संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १५३

द्वापरयुगसन्तानः - अध्यायः १५३

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
यात्रायां का दिशा श्रेष्ठा कनिष्ठा का कदा मता ।
प्रस्थानं च कदा श्रेष्ठं कदा किं कर्म शोभनम् ॥१॥
अशोभनं कदा स्याच्च नक्षत्रवारयुक्तिथौ ।
तत्सर्वं मे समाचक्ष्व लोककल्याणहेतवे ॥२॥
श्रीपुरुषोत्तम उवाच-
कृत्तिका त्वग्निदैवत्या रोहिणी ब्रह्मदेवता ।
मृगशिरा सोमदेवा चाऽऽर्द्रा तु रुद्रदेवता ॥३॥
पुनर्वसुः सूर्यदेवा पुष्यं तु गुरुदैवतम् ।
अश्लेषा सर्पदैवत्या मघा तु पितृदेवता ॥४॥
पूर्वाफाल्गुनिका बोध्या पद्मजे भगदेवता ।
उत्तराफाल्गुनी बोध्या पद्मजेऽर्यमदेवता ॥५॥
हस्ता सवितृदेवा च चित्रा तु त्वष्ट्रदेवता ।
स्वाती तु वायुदैवत्या विशाखेन्द्राग्निदेवता ॥६॥
अनुराधा मित्रदेवा ज्येष्ठा तु शक्रदेवता ।
मूला निर्ऋतिदैवत्या पूर्वाषाढाऽऽप्यदेवता ॥७॥
उत्तराषाढिका वैश्वदेवता परिकीर्तिता ।
अभिजित् ब्रह्मदैवा च श्रवणा विष्णुदेवता ॥८॥
धनिष्ठा वसुदेवा वारुणदेवा शतभिषा ।
अजदेवा पूर्वभाद्रोत्तरभाद्राऽहिर्बुध्निका ॥९॥
पुषादेवा रेवती चाश्विनीदेवा तथाऽश्विनी ।
भरणी यमदेवा च प्रोक्तास्ते ऋक्षदेवताः ॥१०॥
ब्रह्माणी संस्थिता पूर्वे प्रतिपन्नवमीतिथौ ।
माहेश्वरी चोत्तरे च द्वितीयादशमीतिथौ ॥११॥
पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता ।
षष्ठ्यां चापि चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता ॥१२॥
सप्तम्यां पौर्णमास्यां च चामुण्डा वायुकाष्ठिका ।
अष्टम्यमावास्यदिने लक्ष्मीस्त्वीशानगा मता ॥१३॥
एकादश्यां त्रयोदश्यामग्निकोणे तु वैष्णवी ।
द्वादश्यां च चतुर्थ्यां तु कौमारी नैर्ऋते सती ॥१४॥
योगिनीसम्मुखे नैव गमनादि प्रकारयेत् ।
अश्विनी रेवती चापि मृगा मूला पुनर्वसुः ॥१५॥
पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठताप्रदाः ।
हस्त्यादिपञ्चऋक्षाणि ह्युत्तरात्रयमित्यपि ॥१६॥
अश्विनी रोहिणी पुष्या धनिष्ठा च पुनर्वसुः ।
वस्त्रप्रावरणे श्रेष्ठा सौभाग्यवर्धका अपि ॥१७॥
कृत्तिका भरण्यश्लेषा मघा मूला विशाखिनी ।
तिस्रः पूर्वा अधोवक्त्रा अधःकार्याणि तत्र वै ॥१८॥
वापीकूपतडागादिभूमिखनिप्रगह्वरम् ।
देवागारस्य खननं निधानखननं तृणम् ॥१९॥
गणितं ज्योतिषारम्भं खनिबिलप्रवेशनम् ।
कुर्यात्तान्येव सिद्ध्यन्ति चाधःकार्याणि सर्वथा ॥२०॥
रेवती चाश्विनी चित्रा स्वाती हस्ता पुनर्वसुः ।
अनुराधा मृगो ज्येष्ठा ह्येताः पार्श्वमुखा मताः ॥२१॥
गजोष्ट्राऽश्वबलीवर्ददमनं महिषस्य गोः ।
बीजानां वपनं कुर्यान्नावादीनां प्रवाहणम् ॥२२॥
चक्रयन्त्ररथानां च गमनं चाऽऽगमादिकम् ।
रोहिण्यार्द्रा तथा पुष्या धनिष्ठा चोत्तरात्रयम् ॥२३॥
शतभीषा श्रवणं च नव तूर्ध्वमुखा मताः ।
आसु राज्याभिषेकं च पट्टबन्धं प्रकारयेत् ॥२४॥
ऊर्ध्वमुखान्युच्छ्रितानि सर्वाण्येतासु कारयेत् ।
चतुर्थी त्वशुभा षष्ठी चाष्टमी नवमी तथा ॥२५॥
अमावास्या पूर्णिमा च द्वादशी च चतुर्दशी ।
अथ शुभा प्रतिपत्तु कृष्णा बुधे द्वितीयका ॥२६॥
तृतीया मंगलयुक्ता चतुर्थी शनिवासरे ।
गुरौ तु पञ्चमी, षष्ठी शुभा मंगलशुक्रयोः ॥२७॥
सप्तमी बुधसोमस्थाऽष्टमी मंगलसूर्यगा ।
नवमी सोमवारस्था दशमी गुरुवारिका ॥२८॥
एकादशी गुरुव्याप्ता द्वादशी बुधवासरे ।
त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी ॥२९॥
पौर्णमास्यप्यमावास्या श्रेष्ठा बोध्या बृहस्पतौ ।
द्वादशीं दहति सूर्यः शशी त्वेकादशी दहेत् ॥३०॥
भौमो दहेच्च दशमीं नवमीं तु बुधो दहेत् ।
गुरुर्दहति चाष्टमीं सप्तमीं भार्गवो दहेत् ॥३१॥
शनैश्चरो दहेत्षष्ठीं गमनं चासु नास्ति वै ।
प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च ॥३२॥
बुधवारे च प्रस्थानं दूरतः परिवर्जयेत् ।
मेषे कर्कटके षष्ठी कन्यायां मिथुनेऽष्टमी ॥३३॥
वृषे कुंभे चतुर्थी च द्वादशी मकरे तुले ।
दशमी वृश्चिके सिंहे धनुर्मीने चतुर्दशी ॥३४॥
एता दग्धा न गन्तव्यं देहिजीवादिमानवैः ।
विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी ॥३४९॥
धनिष्ठात्रितयं भौमे बुधे तु रेवतीत्रयम् ।
रोहिण्यादित्रयं गुरौ शुक्रे पुष्यत्रयं रमे! ॥३६॥
शनैश्चरे वर्जयेच्च तूत्तराफाल्गुनीत्रयम् ।
एष औत्पातिको योगो मृत्युरोगादिकारकः ॥३७॥
मूलेऽर्कः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः ।
कृत्तिकासु बुधश्चैव गुरौ लक्ष्मि पुनर्वसुः ॥३८॥
पूर्वफाल्गुनिका शुक्रे स्वातिश्चैव शनैश्चरे ।
एते ह्यमृतयोगाः स्युः सर्वकार्यप्रसाधकाः ॥३९॥
विष्कंभे घटिकाः पञ्च शूले सप्त प्रकीर्तिताः ।
षड्गण्डे चातिगण्डे च नव व्याघातवज्रयोः ॥४०॥
व्यतीपाते परीघे च वैधृते च दिने दिने ।
वर्जनीया मृत्युयोगा ह्येते कार्यविनाशकाः ॥४१॥
हस्तेऽर्कश्च गुरुः पुष्ये ह्यनुराधाबुधे शुभा ।
रोहिणी तु शनौ श्रेष्ठा सोमे च शतभीषणा ॥४२॥
शुक्रे तु रेवती श्रेष्ठा ह्यश्विनी मंगले शुभा ।
एते ते सिद्धियोगाः स्युः सर्वदोषविनाशकाः ॥४३॥
भार्गवे भरणी चापि सोमे चित्रा तु पद्मजे ।
भौमे चैवोत्तराषाढा धनिष्ठा तु बुधे यदा ॥४४॥
गुरौ शतभिषा चापि शुक्रे वै रोहिणी तथा ।
शनौ तु रेवती चापि विषयोगा हि ते मताः ॥४५॥
पुष्यः पुनर्वसुश्चैव रेवती चापि चित्रिका ।
श्रवणा च धनिष्ठा च हस्ताऽश्विनी मृगा तथा ॥४६॥
शतभीषा चापि योग्या जातकर्मादिकर्मणाम् ।
विशाखा चोत्तरा तिस्रो मघाऽऽर्द्रा भरणी तथा ॥४७॥
अश्लेषा कृत्तिका चैताः प्रस्थाने मरणप्रदाः ।
षडादित्ये दशा बोध्याः सोमे पञ्चदश स्मृताः ॥४८॥
अष्टौ तु मंगले बोध्या बुधे सप्तदश स्मृताः ।
शनैश्चरे दश बोध्या गुरावेकोनविंशतिः ॥४९॥
राहौ द्वादशवर्षाणि ह्येकविंशतिर्भार्गवे ।
रवेर्दशा दुःखदा स्यादुद्वेगनृपनाशकृत् ॥५०॥
विभूतिदा सोमदशा सुखमिष्टान्नदा तथा ।
दुःखप्रदा भौमदशा राज्यादेः स्याद् विनाशिनी ॥५१॥
दिव्यस्त्रीदा बुधदशा राज्यदा कोषवृद्धिदा ।
शनेर्दशा राज्यनाशबन्धुदुःखकरी भवेत् ॥५२॥
गुरोर्दशा राज्यदा स्यात् सुखधर्मादिदायिनी ।
राहोर्दशा राज्यनाशव्याधिदा दुःखदा भवेत् ॥५३॥
हस्त्यश्वदा शुक्रदशा राज्यस्त्रीलाभदा भवेत् ।
मेषमंगारकक्षेत्रं वृषं शुक्रस्य कीर्तितम् ॥५४॥
मिथुनस्य बुधः क्षेत्रं सोमः कर्कटकस्य च ।
सूर्यक्षेत्रं भवेत् सिंहः कन्याक्षेत्रं बुधस्य च ॥५५॥
भार्गवस्य तुलाक्षेत्रं वृश्चिको मंगलस्य च ।
धनुर्बृहस्पतेः क्षेत्रं शनेर्मकरकुंभकौ ॥५६॥
मीनः सुरगुरोश्चेति क्षेत्रेष्टं लाभदं क्रये ।
पौर्णमास्याद्वयं यत्र पूर्वाषाढाद्वयं भवेत् ॥५७॥
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ।
अश्विनी रेवती चित्रा धनिष्ठा स्यादलंकृतौ ॥५८॥
मृगाऽहिकपिमार्जारश्वानः शूकरपक्षिणः ।
नकुलो मूषिकश्चैव यात्रायां दक्षिणे शुभाः ॥५९॥
विप्रकन्या शवं हस्ती शंखो भेरी वसुन्धरा ।
वेणुः स्त्री पूर्णकुम्भश्च यात्रायां शुभदर्शनाः ॥६०॥
जम्बुकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ।
कार्पासौषधितैलानि पक्वांगारभुजंगमाः ॥६१॥
मुक्तकेशी रक्तमाला नग्नश्चाऽशुभलक्षणाः ।
हिक्का पूर्वे फलदा चाऽग्नेये सन्तापशोकदा ॥६२॥
दक्षिणे हानिदा शोकसन्तापदा तु निर्ऋते ।
मिष्टान्नदा पश्चिमे तु वायव्येऽर्थप्रदा मता ॥६३॥
उत्तरे कलहा चेशाने तु मृत्युप्रदा भवेत् ।
सूर्यं नरस्वरूपं तु विलिख्य तस्य ऋक्षकम् ॥६४॥
तदादित्रयमास्थेयं मस्तके त्रयमानने ।
एकैकं स्कन्धयोर्बाहुयुग्मे च हस्तयोर्न्यसेत् ॥६५॥
हृदये पञ्च नाभौ त्वेकं गुह्ये चैकमित्यपि ।
एकैकं जानुके शिष्टानि तु पादे नियोजयेत् ॥६६॥
चरणस्थेन ऋक्षेण त्वल्पायुर्जायते नरः ।
विदेशगमनं जानौ गुह्यस्थे परदारवान् ॥६७॥
नाभिस्थेनाऽल्पसन्तुष्टो हृत्स्थेन तु महेश्वरः ।
पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद् भुजे ॥६८॥
स्कन्धस्थेन धनपतिर्मुखे मिष्टान्नमाप्नुयात् ।
मस्तके पट्टवस्त्राढ्यश्चेति तदृक्षवत्फलम् ॥६९॥
सप्तमोपचयश्चन्द्रः श्रेष्ठः शुक्ले द्वितीयजः ।
पञ्चमो नवमश्चापि लाभदः संभवत्वपि ॥७०॥
चन्द्रस्य द्वादशाऽवस्था भवन्ति शृणु पद्मजे ।
आश्विन्यास्तु समारभ्य त्रित्रिऋक्षेषु वै दशा ॥७१॥
सार्धद्वयेषु बोध्या प्रथमा तु प्रवासदा ।
द्वितीया हानिदा चापि तृतीया मृत्युदा मता ॥७२॥
चतुर्थी जयदा हास्यप्रदा तु पञ्चमी दशा ।
षष्ठी क्रीडारतिदा सप्तमी सुखमोददा ॥७३॥
अष्टमी शोकदा भोगप्रदा तु नवमी दशा ।
दशमी ज्वरदा कम्पप्रदा चैकादशी दशा ॥७४॥
सुस्थितिदा द्वादशी च दशातुल्यं फलं मतम् ।
जन्मस्थः कुरुते तुष्टिं द्वितीये सुखनाशकः ॥७५॥
तृतीये राज्यसम्मानं चतुर्थे कलहप्रदः ।
पञ्चमे स्त्रीप्रदः षष्ठे धनधान्यप्रदो भवेत् ॥७६॥
सप्तमे रतिपूजादोऽष्टमे प्राणसन्देहकृत् ।
नवमे कोषसञ्चयप्रदो दशमे सिद्धिदः ॥७७॥
एकादशे जयदश्च द्वादशे मृत्युदः शशी ।
कृत्तिकादौ पूर्वयात्रां सप्तक्षाणि तु संव्रजेत् ॥७८॥
मघादौ दक्षिणे गच्छेदनुराधादौ पश्चिमे ।
धनिष्ठादिसप्तसु यात्रोत्तरे श्रेष्ठा मता सदा ॥७९॥
अश्विनी रेवती चित्रा धनिष्ठा वेषधारणे ।
मृगाऽश्विचित्रापुष्याश्च मूला हस्ता शुभास्तु वै ॥८०॥
कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्मसु ।
शुक्रचन्द्रौ तु जन्मस्थौ शुभदौ सर्वदा मतौ ॥८१॥
चन्द्रबुधगुरुशुक्राः शुभदा वै द्वितीयके ।
तृतीये भौममन्दार्कशशांकाः शुभदा मताः ॥८२॥
बुधश्चतुर्थके श्रेष्ठः शुक्रगुरू तु पञ्चमौ ।
चन्द्रकेतू तथा श्रेष्ठौ पच्चमौ परिकीर्तितौ ॥८३॥
शनिश्चार्कश्च भौमश्च षष्ठे श्रेष्ठा मताः सदा ।
गुरुश्चन्द्रः सप्तमे च बुधः. शुक्रस्तथाऽष्टमे ॥८४॥
नवमे तु गुरुः श्रेष्ठो दशमेऽर्काऽर्किचन्द्रकाः ।
एकादशे ग्रहाः सर्वे द्वादशे बुधभार्गवौ ॥८५॥
सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः ।
तुलया सह मीनस्तु कुंभेन सह कर्कटः ॥८६॥
धनुषा वृषभः श्रेष्ठो मिथुनेन तु वृश्चिकः ।
एवं प्रीत्यै भवत्येव सर्वं शुभफलप्रदम् ॥८७॥
उदयादेव चारभ्य सूर्यो राशौ प्रतिष्ठति ।
अह्नि षट्सु निशि षट्सु रात्रीषु संप्रवर्तते ॥८८॥
घटिकाः पञ्च मीने च मेषे चापि तथाविधाः ।
वृषे कुंभे चतस्रश्च तिस्रो मिथुने नक्रके ॥८९॥
पञ्च चापे कर्कटे च षट् सिंहे वृश्चिके तथा ।
सप्त तुले च कन्यायां घटिका परिकीर्तिताः ॥९०॥
मेषलग्ने भवेद् वन्ध्या वृषे भवति कामिनी ।
मिथुने सुभगा कन्या वेश्या भवति कर्कटे ॥९१॥
सिंहे चैवाऽल्पपुत्रा सा कन्यायां रूपसंयुता ।
तुलायां रूपमैश्वर्यं वृश्चिके कर्कशा भवेत् ॥९२॥
सौभाग्यं धनुषि स्याच्च मकरे नीचगामिनी ।
कुंभे चैवाल्पपुत्रा च मीने वैराग्यसंयुता ॥९३॥
तुला कर्कटको मेषो मकरः स्थिरचारिणः ।
पञ्चाननो वृषः कुम्भो वृश्चिकश्च स्थिरा मताः ॥९४॥
कन्या धनुश्च मीनश्च मिथुनं द्विस्वभाविनः ।
यात्रा चिरेण कर्तव्या प्रवेष्टव्यं स्थिरेण ह ॥९५॥
देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ।
नन्दा भद्रा जया श्रेष्ठा रिक्ता वर्ज्या तिथिः सदा ॥९६॥
नन्दा प्रतिपत् षष्ठी चैकादशीति तिथित्रयम् ।
भद्रा द्वितीया सप्तमी द्वादशीति तिथित्रयम् ॥९७॥
जयाऽष्टमी तृतीया च त्रयोदशी तिथित्रयम् ।
रिक्ता चतुर्थी नवमी चतुर्दशी तिथित्रयम् ॥९८॥
पूर्णा पञ्चमी दशमी पूर्णिमा ताः शुभा मताः ।
बुधश्चरो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः ॥९९॥
शनिश्च दारुणो भौम उग्रः शशी समोऽपि च ।
चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः ॥१००॥
दारुणोग्रैश्च योद्धव्यं विजयः स्यान्न संशयः ।
नृपाऽभिषेकोऽग्निकार्यं सोमवारे प्रशस्यते ॥१०१॥
सोमे तुले प्रयाणं च गृहं च भवनादिकम् ।
सैनापत्यं शौर्ययुद्धं शस्त्राभ्यासः कुजे शुभः ॥१०२॥
सिद्धिकार्यं च मन्त्रश्च यात्रा चेति बुधे शुभाः ।
पठनं देवपूजा च वस्त्राद्याभरणं गुरौ ॥१०३॥
कन्यादानं गजारोहः स्त्रीसंगो भार्गवे शुभाः ।
स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभाः ॥१०४॥
इत्येवं सर्वमालक्ष्य कार्यारम्भं प्रवर्तयेत् ।
भुक्तिर्मुक्तिर्भवेच्चापि पठनाच्छ्रवणाद् रमे! ॥१०५॥
नक्षत्राणि च योगिन्यस्तिथयो योगका अपि ।
दशाश्चापि शकुनानि हिक्का स्थानानि वै तथा ॥१०६॥
लग्नानि घटिका सर्वं मत्स्वरूपं विभावय ।
यथापुण्यं देहिनो वै तथा समुपतिष्ठते ॥१०७॥
अहं लक्ष्मि स्मृतस्तत्र पूजितो भोजितोऽपि च ।
सेवितो वन्दितः प्रसादितश्च परिचारितः ॥१०८॥
करोमि सर्वं सद्भाग्यं दुःस्थं सुस्थं करोमि च ।
मां विज्ञाय च सर्वत्र कार्यध्वंसो न विद्यते ॥१०९॥
सर्वं भक्तस्य सफलं नास्तिकस्य तु निष्फलम् ।
आत्मवतः फलं श्रेष्ठं चानात्मनः कनिष्ठकम् ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नक्षत्रयोगिनीतिथियोगदशाशकुनहिक्कास्थानलग्नघटिकाविशेषे कार्याकार्यफलाऽफलादिनिरूपणनामा त्रिपञ्चाशदधिकशततमोऽध्यायः ॥१५३॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP