संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं सर्वपापविनाशकम् ।सर्वपुण्यप्रदं पुण्यं मखे कन्याप्रदानकम् ॥१॥यज्ञं कृत्वा भोजयित्वा तोषयित्वा सतो द्विजान् ।भिक्षुकान् बालिका बालान् दत्वा च दक्षिणावराः ॥२॥कन्यादानं दिशेत् कोटियज्ञपुण्यं लभेद्धि सः ।मण्डपे कुण्डके वह्नौ जुहुयात् पायसैः फलैः ॥३॥मिष्टान्नैश्च कणाद्यैश्च समिद्भिराज्यकैः शुभैः ।घृतानां पुष्टधाराभिस्तर्पयेत् पितृदेवताः ॥४॥ततश्चावाहयेत्तत्र मण्डपे तु कुमारकम् ।विद्वांसं च सुरूपं च कीर्तिमन्तं सुवंशजम् ॥५॥सम्पन्नं च युवानं च कन्यामानसमोदनम् ।सुभाग्यं पूर्वविज्ञातशीलधर्मगुणादिकम् ॥६॥समाजस्य प्रकाशे तं निषाद्य वह्निसन्निधौ ।विप्राणो साक्षिकार्ये च वह्नेः साक्ष्ये च मण्डपे ॥७॥देवानां यज्ञभोक्तॄणां साक्ष्ये कन्यापिता तदा ।पूजयेद् वारिपुष्पाद्यैर्नामगोत्रादि कीर्तयेत् ॥ ८॥दानार्थं पात्रतां वीक्ष्य वाचयेत् स्वस्तिवाचनम् ।देहशुद्धिं कारयेच्च दद्याद् यज्ञोपवीतकम् ॥९॥मन्त्रं प्रदापयेद् यज्ञे वैष्णवं पारमेश्वरम् ।तुलसीं रक्षयेत् तत्र तिलकं कारयेत्ततः ॥१०॥चन्द्रकं कारयेदक्षताक्तकुंकुमचन्दनैः ।पुष्पहारान् शुभं वेषं धारयेद् वरशोभनः ॥११॥विभूषाश्चार्पयेत्तस्मै पादौ प्रपूजयेत्ततः ।मधुपर्कं दापयेच्च प्राशयेत् सुप्रसादकम् ॥१२॥यज्ञीयं पायसाद्यं च हवनं कारयेदपि ।अथ वाद्यानि रम्याणि वादयेद् गापयेत्तथा ॥१३॥गीतिका वेदमन्त्राँश्चोच्चारयेद् वैदिकैर्द्विजैः ।सर्वदेवान् हरिं लक्ष्मीं नारायणं नरायणीम् ॥१४॥वह्निं विप्रान्नमस्कृप्य पिता कन्यामुपस्थिताम् ।भूषितां बहुभूषाभिः शृंगारितां सुसारकैः ॥१५॥वेषितां दिव्यवस्त्राद्यै रञ्जितां मानदानकैः ।प्रसादितां विवाहार्थं समानीतां तु मण्डपे ॥१६॥प्रकाशे सर्वलोकानां स्थापयेद् वरवामके ।वह्निं नमेद् द्विजान् साधूनृषीन् वृद्धान् समाजकम् ॥१७॥कुमारं प्रणमेच्चापि पुष्पाक्षतैः प्रवर्धयेत् ।कुंकुमाऽक्षतचंद्रं च कुर्यात् कुमारभालके ॥१८॥नारायणः प्रीयतां मे गणेशः प्रीयतामिति ।प्रीयन्तां देवताः सर्वे विधीयन्तां ममेष्टकम् ॥१९॥वदेदथाऽऽसने कन्या निषद्य भूसुरार्पितम् ।जलं धृत्वा निजे हस्ते कुर्यात् संकल्पमुत्तमम् ॥२०॥अहं कन्या कुमार्यस्मि नारायणसमीपतः ।देवानां सन्निधौ यज्ञे त्वर्पणार्थमुपागता ॥२१॥पिता यस्मै प्रदास्येत तस्याऽहं वह्निसन्निधौ ।भविष्यामि धर्मपत्नी निर्विघ्नं मे भवत्विह ॥२२॥इत्युक्त्वा तज्जलं पृथ्व्यां विमुञ्चेत् सा हि कन्यका ।अथाऽस्या जनको यद्वा भ्राता माताऽथ बान्धवः ॥२३॥विप्रोक्तरीत्या हि जलं गृह्णीयात् स्वकरे तदा ।कुमारस्य करे चापि जलं दद्याद् गुरुस्तदा ॥२४॥संकल्पं कारयेच्चापि पुण्याहं वाचयेत्तथा ।कन्यादातृत्वाधिकारं ख्यापयेज्जलसाक्षिकम् ॥२५॥कुमारस्य दानग्रहणार्हतां वाचयेत्तदा ।एषोऽहं चामुकगोत्रनामादिर्मण्डपे मखे ॥२६॥कन्यादानं ग्रहीष्यामि धर्मार्थं वह्निसाक्षिकम् ।इति संकल्प्य च जलं कुमारः प्रक्षिपेत् क्षितौ ॥२७॥रक्षिष्यामि मम पत्नीं कन्यामाजीवनं त्विमाम् ।सहधर्मान् चरिष्यामि नारायणस्य साक्षिके ॥२८॥इत्युच्चाराद्युत्तरं च पिता संकल्पमुच्चरेत् ।कन्यादानं ददाम्यस्मै कुमाराय वराय ह ॥२९॥अमुकगोत्रनाम्ने वै देववह्न्यादिसाक्षिणा ।दत्तेयं मम कन्याऽस्य पत्नीरूपा प्रजायताम् ॥३०॥इत्युक्त्वा कन्यकाद्वारा वरमालां वरस्य वै ।कण्ठे चार्पय्य च नमः कारयेत् कन्यकाकरम् ॥३१॥वामं प्रदापयेद् दक्षे हस्ते वरस्य शोभने ।कामफलेन संशोभे संशोभं कन्यकाऽर्पयेत् ॥३२॥एषाऽहं भवतः पत्नीत्येवं संकल्पयेत् हृदि ।एषोऽहं च भवत्यास्तु पतिश्चेति वरो वदेत् ॥३३॥पुष्पैः संवर्धयेयुश्च मण्डपस्था द्विजादयः ।वरो मालां कन्यकायाः कण्ठे दद्यान्निजस्थिताम् ॥३४॥उभौ समालौ चोत्थाय वस्त्रग्रन्थियुतौ तदा ।वह्निं प्रदक्षिणीकृत्य चतुर्वारं निजासने ॥३५॥स्थित्वा कृत्वा प्रणामादीन् निषद्य हवनं ततः ।प्रकुर्यातां घृताद्यैश्च पिता दद्याद् धनादिकम् ॥३६॥स्वर्णं वस्त्राणि भवनं यानं वाहनमुत्तमम् ।अन्ये दद्युश्च दानानि यौतकानि शुभानि च ॥३७॥एवं यज्ञे निजकन्यादानं दैवविवाहनम् ।देवानां साक्षिकत्वे वै श्रेष्ठमुत्तममुत्तमम् ॥३८॥पेटिकादिप्रदानेन स्वर्गदानफलं भवेत् ।अत्र द्रोणीप्रदानेन हण्डदानेन वा तथा ॥३९॥गगरीसम्प्रदानेन ब्रह्माण्डदानजं फलम् ।गोभूधान्यहिरण्यादिप्रदानेनाऽध्वरे तदा ॥४०॥दम्पतीभ्यां फलं पृथ्वीमेरुदानादिजं भवेत् ।हेमशृंगी खुरै रूप्यैर्दिव्यवस्त्रेण संयुता ॥४१॥सकांस्यपात्रा दातव्या क्षीरिणी गौः सवत्सिका ।सदक्षिणा प्रदातव्या गोलोकदानजं फलम् ॥४२॥यावद् वत्सस्य पादाढ्यमुखं योन्यां प्रदृश्यते ।तावद्गौः पृथिवी ज्ञेया दाता साम्राज्यमाप्नुयात् ॥४३॥श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।पित्रर्चनं वृद्धपूजा सत्सेवा पतिसेवनम् ॥४४॥सतीपूजा तथा देवालयस्य मार्जनादिकम् ।उच्छिष्टभ्वादिपात्रादिमार्जनं साधुयोगिनाम् ॥४५॥विप्राणां तोषणं चेति सर्वं तद् गोप्रदानवत् ।पापघ्नं पुण्यदं स्वर्गप्रदं मोक्षप्रदं तथा ॥४६॥साधवे स्वमभीष्टन्तु दत्वा मोक्षमवाप्नुयात् ।द्विजाय स्वमभीष्टन्तु दत्वा स्वर्गमवाप्नुयात् ॥४७॥दम्पतीभ्यां प्रदानेन स्वर्गमोक्षाववाप्नुयात् ।भूदीपाँश्चान्नवस्त्राणि सर्पिर्दत्वा व्रजेच्छ्रियम् ॥४८॥गृहधान्यच्छत्रमाल्यवृक्षयानघृतानि च ।जलं शय्यामनुलेपं दत्वा स्वर्गमवाप्नुयात् ॥४९॥ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम् ।वेदार्थयज्ञशास्त्राणि धर्मशास्त्राणि यानि च ॥५०॥संहिताश्च तथा दत्वा ब्रह्मलोकमवाप्नुयात् ।समर्थो यो न गृह्णीयाद् दातृलोकानवाप्नुयात् ॥५१॥अयाचितागतं ग्राह्यं ह्यपि दुष्कृतकर्मणाम् ।कुशाः शाकं पयश्चाऽऽज्यं दधि वारि च पावनम् ॥५२॥वस्त्रं तैलं चन्दनं च कुंकुमं चाम्बरादिकम् ।अयाचिताऽऽहृतं प्राप्तं ग्राह्यं नारायणेच्छया ॥५३॥नारायणीच्छया प्राप्तं ग्राह्यं सता विपश्चिता ।असंगेन विरागेण ग्राह्यं देयं तथाऽपरे ॥५४॥दम्पतीभ्यां तथा यज्ञे दत्तं स्वल्पमपि ध्रुवम् ।अक्षयं चानन्तफलं जायते नात्र संशयः ॥५५॥यज्ञे दत्ता तु या कन्या लक्ष्मीरूपा प्रजायते ।नारायणस्वरूपोऽपि ग्रहीता स वरो मतः ॥५६॥आच्युतेऽध्वरभवने क्षेत्रे तु पावने तदा ।दानं देवादिसाक्ष्ये वै जायते चाऽऽच्युतं हि तत् ॥५७॥एवं दानं प्रदातव्यं दैवो विवाह एव सः ।सर्वपापानि नश्यन्ति सर्वपुण्योदयो भवेत् ॥५८॥एतादृशं परं दानं भूलोके नैव विद्यते ।शृणु लक्ष्मि तथा चान्यत् कृतपापविनाशनम् ॥५९॥कृतानां कर्मणां कृष्णेऽर्पणं पापविनाशकम् ।अर्पणं निर्गुणं प्रोक्तं भोगाय नैव जायते ॥६०॥दोषान् वा संवदेद् विप्रे गुरौ देवे च राजनि ।क्षमां याचेत नत्वैव दक्षिणं श्रवणं स्पृशेत् ॥६१॥पुनश्चाऽदोषतास्थित्यै दद्याच्च वचनं तथा ।एवं कृतेऽपि दोषाणां दण्डस्तस्य न विद्यते ॥६२॥देवार्थे प्राणसहितं दद्यात् सर्वस्वमेव यः ।तस्य नश्यन्ति कर्माणि ह्यपि चोग्राणि कर्मजे ॥६३॥अथाऽन्यत्ते प्रवक्ष्यामि सन्न्यासग्रहणं शुभम् ।कालमायापापकर्मयाम्यभयादिनाशकम् ॥९४॥कृत्वा मखं तु गृह्णीयात् सन्न्यासं वैष्णवं परम् ।आत्मनि वेदितां लब्ध्वा सर्वाघानि व्यपोहति ॥६५॥कर्मसन्यासमासाद्य पापान्यपि व्यपोहति ।साधुतीर्थं प्रसेव्याऽपि सर्वपापानि मार्जयेत् ॥६६॥अथाऽन्यत्ते प्रवक्ष्यामि विनायकोपसर्जनन् ।दुष्टातिदुष्टदुःखानां निवारकं सुखप्रदम् ॥६७॥स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डाँश्च पश्यति ।विफलारंभणं चापि संसीदत्यनिमित्ततः ॥६८॥राजा राज्यं तु नाप्नोति कुमारी च पतिं तथा ।गुर्विणी नाप्नोति पुत्रं कष्टे त्वेवमुपस्थिते ॥६९॥विधिपूर्वं प्रगे पुण्ये क्षणे स्नपनमाचरेत् ।गौरसर्षपगन्धाज्यैरुद्वर्तनोत्तरं शिरः ॥७०॥सर्वौषधैः सर्वगन्धैर्विलिपेत् स्वस्ति वाचयेत् ।ह्रदाच्चतुर्भिः कलशैराहृतेषु जलेषु तु ॥७१॥मृत्तिकां रोचनां गन्धान् गुग्गुलं न्यस्य तज्जलैः ।भद्रासने स्नापयेच्च स्वप्नवन्तं हि देहिनम् ॥७२॥इन्द्रमृषयोऽस्नापयँश्चाऽमोचयन् पुरा ह्यघात् ।तथा त्वामभिसिञ्चामः पावमान्यः पुनन्तु त्वाम् ॥७३॥भगवान् वरुणो राजा भगं सूर्यो बृहस्पतिः ।भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥७४॥यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।ललाटे कर्णयोरक्ष्णोर्नाशं तद्यातु ते सदा ॥७५॥स्नातस्य सार्षपं तैलं श्रवणे मस्तकेऽर्पयेत् ।साज्यान् कुशान् परिगृह्य जुहुयाच्छालदुण्डकैः ॥७६॥कुष्माण्डं राजपुत्राँश्च स्वाहासमन्विताँस्तथा ।दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य सर्वशः ॥७७॥तण्डुलौदनमपक्वं पुष्पं चित्रं सुगन्धवत् ।सुरामन्नं पायसं च घृतं दधि गुडौदनम् ॥७८॥भूमौ दत्वा शिवं नत्वा भोजयेदम्बिकां सतीम् ।दूर्वासर्षपपुष्पैश्च स्वस्ति संप्रार्थयेत् सतीम् ॥७९॥रूपं देहि यशो देहि भाग्यं देहि सुभाग्यदे ।पुत्रान् श्रियं सर्वकामान् देहि मे विघ्नमुक्तताम् ॥८०॥विप्रान् साधून् तोषयेच्च दानभोजनचन्दनैः ।गुरुं ग्रहान् पूजयेच्चार्पयेल्लक्ष्मीं नरायणम् ॥८१॥यद्वा लक्ष्मि दुःखमूर्ति कृत्वा दुखं प्रपूजयेत् ।कृशं पङ्गुं कृष्णवर्णं पुष्टहस्तं शुचाऽन्वितम् ॥८२॥निम्ननेत्रं चान्धतुल्यं क्षुधितं धमनिस्फुटम् ।श्वेतकेशं च कद्रूपं चिन्तायुतं मलान्वितम् ॥८३॥अधर्मपुत्र कष्ट त्वं दूरं याहि प्रपूजितः ।बलिं लब्ध्वा कृसरान्नं पिण्याकं च सुखी भव ॥८४॥एवं प्रपूज्य पुष्पाद्यैः कृष्णवस्त्रयुतं ततः ।विसर्जयेन्नदीवारौ नारायणपदेऽथवा ॥८५॥विसर्जितः पूजितः स दुःखदेवः प्रयाति वै ।एवं लक्ष्मि पापदेवः पूजनीयः सुखार्थिभिः ॥८६॥कृष्णवर्णः पुष्टपादो लम्बहस्तस्तमोऽक्षिमान् ।कृष्णाननो भयव्याप्तः क्रूरकर्मा सहिंसकः ॥८७॥कृष्णपुष्पैः कज्जलैश्च पूजयित्वाऽर्पयेत् बलिम् ।माषादिकं पायसादि विसर्जयेत्ततो वने ॥८८॥एवं कृते प्रयात्येव दूरे वै पापपूरुषः ।एवं लक्ष्मि पूजयेच्च सुखं देवं सुखेन वै ॥८९॥प्रसन्नवदनं सौम्यं पुष्टं श्वेतं सुभूषणम् ।स्वर्णाम्बरं समस्तांगकृतशोभं सुयौवनम् ॥९०॥सर्वाभरणसंयुक्तं पुष्पाक्षतादिभिः शुभैः ।पायसं चापि मिष्टान्नं फलादि चार्थयेद् बलिम् ॥९१॥धर्मयुतं भक्तियुतं शीलव्रतादिसंयुतम् ।पूजयित्वा शुभे पुण्ये मन्दिरे चालये तथा ॥१२॥जले विसर्जयेद् भक्त्या सम्प्रार्थ्य च प्रणम्य च ।सर्वात्मन् सर्वलोकानां महानन्दप्रद प्रभो ॥९३॥तव वासेन मे नित्यमहानन्दः प्रजायते ।अविमुक्तो मम नित्यं भव वासं सदा कुरु ॥९४॥तव दृष्ट्यापि लोकेशा भवन्ति चेश्वरा दिवि ।पृथ्व्या ते कृपया देव सुखिनः सन्ति मानवाः ॥९५॥तेनाऽहं च सुखी स्यां वै प्रसन्नो वरदो भव ।इत्यभ्यर्थ्य सुखं देवं पूजयित्वा प्रणम्य च ॥९६॥विसर्जयेज्जलमध्ये पूजकः सुखवान् भवेत् ।नरो नारी च वा नान्यतरोऽपि चोक्तरीतितः ॥९७॥पूजयित्वा लभेल्लक्ष्मीं सम्पदं धनमुत्तमम् ।पुत्रं पशुं क्षितिं नारीं वंशविस्तारमित्यपि ॥९८॥अदुःखं लभते नित्यं महोत्सवान् प्रपद्यते ।अत्रलोके भवेच्चापि महास्मृद्धः परत्र च ॥९९॥महाभोगान् प्रसम्पाद्य मोक्षलोकं प्रयाति सः ।न तस्य जायते हानिश्चाकस्मात्तो न जायते ॥१००॥पीडा चाकस्मिकी चापि दारिद्र्यं नैव जायते ।नित्यं सम्पत् सुखं सर्वं वर्धते भोग उत्तमः ॥१०१॥पठनाच्छ्रवणादस्य पूजनस्य फलं भवेत् ।सुखवान् धनवान् स्याच्च दाता भवेत् पुनः पुनः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने यज्ञे कन्यादानं कृष्णार्पणं सन्न्यासग्रहणं विनायकोपसर्जनम् पापदुःखसुखपुरुषप्रपूजनं चेति महाफलप्रदमित्यादिनिरूपणनामाऽष्टषष्ट्यधिकशततमोऽध्यायः ॥१६८॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP