संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां चान्यां सुपावनीम् ।गुरुतीर्थमयीं सर्वोद्धारिणीं पापहारिणीम् ॥१॥सौराष्ट्रे चोपलेष्टायां नगर्यां श्वपची सती ।रक्षानाम्नी हरिभक्ता सुमरस्य हि भामिनी ॥२॥अवसत् सकुटुम्बा वै पुर्या मलापहारिणी ।मलानां हारिणीत्वात् सा ह्यशुद्धा वर्तते दिने ॥३॥मध्याह्ने तु ततः स्नात्वा शुद्धिं कृत्वा स्वहस्तयोः ।ततो याति गृहं नैजं वृक्षमध्ये विधापितम् ॥४॥कृत्वा सा रोटकं नैजं भोजयित्वा पतिं हरिम् ।शुने दत्वा ततो भुंक्ते रक्षा सन्तोषसद्गुणा ॥५॥विचारयति नित्यं सा गृहे स्थिता दशां निजाम् ।कथं वै मानवेऽप्यत्र श्वपची ह्यभवं न्वहम् ॥६॥दारिद्र्यं सर्वदा चास्ते कैंकर्यं सर्वदा तथा ।मलनिष्कासनं नित्यं ह्यशुद्धिर्नित्यमेव च ॥७॥तिरस्कारः प्रतिक्षेत्रं चाऽस्पृश्यत्वं च सर्वदा ।सत्यपि मानवे भावे पाशवं जीवनं मम ॥८॥भोजनं दृश्यते नैव लभ्यते न रसान्वितम् ।अम्बराणि निकृष्टानि शृंगारो लभ्यते न च ॥९॥गृहं तु शोभनं नैव भोग्यजातं न विद्यते ।मानं यशो न चैवाऽऽस्ते धिक् जन्म पापसंभृतम्॥१०॥यानं च वाहनं नास्ति धातुपात्राणि सन्ति न ।विभूषाः सन्ति नैवाऽपि मिष्टान्नं विद्यतेऽपि न ॥११॥द्रव्यं च नाणकं नास्ति पर्यंको नास्ति शोभनः ।सुवर्णस्य तु वै स्वप्ने चाशा नास्ति कदाचन ॥१२॥एवं मे विद्यते सर्वं वैरुप्यं कल्मषं तथा ।एको गुणो मे श्वपचीज्ञातौ वै विद्यते शुभः ॥१३॥अस्पृश्यत्वात् परपुंसः स्पर्शो नास्ति कदापि मे ।पातिव्रत्यं सर्वदाऽस्ति सहजं सर्वतो गुरु ॥१४॥स्वजातयोऽपि विद्यन्ते दूरे दूरे पुरान्तरे ।तेषां नारणां योगोऽपि नैवास्ति स्पर्शनं मम ॥१५॥एवं मेऽस्ति व्रतं शीलं पुण्यं स्वर्गप्रदं सदा ।निर्मानता विरागश्च निर्बाधताऽपि विद्यते ॥१६॥नदी त्वास्ते पार्श्वतो मे स्नानं नित्यं भवत्यपि ।गृहं वने सदा चस्ते निर्बन्धं वानप्रस्थवत् ॥१७॥चौराणां तु भयं नास्ति राज्ञां भयं न विद्यते ।सुखं स्वपिमि पत्या मे साकं सेवापरायणा ॥१८॥साधूनां पार्श्वमार्गेण यातानां दर्शनं क्वचित् ।जायते मे भाग्यवशात् सूर्यस्य दर्शनं सदा ॥१९॥आमध्याह्नं मलहारात्मकं कार्यं न वै ततः ।दिवसार्धं निशायां च निवृत्तिर्मम विद्यते ॥२०॥परमेशस्य नाम्नां वै भजनार्थं विशेषतः ।विद्यते मे समयश्च लाभाः सन्ति तथाविधाः ॥२१॥ग्रामे महोत्सवे दैवे मानुषे वा प्रवर्तिते ।प्रसादः प्राप्यते चापि पावनो दैवमानुषः ॥२२॥तत्रापि मम साफल्यं मनुष्यस्य तु जन्मनः ।श्वपच्या अपि मे शीलं पातिव्रत्यं परं खलु ॥२३॥अन्यासां जनमध्ये च ग्रामे वा नरयोषिताम् ।प्रजास्त्रीणां सहवासो दृश्यते शीलनाशकः ॥२४॥यत्र नरास्तथा नार्यो निवसन्ति मिथोऽभितः ।तत्र धर्मो हन्यते वै देशकालबलेन ह ॥२५॥विवाहितानां नारीणां परपुंस्पर्शनं तथा ।एकान्तसेवनं चापि धर्महं निरयप्रदम् ॥२६॥यासां तथाविधानां वै संकरीणां तु योषिताम् ।अद्य वै नरकं नास्ति तासां वै नरकं ततः ॥२७॥जन्मान्तरे भवेदेव इहाऽधर्मप्रयोजितम् ।मम श्वपचीरूपायाः प्रत्यक्षं नरकं त्विह ॥२८॥किन्तु धर्मबलेनैव मृत्यूर्ध्वे नरकं न वै ।तस्माच्छ्रेष्ठा गतिश्चास्ते प्रजानारीभ्य उत्तमा ॥२९॥अस्मृद्धयो विरागाय समृद्धयो बन्धनाय वै ।नैर्जन्यं परलोकाय सौजन्यं बन्धनाय वै ॥३०॥श्वपच्यहं बन्धशून्या विचरामि सती यथा ।रथ्यां रथ्यां विचरामि साध्वी पतिव्रता यथा ॥३१॥निर्भया मे स्थितिश्चाऽऽस्ते सुखाढ्या व्याधिवर्जिता ।मार्जयामि मलगर्तान् वैराग्यं च लभाम्यपि ॥३२॥स्वमलं सर्वलोका वै मार्जयन्ति दिने दिने ।प्रातरुत्थाय सर्वेऽपि क्षालयन्ति निजं मलम् ॥३३॥नार्यश्चापत्यवत्यश्च क्षालयन्ति हि बालकान् ।गृहमध्ये वस्त्रमध्ये शय्यामध्ये कृतान्यपि ॥३४॥बालमलानि वै सर्वा निष्कासयन्ति मद्विधाः ।विशेषो मे तथा तासां मलशुद्धौ न विद्यते ॥३५॥सर्वे वै श्वपचा नैजदेहमलापसारणे ।तस्माच्छ्रैष्ठ्यं ममैवाऽऽस्ते श्वपच्यां निरुपद्रवम् ॥३६॥राजा स्याद् दुःखभाङ्नित्यं राज्ञी ततोऽपि दुःखिनी ।कारागारनिभे सौधे रुद्ध्यमाना भटैः सदा ॥३७॥श्रेष्ठिनार्यो वस्त्रवरुथकैश्छन्नाः प्रयान्ति च ।श्रेष्ठिनोऽपि सभया नो बहिर्यान्ति विना भटैः ॥३८॥एवं दुःखनिमग्नास्ते साक्षान्नरकं भुञ्जते ।को विशेषोऽस्ति वै तेषां श्वपच्याः सन्निधाविह ॥३९॥अपि तृष्णा पिशाच्येषां हृदयानि निकृन्तति ।रोगाः साक्षाद् यमदूताः शोषयन्ति धनं वपुः ॥४०॥भृत्याधीना भृत्यभृत्या जायन्ते धनिनो जनाः ।पारतन्त्र्यं पराशा च नरकौ द्वौ गृहस्थितौ ॥४१॥स्वातन्त्र्यं च निराशा च स्वर्गौ द्वौ स्वकरस्थितौ ।धन्याऽहं श्वपची शुद्धा तादृग्दोषविवर्जिता ॥४२॥आजीवनं स्वर्गयुक्ता चान्तेऽपि स्वर्गगामिनी ।हरिणी लभते भोज्यं वनेऽपि फलपत्रवत् ॥४३॥सिंहिका लभते भोज्यं महारण्येऽपि मांसजम् ।श्रेष्ठिनी लभते भोज्यं स्वाद्वपि रोगसंभृतम् ॥४४॥श्वपची लभते भोज्यं शुष्कं चापि बलप्रदम् ।धन्याऽहं श्वपची चास्मि महासौख्यसमन्विता ॥४५॥राजा राज्ञी तथा चान्ये ह्यायुषोऽन्तिमभागके ॥सन्न्यासिनो वानप्रस्था जायन्ते मोक्षसिद्धये ॥४६॥वने पश्यामि तान् सर्वान् भोगरागविवर्जितान् ।मादृशाँस्तापसान् सर्वान् धन्याऽहं जन्मतस्तथा ॥४७॥सन्यासिनी सदैवाऽस्मि सदैव पतिदेवता ।सदैव शीलयुक्ता च भवामि श्वपची शुभा ॥४८॥अहो मे बन्धनं नास्ति नास्ति मे धर्मवर्जनम् ।ग्रामसेवा करोम्यत्र जातियोग्यां हितावहाम् ॥४९॥साधवो ब्रह्मविज्ञानाः पापिनां पापकल्मषान् ।उपदेशप्रदानेन हृदो निष्कासयन्ति ते ॥५०॥श्वपची कर्मविज्ञाना मलिनां मलकल्मषान् ।देहसेवाप्रदानेन निष्कासयामि गर्त्ततः ॥५१॥मलनिष्कासनं कार्यं चोभयोर्वै समं यतः ।सन्यासिनी भवाम्येव कर्मसन्यासिनी यथा ॥५२॥गुरवः सन्ति लोकेऽत्र मलनाशकराः शुभाः ।अज्ञानमलनाशेन प्रज्ञानं दीपयन्ति ते ॥५३॥अहं भूत्वा निजा गुर्वी शोकमलं जहाम्यपि ।स्वस्या गुर्वी स्वयं भूत्वा निर्मला विचरामि च ॥५४॥अहो भाग्यमहो भाग्यं श्वपच्या मम मानवे ।सुखिन्यस्मि सदा चाऽन्याऽपेक्षया कृपया हरेः ॥५५॥नास्ति मे फलहः कश्चिद् बहूनां संगमे हि यः ।नास्ति मे धर्मभंगश्च बहूनां संगजस्तु यः ॥५६॥विना वनं वने वासो विद्यते मे सुखावहः ।आत्मशान्तिः सदा चास्ते प्रव्रज्यामन्तराऽपि मे ॥५७॥धन्याऽहं धन्यपात्रं च सुखपात्रं यदुत्तमम् ।स्वपत्या दीयमानं च सुखं भुञ्जामि सर्वकम् ॥५८॥यस्या गृहे भवेत् क्लेशो वैमनस्यं नरस्त्रियोः ।नित्यं शंकास्पदत्वं च रौरवं नरकं तु तत् ॥५९॥यस्य गृहे भवेत् प्रेम सौमनस्यं नरस्त्रियोः ।तथा चाऽनभिशंकित्वमैन्द्रं स्वर्गं पदं हि तत् ॥६०॥तादृशं स्वर्गमेवाऽत्र विद्यते श्वपचीगृहे ।द्रुमाश्चेमे ममोद्यानो वर्तते च नदी मम ॥६१॥साध्वीत्वं सर्वमूर्धन्यं वर्तते मम मोक्षदम् ।धन्याऽहं श्वपची तस्मात् सर्वसौभाग्यशालिनी ॥६२॥एवं वै वर्तमानायाः पार्श्वमार्गेण गच्छतः ।जातं वै दर्शनं साधोर्ब्रह्ममग्नस्य योगिनः ॥६३॥नाम्ना चैतन्यशीलस्य महासिद्धस्य वै प्रभोः ।रक्षा तूणं ययौ सन्तं प्रति मार्गे स्थिताऽभवत् ॥६४॥अनमद् दूरतः साधुं कृताञ्जलिर्नतानना ।साधुः प्राह सदा शान्तिमती मोक्षवती भव ॥६५॥दिव्या देवी तथा भूत्वा ब्रह्मप्रिया सदा भव ।हरिभक्ता भव साध्वी साधुसेवाकरी भव ॥६६॥इत्युक्त्वा चैतन्यशीलो भद्रावतीनदीतटे ।वृक्षतलेऽतिदूरे च गत्वा ह्युपाविशत् क्षणम् ॥६७॥नदीजले ततो गत्वा स्नात्वा कृत्वाऽर्हणं हरेः ।हरये च फलं वारि शर्करां च निवेद्य सः ॥६८॥श्वपच्यै तत्र यातायै प्रसादं दत्तवान् मुनिः ।साऽपि प्रसादमासाद्य पतये विनिवेद्य च ॥६९॥ततश्चखाद शेषं च मत्वा भाग्यं निजं परम् ।अथ साधुः पादपाऽधो रात्रिवासं व्यधादपि ॥७०॥शैत्यं च बाधते तस्य वीक्ष्य सा श्वपची ददौ ।काष्ठानि चाग्निदीप्त्यर्थं साधुर्वह्निमदीपयत् ॥७१॥मालां चावर्तयच्चापि भजनं प्रचकार ह ।'हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ॥७२॥अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।तालिकावादनैः साधुश्चक्रे श्रीनामकीर्तनम् ॥७३॥श्वपची स्वामिना साकं त्वागत्य वृक्षसन्निधौ ।दूरं निषद्य भजनं तद्विधं प्रचकार सा ॥७४॥भजनान्ते च साधुं तं पप्रच्छ विनयान्विता ।कुत आगम्यते साधो क्व निवासोऽपि नित्यदा ॥७५॥कुत्र संगम्यते चापि कुशलं न्वस्ति सर्वथा ।साधुः प्राह हरेर्गेहादागम्यतेऽतिदूरतः ॥७६॥निवासः श्रीहरौ मेऽस्ति गम्यते श्रीहरिं प्रति ।कुशलं सर्वथा चास्ते गुरुतीर्थप्रसादतः ॥७७॥रक्षा प्राह शुभं साधो गुरुतीर्थं हि कीदृशम् ।येन स्यात् कुशलं सर्वं वद मे कृपया मुने ॥७८॥साधुः प्राह गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्हरः ।गुरुः स्वामी हरिः साधुर्गुरुर्माता पतिः पिता ॥७९॥गुरुर्ज्ञानप्रदाता च पापहर्ता गुरुर्महान् ।गुरुर्मोक्षप्रदाता च निजात्मा परमो गुरुः ॥८०॥गुरोर्गुरुश्चान्तरात्मा श्रीहरिः परमेश्वरः ।तदाश्रयेन पापानां ध्वंसो मोक्षोऽपि शाश्वतः ॥८१॥अपि पापसमाचारः श्वपाकः श्वपचोऽपि वा ।मद्यमांसाशनश्चापि व्यवायमदिराशनः ॥८२॥महापापाऽतिपापोऽपि प्रशुद्ध्यति गुरुश्रयात् ।न व्रतं नैव तीर्थं च प्रायश्चित्तं न तत्परम् ॥८३॥आप्ता गुरोः कृपा येन सद्यो मुच्येत बन्धनात् ।गुरोर्मन्त्रं हरेर्नाम्नो गृह्णीयात्पावनं परम् ॥८४॥पीत्वा गुरोः पदाम्भोजं ध्यात्वा मूर्तिं गुरोर्गुरोः ।सेवयित्वा गुरुं देवं प्रसादयित्वा तत्क्षणम् ॥८५॥सर्वस्वं प्रसमर्प्यैव सद्यो मोक्षमवाप्नुयात् ।साधुर्नौका गुरुर्नौका हरिर्नौका सतीपतिः ॥८६॥ज्ञानं नौका परानौका भक्तिश्च शरणागतिः ।रक्षा पप्रच्छ साधुं तं देहि मे शरणागतिम् ॥८७॥देहि मन्त्रं श्वपच्यै मे स्वामिने श्वपचाय मे ।चैतन्यशीलः पूर्वं तां पाययामास वै शुभम् ॥८८॥निजं पादजलं तत्र निक्षिप्य श्रीहरेर्जलम् ।पवित्रां पावनीं कृत्वा ददौ मन्त्रं ततः परम् ॥८९॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे ॥९०॥ 'हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ।अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥९१॥इति मन्त्रान् ददौ साधुः श्वपच्यै श्वपचाय च ।भजनं कारयामास रात्र्यर्धं च ततः परम् ॥९२॥पादसंवाहनं साधोश्चक्राते दम्पती ह्युभौ ।चाण्डालत्वं विलीनं च साधोः संसेवया तदा ॥९३॥प्रातःपर्यन्तमेवाऽऽभ्यां पादसंवाहनं कृतम् ।प्रातर्हरिः समायातो दिव्यविमानराजितः ॥९४॥पार्षदैः प्रवरैर्युक्तो राधालक्ष्म्यादिराजितः ।साधुं रक्षां सुमरं च हरिः प्राह ममाऽनुगाः ॥९५॥त्रयोऽपि मम भक्ताः स्थो दिव्यभावमुपागताः ।गुरुतीर्थप्रपूता मे चारोहत विमानकम् ॥९६॥इत्युक्तास्ते त्रयो नत्वा त्यक्त्वा देहान् भुवस्तले ।दिव्यौ च पार्षदौ भूत्वा पार्षदानी तथाविधा ॥९७॥दिव्या चतुर्भुजा भूत्वा स्थित्वा विमानकं तदा ।हरिणा सह वैकुण्ठं प्रययुर्मोक्षमुत्तमम् ॥९८॥एवं लक्ष्मि गुरुतीर्थं पावनं सद्य एव ह ।वधूनां चाप्यशुद्धानां श्वपाकीतुल्ययोषिताम् ॥९९॥मोक्षदं चोत्तमं चास्ते तस्माद् गुरुं निषेवयेत् ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदिह ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे चैतन्यशीलगुरोः प्रतापात् सुमरपत्न्याः रक्षाश्वपच्याः पतिना सह गुरुणा सह चमोक्षप्राप्तिरित्यादिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP