संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ५०

द्वापरयुगसन्तानः - अध्यायः ५०

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
गुरुतीर्थस्य माहात्म्यं भूयोऽपि वद मे पते ।
जिज्ञासा वर्धते श्रोतुं सुलभं गुरुतीर्थकम् ॥१॥
श्रीपुरुषोत्तम उवाच-
धन्याऽसि कृतकृत्याऽसि गुरुतीर्थाऽवगाहिनी ।
योषितां दयया लक्ष्मि श्रेयःकरी यतो ह्यसि ॥२॥
कथयामि तथा भूयो गुरुतीर्थं निशामय ।
सर्वपापहरं चापि शिष्याणां मोक्षदायकम् ॥३॥
दिव्यतापादकं पुण्यं धर्मात्मकं सनातनम् ।
सर्वैश्वर्यान्वितं शीघ्रं प्रत्यक्षफलदायकम् ॥४॥
गुरोः प्रसादात् कमले इहैव फलभाग् भवेत् ।
परलोकसुखं भुंक्ते महानन्दमवानुयात् ॥५॥
गुरोः प्रसादात् कमले त्रैलोक्यं सचराचरम् ।
प्रत्यक्षं दृश्यते शिष्यैरीशलोकगतिं प्रति ॥६॥
अव्याहतगतिमान् स्याद् विज्ञानं विन्दते तथा ।
यशः कीर्ति व्यवहारं प्राधान्यं कृपया लभेत् ॥७॥
सूर्यवत् सर्वथा गुरुः प्रकाशकोऽन्धचक्षुषाम् ।
सोमवच्छान्तिदश्चापि प्रकाशदो निशात्मके ॥८॥
दीपवद् गृहहृदये प्रभादो वै गुरुः सदा ।
दिवा सूर्यः शशी रात्रौ दीपो गृहे गुरुः सदा ॥९॥
प्रकाशते शिष्यहृदि गुरुर्ब्रह्मप्रकाशकृत् ।
अतो गुरुः परं तीर्थं तारकं ज्ञानदानकैः ॥१०॥
विज्ञायैवं गुरुं गुर्वी सर्वभावैः प्रसादयेत् ।
कर्मभिर्मनसा देहैर्वाण्या च सेवया तथा ॥११॥
अत्रार्थे ते कथयामि कथां दिव्यां मनोहराम् ।
ब्रह्मपुत्रो भृगुस्तस्य वंशेऽभूच्च्यवनो मुनिः ॥१२॥
कदाऽहं ज्ञानसम्पन्नः स्यामित्यचिन्तयन् मुहुः ।
तदर्थं तीर्थयात्रायामगमज्ज्ञानलब्धये ॥१३॥
गंगायात्रां बदरीतश्चाकपिलाश्रमं व्यधात् ।
गोदावर्याः सरस्वत्या नर्मदायास्तथा व्यधात् ॥१४॥
कायश्च निर्मलो जातः सूर्यतेजःसमप्रभः ।
ओंकारेश्वरमासाद्य वटच्छायास्थितोऽभवत् ॥१५॥
नर्मदाया जलं पीत्वा क्षणं ध्यानपरोऽभवत् ।
तत्र शुश्राव पक्षिणां भाषां विज्ञानसंभृताम् ॥१६॥
शुकपुत्रा हि चत्वारश्चासंस्ते पितृनन्दनाः ।
उज्ज्वलश्च समुज्ज्वलो विज्वलश्च कपिञ्जलः ॥१७॥
एते कुंजलशुकजाः पितृमातृपरायणाः ।
फलान्याहृत्य पितृभ्यां ददत्यपि च भुञ्जते ॥१८॥
क्रीडन्ति पितृनिकटे मातृसन्निधिमुत्सुकाः ।
स्वपन्ति च च्यवनस्य पश्यतो नित्यमेव ते ॥१९॥
सायमागत्य ते सर्वे नित्यं सेवां चरन्ति च ।
आगतास्ते चरित्वैव पितुर्नीडं सुखावहम् ॥२०॥
पितरं मातरं चोभौ प्रणेमुश्च फलानि च ।
ददुश्चापि च पितृभ्यां मानिताः श्रान्तिमास्थिताः ॥२१॥
सम्भाषिताः सेविताश्च पक्षवातादिभिश्च ते ।
सेवन्ते स्म पितरौ च पितरौ ददतुस्तदा ॥२२॥
शुभाशीर्वचनान्येव ततः पप्रच्छ तान् पिता ।
उज्ज्वल त्वं चाद्य कस्यां दिशायां वै गतोऽभवः ॥२३॥
तत्र दृष्टं श्रुतं चाऽप्यपूर्वं चेन्मे निवेदय ।
श्रुत्वोज्ज्वलः प्रणम्यैव पितरं प्राह तत्कथाम् ॥२४॥
गंगाद्वीपं जगामाऽद्य राजा यत्र हि धार्मिकः ।
दिवोदासो वर्तते वै सत्यधर्मपरायणः ॥२५॥
ब्राह्मीदेवी तस्य पत्नी पातिव्रत्यपरायणा ।
सुषुवे गुणरूपाढ्यां सुशीलां चारुमंगलाम् ॥२६॥
दिव्यादेवीतिविख्यातां कन्यां लावण्यशेवधिम् ।
प्रथमे वयसि दिव्यां वरयोग्यां विलोक्य च ॥२७॥
पिता कामरूपदेशराजं चित्रप्रसेनकम् ।
आहूय कन्यां प्रददौ चित्रसेनाय धीमते ॥२८॥
विवाहयज्ञे राजा स चित्रसेनो ममार ह ।
अकृताग्निप्रदक्षिणा कन्या सौभाग्यवर्जिता ॥२९॥
अभवद् वै तदा राजा विप्रान् पप्रच्छ कारणम् ।
अस्या विवाहसमये चित्रसेनो दिवं गतः ॥३०॥
अस्या वै कीदृशं कर्म भवत्येव ब्रुवन्तु मे ।
श्रुत्वा विप्राः समाहुर्वै लग्नकालस्तथाविधः ॥२१॥
पतिमृत्युश्च वा पत्युः प्रव्रजिता च रुग्णता ।
अथ राजा च कालेन त्विन्द्रप्रस्थपुरं ययौ ॥३२॥
इन्द्रप्रस्थनृपरूपसेनायेमां समार्पयत् ।
रूपसेनोऽपि वै मृत्युं गतो विवाहनक्षणे ॥३३॥
एवं यदा यदा यस्मै राजा ददाति कन्यकाम् ।
तद्भर्ता वह्निसाक्ष्ये वै मृत्युं गच्छति सत्वरम् ॥३४॥
एकविंशतिसंख्याका वरा मृत्युंगतास्तथा ।
कन्या त्वास्ते चाऽक्षता वै दिवोदासः शुशोच ह ॥३५॥
ततो मन्त्रिवचो मत्वा स्वयंवरं व्यधापयत् ।
राजानो बहवस्तत्र समाहूताः समन्ततः ॥३६॥
स्वयंवरसभामध्ये यदा प्राप्ता कुमारिका ।
राधासमां चन्द्रमुखीं व्यलोकयन् नृपास्तदा ॥३७॥
अदत्तवरमालाया रूपं वीक्ष्य तु तामसाः ।
राजानो मोहमापन्ना हरणार्थं समुद्यताः ॥३८॥
अन्ये तस्यास्तु रक्षार्थं तदैवं समरोऽभवत् ।
तत्र महान् क्षयो जातः क्षत्रियाणां स्वयंवरे ॥३९॥
दिव्यादेवी सुदुःखार्ता वैराग्यं समुपागता ।
ययौ विन्ध्याचले तप्तुं तपस्तत्र रुरोद सा ॥४०॥
मया तस्या रोदनं वै श्रुतं दृष्टं तदन्तिके ।
पितस्तस्याः कथं तादृग्भाग्यं राजन्यनाशकम् ॥४१॥
कुमारत्वं वने वासश्चार्धं विवाहनं तथा ।
इति मे संशयश्चास्यां वर्तते तन्निषूदय ॥४२॥
श्रुत्वा पुत्रवचस्तत्र शुकः कुंजलको जगौ ।
पूर्वजन्मकृतं सर्वं शृणु पुत्र हि कान्यकम् ॥४३॥
सा कन्या पूर्वमासीद्वै सुवीरवैश्यभामिनी ।
वाराणस्यां च नाम्ना वै चित्रा स्वतन्त्रगामिनी ॥४४॥
अनाचारपरा पापा स्वैरिणी व्यभिचारिणी ।
भर्तारं मन्यते नैव पुण्यहीना तु पापिनी ॥४५॥
कुत्सयते पतिं क्लेशकरी सद्धर्मवर्जिता ।
परगृहे वसति भ्रमत्यपि सा गृहे गृहे ॥४६॥
परच्छिद्रं पश्यति द्राक् साधुनिन्दापरा तथा ।
परहास्यकरी दुष्टा सदाचारविवर्जिता ॥४७॥
सुवीरेण तु वैश्येन गृहान्निष्कासिता हि सा ।
दुष्टानां संगतिं प्राप्ता दूतीकर्म चकार सा ॥४८॥
कुलटा च व्यभिचारकर्म कारयति पराः ।
गृहभंगं कारयति साधूनां धर्मवर्त्मनाम् ॥४९॥
साध्वीं नारीं समाहूय द्रव्यदानैः प्रलोभयेत् ।
मनोभंगं कारयति व्यवाये योजयत्यपि ॥५०॥
साधूनां सा स्त्रियं भङ्त्वाऽप्यन्यस्मै प्रददात्यपि ।
एवं गृहशतं भग्नं चित्रया दुष्टया पुरा ॥५१॥
संग्रामं सा महादुष्टाऽकारयत् पतिपुत्रकैः ।
एवं पापपरा सा तु मृता यमपुरं गता ॥५२॥
भुक्त्वा च यातनाः पश्चात् कर्मविपाकमागता ।
सा त्विदानीं कृतं कर्म भुंक्ते रोदिति भामिनी ॥५३॥
यस्माद् गृहशतं तस्मादस्याः शतं वराः ।
एकविंशतिसहिता विवाहे च स्वयंवरे ॥५४॥
पापायाः शुभसमये तत्संख्याका मृता वराः ।
गृहभंगो न कर्तव्यो यस्य कस्यापि देहिनः ॥५५॥
परभंगे निजभंगो जायते नैव संशयः ।
श्रुत्वैवमुज्ज्वलः प्राह पितश्चास्या महत्कुले ॥५६॥
जन्म कथं च वै जातं पापाया वद मेऽपि तत् ।
श्रुत्वा पुत्रवचश्चापि कुञ्जलः प्राह पुत्रकम् ॥५७॥
दूती यत्राऽभवत् सा वै तत्रैकदा तु भूसुरः ।
साधुधर्मा सिद्धगतिः कुचेलो दण्डवान् यतिः ॥५८॥
कौपीनमात्रवस्त्रश्च चित्राद्वारमुपस्थितः ।
मौनी जितेन्द्रियो ज्ञानी व्रह्मभक्तिपरायणः ॥५९॥
तत्त्वदर्शी क्षुधातृषाव्याप्तश्च श्रमितः सुखी ।
दूराध्वानपरिश्रान्तश्चित्रया स विलोकितः ॥६०॥
नाम्ना कृष्णायनं चित्रा दृष्ट्वाऽऽजुहाव तं गृहे ।
आसनं च ददौ वारि भोजनं मधुपर्ककम् ॥६१॥
देहसंवाहनं चक्रे साधुं मत्वा सुसेवनम् ।
अकरोत् सा प्रसन्नः सा आशीर्वादं ददौ शुभम् ॥६२॥
राजपुत्री भवत्वेवं कथयित्वा ययौ हि सः ।
अथ कालान्तरे चित्रा मृत्युंगता ततस्त्विह ॥६३॥
साधोः सेवाफलेनाऽपि तदाशीर्वादतस्तथा ।
दिवोदासगृहे पुत्री दिव्यादेवी व्यजायत ॥६४॥
सा हि दत्तवत्ती चान्नं जलं सेवां तथाऽऽसनम् ।
तस्मात् पुण्यस्य माहात्म्याद् राजपुत्री हि वर्तते ॥६५॥
गृहभंगादिपापैश्च ह्यधवात्वं पुनः पुनः ।
सहते वै ततः सेवा कर्तव्या सततं सताम् ॥६६॥
गुरोः सेवा प्रकर्तव्या साधोर्धर्मव्रतस्य च ।
साध्व्याः सेवा प्रकर्तव्या सर्वसम्पत्करी हि सा ॥६७॥
राजपुत्रा मृता ये ये ते पुरा भाण्डजातयः ।
नारीणां हारकाश्चासन् तेन पापेन ते मृताः ॥६८॥
गोविप्रगुरुसाधूनां सेवापरायणाः पुरा ।
आसँश्चापि च वै तेन राजपुत्रत्वमागताः ॥६९॥
अतः सेव्याः साधवश्च गुरवश्च सदा हि ताः ।
परभंगो गृहभंगो न कर्तव्यः कदाचन ॥७०॥
श्रुत्वोज्ज्वलः पुनस्तत्र पप्रच्छ पितरं प्रति ।
कथं सा मुच्यते शोकान्महादुःखाद् वदस्व मे ॥७१॥
कथं सा लभते मोक्षं तं चोपायं वदस्व मे ।
पिता च कुञ्जलः प्राह श्रुत्वा पुत्रं तमुज्ज्वलम् ॥७२॥
शृणु पुत्र प्रवक्ष्यामि तस्या दुःखविनाशकम् ।
साधनं मोक्षणस्यापि येन शुद्धा भविष्यति ॥७३॥
हरेर्ध्यानाज्जपाच्चापि व्रताच्च गुरुसेवनात् ।
पापनाशो मोक्षणं च भवेदेव न संशयः ॥७४॥
दिव्यो नारायणश्चास्तेऽक्षरे धाम्नि परात्परः ।
सर्वज्ञः सर्वशक्तिश्च सर्वैश्वर्यसमन्वितः ॥७५॥
किशोरः सर्वशोभाढ्यः श्रीकान्तः परमेश्वरः ।
मायिकाऽऽकारवर्ज्यः स दिव्याकारसमन्वितः ॥७६॥
दिव्यमुकुटमूर्द्धा च दिव्यचक्रादिशोभनः ।
कोटिचन्द्राभवदनः पद्मपत्रनिभेक्षणः ॥७७॥
सर्वभूषणशोभाढ्यः कौस्तुभेन विराजितः ।
कमलाकृतसेवश्च श्रीवत्सांकेन राजितः ॥७८॥
मनोहारिस्वरूपश्च कान्तः कान्तार्हयौवनः ।
एवं ध्यायेत् सती नित्यं सर्वपापविशोधकम् ॥७९॥
हरे नारायण कृष्ण श्रीपते कमलापते ।
अनादिश्रीकृष्णनारायण श्रीकृष्णमोक्षकृत् ॥८०॥
एवं कुर्याद् भजनं वै जपं कुर्याद्धरे इति ।
व्रतं कुर्यात् पूर्णिमाया लक्ष्मीनारायणव्रतम् ॥८१॥
उद्यापनेन सहितं कृष्णपूजान्वितं शुभम् ।
गुरोस्तत्र च्यवनस्य प्रकुर्यात् सेवनं हि सा ॥८२॥
कर्मणा मनसा वाचा तदा दुःखं प्रहास्यति ।
इत्युक्तं सर्वमेवैतत् पक्ष्यपत्यं प्रणम्य च ॥८३॥
पितुराज्ञां समादाय यत्र सा तत्र वै ययौ ।
पक्षिभाषां परित्यज्य स्त्रीवाण्या तां जगाद ह ॥८४॥
उज्ज्वलः सन्निधौ गत्वा तापसीं चेदमब्रवीत् ।
का त्वं भवसि कस्याऽसि कस्मादत्र समागता ॥८५॥
समाचक्ष्व त्वमनघे तपसश्चापि कारणम् ।
दिव्यादेवी समुवाच पक्ष्यपत्यं विलोक्य सा ॥८६॥
आश्चर्यं महदापन्ना पक्षिन् शृणु यथातथम् ।
को भवान् मे वदत्वत्र विश्वासो येन जायते ॥८७॥
पक्षी प्राह महाभागे पक्ष्यहं तव दुःखहाः ।
रुदमानां विलोक्यैतत् पृष्टं मे वद कारणम् ॥८८॥
यथाबलं यतिष्येऽहं तव दुःखविनाशने ।
श्रुत्वा दिव्यादेविका सा जगाद पक्षिणं प्रति ॥८९॥
कर्मणां मे फलं भुंजे दिवोदाससुताऽस्मि च ।
शताधिका हि पतयो मृता उद्वाहनोत्सवे ॥९०॥
अधवाऽहं हि तिष्ठामि तपोऽर्थमत्र चागता ।
पापनाशो भवेद् येन तमुपायं करोमि च ॥९१॥
उज्ज्वलश्च समाकर्ण्य पित्रोक्तं प्राह योषिते ।
साऽपि तथ्यं हि तन्मेने प्रायश्चित्तमियेष सा ॥९२॥
पप्रच्छ पक्षिणं पूर्वकृतपापस्य निष्कृतिम् ।
उज्ज्वलः प्राह विष्णोर्वै ध्यानं कुरु यथोदितम् ॥९३॥
जपं कुरु हरे कृष्णनारायण परेश्वर ।
व्रतं कुरु शुभं लक्ष्मीनारायणव्रतं परम् ॥९४॥
पूर्णिमायां निराहारं जागरणसमन्वितम् ।
उद्यापनसमेतं च गुरोः संसेवनं कुरु ॥९५॥
गुरुश्चात्र च्यवनोऽस्ति नर्मदायाः शुभे तटे ।
भजस्व तं महात्मानं पुण्यपुञ्जा भविष्यसि ॥९६॥
इत्युक्ता जगृहे सर्वं पक्षितः सा शुभोदया ।
व्रतं चक्रे जपं चक्रे ध्यानं चक्रे हरेस्तथा ॥९७॥
च्यवनस्य वटे सेवां चक्रे गत्वा गुरोर्हि सा ।
देहेन मनसा वाचा सर्वार्पणेन कन्यका ॥९८॥
गुरोस्तु कृपया साध्वी वर्षमध्ये ददर्श ह ।
दिव्यं नारायणं कृष्णनारायणं परेश्वरम् ॥९९॥
घनश्यामं सुन्दरं च शंखचक्रगदाधरम् ।
सर्वाभरणशोभाढ्यं दृष्ट्वा ननाम पादयोः ॥१००॥
दण्डवद् धरणिं प्राप्य चकार गद्गदाऽभवत् ।
उवाच च हरिश्चाऽहं कृपया तव चागतः ॥१०१॥
गुरोः प्रसादलाभेन जातं मे दर्शनं तव ।
वरं वृणु महाभागे ददामि तव वाञ्छितम् ॥१०२॥
श्रुत्वा सा कन्यका वव्रे मामुद्धर भवार्णवात् ।
तव पादौ भजिष्यामि कान्तभक्तिं प्रदेहि मे ॥१०३॥
मोक्षे दासीपदं देहि यदि तुष्टोऽसि नाथ मे ।
हरिः प्राहाऽस्त्वेवमेव चायाहि मम धाम वै ॥१०४॥
तावत् साऽप्यभवद् दिव्यादेवी लक्ष्मीस्वरूपिणी ।
विमानवरमासाद्य ययौ वैकुण्ठमेव सा ॥१०५॥
उज्ज्वलः पितरं प्राह वृत्तान्तं सर्वमेव ह ।
पिता विवेद सर्वं च महिमानं गुरोस्तदा ॥१०६॥
च्यवनः सर्वकामानां पूरको वैष्णवो गुरुः ।
सेवितः कन्यया तेन याता सा ब्रह्मदर्शनम् ॥१०७॥
तेनैव दिव्यदेहेन याता मोक्षपदं सती ।
लक्ष्मीर्जाताऽपरा धाम्नि ध्यानजपव्रतादिभिः ॥१०८॥
पठनाच्छ्रवणाच्चाऽस्य पापाऽपि पापशोधिता ।
भूत्वा यायाद्धरेर्धाम लक्ष्मि! कान्ता भवेन्मम ॥१०९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे दिव्यादेवीमोक्षणं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP