संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ११० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ११० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-विद्या चाचरणं लक्ष्मि जन्म दीक्षा शुभाश्रयः ।एते यत्र प्रविद्यन्ते दानपात्रं तदुत्तमम् ॥१॥याचते यत्प्रदत्तं तच्छ्रेय एव निगद्यते ।अयाचते प्रदत्तं तु दानं स्वस्वत्ववर्जितम् ॥२॥ब्रह्मिष्ठो दानपात्रं वै साधुः पात्रप्रभूषणम् ।लब्ध्वा साधुः सुविद्वान् यत् प्रीणाति देवता गुरून् ॥३॥याचना सर्वथा लक्ष्मि निकृष्टोद्वेगकारिणी ।प्रकाशदस्युर्याचमानो भवत्येवाऽघकृद्धि सः ॥४॥याचना तु भवेन्मृत्युर्मृत्युरेव तु याचना ।सा तु दुःखप्रदा तस्माद् याचतो दानमेव न ॥५॥दातृत्वं जीवनं प्रोक्तं याचते दीयते यदि ।जीवनं श्रेय एवास्ति दाता श्रेयश्च विन्दति ॥६॥ग्रहीता श्रेयसा युक्तो भवत्येव तथाऽधर्मः ।उत्तमो वै प्रदाता स्यात्तस्माद्दानं प्रशस्यते ॥७॥याचते दीयमानेनाऽनृशंसत्वं विभाव्यते ।अयाचते तु दानेन स्वर्गफलं विभाव्यते ॥८॥पूज्या हि ज्ञानविज्ञानतपोभक्तियुता जनाः ।योगिनः साधवः पूज्यास्तेभ्यो देयं समस्तकम् ॥९॥दत्तमतिथये विद्यावते शीलवतेऽर्थिने ।अक्षयं वै फलं तस्य जायते शाश्वतं दिवम् ॥१०॥येषां शिष्याः सुता दाराः प्रतीक्षन्तेऽन्नवारिणी ।तेभ्यो दत्तं प्रभुञ्जानास्त्रेताग्निं प्रीणयन्ति ते ॥११॥साधुभ्यो ब्रह्मचारिभ्यो दत्तं प्रभुञ्जते तु ते ।ब्रह्माग्निं ते प्रीणयन्ति सवनं परमं हि तत् ॥१२॥मध्यन्दिनं तु सवनं भिक्षुकेभ्योऽर्पणं सदा ।देवेभ्यश्चापि पितृभ्योऽर्पणं तद्वैश्वदैविकम् ॥१३॥सवनं तु तृतीयं तद् यज्ञास्त्रयो दिवंप्रदाः ।नारायणाय मह्यं यद् दत्तं दिव्यमखो हि सः ॥१४॥आत्मार्पणात्मको लक्ष्मि कर्तव्योऽयं विजानता ।अद्रोहः सर्वभूतानां संविभागोऽनुयायिनाम् ॥१५॥सेवा तुष्टिर्दमस्त्यागो यज्ञा भवन्ति सात्त्विकाः ।त एतेऽवभृथायन्ते श्रद्धापूताः सदक्षिणाः ॥१६॥पापकृतां जनानां न प्रतिगृह्णन्ति साधवः ।तस्माद् द्रव्यमये यज्ञे दातव्यं पापनाशनम् ॥१७॥यदि गृह्णन्ति सन्तोऽस्य पापिनः पावनं हि तत् ।पापप्रक्षालनशक्तं पात्रबलात् प्रजायते ॥१८॥ब्राह्मणाँस्तर्पयेद् द्रव्यैस्तत्तदिष्टतमाऽर्पर्णैः ।मैत्रान् साधून् वेदविदः शीलव्रततपोजुषः ॥१९॥तर्पयेद् बहुधा दानैः स्वाद्वन्नैर्दक्षिणादिभिः ।प्रजावतो भक्तजनान् प्रजावान् जायते हि के ॥२०॥यावतः साधुधर्मान् वै सन्तः संवर्धयन्ति हि ।ते भर्तव्या बहुदानैर्जीवकल्याणकारिणः ॥२१॥धेनवो वृषभा भूषा अम्बराणि धनानि च ।आज्यान्यन्नानि यानानि छात्रं वासांस्युपानहौ ॥२२॥अश्ववन्ति च यानानि वेश्मानि शयनानि च ।एते देयाः साधुसद्भ्यः स्वर्गदा मोक्षदा हि ते ॥२३॥दाता पापैर्विनिर्मुक्तः पूतः स्वर्गं प्रयाति हि ।उपछन्नं प्रकाशं वा वृत्त्या साधून् प्रपालयेत् ॥२४॥राजसूयाऽश्वमेधानां फलभाक् स भवेद् ध्रुवः ।योगं क्षेमं विन्दतेऽपि शाश्वतं चाक्षरं पदम् ॥२९॥साधवो यं न शंसन्ति तन्न कुर्यात् कदाचन ।दद्याद्वै महतो भोगान् क्षुद्भयं प्रणुदेत् सताम् ॥२६॥यत्र देशे प्रपश्यन्ति स्वादुभोज्यानि बालकाः ।प्रपश्यन्त्येव नाऽश्नन्ति स देशोऽघमलात्मकः ॥२७॥यत्र देशे साधवश्चाऽनाथाः स्त्रियश्च बालकाः ।क्षुधा सीदन्ति देशः स नाशमायाति सर्वथा ॥२८॥क्रोशन्त्यो यत्र वै देशे ध्रियन्ते तरसा स्त्रियः ।गावश्चापि प्रजाश्चापि स देशो मरणोन्मुखः ॥२९॥तस्मादभयदानाख्यं दानं परमकं मतम् ।अभयस्य प्रदाता वै याति चाऽभयमक्षरम् ॥३०॥पुरुषोत्तमसाम्नश्चोद्गाता यात्यभयाऽक्षरम् ।पृथिवीदानकृल्लक्ष्मि! याति क्ष्मामक्षरात्मिकाम् ॥३१॥दत्ताऽत्र क्ष्मा दिव्यरूपं धृत्वोत्तिष्ठति चाक्षरे ।अचला चाऽक्षया दोग्ध्री दिव्यकामादिपूरणी ॥३२॥रत्नवासांसि रम्याणि सुधाव्रीहियवाऽमृतान् ।सर्वविधान्यमृतानि लभते भूमिदोऽक्षरे ॥३३॥भूमिदः सर्वलोकेषु शाश्वतीरेधते समाः ।यावद्भूमेरिहाऽऽयुश्च तावद्भूमिद एधते ॥३४॥भूमिं ददुश्च ये दाने भूमिं ते भुञ्जते पराम् ।भूमिर्भूतिर्महालक्ष्मीर्दातारं कुरुते प्रियम् ॥३५॥यथादानं तथा भोगो दानं श्रीः परमा मता ।अपि पापसमाचारे ब्रह्मघ्ने भक्तिवर्जिते ॥३६॥क्षितिः क्षिप्ता पुनात्येव ग्रहीता साधुभिस्तु चेत् ।सा मन्यते धन्यभाग्यं साधुहस्तगता सती ॥३७॥दातारं कुरुते शुद्धं स्वापत्यं जननी यथा ।पृथ्व्या नामाऽस्ति धर्माख्यं प्रियदत्तेति सार्थकम् ॥३८॥भूमिं तु साधवे दत्वा भूमिं दिव्यां प्रविन्दते ।यः साधोर्भूमिमादत्ते न भूमिं विन्दते हि सः ॥३९॥साधोर्भूमिः शस्यतेऽत्र सा तु नारायणी मता ।पापी गोचर्ममात्रेण भूमिदानेन पूयते ॥४०॥यो यजेताऽश्वमेधेन दद्याद्वा साधवे महीम् ।महीदानं प्रशस्तं शाश्वतानन्दफलप्रदम् ॥४१॥सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।सर्वमेतद् दत्तवान् स्याद् यो ददाति वसुन्धराम् ॥४२॥तपो यज्ञः श्रुतं शीलं गुरोः सेवा गवार्चनम् ।साधुदैवतपूजा च एता भवन्ति भूमिदे ॥४३॥दातृनिःश्रेयसे युक्ता श्रेयः परं ददाति सा ।यथा जननी पुत्रं स्वं क्षीरेण भरतेऽन्वहम् ॥४४॥तथा पुष्णाति दातारं सर्वगन्धरसैर्मही ।मृत्युः कालो यमदण्डो माया वह्निर्ज्वरो ह्यरिः ॥४५॥पाशो बाधाश्च विघ्नाश्च भयं दुरीतमित्यपि ।अकस्माता ईतयश्च नोपसर्पन्ति भूमिदम् ॥४६॥पितॄन् देवान् महर्षींश्च सिद्धान् योगिजनान् सतीः ।साध्वीर्युक्तान् ब्रह्मकान्ताः सन्तर्पयति भूमिदः ॥४७॥कृशाय वृत्तिहीनायाऽनाथाय सीदते क्षितिम् ।जीविकाजननीं दत्वा सर्वसत्री भवेज्जनः ॥४८॥यथा धेनुः स्ववत्सं वै यच्छति वत्सला पयः ।पोषयत्येव तद्वत् क्ष्मा दातारं पोषयत्यति ॥४९॥ससस्यां वा सबीजां वा सकणां यः प्रयच्छति ।श्रेष्ठं गृहं चार्पयति भवेद् ब्रह्मा स दानकृत् ॥५०॥यथा चन्द्रमसो वृद्धिः शुक्ले प्रत्यहमेव ह ।तथा भूदः परां वृद्धिं सस्ये सस्ये प्रविन्दति ॥५१॥पृथ्वी मूर्तिमती प्राह पृथ्वीस्वामिन एव सा ।मामादाय च मां दत्त दत्वा मां मामवाप्स्यथ ॥५२॥प्रायश्चित्तं महीदानं पुनात्युभयतो दश ।स कुलीनः स पुरुषः स बन्धुः स हि पुण्यकृत् ॥५३॥स दाता स मखी साधुर्यो ददाति वसुन्धराम् ।यथा सस्यानि रोहन्ति तथा क्ष्मादस्य कामनाः ॥५४॥भूमिर्माता पिता लक्ष्मीरन्नं जीवनमित्यपि ।भूमौ भवन्ति पुष्टाश्च निष्ठां व्रजन्ति वै भुवि ॥५५॥आदित्या वरुणा रुद्रा ब्रह्माणो विष्णवोऽनलाः ।वसवः शशिनो देवा भूमिं दत्वाऽभवन् सुराः ॥५६॥सुवर्णदानं गोदानं भूमिदानं गृहार्पणम् ।ददन्नेतान् साधवेऽत्र सर्वपापैः प्रमुच्यते ॥५७॥भर्तुर्निःश्रेयसे यत्ता पतिव्रताऽर्धदेहिनी ।भूदानमाचरेत् तेन भर्ता यात्यक्षरम पदम् ॥५८॥रत्नोपकीर्णां वसुधां सर्वकामगुणान्विताम् ।दद्याद् राजाधिराजः स्यात् पुण्यः स्वर्गे महीयते ॥५९॥सर्वकामदुघां धेनुं महीं कामप्रवर्षिणीम् ।कन्यां वंशकरीं साध्वीं ददन् स्वर्गे महीयते ॥६०॥मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा ।सरितस्तर्पयन्तीह परे तु वसुधाप्रदम् ॥६१॥महीं शस्त्रजितां दत्वा युद्धपापं व्यपोहति ।न तस्य लोकाः क्षीयन्ते स्वर्गे मोदन्त एव ते ॥६२॥भूतिं चेच्छन् प्रदद्याद् क्ष्मां पुण्यामृद्धिरसान्विताम् ।सागरान् सरितः शैलान् काननानि च सर्वशः ॥६३॥तडागान्युदपानानि स्रोतांसि च सरांसि च ।स्नेहान् सर्वरसांश्चैव ददाति वसुधां ददन् ॥६४॥ओषधीर्वीर्यसम्पन्ना नगान् पुष्पफलान्वितान् ।काननोपलशैलाँश्च धातून् खनीश्च सर्वथा ॥६५॥जीविकां सर्वजीवानां ददाति वसुधां ददन् ।इक्षुभिः सन्ततां भूमिं यवगोधूमशालिनीम् ॥६६॥गोऽश्ववाहनपूर्णां च निधिगर्भां ससाधनाम् ।ददाति योऽक्षयलोकान् लभते स महासुखान् ॥६७॥भूमिसत्रं भवेत्तस्य सर्वकलुषनाशकम् ।सतां लोके परे दिव्ये सद्भिर्दाता महीयते ॥६८॥शतं दिव्या योषितोऽपि दिव्यमालाविभूषिताः ।सम्पदश्चोपतिष्ठन्ति ब्रह्मलोके धराप्रदम् ॥६९॥शंखभद्रासनं छत्रं वराश्वावरवाहनम् ।धर्मपुण्यानि पुष्पाणि हिरण्यनिचयाँस्तथा ॥७०॥आज्ञां सदाऽप्रतिहतां जयशब्दान् वसूनि च ।हिरण्यपुष्पाश्चौषधीन् कुशकाञ्चनशाद्वलाः ॥७१॥अमृतप्रसवां भूमिं भूतिं क्ष्मादः प्रपद्यते ।नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः ॥७२॥नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ।नास्ति साधुसमं पात्रं नास्ति मोक्षसमं सुखम् ॥७३॥नास्ति मुक्तिप्रदं स्तोत्रं पुरुषोत्तमसामवत् ।दानकृत् स्तोत्रवक्ता च याति धामाऽक्षरं मम ॥७४॥दानफलं परं भुक्त्वा स्वर्गे सत्ये तथैश्वरे ।दिव्यलोके ततो याति स्तवाद्धामाऽक्षरं मम ॥७५॥यथा भूमिस्तथा चान्नं शस्यते दानरूपकम् ।लोकयात्रा भवत्यन्ने प्राणा अन्ने प्रतिष्ठिताः ॥७६॥अन्नं तत् प्रथमं ब्रह्म जीवकं तृप्तिदं सदा ।अन्नभूर्जस्कर शक्तिप्रदं धारकमेव तत् ॥७७॥तापसा भिक्षवः सन्तो गृहिणोऽन्ने प्रतिष्ठिताः ।क्षुधितायाऽन्नदाता तु परत्र निधिमान् ध्रुवः ॥७८॥अतिथिं चागतं शीघ्रं जलान्नैः पूजयेद् गृही ।अन्नदो लभते स्वर्गे चेह वाऽमृतमुत्तमम् ॥७९॥अन्नं श्वपाके शुनिं वा दत्तं न विप्रणश्यति ।दद्याददृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥८०॥पितॄन् देवानृषीन् विप्रान् साधून् नारीरनाथकान् ।अतिथीन् प्रीणयत्यन्नैस्तस्य पुण्यमनन्तकम् ॥८१॥अन्नदानं सर्ववर्णे शस्यते पुण्यदं हि तत् ।न पृच्छेद् गोत्रचरणं स्वाध्यायं देशमित्यपि ॥८२॥भिक्षुकाय प्रदद्याद्वै याचितोऽन्नं समुत्तमम् ।अन्नदस्याऽन्नसस्यानि सर्वदा फलदानि वै ॥८३॥भवन्ति चेहाऽमुत्रापि सुधास्वादुफलानि हि ।पितरोऽपि प्रतीक्षन्ते कुलेऽन्नदो भवेद्धि नः ॥८४॥सन्तो विप्रा अनाथाश्च व्यंगा अन्नस्य भिक्षवः ।सत्कृताश्च निवर्तन्ते दत्वा पुण्यानि दैवतम् ॥८५॥नित्यं मिष्टान्नदायी तु स्वर्गे वसति सत्कृतः ।अन्नदः पशुमान् पुत्री धनवान् भोगवानपि ॥८६॥प्राणवान् रूपवाँश्चापि जायते पूज्यते सुरैः ।क्षेत्रं क्षुधायुतं पात्रं तत्रोप्यते प्ररोहति ॥८७॥प्रत्यक्षं प्रीतिजननं चामृतं पुण्यसत्फलम् ।भोक्तुर्दातुर्भवत्येव जीवनांकुरमेव ह ॥८८॥धातुमूलं काममूलं गर्भमूलं सदाऽन्नकम् ।प्रसवश्चापि धर्मार्थौ रोगनाशोऽन्नतो मताः ॥८९॥अन्ने भूः स्वः सत्यलोकः सर्वे तिष्ठन्ति पद्मजे ।अन्नाभावे प्रभिद्यन्ते शरीरे पञ्चधातवः ॥९०॥बलं रूपं प्रशक्त्याद्या नश्यन्त्यन्ननिरोधनात् ।उत्सवाश्च विवाहाश्च यज्ञाश्चान्नैर्भवन्ति हि ॥९१॥स्थावरं जंगमं यच्च सर्वमन्ने प्रतिष्ठितम् ।जडं च चेतनं चापि पुष्टितत्त्वमपेक्षते ॥९२॥अपि यन्त्राणि तैलाऽऽपोऽपेक्षन्ते का कथाऽऽत्मनः ।भवनानि प्रकाशन्ते दिवि चान्नप्रदात्मनाम् ॥९३॥तारासंस्थानि जायन्ते चन्द्रशुभ्राणि तानि वा ।तरुणादित्यवर्णानि किंकिणीजालवन्ति च ॥९४॥अनेकशतभौमानि सान्तर्जलचराणि च ।वैदूर्याऽर्कप्रकाशानि रौप्यरुक्ममयानि च ॥९५॥सर्वकामफलदाश्च वल्लीवृक्षाश्च तेष्वपि ।वाप्यो वीथ्यः सभाः कूपा दीर्घिकाः सन्ति तेषु च ॥९६॥घोषवन्ति विमानानि लभ्यन्ते भवनेष्वपि ।भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥९७॥क्षीरनद्यो दधिनद्यो घृतनद्योऽत्र सन्ति च ।प्रासादा दिव्यकान्ताश्च सुशय्याः काञ्चनोज्ज्वलाः ॥९८॥देव्यो मनोहरा योग्याः प्राप्यन्ते तत्र मन्दिरे ।अन्नदानां सदा लक्ष्मीर्वर्धतेऽमृतवर्षिणी ॥९९॥सुधानद्यः प्रस्रवन्ति पीयूषवार्धयस्तथा ।एवं भुक्त्वा शुभान् लोकान् यथापुण्यमतः परम् ॥१००॥पुरुषोत्तमसाम्ना वै लक्ष्मि याति पदं मम ।अक्षरं धाम परमं भुंक्ते कामान् मया सह ॥१०१॥साधून् विप्राँस्तर्पयेद्वै सर्पिषा पायसेन च ।कृसरैः पोलिकाद्याभिः सूपोदनैश्च तर्पयेत् ॥१०२॥तिलपक्वान्नकैर्भक्ष्यैः फाणितैः पायसैः शुभैः ।शाकैः फलैर्मूलकैश्च कन्दैर्दलैश्च सक्तुकैः ॥१०३॥राजमाषैश्च मिष्टान्नैर्लड्डुकैस्तर्पयेत् सतः ।दक्षिणायां स्वर्णदानं रूप्यकं चाऽर्पयेत्तथा ॥१०४॥स्वर्गान् भुक्त्वा सामपाठादक्षरं संव्रजत्यपि ।शाश्वतं परमानन्दं भुंक्ते लक्ष्मि मया सह ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दानपात्रे दानफलं भूदानफलमन्नदानफलं पुरुषोत्तमसामफलं चेत्यादिनिरूपणनामा दशाधिकशततमोऽध्यायः ॥११०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP