संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं वच्मि मनुं चतुर्दशम् ।इन्द्रसावर्णिनामानं भौत्यं भूते सुतं शुभम् ॥१॥बभूवाङ्गिरसः शिष्यो भूतिर्नाम्नाऽतिकोपनः ।चण्डः शापप्रदश्चाल्पेप्यर्थे कठोरवाग् रुषा ॥२॥एवंविधं तु तं ज्ञात्वा भीत्या तस्याऽऽश्रमान्तिके ।केऽपि नैव प्रयान्त्येव देवा अपि तु बिभ्यति ॥३॥अत एव मातरिश्वा न ववावतिनिष्ठुरः ।नातिपापं रविश्चक्रे पर्जन्यो नातिकर्दमम् ॥४॥नातिशीतं च शीतांशुर्वह्निर्नातीव दह्यति ।अपि वृक्षास्ततो भीता वल्लयश्च तृणादयः ॥५॥अनृतावपि पुष्पादि फलादिस्मृद्धयोऽनिशम् ।भवन्त्येव च वर्तन्ते ऋतवोऽपि तदाश्रमे ॥६॥जलानि सरितस्तस्याश्रमसमीपगानि वै ।कमण्डलुगताश्चापि भवन्ति तद्भयाद् रमे ॥७॥एवंविधो हि भूतिः सोऽनपत्यः पुत्रकाम्यया ।तपस्तेपे बहुकालं शीतवाताऽनलाहतः ॥८॥यताहारः कृशोऽभूच्चाऽनवाप्याऽपि यथेप्सितम् ।न्यवर्तत तपसः सोऽभवन्मां परमेश्वरम् ॥९॥तमेकदाऽग्रजो भ्राता सुवर्चाख्यो निजे मखे ।समाजुहाव तेनाऽसौ यियासुर्निजशिष्यकम् ॥१०॥शान्तिधर्माभिधं चाह गच्छामि चाग्रजाऽध्वरम् ।प्रति जागरणं वह्नेस्त्वया कार्यं ममाश्रमे ॥११॥यथाग्निर्न शमं यायात्तथाश्रमं च भालय ।इतिशिष्यं समाज्ञाप्य भ्रातुर्यज्ञं ययौ हि सः ॥१२॥अथ शान्तिः समित्पुष्पफलाद्यर्थं वनं ययौ ।आगत्य चाश्रमसेवां कुरुते मार्जनादिकम् ॥१३॥यावत्समित्प्रदानार्थं वह्निशालां ययौ हि सः ।तावच्छान्तोऽनलस्तं तु दृष्ट्वा चिन्तापरोऽभवत् ॥१४॥भूतेर्भयाच्चातिभीतः शुशोचाऽत्यन्तदुःखितः ।किं करोमि मया किं च प्रतिपत्तव्यमत्र वै ॥१५॥प्रशान्ताग्निमिमं धिष्ण्यं यदि पश्यति मे गुरुः ।ततो मां विषमे तूर्णं व्यसने स नियोक्ष्यति ॥१६॥यदन्यमग्निमत्राऽहमग्निस्थाने करोमि चेत् ।गुरुः प्रत्यक्षदृग् ज्ञात्वा मां भस्म प्रकरिष्यति ॥१७॥सोऽहं जातो गुरोस्तस्य निमित्तं कोपशापयोः ।दृष्ट्वा प्रशान्तमनलं नूनं शप्स्यति मां गुरुः ॥१८॥अथवा पावकः क्रुद्धोऽवश्यं धक्ष्यति मां तदा ।अस्तु जातं तु तज्जातं नाऽजातं तद् भविष्यति ॥१९॥उपायस्तत्र कर्तव्योऽपराधस्य प्रशान्तये ।यस्याऽपराधस्तस्यैवाऽभ्यर्थना तु क्षमात्मिका ॥२०॥कर्तव्याऽत्र मया सोऽयं धर्मोऽत्र प्रथमो मम ।विचार्येत्थं स मतिमान् वह्रिस्तोत्रं जगौ तदा ॥२१॥शरणं पावकं गत्वा त्वेकचित्तः स्तवं व्यधात् ।'ओं नमोऽनन्तशक्त्युग्रशक्त्यात्मने हरेः प्रभोः ॥२२॥ओं नमः सर्वलोकानां मखसाधनमूर्तये ।एकद्विपञ्चधिष्ट्याय राजसूये षडात्मने ॥२३॥प्रत्यक्षदेवरूपाय नमस्ते देववृत्तये ।सर्ववर्ष्मवतां शुक्ररूपाय बलिने नमः ॥२४॥त्वं मुखं सर्वदेवानामीश्वराणां हरेरपि ।त्वं पाकः सर्वभूतानामन्नानां रसिनां तथा ॥२५॥हुतं हविर्भक्षयँस्त्वं मेघत्वाय करोषि वै ।वृष्टिरूपं तु तद् भूत्वौषधिव्रातान् प्रपुष्यति ॥२६॥तत्फलाद्यैर्भूतवासाः सुखं जीवन्ति जन्तवः ।तत्समिद्भिर्जना यज्ञान् प्रकुर्वन्ति सुरा अपि ॥२७॥दैत्याश्च राक्षसाश्चापि त्वदाधारा विभावसो ।जरायूजाश्चाण्डजाश्च स्वेदजा भूमिजा अपि ॥२८॥आप्यायन्ते त्वया सर्वे संवृध्यन्ते त्वयाऽनल ।संरक्ष्यन्ते त्वया सर्वे तथा मां परिरक्षय ॥२९॥देवेषु तैजसत्वं वै कान्ति सिद्धेषु वै भवान् ।विषं नागेषु चास्से त्वं वायुभागः पतत्रिषु ॥३०॥मनुजेषु पशुपक्षिगणे क्रोधो भवानपि ।अवष्टंभश्च तरुषु काठिन्यं त्वं क्षितावपि ॥३१॥जले द्रवो भवानेव जवो भवान् हि वायुषु ।व्यापकस्त्वं नभस्येव सर्वंभूतान्तरस्थितः ॥३२॥त्वमेकस्त्रिविधश्चाप्यष्टधा सहस्रधापि च ।स्वाहास्वधादिभिर्भोक्ता हव्यकव्यस्य वै भवान् ॥३३॥हेतिष्वापि भवानेव धारासु संविराजते ।जातवेदो नमस्तुभ्यं पिंगाक्ष ते नमोऽस्तु च ॥३४॥हुताशन नमस्तेऽस्तु नमस्ते हव्यवाहन ।पावकाऽद्य नमस्तेऽस्तु नमस्ते विश्वपावक ॥३५॥पाककर्तर्नमस्तेऽस्तु पोष्टस्ते च नमो नमः ।त्वं ज्योतिस्त्वं महादित्यो विभावसो नमोऽस्तु ते ॥३६॥हिरण्यरेता वह्निस्त्वं सप्तजिह्व नमोऽस्तु ते ।काली कराली च मनोजवा च लोहिता तथा ॥३७॥धूम्रा स्फुल्लंगिनी विश्वा सप्तजिह्वाः शुभास्तव ।कालनिष्ठाकरी चाद्या द्वितीया प्रलयंकरी ॥३८॥तृतीया लघिमाकार्या चतुर्थी कामकारिणी ।पञ्चमी रोगदा षष्ठी सर्वपुद्गलकारिणी ॥३९॥सप्तमी शर्मदा ज्वाला ताभ्यः पाहि महाभयात् ।पिंगाक्ष लोहितग्रीव कृष्णवर्णं हुताशन ॥४०॥त्राहि मां भयतो वह्ने कृशानो हव्यवाहन ।सामुद्रवाडवाख्यस्त्वं जाठरस्त्वं तु पाचनः ॥४१॥वैश्वानरः सोमपस्त्वं हविर्भुक् पाहि मां भयात् ।तवाऽर्चिभिः स्पृष्टमेतद् द्रव्यं शुचि प्रजायते ॥४२॥भस्मना ते शुचि सर्वं मां शुचिं त्व विधापय ।पिता पुत्र तथा मां त्वं रक्ष प्राप्तभयादिह ॥४३॥प्रकाशं स्वयमायाहि भक्तस्यात्र कृतेऽनल ।यथा मां न गुरुर्भूतिर्दहेच्छापेन रक्षय ॥४४॥एवं स्तुतोऽनलस्तस्य शान्तेरग्रे सुमूर्तिमान् ।प्रीतश्चागत्याह शान्तिं भयं मा ते गुरोर्मम ॥४५॥तुष्टोऽस्मि तव भक्त्याऽहं स्तोत्रेणापि वरं वृणु ।शान्तिः प्राह भयहीनो भवामि तव दर्शनात् ॥४६॥गुरुर्भूतिः समागत्य त्वां पश्यतु धिष्ण्यगम् ।ऽअपुत्रस्य गुरोः पुत्रो विशिष्टश्च भवत्वपि ॥४७॥इत्युक्तोऽनलदेवश्च प्राह प्रसन्नतान्वितः ।गुर्वर्थं वरदानं ते नात्मार्थं च त्वयार्थितम् ॥४८॥ततोऽधिकं प्रसन्नोऽस्मि तथाऽस्त्विति ददाम्यहम् ।मन्वन्तराधिपः पुत्रो भौत्यो नाम गुरोस्तव ॥४९॥चतुर्दशो महेन्द्रादिस्थाप्यः प्राज्ञो भविष्यति ।गुरुः शान्तिप्रियश्चापि भविष्यति न संशयः ॥५०॥अहं कुण्डे भवाम्येव ज्वालायुक्तः समित्सु च ।एतत्स्तोत्रेण मे स्तोता निष्पापो यज्ञपुण्यभाग् ॥५१॥उपद्रवविहीनश्च भविष्यति न संशयः ।इत्युक्त्वा भगवानग्निः कुण्डे तत्राऽवसद्धसन् ॥५२॥अथाऽऽजगाम भूतिश्च सौहार्दपूरितोऽभवत् ।पप्रच्छ शिष्यं हेतुं च सौहार्दस्य शमस्य च ॥५३॥शान्तिः सर्वं च वृत्तान्तं यथावत् प्राह भूतये ।प्रसन्नः स गुरुर्भूत्वा वेदान् शिष्याय वै ददौ ॥५४॥भौत्यो नाम मनुः पुत्रो भूतेस्तत्राप्यजायत ।शुचिरिन्द्रस्तथा देवा भौत्यं मनुं च जगृहुः ॥५५॥इन्द्रसावर्णिनामानं मन्वन्तरं च देवताः ।पुपूजुः सर्वथा तत्र पुष्पाक्षतसुचन्दनैः ॥५६॥एवं लक्ष्मि भविताऽयमिन्द्रसावर्णिनामकः ।सायं ततो मनुः सोऽयं कथितस्ते चतुर्दशः ॥५७॥मनून् श्रुत्वा शिवराज्ञीलक्ष्मि सन्ततिमुत्तमाम् ।सर्वकामान् धनं ज्ञानं बुद्धिं भार्यां सुरूपिणीम् ॥५८॥आरोग्यं च बलं पौत्रं पुत्रं माहात्म्यमुत्तमम् ।शुभं मतिं जयं ज्ञातिश्रैष्ठ्यं च लभते बहु ॥५९॥अरिनाशं सुराणां च प्रसन्नतां प्रविन्दति ।पापेभ्यश्चापि सर्वेभ्यो मुच्यते श्रवणादपि ॥६०॥श्रुतं धर्मं च सम्मानं स्वेष्टं लभते सम्पदः ।गाः पृथिवीं नृपतित्वं प्रधानत्वं च विन्दति ॥६१॥आयुष्यमुदयं चापि वैराग्यं लभते ततः ।आध्यात्मिक्युन्नतिं स्वर्गं श्रीमत्त्वं लभते तथा ॥६२।मनवस्तु मदंशास्ते मया निवासिता रमे ।तत्पूजा मम पूजैव तत्कथा मत्कथा मता ॥६३॥तत्र तेजो मया क्षिप्तं चक्रवर्तित्वदायकम् ।आराधनेन मे ते वै भक्ता मे मनवोऽभवन् ॥६४॥भविष्यन्त्यपरे चापि कल्पान्तरेषु तेऽपि च ।बभूवुश्चापि ये तेऽपि मदंशा मनवो मताः ॥६५॥मन्वाद्यतिथयः सर्वाव्रतात्मिकाः सुपुण्यदाः ।पवित्रा दानकर्तॄणां स्वर्गदा भूपतित्वदाः ॥६६॥इति लक्ष्मि मया प्रोक्तो मनूनामुद्भवस्तव ।ब्रूहि किं श्रोतुमिच्छा ते वर्तते तद् वदामि हि ॥६७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चतुर्दशस्य मनोराख्यानमितिनिरूपणनामा अष्टपञ्चाशदधिकशततमोऽध्यायः ॥१५८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP