेऽपि विनश्यति ॥८०॥अदानकं स्वार्थमात्रं द्रव्यं तन्माकरो निधिः ।मरणे सति सर्वस्वं विनष्टं तत्परैर्भवेत् ॥८१॥शृणु वै कच्छपं लक्ष्मि बहुयत्नैः समर्जितम् ।न भुंक्ते न ददात्येव लोभेन विश्वसेन्न च ॥८२॥क्षिपत्येव हि भूगर्ते कोषे निरुपयोगि तत् ।सञ्चिते त्वेकपुरुषं मरणान्ते परैरपि ॥८३॥राजभिश्चौरलोकैर्वा ह्रियते कच्छपं हि तत् ।माकरं राजसं प्रोक्तं काच्छपं तामसं सदा ॥८४॥माकरं त्वर्धपापं च काच्छपं पूर्णपापकम् ।शृणु लक्ष्मि मुकुन्दं च निधिं यत्नैः समर्जयेत् ॥८५॥किन्तु कोशे पृथिव्यां वा निक्षिप्याऽपि पुनः पुनः ।उद्धृत्योद्धृत्य वेश्यासु नर्तकीगायिकासु च ॥८६॥भाण्डेषु व्यसने क्लेशे व्ययं करोति नित्यदा ।एवं पापपरा सम्पद् द्रव्यं मुकुन्दनामकम् ॥८७॥पापकृञ्चापि वै बोध्यो मुकुन्दकोशभृन्निधिः ।शृणु नन्दं निधिं चापि वक्ष्यामि पद्मजे हि ते ॥८८॥रजस्तमोमहानन्दी ह्याधारः स्यात् कुलस्य वै ।सर्वे कुटुम्बिनो द्रव्यं भुञ्जते प्रेमभावतः ॥८९॥स्तुतयश्चापि जायन्ते बहुभार्या भवन्ति च ।स्वार्थार्थं द्रव्यभोगश्च परोपकृतयेऽपि च ॥९०॥पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ।एवंविधं निजं द्रव्यं नन्दनिध्यात्मकं हि तत् ॥९१॥शृणु लक्ष्मि कथयामि नीलं निधिं तथोत्तरम् ।नीलेन स्वधनेनापि सात्त्विको वै भवेत् सदा ॥९२॥वस्त्रधान्यादिसंग्राही तडागादि करोति च ।त्रिपौरुषो निधिश्चायं त्वाम्रारामादि कारयेत् ॥९३॥धर्मकार्यं करोत्येवोद्यानं ददाति विष्णवे ।शंखं निधिं कथयामि शृणु लक्ष्मि विपत्प्रदम् ॥९४॥एकस्यैव धनं शंखः स्वयं भुंक्ते धनान्तकम् ।न कुलं न च वंशोऽपि भुंक्ते यस्य धनं रमे! ॥९५॥कदन्नभुक् परिजनो न च शोभनवस्त्रधृक् ।स्वार्थपोषणमात्रेच्छुर्दद्यात्परनरे वृथा ॥९६॥शृणु लक्ष्मि महाशंखं निधिं भोगार्थमेव न ।परेष्वेव हि वर्तन्ते धनानि न गृहे मनाक् ॥९७॥एवं बोध्या हि निधयो ज्ञात्वा तान् व्ययमाचरेत् ।तीर्थदेवसतां कार्ये सर्वपापैः प्रमुच्यते ॥९८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वमहापापादिनाशोपायानां निरूपणं, नवनिधीनां धनविनियोगादिप्रयोज्यनामकत्वं चेति कथननामा एकपञ्चाशदधिकशततमोऽध्यायः ॥१५१॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP