संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ९३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ९३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मीह संसारे दुर्लभं सुलभं व्रतैः ।तपोभिश्चाशिषा चापि सेवया चार्पणेन च ॥१॥ब्रह्मयोगबलस्याऽग्रे बलान्यन्यानि सर्वशः ।निम्नायन्ते ब्रह्मचर्यबलाग्रे इव पद्मजे ॥२॥कथयामि कथां पूर्वभवां शीलप्ररक्षिणीम् ।शिष्येण योगिना भार्या गुरोः शीले प्ररक्षिता ॥२॥देवशर्मांऽभवद् विप्रो महर्षिर्वै सुराष्ट्रके ।तस्य पत्नी रुचिनाम्नी रूपेण राधिकासमा ॥४॥गुणैर्लक्ष्मीसमा दिव्ययौवना देवतोत्तमा ।तस्या रूपेण चोन्मत्ता देवाः सिद्धाश्च मानवाः ॥५॥अजायन्त विशेषेण महेन्द्रो मोहमाप्तवान् ।व्यचिन्तयत् सदा तां तु समारब्धुं क्षणान्तरे ॥६॥देवशर्माऽपि नारीणां स्वभावज्ञो यथाबलम् ।ररक्ष तां निजावासे नैकान्तं प्रददौ क्वचित् ॥७॥इन्द्रो मुहुः समायात्याश्रमोपान्ते गवेषुकः ।तस्या लाभार्थमेवाऽपि नैवाऽलभत तत्क्षणम् ॥८॥बिभेति विप्रशापाद्वै दृष्टिपथं न गच्छति ।प्रच्छन्नश्च प्रयात्येव रूपान्तरैरनेकधा ॥९॥देवशर्मा तपोयोगाज्जानातीन्द्रं गवेषिणम् ।कामुकं विहरन्तं च वनोपान्ते विचारिणम् ॥१०॥अथैकदा ऋषिर्लक्ष्मि! व्रतं कर्तुमना निजम् ।शिष्यमाहूय विपुलं दयितं ब्रह्मयोगिनम् ॥११॥समर्थं रक्षणे चापि धर्मस्थं वचनस्थितम् ।व्रते मे वर्तते वृत्तिश्चाऽश्वपट्टसरोवरे ॥१२॥कुंकुमवापिकाक्षेत्रे गमिष्यामि व्रतान्वितः ।चातुर्मास्यं व्रतं कृत्वा चागमिष्यामि वै ततः ॥१३॥रुचिं सुरूपां पत्नीं मे महेन्द्रो भोक्तुमिच्छति ।नित्यं रक्षस्व चैनं त्वं शीलभंगो न वै भवेत् ॥१४॥पातिव्रत्यं न नश्येच्चाऽप्रमत्तो भव चेन्द्रकम् ।इन्द्रश्चात्र समायाति बहुरूपधरोऽनिशम् ॥१५॥क्वचित् किरीटी वज्रधृक् क्वचिद्धन्वी च दण्डवान् ।मुहूर्तेन तु चाण्डालः शिखी विप्रो जटी व्रती ॥१६॥चीरवासाः क्वचित् स्थूलः कृशोऽतिथिः क्वचित्तथा ।तापसो गौरवर्णो वा श्यामः क्वचिद्वनेचरः ॥१७॥बालो वृद्धो विचित्तो वा क्षत्रो वैश्योऽपि दासकः ।शुको वा वायसो हंसो मृगो व्याघ्रो भवत्यपि ॥१८॥राजा देवोऽथवा दैत्यो भवत्येव च मूषकः ।यथा रुच्यो भवेद् योगस्तथा प्रवर्तते हि सः ॥१९॥मक्षिका मशकश्चापि पुष्पवल्ली भवत्यपि ।एवंभूतो महेन्द्रः स दृश्यते योगचक्षुषा ॥२०॥स त्वं योग्योऽसि रक्षैनां चाऽप्रमत्तो हि तं प्रति ।यथा रुचिं नाऽवलिहेत् तथेन्द्रं प्रति जागृहि ॥२१॥विपुलश्च गुरोर्वाक्यं मत्वा चिन्तापरोऽभवत् ।मायावी वीर्यवानिन्द्रो दुर्धर्षो बहुरूपधृक् ॥२२॥कथं मया रक्षितव्या गुर्वी विधाय चाश्रमम् ।विचार्य बहुधा कायाऽऽवेशं श्रेष्ठममन्यत ॥२३॥अन्यैर्न पौरुषेणेयं न शक्या रक्षितुं यतः ।सोऽहं योगबलेनैनां रक्षिष्यामि वपुस्थितः ॥२४॥इति निर्णीय विपुलः प्रविवेश समाधिना ।कलेवरे गुरुपत्न्या उवास च समाहितः ॥२५॥असक्तः पद्मपत्रस्थजलबिन्दुसमोऽभवत् ।गुर्व्या देहे निजं सूक्ष्मं देहं कृत्वा समन्ततः ॥२६॥स्थलं तु व्यापकं देहं लीनं कृत्वा तु योगतः ।स्थूलेनाऽपि विवेशाऽसौ गुर्वीदेहेऽभितः खलु ॥२७॥एवं विष्टभ्य विपुलो ह्युवास सा विवेद न ।चातुर्मास्यं तु सम्पूर्णं मातरं सोऽभ्यरक्षत ॥२८॥उवासाऽचेष्टमानः स छायेवाऽन्तर्हितोऽनिशम् ।इन्द्रो दिव्यस्वरूपः सन् प्रविवेश युवाऽऽश्रमम् ॥२९॥लोभनीयतमो भूत्वा सर्वशृंगारशोभनः ।रुचिं कमलपत्राक्षीं चन्द्रकान्तिसमद्युतिम् ॥३०॥कोमलां युवतीं चाग्रे दृष्ट्वा मोहमवासृजत् ।सूक्ष्मातिसूक्ष्मवस्त्रान्तोपस्थदर्शनमोहिता ॥३१॥विस्मिता चातिरूपेण कोऽसीति वक्तुमिच्छुकी ।प्रत्युत्थातुमियेषाऽपि विष्टब्धा विपुलेन सा ॥३२॥उत्थातुं न शशाकैव निगृहीता समाधिना ।इन्द्रस्तां सम्प्रहस्याऽऽह युवतीं दत्तमानसाम् ॥३२॥त्वदर्थं त्वागतश्चात्र महेन्द्रो देवताधिपः ।रतिं देहि समायाहि विमाने शीघ्रमेव मे ॥३४॥किन्तु सा न शशाकैवोत्थातुं वक्तुं च किंचन ।विपुलः सर्वमाज्ञाय द्वयोस्तत्र विचेष्टितम् ॥३५॥बबन्ध योगबन्धैः स तस्याः सर्वेन्द्रियाणि ह ।अथाऽचेष्टां निर्विकारां दृष्ट्वेन्द्रो व्रीडितोऽपि ताम् ॥३६॥एह्येहीति पुनः प्राह तदा तु विपुलः खलु ।शरीरस्थः प्रत्युवाच भोः किमागमनं तव ॥३७॥पुरन्दरो विचार्यैव निर्मनस्कोत्तरं तदा ।अवैक्षत दिव्यदृष्ट्या देहस्थं विपुलं मुनिम् ॥३८॥घोरतपस्विनं दृष्ट्वा शापभीतः पुरन्दरः ।प्रवेपताऽभवत् स्तब्धो जडतुल्यः क्षणं तदा ॥३९॥तूर्णं तु विपुलो देहान्निष्क्रम्येन्द्रं समब्रवीत् ।दुष्टमानस दुष्टात्मन् पापबुद्धे सुराऽधम ॥४०॥मानुषीं ब्राह्मणीं धर्माद् भ्रंशयितुमना भवान् ।समागतोऽस्ति दण्ड्योऽस्ति किन्तु त्यजामि गच्छ वै ॥४१॥गौतमेन भगांकस्त्वं कृतस्तद्विस्मृतं नु किम् ।जाने त्वां दुष्टचेष्टं तन्मयेयं रक्ष्यते ततः ॥४२॥याहि शीघ्रं गुरुर्मे त्वां मा निर्दहेद् रुषाग्निना ।मा कदाचित्पुनश्चैवं कुरु क्षयनिमन्त्रणम् ॥४३॥अमरस्याऽपि मृत्युर्वै तपसाऽऽकस्मिको भवेत् ।न देवो न च विप्रो वा साधोरग्रे प्रतिष्ठति ॥४४॥साधुश्चाऽहं ब्रह्मशीलो योगो नारायणाश्रयः ।गुरोः सेवां करोम्यत्र गुर्व्याश्च रक्षणं सदा ॥४५॥ब्रह्मचारी भवाम्येव तव निग्रहणे क्षमः ।याहीत्युक्तश्च देवेन्द्रः सन्त्रस्तः प्रययौ दिवम् ॥४६॥एवं स विपुलो नित्यं रक्षत्येव हि मातरम् ।अथैकदा तु सन्ध्यायां राक्षसो लोममर्षणः ॥४७॥आगतस्तां सतीं हर्तुं विपुलस्तत्र तिष्ठति ।तूर्णं गुर्वी समुत्तोल्य स्कन्धे कृत्वाऽम्बरे ययौ ॥४८॥विपुलः सहसा वीक्ष्योतपाताम्बरवर्त्मना ।जग्राह राक्षसं लोममर्षणं च गले तदा ॥४९॥पाशं कृत्वा रुरोधाऽस्य प्राणान् गुर्वीं ररक्ष च ।राक्षसश्च व्यसुर्भूत्वा पपातोर्व्यां भयंकरः ॥५०॥गुर्वीमुत्तोल्य चाकाशे शनैरुर्व्यामवातरत् ।विपुलः प्रणनामाऽपि मातरं च ररक्ष ह ॥५१॥अथैकदा समुद्रस्थः कपर्दको महासुरः ।भ्रमन्नाकाशमार्गेण दृष्ट्वा रुचिं निजाश्रमे ॥५२॥विहरन्तीं वृक्षमूले जलसेचनकारिणीम् ।अवाततार सहसा व्योम्नो मोहगतश्च ताम् ॥५३॥प्रसह्य परिजग्राह रुचिं ययौ ततोऽम्बरे ।विपुलो वेगतः पृष्ठे व्योमवाटेन चाऽद्रवत् ॥५४॥सहसाऽऽगृह्य तं दुष्टं कपर्दकं पुनर्बलात् ।मुष्टिघातेन शिरसि मारयामास नैकधा ॥५५॥ब्रह्मरन्धं बिभेदाऽस्य कपर्दकस्य चाऽम्बरे ।मस्तकं वेशथामास गलान्तरे ततोऽसुरः ॥५६॥मृतिं ययौ निजां गुर्वीं नीत्वा व्योम्ना द्रुतं हि सः ।विपुलश्चाययौ पर्णकुटीं शान्तोऽभवत्तदा ॥५७॥एवं ररक्ष तां देवीं चातुर्मास्ये मुहुर्मुहुः ।एकदा स गुरुस्तस्य परीक्षार्थं सुरूपिणी ॥५८॥द्वितीया तु रुचिर्भूत्वा निर्जने तु तमोमये ।विपुलं परिजग्राह धोत्रप्रान्ते रतीच्छया ॥५९॥विपुलः शीलसम्पन्नो ज्ञात्वा रुच्यास्तु विकृतिम् ।स्वयं पाषाणरूपोऽभूद् योगैश्वर्येण पुत्तलः ॥६०॥अथापि सा रुचिः समाश्लिषत् पाषाणपुत्तलम् ।तदा वह्निं पुत्तलाद्वै दाहकं च भयंकरम् ॥६१॥शीघ्रमुत्पादयामास विपुलः सा ददाह च ।तत्याज विपुलं रुचिस्वरूपो गुरुरुत्सुकः ॥६२॥एवं वै शीलरक्षायां सावधानं सुशिष्यकम् ।वीक्ष्य तुतोष गुरुराट् ततश्चाऽदृश्यतां ययौ ॥६३॥नेदं जानाति विपुलो रक्षत्येव रुचिं सदा ।एवं तु विगतं चातुर्मास्यं व्रतं गुरोस्ततः ॥६४॥व्रतोत्थिताय गुरवे न्यवेदयत् समस्तकम् ।यथा विघ्नान्यागतानि यथा दूरीकृतानि च ॥६५॥तुतोष गुरुराट् सम्यक् श्रुत्वा शीलस्य रक्षणम् ।प्राह प्रीतोऽस्मि ते शिष्य शीलं रक्षितवान् यतः ॥६६॥कृतवान् योगरीत्या चाऽऽविश्याऽपि स्त्रीतनौ स्थितम् ।रक्षणं दुष्टदेवाच्च राक्षसेभ्यः पुनः पुनः ॥६७॥स्वयं स्पृशसि नैवाऽपि स्पृहावतीं रुचिं तथा ।अतोऽहं ते प्रसन्नोऽस्मि सदा मुक्तः सुखी भव ॥६८॥यदि त्वहं त्वां दुर्वृत्तमद्राक्षं शिष्यसत्तम ।शपेयं त्वामहं तत्र किन्तु त्वं धर्मधैर्यवान् ॥६९॥विजयं सर्वथा प्राप्तः साधुस्त्वमेव वर्तसे ।त्वादृशानां सेवनाच्च मोक्षो ध्रुवो भविष्यति ॥७०॥त्वादृशाः साधवो लोके दुर्लभा मोहवर्जिताः ।स्वयं प्राप्ता परित्यक्ता रुचिस्त्वयोपलात्मना ॥७१॥स्वजनो पुरुषं नार्यो भ्रामकश्चेद् भवेद्धि सः ।साधुश्चेत् स भवेत् तत्र नारी धर्मे वसेत्तदा ॥७२॥साधुसंगः साधुतां च करोति शीलरक्षिणीम् ।असाधुसंगमो हन्ति सतीत्वं साधुतां तथा ॥७३॥असाधुसंगतिर्धर्मनाशिनी दुःखदायिनी ।असत्संगो वृषं हन्ति चाऽवृषं सत्करोति च ॥७४॥अधर्मागमतो वृत्तिर्बुद्धिर्मनोऽघकर्मसु ।प्रवर्तन्ते ततश्चात्मा कल्मषेण तु हन्यते ॥७५॥तस्मात् कुर्यात् प्रसत्संगं धर्मदां साधुसंगतिम् ।सत्संगः शाश्वतः कोशः सत्संगः शेवधिः परः ॥७६॥पठनाच्छ्रवणादस्य स्मरणाद् वर्तनात्तथा ।धर्मभक्त्यादिशीलाद्यैर्भुक्तिमुक्तिर्भवेन्नृणाम् ॥७७॥इत्युक्त्वा विररामाऽपि देवशर्मा तु पद्मजे! ।विपुलोऽपि सिषेवे च गुरुं गुर्वीं च निःस्पृहः ॥७८॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वबलाधिके ब्रह्मयोगबले रुचिब्राह्मण्याः शीलरक्षणे विपुलाख्यशिष्यस्य योगिनो विजयः, इन्द्रस्य पराजयः,लोममर्षणकपर्दकराक्षसयोर्विनाशः, गुरोः प्रसन्नताऽऽशीर्वादः, साधुत्वगौरवं चेत्यादिनिरूपणनामा त्रिनवतितमोऽध्यायः ॥९३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP