संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७६ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७६ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-श्रुतिफला पुनः श्रुत्वा पप्रच्छ स्वामिनं पुनः ।कृतार्थाऽस्मि तथाऽप्येष गहनो ज्ञानमार्गणः ॥१॥नेदमल्पात्मना शक्यं वेदितुं वर्तितुं च वा ।बहु चाल्पं च संक्षिप्तं मुक्तिधर्मं वदाऽत्र मे ॥२॥एवं लक्ष्मि सद्विद्यायनर्षिः श्रुत्वा प्रियावचः ।सर्वासां योषितां चापि हितकृत्प्राह वै स्फुटम् ॥३॥अरणिः स्त्रीबुद्धिरूपा गुरुः पतिः परोऽरणिः ।तपःश्रतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥४॥बुद्धिर्नारी नरश्चात्मा दम्पतीति निगद्यते ।तयोरान्तरवासश्च परमात्मा परो गुरुः ॥५॥सर्वक्रियाभिरात्मात्मा तोषणीयो जनार्दनः ।नारीदेहस्थिताभ्यां नृस्थाभ्यां ताभ्यां तु वा सदा ॥६॥एषा संक्षेपतो विद्या ब्रह्मविद्या मयोदिता ।सा त्वं भवसि नित्यैव मुक्ता बुद्ध्या प्रवर्धिता ॥७॥अहं भवामि मुक्तश्च बुद्ध्या संवर्धितः सदा ।पतिश्चात्मा प्रिया बुद्धिस्ताभ्यां ब्रह्माऽभिगम्यते ॥८॥श्रुतिफला भवेद् बुद्धिः सद्विद्यायनश्चेतनः ।तयोरात्मा परब्रह्म लक्ष्म्यहं पुरुषोत्तमः ॥९॥मामुपाश्रित्य विज्ञानं मुक्तं दिव्यं प्रजायते!सद्विद्यायनकश्चात्मा महामुक्तः प्रजायते ॥१०॥शृणु लक्ष्मि कथयामि गुरुशिष्यकथां शुभाम् ।मुक्तिस्तोतायनाख्यस्य गुरोः शिक्षां सुतं प्रति ॥११॥सिद्धिवेशायनः शिष्यः पप्रच्छ स्वगुरुं प्रिये ।किंस्विच्छ्रेयः परं प्रोक्तं परः कश्चाऽपरश्च कः ॥१२॥कुतश्चाऽहं कुतस्त्वं च किं सत्यं परमं सुखम् ।कुतो जातानि भूतानि केन जीवन्ति जन्तवः ॥१३॥किं सत्यं च तपः किं च के गुणाः सद्भिरीरिताः ।के पन्थानः शिवाः स्युश्च किं सुखं शाश्वतं मतम् ॥१४॥एतत् सर्वं ब्रूहि विद्वन् येन मुक्तिः प्रजायते ।संसारभीरवो लोका मोक्षकामा भवन्ति च ॥१५॥गुरवस्तारकाः सन्ति मोक्षदा वै दयालवः ।शरणागतसंरक्षाकर्तारः पावना यतः ॥१६॥मुक्तिस्रोतायनः श्रुत्वा सिद्धिवेशायनस्य तत् ।मुमुक्षान्वितकोशाय शिष्यायोपादिदेश ह ॥१७॥शृणु सिद्धिवेश सर्वं कथयामि यथातथम् ।परमेशोपासना वै परं श्रेयो मतं मम ॥१८॥परः स एव भगवान् सर्वकारणकारणम् ।परब्रह्म परमात्माऽनादिकृष्णनरायणः ॥१९॥अनादिश्रीकृष्णनारायणः श्रीकृष्णमाधवः ।मायाऽक्षरादिशास्ता चाऽवतारकारणं प्रभुः ॥२०॥साधुस्वभावाः सन्न्यासाः स्वरूपाणि हरेस्तथा ।साधवश्चावताराश्चेश्वरा व्यूहाश्च तेऽपराः ॥२१॥अपरं चाक्षरं ब्रह्म मुक्ताश्चाप्यपरा हि ते ।अपराश्चापि सर्वे ये मुमुक्षवस्ततोऽपि च ॥२२॥आत्मानश्चापराः सर्वे बुभुक्षवः सतृष्णकाः ।आत्मतत्त्वं परं प्रोक्तमनात्म त्वपरं सदा ॥२३॥अहं जातो ह्यहंकारो महत्तत्त्वात् त्रिमायिकः ।त्वंभावोऽपि ततो जातो भेददृष्ट्या ह्यनात्मनि ॥२४॥अहं त्वं चेति निर्देशो मायिको न तु चात्मनः ।जायमानं महत्तत्त्वमहंकारमवासृजत् ॥२५॥अहंकाराद्भेदभावो भ्रान्तिरूपोऽस्ति सर्वथा ।तत्त्यागेऽहन्त्वममतात्यागे निजात्मनः सुखम् ॥२६॥परमात्मनाऽर्पितं भुंक्ते चात्मा तत्परमं सुखम् ।त्रिकालाऽबाध्यमेवैतच्छ्रीहरेर्योगतो हि तत् ॥२७॥सत्यं सुखं हि तत्प्रोक्तं भगवद्योगजं सदा ।न नाश्यं नापि हार्यं च न क्षय्यं न विशीर्यते ॥२८॥एतादृशं महानन्दसन्दोहात्मकमेव तत् ।तल्लब्ध्वाऽन्यन्निर्मनस्कं नीरसं जायतेऽत्र वै ॥२९॥तद्दाता भगवान् साक्षाच्छ्रीहरिः परमेश्वरः ।अनादिश्रीकृष्णनारायणः श्रीपतिरच्युतः ॥३०॥ततोऽवतारा जायन्ते हीश्वरा अपि वै ततः ।ईश्वर्यश्चापि तस्माद्वै माया ततः प्रजायते ॥३१॥ऋषयश्च तथा देवा मानवाः स्थावरादयः ।खनयंश्चापि सर्वा वै सर्वभूतानि देहिनः ॥३२॥जायन्ते श्रीहरेस्ते वै जीवन्ति तत्प्रवेशिताः ।आपूरकेण तत्त्वेन मायया सन्निवेशिताः ॥३३॥पराप्मनाऽऽन्तरव्याप्ता जीवन्ति तु चिराचिरम् ।जीवनं कर्मसंघातः पुण्यं पापं निजाऽर्जितम् ॥३४॥यावद्भवन्ति कर्मोत्थाऽदृष्टानि तावदेव ते ।जीवन्ति चाऽथ तन्नाशे म्रियन्ते देहिनः सदा ॥३५॥सत्यं ब्रह्म तु परमं सत्या मुक्तिः सदा मता ।सत्य आत्मा चिदानन्दः सत्या श्रीरनपायिनी ॥२६॥सत्यः धर्मः सतां नित्यो मोक्षदो यो निगद्यते ।तपः श्रेष्ठं हि साधुत्वं सन्न्यासस्तप उत्तमम् ॥३७॥सामर्थ्ये सति सहनं परमं तप उच्यते ।ज्ञानं विद्या तपः प्रोक्तं मोक्षदं तत् सदा भवेत्। ॥३८॥यो वेत्ति ब्रह्मसंवासं विवासं प्रकृतेस्तथा ।तथा चिदचितोर्भेदं स याति परमां गतिम् ॥३९॥यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते ।इह लोके स्थितश्चैव ब्रह्मभूयाय कल्पते ॥४०॥चिदानन्दस्य परमे कृष्णनारायणे मयि ।कृत्वा समर्पणं तिष्ठेन्मुच्यते नात्र संशयः ॥४१॥पुरा ब्रह्मर्षिभिर्ब्रह्मा पृष्टो नैःश्रेयसे परे ।कथं कर्म क्रियात् साधु कथं मुच्येत किल्बिषात् ॥४२॥के पन्थान शिवा नश्च कौ मार्गौ दक्षिणोत्तरौ ।श्रुत्वा जगाद तान् ब्रह्मा गुरुसेवां सदा क्रियात् ॥४३॥गुरवो मोक्षदातारः सन्तः साधुजनाः शुभाः ।पापप्रक्षालकाः सर्वे पुण्यशेवधिदायिनः ॥४४॥हिते चाऽप्रेरिता ये स्युस्ते सन्तो गुरवोऽमलाः ।तैर्दत्ता ये चोपदेशा ग्राह्यास्ते ते गुणा मताः ॥४५॥सत्त्वे चित्त्वे तथाऽऽनन्दे पुष्टिं यैश्चेतनो व्रजेत् ।ते गुणा दिव्यरूपा वै तदन्ये दुर्गुणा इति ॥४६॥गुणैः सम्प्रेरितश्चात्मा क्रियात् कर्म सुखावहम् ।परलोकप्रदं यद्वा परधामप्रदं शुभम् ॥४७॥परधामप्रद कर्म साधु साधुत्तमं मतम् ।परलोकप्रदं कर्म साधु साधुतरं मतम् ॥४८॥इह धर्मयुतं कर्म सत्कर्म साधु कथ्यते ।ब्रह्म सत्यं तपः सत्यं सत्यं च गुरुसेवनम् ॥४९॥सत्यं साधु निजं कर्म तेन मुच्येत किल्बिषात् ।तीर्थसेवा सतां सेवा पितृसेवा हि पावनी ॥५०॥आत्मज्ञानं हरेर्ज्ञानं भक्तिः किल्बिषनाशिनी ।मातृसेवा च गोसेवा सतीसेवा हि पावनी ॥५१॥देवभक्तिर्गुरोर्भक्तिः समाधिः किल्बिषापहा ।ब्रह्मचर्यं च सन्न्यासः सर्वकिल्बिषनाशकौ ॥५२॥गार्हस्थ्यं स्वर्गदं चापि मय्यर्पितं तु मोक्षदम् ।वानप्रस्थं विरागाणां मायावृत्तिविनाशकम् ॥५३॥श्रद्धालक्षणमित्येवं धर्मं ज्ञात्वा चरन्ति तम् ।दानं सेवा दक्षिणा च सत्यं पुण्यं च साधुता ॥५४॥परोपकारस्तीर्थानि देवयाना भवन्ति ते ।ज्ञानं विरागश्चैश्वर्यं ध्यानं समाधिरर्पणम् ॥५५॥मन्त्रजपोऽतिसन्तोषः सिद्धयाना भवन्ति ते ।उपासना परा भक्तिः प्रीतिश्चाराधना तथा ॥५६॥प्रपत्तिः शरणे पातो मुक्तियाना भवन्ति ते ।शिवाः सर्वे ते पन्थानो हरिः शिवतमः सदा ॥५७॥तत्सुखं शाश्वतं दिव्यं गत्वा धीरः समश्नुते ।नारायणमयो भूत्वा सर्वामृद्धिं समश्नुते ॥५८॥उक्तास्ते तु पन्थानः प्रोक्ताश्चाऽन्यांस्तथाऽपरान् ।दक्षिणान् गर्भदातॄँश्च कथयामि सुचक्रिणः ॥५९॥मानवं पुण्यमादाय देवो भवति वै चिरम् ।शेषमादाय चायाति मानवे दक्षिणे पथि ॥६०॥पापमादाय याम्यं वै राज्यं याति निवृत्तये ।शेषमादाय तिर्यक्षु ततो वा मानवे क्वचित् ॥६१॥एवं वै दक्षिणे मार्गे चतुरशीतिलक्षके ।आवर्तते चक्रवच्च दक्षिणो मार्ग एव सः ॥६२॥तत्र तत्त्वानि तिष्ठन्ति दक्षिणे देहमार्गके ।अव्यक्तं मूलमाया वै त्रिगुणात्मा प्रतिष्ठति ॥६३॥साम्यावस्थं पूर्वभागं विषमावस्थमुत्तरम् ।ध्रुवं चाऽऽपूरकं तत्त्वं स्थिरं प्रसवधर्मि च ॥६४॥गुणेभ्यो विषमेभ्यस्तु महत्तत्त्वं प्रजायते ।देहे बुद्धिस्वरूपं तत् स्त्रीरूपं वै चिदात्मनः ॥ ६५॥ततोऽहंकारनामा वै पुत्रस्त्र्यवस्थवर्तनः ।त्रिगुणो जायते सर्वदेहेष्वपि प्रवर्तते ॥६६॥तस्मात् प्रजायते सूक्ष्मभूतानीन्द्रियकाणि च ।मनोऽपि जायते तस्माद् व्योम प्राणस्ततोऽपि च ॥६७॥ततो तेजो जलं तस्मात् ततः पृथ्वी प्रजायते ।तानि सर्वाणि देहेऽत्र भवन्ति दक्षिणापथे ॥६८॥उद्घाटितनवद्वारं नद्धद्वारद्वयं तथा ।एकद्वाराऽधिकं यद्वा न्यूनद्वारादिकं च वा ॥६९॥षाट्कौशिकं पञ्चरूक्षं सुसूक्ष्मैकोनविंशतिम् ।सचेतनं चाष्टधर्मं बहुधर्मं सधर्मकम् ॥७०॥असमानधर्मवच्च कल्मषं मलिनं सदा ।त्रीणि स्रोतांसि धर्माणि चाप्यान्ते पुनस्त्विदम् ॥७१॥शुक्लकृष्णाऽशुक्लकृष्णात्मकानि संस्कृतानि च ।संस्कारैस्तानि नित्यं वै नवोद्भवानि सन्ति हि ॥७२॥सत्त्वं दीपो भवत्येव रजो गतिं ददाति हि ।तमो निरोधं कुरुते ह्येवं सक्रियमेव तत् ॥७३॥सत्त्वगुणे वर्तमाने प्रीतिरानन्द उत्सवः ।सुखं प्रकाश उदयश्चौदार्यं निर्भयत्वकम् ॥७४॥श्रद्धा क्षमा धृतिः सत्यं सन्तोषं आर्जवं तथा ।दया समता चाऽहिंसा शुद्धिर्दाक्ष्यं सुकर्मता ॥७५॥व्रतं सेवा परिचर्या ह्यकामो ह्रीस्तितिक्षणम् ।विश्वासश्चोपकारश्च त्यागस्तुष्टिः प्रमोदनम् ॥७६॥साधुवृत्तित्वमनघं शान्तं कर्म शुभेक्षणम् ।उपेक्षा ब्रह्मचर्यं च ममाऽहंकारवर्जिता ॥७७॥दानं मखोऽध्ययनं चेत्येते गुणास्तु सात्त्विकाः ।एभिर्गुणैर्धीरभावा जायन्ते साधुवृत्तयः ॥७८॥विशोका धर्मबहुलाः स्वर्गं यान्ति सुराश्च ते ।भूत्वेशित्वं वशित्वं च लघुत्वं लभते दिवि ॥७९॥ऊर्ध्वस्रोतस इत्येते देवाः श्रेष्ठा मता हि ते ।यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ॥८०॥अथ राजसभावान् वै कथयामि समासतः ।प्रवर्तनं व्यवहारश्चोत्साहो वेग उद्यमः ॥८१॥सन्तापो रूपमायासो दुःखमातप ऊर्ध्वता ।ऐश्वर्यं मेलनं हेतुवादो रतिर्बलं मदः ॥८२॥शौर्यं रोषश्च कलहः पिशुनं पालनं रणः ।ईर्ष्येप्सा बन्धनं घातो विक्रयश्च निकृन्तनम् ॥८३॥परच्छिद्रावमर्षश्च चिन्ता च मत्सरो मृषा ।निन्दा स्तुतिः प्रशंसा च विकल्पो धर्षणं तपः ॥८४॥शुश्रूषा च परिचर्या भृत्यता च परिग्रहः ।प्रमादः परिवादश्च नयो व्यूहो नमस्क्रिया ॥८५॥आशीर्वादाः पौर्त्तकर्म स्वाहास्वधावषट्ऽक्रियाः ।विद्या च मंगलं स्नेहो ममेदमितिलालसा ॥८६॥मानं माया जुगुप्सा च जागरः स्तैन्यमित्यपि ।दंभो दर्पोऽथ रागोऽपि भक्तिर्मोदश्च कामना ॥८७॥द्यूतं नृत्यं च गीतं चेप्येवमाद्यास्तु राजसाः ।धर्मोऽर्थः सम्पदश्चेति राजस्यो वै भवन्ति हि ॥८८॥तैर्गुणैः सहिता यान्ति धर्माद्यैश्वर्ययोजिताः ।अत्रैव मानवे लोके मोदन्ते मानवास्तु ते ॥८९॥परलोकं समीहन्ते तर्पयन्त्यपि जुह्वति ।ददति प्रतिगृह्णन्ति जायन्ते च पुनः पुनः ॥९०॥अथ ते तामसान् वच्मि गुणान् तमःसमुत्थितान् ।मोहो भयं च लोभश्च स्वप्नः स्तम्भः प्रदूषणम् ॥९१॥अत्यागश्चाप्यथाऽज्ञानं डोळनं स्मृतिविभ्रमः ।नास्तिक्यं भेदवृत्तिश्चाऽन्धत्वं जाड्यं च सन्नता ॥ ९२॥मृषामानं वैरभावो विकृतिर्मूढभावना ।पापं परवशित्वं चालस्यं धूम्रनिभाज्ञता ॥ ९३॥नाशो निरोधनं भंगो लयश्चेति तु तामसाः ।सर्वकार्ये नियम्यन्ते प्रवृत्तयो हि तामसैः ॥९४॥परिवादकथा मन्युरत्यागश्चाभिमानिता ।अक्षमा मत्सरश्चेति तामसास्ते भवन्ति वै ॥९५॥वृथारम्भा वृथादानं वृथाभक्षणमित्यपि ।अश्रद्धा खण्डनं चेति तामसास्ते भवन्ति वै ॥९६॥मनुष्या भिन्नमर्यादा दैत्याश्च राक्षसास्तथा ।अवाङ्निरयमापन्नास्तिर्यङ्निरयगामिनः ॥९७॥दानवाश्चासुराः प्रेता भूताः पिशाचकादयः ।क्रूराश्च हिंसका मांसभक्षणाः संभवन्त्यपि ॥९८॥स्थावरेषु जंगमेषु पशुष्वपि भवन्ति ते ।वाहनेषु खरोष्ट्रेषु क्रव्यादेषु भवन्ति ते ॥९९॥दंदशूकाः कृमयश्च कीटा विहंगमास्तथा ।अण्डजा जन्तवश्चापि बहुपदाश्चतुष्पदाः ॥१००॥उन्मत्ता बधिरा मूकाः पापरोगावृत्ताश्च ये ।अर्वाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥१०१॥एवमेते गुणवृत्ता भवन्ति देहिनः खलु ।सतां योगेन लोकेऽस्मिन् यथाकथंचिदेव ह ॥१०२॥पुण्यवतां प्रसंगेन समायान्त्यूर्ध्वमाश्रयात् ।चण्डालाद्याः पापपूर्णा घातका हिंसकाश्च वा ॥१०३॥जायन्ते तेऽपि च पुनर्धर्मयोगेन शोभनाम् ।योनिमासाद्य पर्यायादूर्ध्वमायान्ति वै क्वचित् ॥१०४॥विप्रर्षयः सुराः सन्तो मुनयः सुखिमानवाः ।ततौ यान्ति दिवं धर्मः सत्त्वेनेश्वरवासिताम् ॥१०५॥भक्त्या समर्पणेनापि सेवया कृपयाऽथवा ।मोक्षपदं प्रयान्त्येव चिरेण शरणागताः ॥१०६॥.इत्येवं कथितं सर्वं लक्ष्मि देहादियोजनम् ।सिद्धिवेशायनायैव मुक्तिस्रोतायनेन वै ॥१०७॥लब्ध्वा विमलविज्ञानं शान्तिमवाप चोत्तमाम् ।शिष्यो दिव्यतमां दृष्टिं चावाप पारमेश्वरीम् ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने संक्षिप्तमुक्तिधर्माणां देहधर्माणां मायिकादीनां च निरूपणनामा षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP