संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं प्राकट्यं मम चापरम् ।अवृषाख्ये वेधसश्च सप्तविंशे तु वत्सरे ॥१॥कल्पे चतुःशते मनौ तृतीये भूतलेऽभवन् ।भूसुरा यज्ञकर्तारश्चक्रुस्ते चाध्वरान् बहून् ॥२॥अग्निहोत्रं दर्शहोमं पूर्णमासं प्रयाजकम् ।स्विष्टकृद्यजनं पितृयज्ञं च वैश्वदैवतम् ॥३॥चातुर्मास्यं साकमेधं सोमं चाग्रायणेष्टिकम् ।अवभृथेष्टिं तथा चातिरात्रं वाजपेयकम् ॥४॥अग्निष्टोमं तथा सौत्रामणिं च राजसूयकम् ।अश्वमेधं सर्वमेधं पुंमेधं च सवान् बहून् ॥५॥बृहस्पतिसवं वैश्यसवं सोमसवं तथा ।गोसवं ब्राह्मणसवं तथौदनसवं शुभम् ॥६॥पृथिसवं मरुत्स्तोमं पुत्रेष्टिं च तथाऽपरान् ।यज्ञान् व्यधुश्चैकदा ते प्रारेभिरे नृमेधकम् ॥७॥पञ्चाहं तत्र वै यज्ञे द्व्यूनद्विशतपूरुषान् ।देवताभ्यो हि विधिनोपाकृत्य च ततः परम् ॥८॥पुरुषाणां विशसनं कर्तुमारेभिरे द्विजाः ।वपार्थं हवनार्थं च भ्रान्तास्तत्त्वविदो द्विजाः ॥९॥शृणु नारायणीश्रि! त्वं ये नृपशवश्चाऽभवन् ।न्यूनद्वादशवर्षास्ते यज्ञोपवीतधारिणः ॥१०॥भक्ता अभक्ता विप्राद्या आसन् यज्ञार्थकल्पिताः ।तत्रैकस्त्वभवद् योगी मम भक्तिपरायणः ॥११॥कालमायाद्यसंगी च देहादौ निस्पृहो नरः ।शुभ्रवर्णः सुन्दराऽऽख्यः कोमलो मुदभृन्मुखः ॥१२॥पावितः प्रथमो विप्रैरुपाकृतः समाहृतः ।विशसनस्य शालायां यथाविधि समर्चितः ॥१३॥नारायणहरे कृष्णान्तरात्मन्नितिमानसः ।आत्मनिवेदनो नित्यं मदर्थसर्वचेष्टकः ॥१४॥एतादृशं मम भक्तं ज्ञात्वा विशसनार्थकम् ।तूर्णं चाहं समायातः पद्मे विशसनगृहे ॥१५॥अदृश्यः कर्मठानां वै दृश्यो भक्तस्य मे तदा ।अदृश्यीकृत्य मद्भक्तं स्थितोऽहं तत्स्थले स्फुटः ॥१६॥तदाकारश्च मौनश्च भक्तरक्षार्थमित्यपि ।भ्रान्तिनाशार्थमेवापि हिंसायाश्च विछित्तये ॥१७॥धर्मरक्षार्थमेवापि मृषाकर्मविछित्तये ।विप्रेभ्यो बोधदानार्थं यथार्थताप्रवृत्तये ॥१८॥तामसानां पापकर्मनाशार्थं शसनालये ।प्राविरासं तदा लक्ष्मि! प्रत्यक्षः स्वीयरक्षकः ॥१९॥अथ ते यागदीक्षाप्ता द्विजा मन्त्रान् जगुस्तदा ।प्रोक्ष्य सर्वं सुविधिना पूरुषं मां प्रजगृहुः ॥२०॥मुखबन्धं निर्दयाश्च प्रचक्रुर्यवपूरणैः ।वृषणौ मर्दयामासुश्छेदयामासुरुत्सुकाः ॥२१॥जीवतो मे भ्रमयुक्ता भ्रान्त्यात्मविधिना खलाः ।विशसनं प्रचक्रुश्च तदाऽहं पापिनाशकृत् ॥२२॥कर्तिताभ्यां वृषणाभ्यां वज्राऽऽभाभ्यां तु सत्वरम् ।कर्मठानां कपालानि ब्रह्मरन्ध्राण्यताडयम् ॥२३॥वज्रमणिनिभाभ्यां साग्निभ्यां प्रताडिता द्विजाः ।जज्वलुश्चापि मम्रुश्च भिन्नमूर्धकपालकाः ॥२४॥सहस्रशः समुत्पन्ना महान्तो वर्तुलाश्च ते ।महाशिलास्वरूपाश्च प्रलयानलसन्निभाः ॥२५॥दाहयामासुरेवेमे पृथ्वीं नभश्च तारकान् ।भेदयामासुरेवेमे शैलप्रायास्तदाऽखिलम् ॥२६॥नाशयामासुः परितो यज्ञं यज्ञीयकान्यपि ।हाहाकारो महाञ्जातः स्वर्गप्रलयवाहकः ॥२७॥पृथिव्यां पत्तनानां च दह्यन्ति बहुलर्द्धयः ।अरण्यानि चार्षवासा दह्यन्ति वृषणानलात् ॥२८॥शाला ग्रामा आवसथा दग्धास्तैर्वृषणानलैः ।अथ विप्रा जीववन्तः प्रार्थयाञ्चक्रिरे सुरान् ॥२९॥रक्षयन्तु सुराश्चास्मान् मृत्युमुखसमावृतान् ।प्रायश्चित्तं करिष्यामो व्युत्क्रमादेरवन्तु नः ॥३०॥नैवं पुनः करिष्यामो भ्रान्तिं त्यक्ष्याम एव नः ।रक्ष रक्ष कृपापारावारपारीणमाधव! ॥३१॥इत्येवं म्रियमाणास्ते निपेतुः पादयोर्हरेः ।मन्नियुक्तास्तदा यज्ञाधिदेवा जगदुर्द्विजान् ॥३२॥शालायां वृषणाभ्यां वै तयोर्ग्रामा हि निर्गताः ।दिव्या दिव्यचमत्काराः शालग्रामा हि ते हरेः ॥३३॥भक्तरक्षाकृतेऽनादिकृष्णनारायणः स्वयम् ।उपस्थितः शासितुं वः पुंपशुरूपवान् हरिः ॥३४॥तस्य त्विमे वृषणा वै शालग्रामा भवन्ति हि ।अग्निरूपा वज्ररूपाः शास्तारो भवतां द्विजाः ॥३५॥यूयमकार्यकरणा हिंसाभ्रान्ता विमार्गगाः ।देवानां नो हव्यमिष्टं न मांसं वै कदाचन ॥३६॥पायसान्नं चेष्टतमं तेन कुर्वन्तु चाऽध्वरान् ।फलानि शर्कराश्चापि बीजानि कमलानि च ॥३७॥कणा व्रीहियवाश्चापि शालयश्च दलानि च ।तिला मिष्टान्नमपि च मधु रसाश्च शोभनाः ॥३८॥समिधश्च प्रिया नित्यं देवानां न तु मांसकम् ।द्विजा भ्रान्ता भवन्तो वै हिंसां कुर्वन्तु मा त्विह ॥३९॥वयं पवित्रा देवा मा ह्यशुद्धे योजयन्तु नः ।पापफलं तु वै दुःखं भवतां तद् भविष्यति ॥४०॥पुंस्त्वप्रणाशनं चच्चाऽध्वरेऽनुष्ठीयते द्विजाः ।भवद्भिः स्वस्य पुंस्त्वस्य विनाशः क्रियते दिवि ॥४१॥स्वर्गस्यापि विनाशो वो हिंसादोषेण जायते ।वयं शुद्धिविहीनाश्च मांसदोषेण चाऽध्वरे ॥४२॥प्रायश्चित्तीयकर्माणो भविष्यामो द्विजास्त्विह ।स्वर्गे प्रायश्चित्तकर्म त्वकृत्वा स्वस्वमन्दिरम् ॥४३॥संप्रवेष्टमशक्ता हि हिंसां कुर्वन्तु नो ततः ।शालग्राममहाग्नेश्च शान्तिर्यथा भवेदिह ॥४४॥तथा विष्णुं हरिं कृष्णं नारायणं परेश्वरम् ।आराधयामस्त्वत्रैव सुरर्षिपितृमानवाः ॥४५॥स्वयमेव हरिश्चाग्नेः शान्तिं तत्र करिष्यति ।अयं चाऽवृषणो देवो नारायणः स्वयं नरः ॥४६॥भवद्भिर्होमकार्यार्थं योजितः संस्कृतस्त्विह ।तमेनं परमात्मानं शरणं सम्पतन्तु च ॥४७॥स हि रक्षां रक्षको वै क्षमां कृत्वा करिष्यति ।इत्युक्तास्ते सुरा लक्ष्मि! तदा तुष्टुवुरीश्वराः ॥४८॥पितरो मानवा विप्रा मामेवाऽवृषणं हरिम् ।त्वं परब्रह्म भगवान् मूलश्रीपुरुषोत्तमः ॥४९॥एकमेवाऽद्वितीयस्त्वं सर्वेश्वरपरेश्वरः ।त्वमेवाऽक्षरमुक्तानामक्षरस्याऽपि कारणम् ॥५०॥अवताराऽवताराणां कारणं शक्तिसञ्जुषाम् ।शक्तीनां कारणं सर्वेश्वराणां कारणं भवान् ॥५१॥यज्ञानां कारणं त्वं च मन्त्राणां कारणं भवान् ।विधीनां च निधीनां च द्रव्याणां कारणं भवान् ॥५२॥सर्वेषां कर्मकाण्डानां देवानां कारणं भवान् ।कर्ता प्रेरयिता त्वं च वेत्ता तृप्तिस्त्वमेव च ॥५३॥द्विजाश्च कर्मठाश्चापि यजमानस्त्वमेव च ।द्रव्याणि सर्वहव्यानि त्वमेव भगवन्नसि ॥५४॥अर्थज्ञानं विधेर्ज्ञानं मन्त्रज्ञानं च वैदिकम् ।त्वां विना च क्रियाज्ञानं कोऽन्यो दर्शयितुं क्षमः ॥५५॥क्षमां कृत्वा हरे नाथ दह्यमानं जगत् त्विह ।रक्ष रक्ष कृपासिन्धोऽपराधाँश्च क्षमस्व नः ॥५६॥अज्ञातमन्त्रतत्त्वाश्च वयं विशसनं तु यत्॥कृतवन्तो नरस्यैतत् क्षमस्व कृपया प्रभो ॥५७॥अज्ञानिनामपराधान् क्षमन्ते ज्ञानिनो जनाः ।त्वं पिता जननी रक्षाकरो विज्ञो महेश्वरः ॥५८॥त्वं प्रभुः सर्वकर्ता च सर्वशास्ता सुखप्रदः ।यथार्थबोधकश्चासि शाधि नः पुरुषोत्तम ॥५९॥एते त्वच्छरणं प्राप्तास्त्राहि नः शरणागतान् ।इत्येवं प्रार्थितश्चाऽहं तदा लक्ष्मि! पुमुत्तमः ॥६०॥उपादिदेश तान् सर्वान् वेदार्थं मम भाषितम् ।द्विजत्वं दयया श्रेयोविधानेनाप्यहिंसया ॥६१॥शुद्ध्या भक्त्या रागद्वेषराहित्येन प्रजायते ।अलोभेनाऽप्यकामेनाऽतृष्णया तपसा तथा ॥६२॥सदाचारेण धर्मेण सन्तोषेण प्रजायते ।सत्येन दैववृत्त्या चेश्वरार्पणेन विप्रता ॥६३॥अद्रोहेणाऽभयदानमोक्षदानेन जायते ।तद् ब्राह्मण्यं विद्यया च वेदेनाऽधिप्रकाशते ॥६४॥प्राप्य तद् द्रोहकरणं द्विजानां वृष एव न ।हिंसा द्रोहो महानत्र स्वर्गमोक्षनिरोधकृत् ॥६५॥परदुःखकरश्चात्मा दुःखं भुंक्तेऽपि तादृशम् ।जीवतः शसने दुःखमपारं तत्र जायते ॥६६॥एवं दुःखं प्रदायैव धर्मोऽधर्मत्वमृच्छति ।अन्यच्चापि च विप्रेन्द्राः शृण्वन्तु सुविवेकवत् ॥६७॥शुद्धं स्वादु सुगन्धं च परमान्नं मुखे गतम् ।उच्छिष्टं जायते तत्तूदरे मलत्वमृच्छति ॥६८॥तद्विकाराः पेशिकामांसाद्या मलस्वरूपिणः ।देवादिभिः कथं सत्त्वमयैः शुद्धैः सुधादनैः ॥६९॥भुज्यन्ते तादृशं विप्रा विचारयन्तु तात्त्विकम् ।तामस्यो मक्षिका यत्र व्याकुलिता भवन्ति हि ॥७०॥अशुद्धं चापि दुर्गन्धं तामसं मलिनं हि तत् ।कथं देवा द्विजास्तद्वै समिच्छेयुर्हि भोजनम् ॥७१॥दुग्धं सुगन्धं श्रेष्ठं वै रसात्मकं घृतान्वितम् ।सात्त्विका यत् समिच्छन्ति पवित्रं भोजनं पयः ॥७२॥मक्षिका यत् समिच्छन्ति सुगन्धं मिष्टकं मधु ।रसाँश्च विविधान् मिष्टाँस्तान् समिच्छन्ति देवताः ॥७३॥तस्माद्धिंसात्मकं यज्ञं मा कुर्वन्तु द्विजोत्तमाः ।पशूनां बन्धनं संज्ञपनं विशसनं तथा ॥७४॥वपोद्धरणं होमादि सर्वं हिंसात्मकं हि तत् ।हिंसा क्वापि न वै कार्या चेत्येवं वैदिकी श्रुतिः ॥७५॥सर्वार्पणं हरौ कार्यं चेति मे वैदिकी श्रुतिः ।पत्रं पुष्पं फलं तोयं वस्त्रं गृहं धनं सुतः ॥७६॥सुता पत्नी पतिर्गौश्च क्षेत्रं सम्पत् स्वयं तथा ।नारायणाय दातव्यं चेत्येवं वैदिकी श्रुतिः ॥७७॥नारायणात्मना ध्यात्वा कृत्वा नारायणेऽर्पणम् ।यथार्हमुपयोक्तव्यं न तु घातो विधीयते ॥७८॥उपाकृत्यैव तु तत्तद्देवताभ्यो यथाऽर्पितम् ।सर्वं प्रासादिकं कृत्वा योक्तव्यं वैष्णवो वृषः ॥७९॥सर्वं नारायणस्येति ध्यात्वैवं च ततः परम् ।ग्रहीतव्यं नान्यथेति सर्वं स्वं प्रार्पयेद्धरौ ॥८०॥वैश्यसवे चतुर्वर्षस्त्रीपशुश्च तथाऽर्पितः ।उत्स्रष्टव्यो हरेः सा च भोक्तव्या नैव सर्वथा ॥८१॥पूजनीया देविका सा चेति वै वैदिकी श्रुतिः ।गोसवेऽपि तथा गावोऽर्पणीयाः परमेश्वरे ॥८२॥दक्षिणाश्चाऽयुतसंख्यागावो मताः प्रपूजिताः ।उत्स्रष्टव्याः पूजनीया दातव्या दुग्धलब्धये ॥८३॥मरुत्स्तोमेऽपि च सप्तदशापि पञ्चवत्सराः ।पुंपशवस्तथाऽस्पृष्टगर्भा वर्षत्रयात्मकाः ॥८४॥स्त्रीपशवश्चार्पणीयाः परमेशे परात्मनि ।साधवस्ते तथा साध्व्यो भवेयुर्ब्रह्मबोधदाः ॥८५॥प्रथमे च द्वितीये च तृतीये वत्सरेऽपि च ।चतुर्थे पञ्चमे वर्षे तथासंख्या नराः स्त्रियः ॥८६॥त्यागाश्रमे प्रदातव्या अच्युतगोत्रका इति ।वैष्णवास्ते प्रकर्तव्या इत्येवं वैदिकी श्रुतिः ॥८७॥अश्वमेधेऽपि दैवः स नोपयोक्तव्य एव ह ।अश्वो योऽर्पित एवाऽपि देवाय देवतायनः ॥८८॥कुष्माण्डाख्यं फलं देयं वह्नये देवताजुषे ।पुरोडाशाः प्रदातव्याश्चरवोऽपि यथोचितम् ॥८९॥एवमेतन्न सन्देहो विधेयो ब्राह्मणैरिह ।वेदवक्ताऽप्यहं चाऽस्मि यज्ञात्माऽप्यहमेव च ॥९०॥मन्त्रेऽहमेव तिष्ठामि हार्दे विदन्तु मे द्विजाः ।प्रतिज्ञां सम्प्रकुर्वन्तु हन्तव्यो जन्तुरेव न ॥९१॥पूजनं मे वृषणयोः शालग्रामस्वरूपयोः ।कुर्वन्तु तेन शान्तिर्वै भविष्यत्यनलस्य ह ॥९२॥नान्यथा स्यादग्निशान्तिर्जगद् भस्मीभविष्यति ।शालासु कर्तितौ मे वै वृषणौ पुंस्त्वसंभृतौ ॥९३॥ताभ्यां ग्रामाः समूहाश्चोत्पन्नाः कोट्यर्बुदाधिकाः ।शालग्रामा हि ते सर्वे मत्स्वरूपा मदात्मकाः ॥९४॥जगद्भस्मकराः सर्वे तानर्चयन्तु वै द्विजाः ।इत्युक्ताः क्ष्मासुराः सर्वे बहुभिश्चोपचारकैः ॥९५॥वैष्णवैः साममन्त्रैश्च पुंसूक्तैश्च पुनः पुनः ।पुपूजुश्चाऽपि नाप्येताः शान्ताः शालशिलास्तदा ॥९६॥अहं विप्रानकथयं संशृणुध्वं वै समाहिताः ।विना योग्यासनं नैव शान्तिं यास्यन्ति ताः शिलाः ॥९७॥प्रार्थयन्तु श्रियं लक्ष्मीं योग्यं सा संविधास्यति ।अथ विप्रैरर्चिता त्वं लक्ष्मीसूक्तादिभिस्तदा ॥९८॥पूजिता वन्दिता चापि शान्त्यर्थं विनिवेदिता ।ततस्त्वं पिप्पलपत्राकारपीठात्मिकाऽभवः ॥९९॥दिव्यासनात्मिका जाता दिव्यसौवर्णरूपिणी ।सिंहासनाभिधाना वै धृतवत्यपि ताः शिलाः ॥१००॥अथ शान्तिं तथा स्थैर्यं शिलाः प्राप्ताश्च निष्क्रियाः ।उपद्रवविहीनाश्च शान्तोऽग्निः सर्वतो दिशि ॥१०१॥सुरैश्च पितृभिः सर्वैर्मानवैर्मुनिभिस्तदा ।पूजिता बहुभावाद्यैः शालग्रामाश्च चन्दनैः ॥१०२॥सुगन्धिभिश्चोपचारैर्दिव्यास्ते हरयोऽभवन् ।हर्यात्मका हरेरंशा हर्यर्चारूपिणः सदा ॥१०३॥हरेर्मेऽङ्गमया मदात्मका मोक्षप्रदायिनः ।श्रीयुक्तास्ते भगवन्तोऽभवन्पाषाणमूर्तयः ॥१०४॥अथ मूलौ वृषणौ मे मया धृतौ यथास्थले ।लग्नितौ च यदा तौ मे तदाऽहं पुंस्त्वसंयुतः ॥१०५॥पूर्णमूर्तिरभवं वै भक्ता मया हि रक्षिताः ।नरमेधे पुरा यज्ञे भूत्वा प्रत्यक्षरूपिणा ॥१०६॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।अनादिश्रीशालपुंस्त्वनारायणोऽभवं तदा ॥१०७॥सौम्यः शालग्राममूर्तिः पीठिकाश्रीशुभासने ।आकल्पं चाऽभवं लक्ष्मि! स्मर मां त्वां तथाविधाम् ॥१०८॥अवसंश्च त्वया साकं मूर्तिमान् श्रीपतिः पुमान् ।अन्ये मे तेऽवताराश्च तत्र कल्पेऽभवन् प्रिये! ॥१०९॥सर्वान् वेद्मि यथाकार्यमवतारान् हि मे प्रिये! ।पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः प्रजायते ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽवृषाख्ये सप्तविंशे वत्सरे नरमेधे भक्तरक्षार्थम् अनादिश्रीपुंस्त्वनारायणस्य प्राकट्यं नरमेधादिय-ज्ञार्थज्ञानादिकं चेत्यादिनिरूपणनामा द्वाविंशतितमोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP