संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं यथा देहं प्रपद्यते ।केवलात्माऽपि कर्माढ्यः कथयामि यथातथम् ॥१॥आत्माऽम्बरे कर्मभिः स्वैः सूक्ष्मेण सह वर्तते ।संकल्पाज्जायते हर्षस्तेन कामे प्रवर्तते ॥२॥शुक्रशोणितसंसृष्टस्ततः प्राणः प्रवर्तते ।प्राणेन विधृते शुक्रे तत्राऽपानः प्रवर्तते ॥३॥अपानात् प्रेर्यते शुक्रं रजश्चाकर्षयत्यपि ।समानस्तेन मिश्रे च जायते बीजताधरः ॥४॥उदानश्चोदरे गर्भं प्रति नयति मिश्रणम् ।नालार्थं मिश्रणं स्थाने नाभौ योजयति ध्रुवम् ॥५॥व्यानश्च मिश्रणे तत्र व्याप्नोति पाकहेतवे ।पक्वं चापत्यरूपं वै पुष्टं नालेन योषितः ॥६॥जन्म प्राप्य बहिर्याति षाट्कौशिकं हि तन्मतम् ।मातृतो रोमलोहितमांसानि सन्ति तत्र ह ॥७॥पितृतः स्नाय्वस्थिमज्जा सन्ति तत्र बलान्विताः ।एवंविधे भौतिकेऽत्र देहे माया निरुच्यते ॥८॥देहो मायाऽऽत्मनः प्रोक्ता निर्देहोऽमायिकः स तु ।मां याति नित्यदा चेन्द्रियाद्यैरात्मा प्रपुष्टये ॥९॥अहं देहः पोष्यधर्मो मायारूपोऽस्मि तेन वै ।मम देहस्य सत्त्वेन जीवात्माऽस्ति समश्नुते ॥१०॥तस्माद्देहः सदा माया सर्वविषयमोदिका ।आत्मा स्वकर्मणा प्राणैर्देहबन्धं प्रपद्यते ॥११॥चतुर्होत्रं वर्ष्म चेतद्धोता बन्धनमृच्छति ।करणं कर्म कर्ता च मुक्त एतच्चतुष्टयम् ॥१२॥चत्वार एते होतारः प्रत्येकं सप्त सप्त वै ।घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन इत्यपि ॥१३॥बुद्धिश्चेतिकरणानि सप्तैते गुणहेतवः ।गन्धो रसश्च रूपं च स्पर्शः शब्दश्च वै तथा ॥१४॥मन्तव्यं चापि बोद्धव्यं कर्मैते कर्महेतवः ।घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता तथा ह्यपि ॥१५॥मन्ता बोद्धा च कर्तारः सप्तैते कर्तृहेतवः ।एवंविधा निजान् भावान् भक्षयन्ति च जुह्वति ॥१६॥सप्तस्वेतेष्वसंगो यः सप्तधा मुक्त एव ह ।कारणादिविहीनोऽहं कर्माऽलिप्तो भवाम्यहम् ॥१७॥कर्तृत्वं मे न चैवाऽस्ति तस्मान्मुक्तः सदाऽस्म्यहम् ।अहंममत्वहीनोऽहं मुक्तभावं भजाम्यहम् ॥१८॥अन्यथा तु चतुर्होत्रो मायाबद्धो भवाम्यहम् ।अदन्नन्नानि चाऽविद्वान् ममत्वेन विहन्यते ॥१९॥देहार्थे भक्षयन्नन्नं पोषयन् ममतान्वितः ।अनात्मभक्षणं कुर्वन्माययाऽयं विहन्यते ॥२०॥माया तृष्णा तृषारूपा विषयाणां विवर्धते ।अपेयपानं कुर्वंश्च माययाऽयं विहन्यते ॥२१॥अपेयं नाऽर्पितं देवे ह्यभक्ष्यं चाऽनिवेदितम् ।यद्वाऽपेयं रस्यमेतद् दैह्यमैन्द्रियिकं जलम् ॥२२॥अभक्ष्यं स्वादु चैतद्वै दैह्यं भौतिकमित्यपि ।आत्मार्थे पाचयन्नाऽयं बध्यते न तु मुच्यते ॥२३॥मनसा गम्यते सूक्ष्मं भक्ष्यं पेयं शुभाऽशुभम् ।वाचा वा चक्षुषा चापि श्रोत्रेण च त्वचापि च ॥२४॥जिह्वया गृह्यते यच्च घ्राणेन यत्तु गृह्यते ।करेण पद्भ्यां लिंगेन पायुना यच्च गम्यते ॥२५॥बुद्ध्या चित्तेन चाहंकारेण यद्बाह्यगोलकैः ।गृह्यते भुज्यते व्यस्तैः समस्तैर्वाऽपि यद् यदा ॥२६॥स्वप्ने जाग्रति चान्ते वा मध्ये चादौ च यद् यदा ।सर्वं भक्ष्यं च पेयं च स्वार्थं मायामयं हि तत् ॥२७॥पच्यमानं देहिनं वै हन्ति पाशकशादिभिः ।तत्सर्वं त्यज्यते स्वार्थं विहाय परमात्मनि ॥२८॥भक्ष्यं पेयं भवत्येव तदेव खलु निर्गुणम् ।एवं निर्गुणयोगज्ञं ज्ञानवह्निः प्रवर्तते ॥२९॥सर्वभस्मकरश्चापि मायाबन्धननाशकः ।हरेर्योगमखश्चापि सर्वस्वत्यागदक्षिणः ॥३०॥सत्सेवाऽवभृथस्नानो मोक्षनद्यवगाहनः ।न तस्य विद्यते चाऽयं संसारो भक्ष्यपानजः ॥३१॥सक्रियो वर्तमानोऽपि निष्क्रियः स तु पूरुषः ।पुरुषोत्तमयोगेन कोटिमोक्षप्रदोऽत्र सः ॥३२॥कामिन्या वर्तमानोऽपि कामनाऽस्य न मायिकी ।पत्या च वर्तमानाया रतिर्नास्यास्तु मायिकी ॥३३॥आत्मार्थं चापि कृष्णार्थं परव्रह्मार्थमेव ह ।देहान्तरगमः स्वार्थः शुभाऽशुभप्रभोगकृत् ॥३४॥कृष्णार्थः सर्वथा लक्ष्मि परब्रह्मालयप्रदः ।स्वार्थे तृष्णामये जीवे सवासने सरागके ॥३५॥कर्म तिष्ठति पूर्वार्ज्यं मदाश्रयेण नश्यति ।मयि सर्वार्पणेनैव कर्मफलं विनश्यति ॥३६॥साधूनां मम मूर्तेश्चाश्रयेण दिव्यता भवेत् ।यथा यथा मम योगस्तथा तथा हि दिव्यता ॥३७॥पुंयोगेन यथा पत्न्या दिव्यता लौकिकी शुभा ।सूर्ययोगेनाऽम्बरस्य दिव्यता सुप्रभान्विता ॥३८॥स्वर्णयोगेन ताम्राणां दिव्यता रमणीयता ।गुणयोगेन लोकानां दिव्यता विद्यया कृता ॥३९॥वेषयोगेन राज्ञां च दिव्यताऽलंकृतिकृता ।स्वर्णयोगेन देवानां पुण्येन पितृवर्गिणाम् ॥४०॥ऐश्वर्येण तु सिद्धानां तपोभिश्च तपस्विनाम् ।शिष्याणां दासवर्गाणां दिव्यता सेवया कृता ॥४१॥गन्धर्वाणां गीतिकाभिः साधूनां त्वच्युताऽर्पणात् ।दिव्यता तु सतीनां वै सत्येन च व्रतेन च ॥४२॥ब्रह्मव्रतेन सर्वत्र दिव्यता ब्रह्मचारिणाम् ।ईश्वराणां पदप्राप्त्या मुक्तानां मम योगतः ॥४३॥दिव्यता सर्वदा चास्ते लक्ष्मीनां तु ममांऽगतः ।मम सा दिव्यता लक्ष्मि शाश्वती स्वनिसर्गगा ॥४४॥एतादृशं तु मां प्राप्य भक्तो मे दिव्यतान्वितः ।शाश्वतीं दिव्यतां प्राप्य मोदते मम धामनि ॥४५॥मायेन्द्रियाऽन्तःकरणभूतमात्रादयोऽस्य च ।मम योगेन दिव्यास्ते ततो नारायणो ह्यहम् ॥४६॥मम योगेन वै जीवा अनन्ताः शिवतां गताः ।मद्योगेन नरा भक्त्या नारायणास्त्वसंख्यकाः ॥४७॥जाताश्चापि च जायन्ते वैकुण्ठवासिनो हि ते ।गोलोकवासिनश्चापि परधामनिवासिनः ॥४८॥अक्षरे वासकर्तारस्तथाऽन्यधामवासिनः ।ईशलोकनिवासाश्च मायालोकनिवासिनः ॥४९॥विष्णुरूपा विष्णवश्च जायन्तेऽसंख्यकोटयः ।ब्रह्माणश्चापि जायन्ते वैराजाश्चाप्यसंख्यकाः ॥५०॥प्रधानपुरुषाश्चापि जायन्तेऽनन्तसंख्यकाः ।मुक्ताश्चापि प्रजायन्तेऽनन्तसंख्या हि धामगाः ॥५१॥गायन्त्यपि प्रमोदन्ते नृत्यन्ति हर्षिता हरौ ।का तत्र तु कथा लक्ष्मि मायायाः स्पर्शलेशिका ॥५२॥मायाऽपि मोदते तत्र मामासाद्य महेश्वरी ।आक्षरी परमा विद्या मायाऽपि परिवर्तते ॥९३॥एवं दिव्यविधानं यो जानाति भक्तराड् यदि ।अस्य योगः सदा दिव्यस्तत्र का परिदेवना ॥५४॥एवं मम प्रतापेन योगात्मकेन दिव्यता ।सर्वोत्कृष्टा भवत्येव नारायणपरायणा ॥५५॥एकः शास्ता हृदयस्थः सोऽहं नारायणः परः ।मया युक्तो मम भक्तो वहत्यथ करोति च ॥५६॥एको गुरुर्हृदयस्थः सोऽहं कृष्णनरायणः ।मयाऽनुशिक्षितो भक्तो वहत्यथ करोति च ॥५७॥एको बन्धुर्हृदयस्थः श्रीपतिः पुरुषोत्तमः ।तेन मयाऽनुशिष्टोऽयं वहत्यथ करोति च ॥५८॥एकः स्वामी हृदयस्थोऽनादिकृष्णनरायणः ।तेन मयाऽनुसंश्लिष्टो भक्तश्चानन्दमश्नुते ॥५९॥एकश्चान्तर्नियन्ताऽहं परमात्मा हृदि स्थितः ।मया संप्रेरितश्चाऽयं प्रवर्तते करोति च ॥६०॥एकः श्रोता भक्षयिता बोद्धा मन्ताऽहमेव ह ।घ्राता स्प्रष्टा तथा द्रष्टा रसयिताऽहमेव ह ॥६१॥आनन्दयिता ग्रहिता गन्तोत्स्रष्टाऽहमेव च ।मयाऽनुभुक्त एवाऽयं भुंक्ते वेत्ति प्रमोदते ॥६२॥अहं गुरुः परब्रह्म मयि वासोऽस्य सर्वथा ।गुर्वर्पणविधाताऽयं कर्मणा नहि लिप्यते ॥६३॥एवमस्य भवेदत्र जीवतो जीवमुक्तता ।देहान्ते मम धाम्न्येव स्यादस्य नित्यमुक्तता ॥६४॥अहं ददाम्यखण्डं मे धामाऽक्षरं सुखाश्रयम् ।नित्यं चाऽस्य भवेत् सर्वसौख्याढ्याऽक्षरवासिता ॥६५॥मम ध्यानेन मुक्तोऽयं मत्सारूप्यं प्रपद्यते ।मदैश्वर्याणि सर्वाणि लभते मदनुग्रहात् ॥६६॥एषा ब्राह्मी महाविद्या लक्ष्मि तेऽत्र निवेदिता ।यां प्राप्यैव नरो नारी ब्रह्मरूपः प्रजायते ॥६७॥एतदर्थं मया पूर्वं मम विद्याऽत्र गोलके ।ओमित्येकाक्षरं ब्रह्म दकाराख्या प्रवर्तिता ॥६८॥श्रेयःप्रदां च तां प्राप्याऽसुरदेवर्षिभोगिनः ।प्राप्य ते प्राद्रवन् सर्वे यथास्वभावमादरात् ॥६९॥नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः ।दकारं विविधं मत्वा यथास्वभावमास्थिताः ॥७०॥सर्पाणां तु दकारेण दंशने भाव उद्गतः ।प्रवृत्तस्त्वसुराणां वै दम्भभावः स्वभावजः ॥७१॥देवानां तु तदा दाने भावनाऽभूत् स्वभावजा ।महर्षीणां स्वभावात्तु दमेऽभूद् भावना तदा ॥७२॥सतां तदनु भावस्तु दयाया समजायत ।मानवानां दक्षिणायां ततो भावो व्यजायत ॥७३॥नारीणां दर्शने भावो दकारेण व्यजायत ।शृंगारमाचरन्त्येव सर्वाग्र्यं ताः स्वभावजम् ॥७४॥राज्ञां तु दोहने भावः पृथ्व्या राष्ट्रस्य चाप्यभूत्॥रक्षसां चापि दैत्यानां दण्डे भावो व्यजायत ॥७५॥गुरूणां तु दक्षभावे भावः स्वभावजोऽभवत् ।कर्मिणां दैवभावे तु भाग्येऽभूद् व्यवसायिनाम् ॥७६॥कृपणानां दैन्यभावो दकारेण स्वभावजः ।ईश्वराणां दिव्यभावः स्वभावजस्ततोऽभवत् ॥७७॥पिशाचानां तु दुर्गन्धे भावः स्वभावजोऽभवत् ।कितवानां तु दुष्टत्वे भावः स्वभावजोऽभवत् ॥७८॥आचार्याणां देशनायां भावः स्वभावजोऽभवत् ।दानवानां दोर्बलत्वे दिग्जये भावनाऽभवत् ॥७९॥गृहस्थानां दौर्हृदत्वे सुपुत्रे भावनाऽभवत् ।पशूनां दन्तविषये भक्ष्ये सा भावनाऽभवत् ॥८०॥पितॄणां दर्शपर्वादिश्राद्धे भावस्ततोऽभवत् ।प्रजानां देशवसतौ भावना दोत्थिताऽभवत् ॥८१॥एवं लक्ष्मि विविधा वै दब्रह्मभावनास्तदा ।स्वभावजा हि सर्वेषामभवत् कर्मकारिणी ॥८२॥केषामपि न त्वभूत्सा दिव्यमोक्षाभिगामिनी ।ततो मया पुनर्ब्रह्म ह्युपदिष्टं 'स' इत्यपि ॥८३॥सकारेण मुमुक्षूणां साधुसेवा स्वभावजा ।गृहस्थानां साधुभावो मोक्षदश्चेत्यभूत्तदा ॥८४॥सन्न्यासः सर्वकर्मादिधर्माणां च ततोऽभवत् ।सत्यं व्रतं सत्यधर्मः सत्यलोकः सदात्मता ॥८५॥सनातनत्वमेवाऽपि सच्चिदानन्दता तथा ।सर्वात्मकत्वं साकारमूर्तित्वं सगुणत्वकम् ॥८६॥सौभाग्यं सुमनस्कत्वं सतीत्वं समता तथा ।समदर्शित्वमेवाऽपि सारग्राहित्वमित्यपि ॥८७॥सिद्धिमत्त्वं स्रावशून्यब्रह्मचर्यव्रतं तथा ।सुरेश्वरार्हणं सेवा श्रीहरेः सर्वदर्शिनः ॥८८॥सोऽहं जपस्तथा सौरोपासना तु हिरण्मयी ।सनातनार्षवृत्तिश्च सायुज्यं सार्ष्टिमित्यपि ॥८९॥सालोक्यं चापि सारूप्यं सहभावोऽपि सर्वथा ।स्वामिसेवकभावश्चेत्येवं धर्मान् सकारजान् ॥९०॥जगृहुर्मानवा देवाः ऋषयः पितरोऽपि च ।मुनयो भक्तजीवाश्च मोक्षमार्गं हि जगृहुः ॥९१॥श्रवणं सेवनं सर्वार्पणं समर्पणं व्यधुः ।एवं गुरुं परब्रह्म मोक्षदं प्राप्यते ततः ॥९२॥निजात्मानं ब्रह्मभावापन्नं मत्वा तु भेजिरे ।परमेशं निजस्थं च समनुभूय भेजिरे ॥९३॥एवं लक्ष्मि जीवलोको यथास्वभावमात्मनः ।गुरोः सकाशाल्लब्ध्वाऽपि सन्तमसन्तमश्नुते ॥९४॥शुभेन विचरन् लोकः शुभचारी प्रजायते ।ब्रह्मचारी सदैवैषो य इन्द्रियजये रतः ॥९५॥पापेन विचरन् लोकः पापचारी भवत्युत ।कामचारी तु कामेन य इन्द्रियसुखे रतः ॥९६॥धर्मचारी तु धर्मेण यज्ञयागादिके रतः ।पुण्यचारी तु तपसा यस्तु व्रतादरे रतः ॥९७॥अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः ।ब्रह्मरूपश्चरन् लोके ब्रह्मनिष्ठो भवत्यपि ॥९८॥ब्रह्मचर्यं ब्रह्मरूपं ब्रह्मशीलः सदा सुखी ।ब्रह्मैव समिधश्चास्य ब्रह्माग्निर्ब्रह्मसंभवः ॥९९॥सर्वं ब्रह्म समवाप्य परब्रह्माऽधिगच्छति ।आत्मा ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समस्थितः ॥१००॥समाहितः परे तत्र ब्रह्मणि ब्रह्मशीलवान् ।परब्रह्म ब्रह्मचर्यं तद्रतो मां प्रपद्यते ॥१०१॥नरो वापि तथा नारी नपुं वा न मानवः ।यः कोऽपि स्याज्जातिगन्ता जातिस्मरः प्रवित्तिमान् ॥१०२॥परब्रह्म समवाप्य मोदते हि मया सह ।अत्र वा तत्र वाऽप्यस्य क्रियाः सर्वा हि मोक्षदाः ॥१०३॥इतिश्रीलक्ष्मीनारायणीयंसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मे यथादेहप्राप्तिः शुभाशुभकर्मभोगो ब्रह्माऽवाप्तिः कर्मप्रतिष्ठानं फलार्पणं दिव्यतालाभो नित्यमुक्तताऽक्षरवासिता सारूप्यावगमश्चेत्यादिनिरूपणनामा चतुसप्तत्यधिकशततमोऽध्यायः ॥१७४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP