संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं ततोऽपि चाऽष्टमे पुनः ।अजस्य नियमाख्ये वत्सरे कल्पे तु पञ्चमे ॥१॥सप्तमे तु मनौ वर्तमाने तत्र तदाऽप्यहम् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥२॥मानावानां सुखार्थं वै तदा प्रकटितोऽभवम् ।पाताले त्वेकदा नागाः कामरूपधराः प्रिये! ॥३॥संकर्षणं प्रीणयितुं महारुद्रं प्रचक्रिरे ।यज्ञे तत्र महारुद्रे फणाध्राणा कुलानि वै ॥४॥द्वापञ्चाशत्सहस्राणि संहतानि तदाऽभवन् ।कृष्णा रक्तास्तथा चित्राः श्वेताः श्वित्राश्च कर्बुराः ॥५॥नीलाः पीताश्च हरिताः स्वस्तिकाश्चन्द्रकास्तथा ।पट्टिशा द्विफणाश्चापि त्रिफणाश्च चतुःफणाः ॥६॥शताननास्तथा नागाः सहस्रफणिनोऽपरे ।नागराजाः कर्कटकाः शीतला डिण्डिमास्तथा ॥७॥भूफिण्डाद्याः कोडिफाश्च पाण्डुराः पण्डकास्तथा ।शूलका दण्डकाश्चापि द्विमुखा दिव्यचाक्षुषाः ॥८॥ओंकारास्तिलवर्णाश्च पारडङ्काः कणाशनाः ।तिर्यग्धाराः सूत्रधारा मुद्रपृष्ठा द्विपृष्ठकाः ॥९॥द्विजिह्वा बहुजिह्वाश्च बहुदंष्ट्रा विषालयाः ।कालकूटाः समणयः कार्दमिकाश्च वार्शयाः ॥१०॥आनलिकाश्चानिलका मारुच्छ्रयाः सपक्षकाः ।उग्रकाः शान्तदासाश्च माहालस्या विडम्बिनः ॥११॥इत्येवं बहुजातीयाः कणाध्राः संहतास्तदा ।संकर्षणं यज्ञदेवं निजेष्टं चानलाननम् ॥१२॥ईजिरे तोषयामासुर्मिष्टाहुतिभिरुत्सुकाः ।सहस्रदिवसं नैजं यज्ञं नियमतो व्यधुः ॥१३॥गुरुस्तेषां स्वस्तिकोऽभूत् शेषोऽभून्नृपतिस्तदा ।अग्रगण्यो यजमानश्चान्ये पुण्याश्च ऋत्विजः ॥१४॥पातालीयानि मिष्टानि सामुद्राणि रसानि च ।फलान्यारण्यजन्मानि पार्थिवान्यदनानि च ॥१५॥कणाँश्च सस्यजाँश्चापि कन्दाँश्चौषधिशाखिनः ।समिधश्च विविधा वै गुन्द्राणि विविधानि च ॥१६॥भूविकाराणि सर्वाणि भोज्यानि हव्यकानि च ।व्रताऽऽदनानि योग्यानि जुहुवुस्तत्र चाध्वरे ॥१७॥संकर्षणो महादेवो निजमण्डलमण्डितः ।पातालीयसुराढ्यश्च गारुडैः सुरकोटिभिः ॥१८॥सुराणीभिश्च सहितस्तृप्तिं परां मखे ययौ ।प्रत्यक्षोऽभूद् रुद्ररूपधरस्तत्रान्तिमे दिने ॥१९॥पूर्णाहुतौ पायसाद्यैर्वृतैस्तिलैश्च पिष्टकैः ।मिष्टरसैः क्रियमाणायां कट्वोषधिभिस्तदा ॥२०॥प्रसन्नोऽस्मीत्याह सर्पान् तृप्तोऽस्मीति पुनः पुनः ।वरं वृणुध्वं सुखिनो भवन्त्वित्याह तान्पुनः ॥२१॥तदा राजा प्रजाद्यास्ते सर्पा ययाचिरे ततः ।वयं वै मानवे लोके भवामो राज्यभागिनः ॥२२॥कर्म कृत्वा प्रयास्यामो मुक्तिं स्वर्गं परं लयम् ।देह्येवं वरदानं चेत् प्रसन्नोऽसि सुकर्षणः ॥२३॥वरयोग्याः स्म च विष्णो सकर्षण निजेष्टद! ।संकर्षणो विचार्यैव क्षणान्तरे जगाद तान् ॥२४॥आरण्यवासाः सततं महारण्यनिवासिनः ।भवन्तु राज्यभोक्तारः पृथ्व्यां सुरसभोगिनः ॥२५॥मा मानवान् भूनिवासानुद्वेजयन्तु वै क्वचित् ।इत्येवं नियमं कृत्वा वरं ददामि वो द्विजाः ॥२६॥एवं वै वर्तमानेषु भवत्सु सुखमुत्तमम् ।भविष्यति सुखं यान्त्वभ्युदयं सततं द्विजाः ॥२७॥इत्युक्त्वा च हविष्यान्नं पूर्णाहुतिस्वरूपकम् ।लब्ध्वा संकर्षणो देवः ससुरोऽदृश्यतां ययौ ॥२८॥अथ नारायणीश्रि! वै ततस्ते फणिनोऽपि वै ।बलिनो वरदाने न सतृष्णा मानवे गुणे ॥२९॥मानवेषु च भोगेषु गृध्गिनो मोहमारिताः ।आययुर्वायुविवरैर्भूलोकं वै समन्ततः ॥३०॥कामरूपधराः सर्वे नरा नार्यो हि मानवाः ।सर्पाकृतयो नैवैषां सन्ति यदाऽऽगता भुवि ॥३१॥प्रच्छन्नास्ते मानवेषु वर्तन्ते च वसन्ति च ।हर्तुं राज्यानि भोगांश्च कापट्यभृत्यकर्मिणः ॥३२॥सर्वत्र भूतले ते वै रूपसौन्दर्यशालिनः ।नागाश्चापि च नागिन्योऽभवन् भृत्यक्रियापराः ॥३३॥राजसु श्रेष्ठिषु विप्रवर्गेष्वमात्यसेविषु ।सत्तावत्सु प्रधानेषु गृहिष्वप्यवसँश्च ते ॥३४॥भृत्या दासास्तथा दास्यो भूत्वा वर्णानुकारिणः ।विवाहिताश्च कन्या वै मिथो मानवयोनिभिः ॥३५॥समूहुर्मानवकन्या नागाश्च नररूपिणः ।एवं सम्बन्धमापन्ना लब्ध्वाऽवसरमेव ते ॥३६॥दशन्ति स्म नरान् रात्रौ निद्रावशान् क्वचित् क्वचित् ।म्रियन्ते संदंशिताश्च नृपा राज्ञ्यश्च सर्वथा ॥३७॥श्रेष्ठिनश्च धनाढ्याश्च सर्वे वर्णेषु सत्तमाः ।रिक्तं स्थलं च सम्पत्तिं निजां कृत्वा च ते ततः ॥३८॥भुंजते स्मोरगाः कामरूपध्राः पृथिवीश्वराः ।संकर्षणस्य वचनं नानुष्ठितं हि तामसैः ॥३९॥स्वार्थपरैश्छद्मधरैः प्रच्छन्नभोगतत्परैः ।एवं तैर्मानवी सृष्टिः प्रायशो वै विनाशिता ॥४०॥प्रच्छन्नदंशदोषैश्च निजस्वार्थपरायणैः ।नागजातीयुगप्ताऽपि निजसृष्टिर्विवर्धिता ॥४१॥मानवानां क्रियाः सर्वा देवाराधनमित्यपि ।लुप्तं लुप्तं यज्ञकार्यं सन्ध्या लुप्ता तथाऽऽहुतिः ॥४२॥श्राद्धं लुप्तं तथा दानं दमो लुप्तश्च मानुषः ।ऋषीणां गोत्रसंकल्पास्तथा लुप्ताः समन्ततः ॥४३॥संस्कारा मानवा लुप्ता उद्भूताश्चोरगक्रियाः ।व्रतानि चापि लुप्तानि लुप्तमावाहनादिकम् ॥४४॥अर्घं लुप्तं रवेश्चापि वैश्वदेवो लयं गतः ।प्रेतकार्यं तथा लुप्तं देवालया निरर्हणाः ॥४५॥कथांशाश्च लयं प्राप्ता विप्रा नृपा मृताः खलु ।ब्रह्मचारिनिवासाश्च गुरुवासा लयं गताः ॥४६॥सत्यः साध्व्यो मृताश्चापि मारिता नागकोटिभिः ।साधवोऽपि मृताश्चाप्यावासा ग्रामाः पुराणि च ॥४७॥अमानवास्तु ते जाता नागकोपैः समन्ततः ।प्रवराणां च नामानि लयं गतानि वासिषु ॥४८॥न ज्ञायन्ते जनैश्चैतत् कुत एवं व्यजायत ।अथ देवा यज्ञहीनाः पितरस्तृप्तिवर्जिताः ॥४९॥शतवर्षे गते कालेऽविचार्यन् समाहिताः ।कुत एवं कथं जातं नास्तिक्यं भूतलेऽशुभम् ॥५०॥मानवानां शतं वर्षाणां गतं भूतलेऽपि नः ।आमन्त्रणावाहनादि नैव भवति वै कथम् ॥५१॥दृष्ट्या तु दिव्यया वीक्ष्य ज्ञातवन्तो नरा मृताः ।सर्पा राज्यानि कुर्वन्ति प्रजाः सर्पात्मिका अपि ॥५२॥कामरूपधराः सर्पा नागिन्यो योषितैस्तथा ।इष्टरूपप्रधारिण्यो भुञ्जते भूमिसम्पदः ॥५३॥एतज्जातमनिष्टं वै धर्मकर्मविवर्जितम् ।तिर्यञ्चस्तामसाः सर्पाः प्रच्छन्नछद्मकारिणः ॥५४॥भुञ्जते मानवान् भोगान् देवर्ष्युन्नतिघातिनः ।मानवानां बहुधा वै घातो जातः पुरादिषु ॥५५॥वसत्यादौ न विद्यन्ते मानवाः फणिनोऽन्तरा ।अरण्यादौ प्रविद्यन्ते मानवा विरलाः क्वचित् ॥५६॥ते त्वस्माभिश्चेतनीया नागेभ्यो मरणं प्रति ।नागानां मारणोपायान् बोधनीयाश्च प्रत्यपि ॥५७॥इत्यभिमन्त्र्य कमले! आययुस्ते भुवस्तलम् ।इलावृत्तं मध्यखण्डं चारण्यानीसमन्वितम् ॥५८॥यत्राऽऽसते द्विजाः शुद्धास्त्वरण्ये सर्पवर्जिताः ।गारुडाश्चाप्यथर्वज्ञा होमकर्मपरायणाः ॥५९॥ऋषीन् देवान् प्रविलोक्य द्विजाः स्वागतमाचरन् ।मधुपर्कं प्रदायैवाऽऽगमने हेतुमित्यपि ॥६०॥जिज्ञासवः समपृच्छन् देवास्तदाऽवदन्नभि ।विजानन्तु द्विजाः सर्वे मानवा नागकोटिभिः ॥६१॥मृताः सर्वे विषयोगैर्म्रियन्तेऽपि दिने दिने ।नागा मानवरूपास्ते संकर्षणवराद् भुवि ॥६२॥समागत्य हि वर्तन्ते मारयित्वा तु मानवान् ।भुञ्जाना मानवान् भोगान् मोदन्ते छद्मवर्तिनः ॥६३॥धर्मकर्माराधनावाहनार्हणाऽर्पणादिकम् ।दैवं पैत्र्यं तथा सौर्यं विनिष्टं कर्म जातकम् ॥६४॥भवन्तोऽरण्यवासाश्च जीवन्तीति हरेः कृपा ।यत्र नागा न चायता दिष्ट्या यूयं हि जीवथ ॥६५॥नागानां मारणोपायानाथर्वणगतान् मनून् ।जपित्वा नागसृष्टीनां भूमौ कुर्वन्तु संक्षयम् ॥६६॥नागयज्ञं प्रकुर्वन्तु सार्वभौमा द्विजास्त्विह ।आराधयन्तु लोकेशं परमेशं क्रतौ तथा ॥६७॥परब्रह्माऽक्षरातीतं श्रीपतिं पुरुषोत्तमम् ।निजरक्षां प्रकुर्वन्तु द्रावयन्तूरगानितः ॥६८॥इत्युक्त्वा पितरो देवाः प्रययुर्निजमन्दिरम् ।विप्र।श्चेरावृतखण्डस्थिता यज्ञं प्रचक्रिरे ॥६९॥तत्र गारुडसंज्ञो वै निष्णातोऽथर्वकर्मसु ।होताऽभवत् तदा यज्ञेऽन्ये विप्रा हवनं व्यधुः ॥७०॥अथ सर्पाः पतन्त्येव न च यज्ञे विकर्षिताः ।असमर्थास्तु ते मन्त्रा ऊचुर्विप्रान् समाहिताः ॥७१॥आराधयन्तु देवेशेश्वरेश्वरेश्वरेश्वरम् ।स वै युष्मद्धितं विप्राः करिष्यति परेश्वर ॥७२॥इत्युक्तास्ते द्रुतं लक्ष्मि! ब्रह्मसत्रं प्रचक्रिरे ।गारुडाख्यद्विजस्यैव गुहे सहस्रभूसुराः ॥७३॥तत्र तूर्णं हरिश्चायादक्षराधिपतिः प्रभुः ।योऽहं सोऽहं त्वया साकं श्रीपतिः पुरुषोत्तमः ॥७४॥गारुडस्य गृहमध्ये पश्यतां द्विजयोगिनाम् ।शंखचक्रगदापद्मधरो मन्त्रैः प्रसेवितः ॥७॥मूर्तिमद्भिस्तथा वेदैर्युक्तस्तत्राऽभवं पुरः ।वीक्ष्योत्थाय द्विजा मह्यं नेमुः स्वागतमाचरन् ॥७६॥आसनं मधुपर्कं च ददुः पाद्यं समर्हणम् ।सर्वे निवेदयामासुः कष्टं मानवनाशनम् ॥७७॥अहं स्वस्तीत्युवाचैतान् गतं भयं च वोऽधुना ।कुर्वन्तु सर्पसत्रं वै नियुञ्जन्तु मनूनिमान् ॥७८॥इत्युक्ता गारुडा विप्रा मम वाक्येन नोदिताः ।नागसत्रं व्यधुस्तूर्णं जगुर्मन्त्रान् फणाहनः ॥७९॥ओम्मामर्त्त्यसदोर्व्विमर्त्यसदोव्विस-र्पिणोऽथाप्यसर्पिणोग्गरसञ्जुषः ।ओम्मिषम्मृतङ्कल्मषिणोऽम्भूजुषिणोऽन्वभुजिनो-ऽवपतन्त्विह हवींषि जुह्म ओम् ॥८०॥ओम्व्विषसिणो दन्न्तग्गारिणो न्नृहणिनो-ऽनृजुसरिणोद्धर्महणो व्वप्पतन्त्विह ।ओं शतरस्रविणोऽब्धिरस्रविणोऽप्यनुग्क्षरन्न्त्विहरौद्द्रकार्च्चिष्षु व्वापतन्न्त्विह ॥८१॥ओं शम्मृतिजुषोऽतिम्मृतिजुषोतिफ्फणिजुषो-ऽतिप्पुषिजुषोव्वाभिप्पतन्न्त्विह ।ओम्भूतिञ्जुषोऽतिन्नतिञ्जुषोऽश्छद्मञ्जुषो-ऽधिप्पतिञ्जुषोम्भितष्पतन्न्त्विह ॥८२॥इतिमन्त्राञ्जगुस्तत्र गारुडा भूसुरास्तदा ।जुहुवुः क्रूरबीजाद्यैर्नागानामन्त्र्य मन्त्रकैः ॥८३॥आसमुद्रान्तभूभागादागत्यागत्य चाम्बरात् ।नागाः पतन्ति कुण्डे वै तदा क्ष्वेडानलोल्बणे ॥८४॥सहस्रशो मृता दग्धाः शेषा बद्धाश्च रज्जुभिः ।मन्त्रबद्धा न वै शक्ताश्चात्मानं मोक्तुमेव ते ॥८५॥अथ बद्धोऽनन्तशेषस्तुष्टाव मां परेश्वरम् ।रक्ष नाथ कृपासिन्धो मोचयाऽस्मान् महानलात् ॥८६॥स्थास्यामो न क्षितौ कृष्णनारायण परेश्वर ।शरणे पतिताम् रक्ष जीवदानं प्रदेहि नः ॥८७॥अनन्तशेषो भक्तोऽस्मि सदा तेऽहं जनार्दन ।इत्युक्तोऽहं तदा प्राहाऽनन्तं भूस्थान् फणाधरान् ॥८८॥सर्वजातीयनागाँस्त्वं नीत्वा याहि ह्यधस्तलम् ।मा पुनश्चात्र वै लोके मानवे स्वपदं कुरु ॥८९॥इत्युक्तः स्वीचकारैव सर्वं मया प्रमोचितः ।सर्पाः सर्वे मोचिताश्च मृत्युमुखाद्धि गारुडात् ॥९०॥अनन्तो मम भक्तश्च पुपूज मां परेश्वरम् ।तदा त्वं जानकीजन्ये शेषपुत्री तदाऽभवः ॥९१॥आनन्ती त्वं च शेषेणाऽर्पिता मह्यं हि दक्षिणा ।तदाऽऽथर्वणगारुडद्विजपुत्राय शार्ङ्गिणे ॥९२॥रक्षिणे नागसर्पाणां श्रीशाय परमात्मने ।अथ यज्ञो नियमितो मया परिहृतस्तदा ॥९३॥शेषः सर्पकुलान्येव सर्वभूतलगानि वै ।नीत्वा ययौ बिलान्येव पातालाख्यानि वै तदा ॥९४॥मानवोऽयं ततो लोको गरहीनो मया कृतः ।अथेलावृत्तखण्डस्थान् मानवान् सर्वभूमिषु ॥९५॥अवासयं चाऽकरवं बहुवंशयुताँस्तथा ।पुनर्वै मानवं वर्षं मानवः संभृतं ततः ॥९६॥दैवपैत्र्यपराः सर्वे मम योगेन भूसुराः ।बभूवुर्बहुविज्ञाश्च स्वस्तिमन्तश्च देवताः ॥९७॥अनादिश्रीगरुत्मन्नारायणोऽहं तदाऽभवम् ।आनन्ती त्वं मम पत्नी शेषकन्या तदाऽभवः ॥९८॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।अवतारी स्वयं तत्र प्राकट्यं कृतवान् मम ॥९९॥ततोऽवतारा बहवस्तद्वर्षे ब्रह्मणोऽभवन् ।वेद्म्यहं सर्वमेवैतत् स्मराऽऽनन्ति! पुराभवम् ॥१००॥भूलोके मानवानां वै तदा रक्षा मया कृता ।त्वया साकं ततश्चाकल्पान्तं स्थिरोऽभवँस्ततः ॥१०१॥पठनाच्छ्रवणाच्चास्य कीर्तनात्स्मरणादपि ।नागभीर्जायते नैव भुक्तिर्मुक्तिर्भवेत्तथा ॥१०२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टमवत्सरे सर्पाणां शासनार्थम् भूमावनादिगरुत्मन्नारायणस्य प्राकट्यमितिनिरूपणनामा षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP